________________
तत्त्वबोधिनीविवृतिविभूषितम्
२५१ अथवाऽन्यथास्याः व्याख्यातात्पर्यम् , अर्थनय एव सप्त भङ्गाः । शब्दादिषु तु त्रिषु नयेषु प्रथम-द्वितीयावेव भङ्गौ । यो ह्यर्थमाश्रित्य वक्तृस्थः सङ्ग्रव्यवहारर्जुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्थवशेन तदुत्पत्तरर्थं प्रधानतयाऽसौ व्यवस्थापयतीति कृत्वा, शब्द तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात् । यस्तु श्रोतरि शब्दश्रवणादुद्गच्छति शब्द-समभिरूढवम्भूताख्यः प्रत्ययस्तस्य शब्दः प्रधानं तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनं तदुत्पत्तावनिमित्तत्वात् स शब्दनय उच्यते, तत्र वचनमार्गः सविकल्प-निर्विकल्पतया द्विविधः, सविकल्पं सामान्यम् , निर्विकल्पः पर्यायः, तदभिधानाद्
अनभिधेयसंयोगे अवक्तव्यभङ्गात्मकतृतीयभङ्गसंयोगे । पञ्चमेति-प्रथमभङ्गस्य तृतीयभङ्गेन संयोगे पञ्चमो भङ्गः, द्वितीयभङ्गस्य तृतीयभङ्गेन संयोगे षष्ठो भङ्गः, चतुर्थभङ्गस्य तृतीयभङ्गेन संयोगे सप्तमो भङ्गः इति तदात्मका वचनमार्गा भवन्तीत्यर्थः ।
उक्त सम्मतिगाथाव्याख्यातात्पर्यन्तरमुपदर्शयति-अथवेति । अन्यथा-उक्तप्रकारभिन्नप्रकारेण, अस्याः अनन्तराभिहितसम्मतिगाथायाः। सङ्ग्रहादयस्त्रयोऽर्थवशादुत्पन्नत्वेनार्थप्रधानतया वस्तु व्यवस्थापयतीत्यर्थनयाः, शब्दाद्यास्त्रयस्तु शब्दवशादुत्पत्नत्वेन शब्दप्रधानतयाऽर्थोपसर्जनतया वस्तु व्यवस्थापयतीति शब्दनयाः, तत्र अर्थनयेष्वेव सप्त भङ्गाः, शब्दनयेषु तु प्रथम-द्वितीयावेव भङ्गाविति व्यवस्थापयतिअर्थनय एवेति। कोऽर्थनय इत्यपेक्षायामाह-योहीति। तदुत्पत्तेः सङ्ग्रहादिप्रत्ययोत्पत्तेः। असौ सङ्ग्रहादिप्रत्ययः । स्वप्रभवं सङ्ग्रहादिप्रत्ययजनितम् । तत्प्रयोगस्य शब्दप्रयोगस्य । परार्थत्वात् प्रतिपाद्यश्रोतृपुरुषगतज्ञानजनकत्वात् । शब्दनयः क इत्यपेक्षायामाह-यस्त्विति । उद्गच्छति उत्पद्यते, तस्य शब्द-समभिरूढैवम्भूताख्यप्रत्ययस्य, तद्वशेन शब्दवशेन । तदुत्पत्तेः शब्दसमभिरूढवम्भूताख्यप्रत्ययोत्पत्तेः । अर्थस्योक्तप्रत्ययानिमित्तत्वादुपसर्जनतयैव तत्र भानमित्याह-अर्थस्त्विति । तदुत्पत्तौ, शब्दसमभिरूढैवम्भूताख्यप्रत्ययोत्पत्तौ । तत्र शब्दनये । सामान्यविशेषरूपार्थयोः सविकल्प-निर्विकल्परूपत्वात् तत्प्रतिपादकवचनयोः सविकल्पत्वनिर्विकल्पकत्वे इत्याह-सविकल्पं सामान्यमिति । तदभिधानात्