________________
३६०
अनेकान्तव्यवस्थाप्रकरणम् ।
यावद्द्रव्योपयोगीः ननु भवति ततस्त्यज्यते यद् गृहीत्वा, तत्तत्सामान्यरूपं व्यवहृतिविषयः पर्यवग्राह्यभावात् । सत्यं सामान्यमेवं व्यवहृतिविषयस्तग्रहे त्वप्रमात्व
निर्णीतिः स्यादमुष्मान्नहि भवति वृथा तावताऽप्यस्य यत्नः ॥ ५० ॥ नन्वेवं सङ्ग्रहोऽथ• व्यवहृतिरपि च स्तः कथं नैव मिथ्या, यस्मादेकैकभागे त्ववधृतिप्रवणौ वस्तुनो द्वौ नयौ तौ । मिथ्यादृष्टी तु सत्यं मिथ इह यदि नो सव्यपेक्षौ तदानीं, सम्यग्दृष्टिर्व्यपेक्षाजनितसमुदये सम्मतावित्थमुक्तम् ॥ ५१ ॥ अन्योऽन्यं निश्रितत्वे भवति समुदये नैव मिथ्यात्वयोगः,
wwww
सम्यक्त्वं किन्तु यस्मात् समुदय इह नो ज्ञानपुञ्जस्वरूपः । अत्यक्तान्यस्वरूपाध्यवसितिरपि तु प्रोच्यते चैक एव,
तत्रैवान्योऽन्यनिश्रापदमपि घटते नान्यथा बोधकं तत् ॥ ५२ ॥ मीमांसाग्रन्थकर्त्रा त्विह तु समुदये तत्त्वगत्यै निबद्धा,
दृष्टान्तोद्भासिकाऽस्यां सुललितविषया सम्मतिग्रन्थगाथा | अन्ते स्वाभीष्टसिद्धेरनुगतिर भितोऽदर्शि चैतन्यमेक`मात्मद्रव्यानुविद्धप्रमिति - नयमयं स्यात् समूहस्वरूपम् ॥ ५३ ॥ स्वांशे सत्या नयास्ते पर विषयहतौ ते तु मिथ्यावसायाः,
सत्यास्ते वा तु मिथ्या विभजनमिति ये कुर्वते ते त्वधीराः । दृष्टा नेकान्ततत्त्वो न खलु विभजते चेत्थमत्र प्रमाणं,
सम्मत्युक्तिर्निबद्धा नय-प्रमितिचितं चैकमेवात्मरूपम् ॥ ५४ ॥ मानं नीतिः कुनीतिस्त्रिविधविभजना दर्शिता हेमसूरेः,
पद्यं संवादनार्थं गदितमिह ततो दुर्नयावस्थतायाम् । यत्नः सामान्यहत्यै व्यवहृतिनयगस्तर्कवद् वा प्रमाणे,
'स्वार्थे दार्व्याय नैवेतरविषयप्रतिक्षेपणं चात्र मुख्यम् ॥ ५५ ॥ लोके यस्मिन् यथैव व्यवहृतिभवनं तत् तथैवान्यथा नो,
स्वीकुर्वन् वस्तु वाऽयं व्यवहृतिपदतो गीयते नीतिविद्भिः । लोके यः कृष्णवर्णो भ्रमर इति मतः सोऽस्य नो पञ्चवर्णो,
निर्णीतो निश्चयेनाप्यथ गतिरुदिताऽश्वेत इत्यादिवाक्ये ॥ ५६ ॥