________________
२५२
अनेकान्तव्यवस्थाप्रकरणम् । वचनमपि तथा व्यपदिश्यते, तत्र शब्द-समभिरूढौ संज्ञा-क्रियाभेदेऽप्यभिन्नमर्थं प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः, एवम्भूतस्तु क्रियाभेदाद् भिन्नमेवार्थं तत्क्षणे प्रतिपादयतीति निर्विकल्पो द्वितीयभङ्गरूपस्तद्वचनमार्गः, अवक्तव्यभङ्गास्तु व्यञ्जननये न सम्भवत्येव, यतः श्रोत्रभिप्रायो व्यञ्जननयः, स च शब्दश्रवणादर्थं प्रतिपद्यते, न शब्दाश्रवणात् , अवक्तव्यं तु शब्दाऽभावविषय इति नावक्तव्यभङ्गको व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता व्यञ्जनपर्याये तु सविकल्पक-निर्विकल्पौ प्रथम-द्वितीयावेव भङ्गावभिहितावाचार्येणेति टीकाकृतो व्याचक्षते । अत्र वक्तरि यत् सप्तभङ्ग्यर्थज्ञानं तन्मानसोत्प्रेक्षोपनीतपदार्थसंसर्गभानरूपम्, श्रोतरि तु शाब्दमेव तत् सम्भवति, अवक्तव्यं तु न शब्दविषयः किन्तु शब्दाभावविषय इति यद् व्यञ्जननयतात्पर्यमुन्नीतं तत् कथं सङ्गच्छते ?, शब्दाभावस्यासविकल्पनिर्विकल्प-रूपसामान्य-पर्यायार्थाभिधायकत्वात् । तथा सविकल्पतया निर्विकल्पकतया च । तत्र शब्दादित्रितयलक्षणशब्दनये । तदभिप्रायेण शब्द-समभिरूढनयाभिप्रायेण । तत्क्षणे क्रियाक्षणे । तद्वचनमार्गः एवम्भूतवचनमार्गः । तृतीयभङ्गस्तु शब्दनये न सम्भवतीत्युपपाद्य दर्शयति—अवक्तव्यभङ्गस्त्विति । व्यञ्जननये शब्दनये । स च श्रोत्रभिप्रायात्मा व्यञ्जननयश्च । 'अभिप्रायवता' 'आचार्येण' इत्यस्य विशेषणम् । आचार्येण श्रीसिद्धसेनदिवाकरसूरिणा। इति एवं रीत्या व्याख्यातात्पर्यम् । टीकाकृतः सम्मतिटीकाकाराः श्रीअभयदेवसूरयः । स्वयं यथाश्रुतव्याख्यातात्पर्योपवर्णनं यथा न सङ्गच्छते यथा चार्थनये सप्ताऽपि भङ्गाः, व्यञ्जननये द्वावेव भङ्गो, नावक्तव्यत्वभङ्गस्य तत्र सम्भव इति स्पष्टीकुर्वन्नाह-अत्रेति। तत् सप्तभङ्गार्थज्ञानम्। एवमग्रेऽपि । इति एवंप्रकारेण । तत् व्यञ्जननयतात्पर्यम् । 'कथम्' इत्याक्षेपे, न कथञ्चित् सङ्गच्छत इति तदर्थः । तत्र हेतुमाह-शब्दाभावस्येति-'अवक्तव्यं तु न शब्दविषयः, किन्तु शब्दाभावविषयः' इत्यस्य 'अवक्तव्यं शब्दप्रमाणविषयो न भवति किन्तु शब्दाभावलक्षणप्रमाणविषयः' इत्येवमभिमतो