________________
तत्त्वबोधिनीविवृतिविभूषितम् ३११ नन्वेवं द्रव्याद्वैतैकान्तसिद्धेः कथश्चिद्भेदा-ऽभेदवादो द्रव्य-गुणयोरघटमानः स्यादिति चेत् ? न-रूपादीनां गुणभेदेन व्यवहारोपपत्तावपि द्रव्याविशेषेऽपि तद्विशेषदर्शनेन भेदस्यापि सम्भवात् , आह च
“होज्जाहि दुगुणमहुरं, अणंतगुणकालयं तु जं दव्वं । ण उ डहरओ महल्लो व्व होइ संबंधओ पुरिसो ॥"
[सम्मतिकाण्ड ३, गाथा-१९] यदि नामाम्लादिद्रव्यमेव रसनसम्बन्धाद् रस इति व्यपदेशमात्रमासादयेत् , द्विगुणमधुरं रसनतो कुतो भवेत् , तथा नयनसम्बन्धाद् यदि नाम कृष्णमिति भवेदनन्तगुणकृष्णं तत कुतः स्यात्, वैषम्यभेदावगतेर्नयनादिसम्बन्धमात्रादसम्भवात् , तथा पुत्रादिसम्बन्धद्वारेण विशिष्टद्रव्यादेः प्रत्यक्षत्वसम्भवात् । शक्तिभेदाच चक्षुर्गाद्यतादिलक्षणशक्तिभेदाच्च । न चाक्षुषादिज्ञानसङ्करः यद्विषयं चाक्षुषज्ञानं तद्विषयमेव रासनादिज्ञानमिति विषयैक्यनिबन्धनं यत् साङ्कये तन्न, चाक्षुषज्ञाने चक्षुग्राह्यताविशिष्टस्य द्रव्यस्यावभासनं रासनादिज्ञाने रसनग्राह्यताविशिष्टद्रव्यादेरवभासनमित्येवं विषयभेदसम्भवादित्यर्थः । ननूक्तदिशैकस्यैव द्रव्यस्य रूप-रसादिनानावरूपत्वे द्रव्याद्वैतैकान्तवाद एव समर्थितः स्यात्, तथा च द्रव्यगुणयोः कथञ्चिद्भेदाभेदवादः स्याद्वादिनां भवतामसङ्गत एव स्यादित्याशङ्कते-नन्वेवमिति । समाधत्ते-नेति। गुणभेदेन द्विगुणमधुराऽनन्तगुणकृष्णेत्येवं गुणभेदेन व्यवहारोपपत्तावपि द्रव्यस्यैकत्वेऽपि 'इदं द्रव्यं द्विगुणमधुरमनन्तगुणकृष्णम्' इत्यादिव्यवहारोपपत्तावपि । द्रव्याविशेषेऽपि पुरुषद्रव्यस्यैकत्वेऽपि । तद्विशेषदर्शनेन पिता पुत्रो मातुलो भागिनेयः' इत्येवं विशेषस्य दर्शनेन । मेदस्यापि द्रव्य-गुणयोर्भेदस्यापि । उक्तार्थे सम्मतिसंवादमाह-आह चेति । होजाहिक इति “भवेद् द्विगुणमधुरमनन्तगुणकृष्णं तु यद् द्रव्यम् , न त्वल्पो महान् वा भवति सम्बन्धतः पुरुषः ॥” इति संस्कृतम् । विवृणोति-यदि नामेतितद्रव्यम्। उक्तप्रश्नप्रतिविधानाय यदि द्रव्याद्वैतवादी विशेषप्रतिपत्तेरुपचारितत्वं