________________
२४८
अनेकान्तव्यवस्थाप्रकरणम् ।
किं बीजम् ? युगपत्सत्त्वाऽसत्त्वाभ्यामादिष्टं हि सङ्ग्रह-व्यवहारावप्यवक्तठयमेव ब्रूतः, सङ्ग्रह-व्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेत् ? ऋजुसूत्रोऽपि कथं तथाऽऽदिष्टुं प्रगल्भताम् ? मध्यमक्षणरूपायाः सत्तायास्तेनाप्यभ्युपगमात् , सङ्ग्रहाभिमतयावत्सजातीयविशेषानुवृत्तसामान्यानभ्युपगमादृजुसूत्रेणावक्तव्यत्वभङ्ग उत्थाप्यत इति चेत् ? सोऽयं प्रत्येकाऽवक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपगत्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेत् ? अत्रेदमाभाति-सङ्ग्रह-व्यवहारौ युगपन्नोभयथाभङ्गप्रवृत्तिरत ऋजुसूत्रस्य तन्निमित्तत्वमित्याशङ्कते-सङ्गह-व्यवहाराविति । मध्यमक्षणरूपसत्त्वमभ्युपगच्छतार्जुसूत्रेणाप्यसत्त्वस्य वाविषयीभूतस्यादेशासम्भवे तदुभयादेशो न सम्भवत्येवेति कथं तस्यापि तन्निमित्तत्वमिति तत्समाधानमुपदर्शयतिऋजुसूत्रोऽपीति । तथादेष्टु सत्त्वाऽसत्त्वे युगपदादेष्टुम् । तेनापि ऋजुसूत्रेणापि । यावत्सजातीयविशेषव्यक्तिषु यद् वत्तते सत्त्वं तत् सङ्ग्रहाभिमतम् , तच्च नाभ्युपगच्छति ऋजुसूत्र इत्यतस्तस्य तृतीयभङ्गोत्थापकत्वमिति शङ्कते-सङ्ग्रहाभिमतेति । यथा सङ्ग्रहाभिमतसत्त्वमृजुसूत्राऽविषयस्तथा व्यवहारविषयतत्प्रतिपक्षासत्त्वमपि तदविषय इति ऋजुसूत्रेण निरुक्तसत्त्वं न वक्तुं शक्यते, एवं निरुक्तासत्त्वमपि वक्तुं न शक्यते इत्येवं प्रत्येकावक्तव्यमेव, ताभ्यामवक्तव्यत्वभङ्ग इत्थमुपपादितः स्यात् , न तु प्रत्येकवक्तव्याभ्यां ताभ्याम् , अभिमतश्च प्रत्येकवक्तव्याभ्यामेव ताभ्यां युगपदादिष्टाभ्यां सः, यदि च प्रत्येकावक्तव्यत्वकृतावक्तव्यत्वभङ्ग एवाभिमतो भवेत् तर्हि योऽयं भङ्ग उक्तनीत्या सङ्ग्रहनिमित्तकोऽपि स्याद् यतः सङ्ग्रहेणापि मध्यमक्षणसत्त्वलक्षणसत्त्वमविषयत्वान्न वक्तुमर्हमेव, व्यवहारविषयासत्त्वमप्यविषयत्वाद् वक्तुमनहमिति कृत्वा प्रत्येकावक्तव्यत्वनिबन्धनावक्तव्यत्वस्य तत्राप्यस्त्येव सम्भव इति पूर्वपक्षयिता समाधत्ते-सोऽयमिति । तदुत्थापने च प्रत्येकावक्तव्यत्वकृतावक्तव्यत्वभङ्गोत्थापने पुनः । तेनापि सङ्ग्रहेणापि । तदुत्थापनस्य उक्तप्रकारतृतीयभङ्गोत्थापनस्य । - ग्रन्थकारो यथा ऋजुसूत्रस्य तृतीयभङ्गोत्थापकत्वं सम्भवति तथोपपादयन्नुक्तप्रश्नप्रतिविधानमादर्शयति-अत्रेदमाभातीति-उक्तप्रश्ने 'सङ्ग्रह-व्यवहारौं' इत्यादिना