________________
अथ शब्दनयनिरूपणम् ।। 'शप आक्रोशे' शपनम्-आह्वानमिति शब्दः, शपति आह्वयतीति वा शब्दः, शप्यते वा-आहूयते वस्त्वनेनेति शब्दः । तस्य शब्दस्य यो वाच्योऽर्थस्तत्प्रधानत्वान्नयोऽपि शब्दः, उपचारात्, यथा- 'कृतकत्वाद्' इत्यादिकः पञ्चम्यन्तशब्दोऽपि हेतुः, अर्थरूपं हि कृतकत्वमनित्यत्वगमकत्वान्मुख्यतया हेतुरुच्यते, उपचारात् तु
अथ शब्दनयनिरूपणव्याख्याशब्दनये निरूपयितव्ये विविधव्युत्पत्तिलभ्य शब्दस्वरूपमुपदर्य प्रधानीभूतशब्दार्थविषयकज्ञानरूपस्य नयस्योपचाराच्छब्दरूपतामावेदयति- " शप् आक्रोशे" इति । शपनम् आह्वानमिति शब्द इति भावव्युत्पत्तिमाश्रित्य शब्दस्वरूपमुपदर्शितम् । शपति-आह्वयतीति वा शब्द इति कर्तृव्युत्पत्तिमुपादाय शब्दस्वरूपप्ररूपणम् । शप्यते वा- आहूयते वस्त्वनेनेति शब्द इति करणव्युत्पत्तिसमाश्रयणेन शब्दस्वरूपकथनम्। तस्य आह्वानस्वरूपस्याह्वानकर्तस्वरूपस्याह्वानकरणस्वरूपस्य वा। तत्प्रधान. त्वात् प्राधान्येन शब्दवाच्यार्थविषयकत्वात् । ननु शब्दोऽज्ञानरूपोऽपि तदर्थविषयकज्ञानस्य नयत्वे तस्याप्युपचारान्नयत्वं यदुत्प्रेक्षितमेतादृशोपचरितव्यवहरणं नान्यत्र दृष्टमित्याशङ्काशकुसमुद्धरणायाहयथेति- 'शब्दोऽनित्यः कृतकत्वाद्' इत्यत्र शब्दरूपपक्षेऽनित्यत्वलक्षणसाध्यस्यानुमितेर्जनकत्वेन कृतकत्वलक्षणोऽर्थो मुख्यतया हेतुः, तद्वाचकत्वात् कृतकत्वादिकः पञ्चम्यन्तशब्दोऽप्युपचाराद् यथा हेतुस्तथा शब्दवाच्यार्थविषयकज्ञानं वस्त्वेकदेशविषयकत्वान्मुख्यतया नयः, तद्विषयार्थवावकत्वाच्छब्दोऽप्युपचारानय इत्यर्थः। उक्तमर्थ प्रपञ्चत उपदर्शयति- अर्थरूपं हीति-लिङ्गज्ञानमनुमितिजनकं न तु लिङ्गात्मकोऽर्थस्तथेति यद्यपि, तथाऽपि शायमानलिङ्गस्यानुमितिकरणत्वपक्षेऽर्थरूपलिङ्गस्यानुमितिहेतुत्वं मुख्यमेवेति बोध्यम् । शब्द