________________
तत्त्वबोधिनीविवृतिविभूषितम्
२४९ देष्टुं प्रगल्भेते, स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात् , ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तिर्यगूलतास्पदाधारांशान्यतररूपसामान्या-ऽन्यापोहरूपविशेषौ च सांवृतावेवेति तदपेक्षया युगपदुभयथाऽऽहार्यतदादेशसम्भवादवक्तव्यभङ्गोत्थानमनाबाधम्, न चैवमपि तजनितबोधस्य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने सङ्ग्रहव्यवहारान्यतरसाम्राज्यमिति वाच्यम् , विषयाऽबाधे कूटलिङ्गजानुमितेरिव प्रकृतभङ्गजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनानवकाशात् । अधिकं. बहुश्रुता विदन्ति । ऽनन्तरमेवाभिधीयमानं प्रतिविधानमस्मच्चित्ते स्फुरतीत्यर्थः । स्वानभिमतांशेतिसङ्ग्रहानभिमतासत्त्वलक्षणांशादेशे सङ्ग्रहस्यानिष्टसाधनत्वप्रतिसन्धानात् , व्यवहारानभिमतसत्त्वलक्षणांशादेशे व्यवहारस्यानिष्टसाधनत्वप्रतिसन्धानादित्यर्थः । ऋजुसूत्रनये तृतीयभङ्गसम्भवमुपपादयति-ऋजुसूत्रस्य त्विति । अस्य 'वर्तमानपर्यायमात्रग्राहिणः' इति विशेषेणोक्त्या सङ्ग्रहाभिमतं सत्त्वं व्यवहाराभिमतमसत्त्वं च वस्तुतोऽशं वस्तुतो न गृह्णातीत्यावेदितम् , तर्हि कथं तन्मते तयोर्युगपदादेश इत्यपेक्षायामाहतिर्यगूर्वतेति-तिर्यक्सामान्योलतासामान्ययोर्देश-कालानुगामिनोरास्पदं यदाधारस्वरूपं वस्तु तदंशान्यतररूपं तिर्यगूलतान्यतररूप सामान्यमन्यापोहरूपो विशेषश्च, तौ च सांवृतावेव कल्पितावेव ऋजुसूत्रस्य । इति एतस्माद् हेतोः । तदपेक्षया सांवृतसामान्यविशेषापेक्षया । आहायतदादेशसम्भवात् आरोपात्मकसामान्यविशेषादेशसम्भवात् , एवं च कल्पितसामान्य-विशेषौ स्वविषयावुपादाय युगपत्तदुभयाहार्यादेशतः, अवक्तव्यत्वभङ्गोत्थानम् ऋजुसूत्रनये, अनाबाधं निराबाधं सम्भवतीत्यर्थः । न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः, एवमपि कल्पितसामान्यविशेषौ स्वविषयावुपादायाहार्यतदादेशत ऋजुसूत्रनयेऽवक्तव्यत्वभङ्गोत्थानसम्भवेऽपि। तजनितबोधस्य तथाभूतावक्तव्यत्वभङ्गजन्यबोधस्य । भवतूक्तभङ्गोत्थानमाहार्यादेशतस्तथाऽपि तथाभूतभङ्गजन्यबोधो न प्रसङ्गात्मा, तथाभूतभङ्गप्रतिपाद्यस्यावक्तव्यत्वस्य वस्त्वंशत्वसम्भवेन तद्विषयकबोधस्य तजन्यस्य यथार्थविषयत्वमेव, यथा वस्तुगल्या वह्निमति देशे धूलीपटलाद् भ्रान्त्या धूमत्वेनावधृता वह्नयनुमितिः कूटलिङ्गजाऽपि यथार्थविषयेति तस्याः प्रामाण्यम् , तद्वदेव प्रमात्वेन विपर्यपर्यवसानस्यात्राभावादिति निषेधहेतुमुपदर्शयति-विषयाबाध इति । अधिकमिति-ऋजुसूत्रनयतोऽवक्तव्यत्वभङ्गोत्थानसमर्थमद्धृदयावमानानन्तरोपदर्शितयुक्तितोऽधिकमित्यर्थः ।