________________
१३८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् रूढो योगाचारः । एकाऽनेकधर्मविकलतया विज्ञानमात्रस्याप्यभाव इत्येवमभ्युपगमपर एवम्भूतो माध्यमिक इति सम्मतिवृत्तौ व्यवस्थितम्, तत्पूर्वपक्षसमाधानादिकमपि तत एवावसेयम् , विस्तरभयान्नेह विलिख्यते, नवीनतर्कस्पृहयालुभिश्चात्राथै मत्कृतस्याद्वादकल्पलता परिशीलनीया ॥ ऋजुसूत्रनयविचारः सम्पूर्णः॥
दर्शितेयं यथाशास्त्रमृजुसूत्रनयस्य दिक् । बौद्धसिद्धान्तहेतुः श्रीयशोविजयवाचकैः ॥१॥
एवं चतुर्णा बौद्धानामृजुसूत्रादिपर्यायनयचतुष्टयान्यतमरूपत्वमुक्तदिशा यदुपदर्शितं तन्न स्वकपोलकल्पितं किन्तु सम्मतिवृत्तावित्थमुपदर्शितमिति नाबानास्था विधेया नयविद्भिरित्यावेदनायाह- इति सम्मतिवृत्तौ व्यवस्थितमिति। परमतखण्डनपूर्वकस्वमतव्यवस्थापनलक्षणा व्यवस्था पूर्वपक्षसमाधानादिकमन्तरेण न सम्भवतीत्यत आह- तत्पूर्वपक्षेति । तत एव सम्मतिवृतित एव । यथा च सौत्रान्तिकादीनां सम्मतिवृत्यु. दृङ्कितमेवर्जुसूत्रत्वादिकमत्रोपदर्शितं तथा तदुपदर्शितमेव पूर्वपक्ष. समाधानादिकं किमिति नात्रोल्लिख्यत इत्यत आह-विस्तरभयादिति । किं प्राचीनोक्तिश्रद्धामात्रेणैव तथाभ्युपेयम् ? उत नवीनतर्कोपोलितत्वमप्येतस्यार्थस्य ? तथा चेत् ? प्रदर्शनीयो भवतैव स तर्कः, अन्यथा नवीनतर्कस्पृश्यालूनां शङ्कासमुद्धरणमशक्यमित्यत आहनवीनतर्कस्पृहयालुभिश्चेति । ऋजुसूत्रनयविचारपरिसमाप्ति पद्यनैवाऽऽवेदयति-दर्शितेयमिति-बौद्धसिद्धान्तहेतुरियमृजुसूत्रनयस्य दिक् यशोविजयवाचकैर्यथाशास्त्रं दर्शितेति सम्बन्धः, अर्थस्तु व्यक्त इति ॥ . स्वाध्यायायासशीलेन श्रीमल्लावण्यसूरिणा।। ऋजुसूत्रनयाकूतव्याख्यासम्यनिवेदिता ॥१॥
इति ऋजुसूत्रनिरूपणव्याख्यानम् ।