________________
तत्त्वबोधिनीविवृतिविभूषितम् २४७ पाहिणि, 'नास्ति' इत्ययं तु व्यवहारे विशेषप्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सङ्ग्रह-व्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रह-व्यवहारर्जुसूत्रेष्विति विभागः । अत्र यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतस्तद्धर्माभावप्रकारको व्यवहाराख्यबोध एव द्वितीयभङ्गफलत्वेनैष्टव्यः, तेन 'स्याद् घटः, स्यानीलघटः' इत्यादिसामान्य-विशेषसङ्ग्रह-व्यवहाराभ्यां न सप्तभङ्गीप्रवृत्तिरित्यवधेयम् । अथ तृतीयभङ्गस्य ऋजुसूत्रनिमित्तताया सत्ता सामान्यग्राहिणि सङ्ग्रहनये भवतीत्यर्थः, भवतीति क्रियाऽग्रेऽप्यध्याहार्या। 'नास्ति' इत्ययं तु 'स्यान्नास्त्येव घटः' इति द्वितीयभङ्गः । पुनः, अस्तित्वसामान्यप्रतिपक्षत्वान्नास्तित्वं विशेषस्तदाहिणि, व्यवहारे व्यवहारनये भवतीत्यर्थः । ऋजुसूत्रे ऋजुसूत्रनये । तृतीयः स्यादवक्तव्य एव घटः' इति तृतीयभङ्गो भवति, यथा-च ऋजुसूत्रे तृतीयभङ्गस्तथाऽग्रे व्यक्तीभविष्यति । चतुर्थः 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तुरीयो भङ्गः, अस्य सत्त्वसामान्यप्रतिपादकत्वात् सङ्ग्रहे नास्तित्वलक्षणविशेषप्रतिपादकत्वाद् व्यवहारे च सम्भव इति कृत्वा सङ्ग्रह-व्यवहारयोर्भवतीत्यर्थः । पञ्चमः ‘स्यादस्ति स्यादवक्तव्यश्च घटः' इति पञ्चमो भङ्गः, अयं च सङ्ग्रहविषयमस्तित्वमृजुसूत्रविषयमवक्तव्यत्वं च प्रतिपादयतीत्यतः सङ्ग्रह - सूत्रयोर्भवतीत्यर्थः । षष्ठः 'स्यान्नास्ति स्यादवक्तव्यश्च घटः' इति षष्टो भङ्गः, अयं च व्यवहारविषयं नास्तित्वलक्षणविशेषमृजुसूत्रविषयमवक्तव्यत्वं च प्रतिपादयत्यतो व्यवहारर्जुसूत्रयोर्भवतीत्यर्थः । सप्तमः स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति सप्तमो भङ्गः, अयं च सङ्ग्रहविषयमस्तित्वसामान्य व्यवहारविषयं नास्तित्वविशेषमृजुसूत्रविषयमवक्तव्यत्वं च प्रतिपादयतीति सङ्ग्रह-व्यवहारर्जुसूत्रेषु, भवतीत्येवं विभागो द्रष्टव्य इत्यर्थः । घटस्य घटत्वं यदा सामान्यस्वरूपं प्रथमभङ्गेन विवक्षितं तदा घटत्वापेक्षया नीलघटत्वस्य विशेषत्वाद् घटत्वप्रतिपादकप्रथमभङ्गानन्तरं नीलघटत्वप्रतिपादकद्वितीयभङ्गक्रमेण सप्तभङ्गीप्रवृत्तिः किं न स्यात् सङ्ग्रह-व्यवहारर्जुसूत्रनयरित्याकाङ्क्षायामाह-अत्रेति । तेन निरुक्तव्यवहाराख्यबोधस्य द्वितीयभङ्गफलतयैवेष्टत्वेन ऋजुसूत्रनयस्य तृतीयभङ्गोत्थापकत्वमसहमानः शङ्कतेअथेति । सङ्ग्रह-व्यवहारयोर्युगपत्सत्त्वाऽसत्त्वोभयादेशकत्वाभावान्न ताभ्यां तृतीय