________________
२५०
अनेकान्तव्यवस्थाप्रकरणम् । ___ व्यञ्जनपर्याये-शब्दनये पुनः सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावेऽप्यर्थस्यैकत्वात्, द्वितीय-तृतीययोर्निर्विकल्पकश्च, द्रव्यार्थात् सामान्यलक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः, समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् एवम्भूतस्यापि विवक्षितक्रियाकालार्थत्वात् , तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, समभिरूढैवम्भूतयोर्नास्त्येवेति द्वौ भङ्गो लभ्येते, लिङ्ग-संज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः, प्रथम-द्वितीयसंयोगे चतुर्थः, तेष्वेव चानभिधेयसंयोगे पश्चम-षष्ठ-सप्तमा वचनमार्गा भवन्ति ।।
एतावता “एवं सत्तवियप्पो' इत्यादिसम्मतिगाथायाः पूर्वार्द्ध व्याख्यातम् , अथोत्तरार्द्ध विवृणोति-व्यञ्जनपर्याय इति-अस्य विवरणं-शब्दनये इति । साम्प्रत-समभिरूढैवम्भूतभेदेन त्रिविधः शब्दनयः, तत्र प्रथमे साम्प्रते सविकल्पः, तत्र हेतुः-पर्यायेति-यथा घटशब्दस्य समानार्थकः कुट-कुम्भादिशब्दः पर्यायशब्दः, तद्वाच्यताविकल्पसद्भावेऽपि, अर्थस्य घटस्य, एकत्वात् अभिन्नत्वात् , साम्प्रतनये एक एवार्थोऽनेकसमानार्थकशब्दवाच्य इति सविकल्प इत्यर्थः । द्वितीय-तृतीययोः समभिरूढेवम्भूतयोः, निर्विकल्पकश्च । कथमित्याकाङ्क्षानिवृत्तये त्वाह-द्रव्यार्थादिति । तयोः समभिरूढैवम्भूतयोः । एतदेव स्पष्टयति-समभिरूढस्येति । एवं च सति शब्दनये यथा सप्तभङ्गी प्रवर्तते तथा तामुपदर्शयति-तथा चेतिप्रथमस्य सविकल्पकत्वे द्वितीय-तृतीययोर्निर्विकल्पकत्वे चेत्यर्थः । तत्र प्रथमभङ्गं भावयति-घटो नामेति । शब्दनये साम्प्रतनये । द्वितीयभङ्गं भावयतिसमभिरूलैवम्भूतयोरिति । नास्त्येव घटो घटवाचकयावच्छब्दवाच्यो न भवत्येव । इति एवम् । लिङ्गेति-साम्प्रतनये लिङ्गभेदेन भिन्नस्य समभिरूढनये संज्ञाभेदेन भिन्नस्य एवम्भूतनये क्रियाभेदेन भिन्नस्य चार्थस्यैकशब्दावाच्यत्वादेकार्थवाचकशब्दावाच्यत्वाद् द्वितीयार्थस्येत्यर्थः । एवं दिशा अवक्तव्यत्वं शब्दादिषु शब्द-समभिरूदैवम्भूतेष्वित्यतः तृतीयः 'स्यादवक्तव्य एव' इति तृतीयो भङ्गः । प्रथम-द्वितीयसंयोगे प्रथमभङ्ग-द्वितीयभङ्गयोः संयोगे । चतुर्थः 'स्यादस्त्येव स्यान्नास्त्येव च घटः' इति चतुर्थभङ्गः । तेष्वेव च प्रथम-द्वितीय-चतुर्थेष्वेव पुनः ।