________________
तत्त्वबोधिनीविवृतिविभूषितम् २५३ प्रमाणत्वेन कस्याप्यर्थस्य तदविषयत्वात् , कथञ्चिन्मते शब्दानुपलब्धेः शब्दाभावविषयप्रमाणत्वेऽपि तां विना तद्विषयं विलक्षणं ज्ञानं मा जनि, अवक्तव्यपदाद् वक्तव्यत्वाभावविषयशाब्दबोधोत्पत्तौ किं बाधकम् ? नहि भावविषयक एव शाब्दबोधो भवति, न त्वभावविषयक इत्यत्र प्रमाणमस्ति, पदज्ञानादिकार्यतावच्छेदककोटौ भावशाब्दत्वप्रवेशे गौरवात् , 'घटो नास्ति' इत्यादेर्घटाभावादिबोधस्य सार्वजनीनत्वाच्च, तत्रापि
ऽर्थस्तदोपपद्येत यदि शब्दाभावः किञ्चिदर्थविषयकत्वेनात्मनि प्रामाण्यमासादयेत् , तदेव न शब्दाभावस्याप्रमाणत्वेन कस्याप्यर्थस्य तदविषयत्वादित्येवं सङ्गमनाऽत्र विधेया 'तदविषयत्वाद्' इत्यस्य शब्दाऽभावाविषयत्वादित्यर्थः । यदा न कोऽप्यर्थः शब्दाभावविषयः, एवं सत्यवक्तव्यमपि न शब्दाभावविषय इति, किन्तु शब्दाभावविषय इति न सङ्गच्छते, अनुपलब्धिरप्यभावविषयकज्ञानहेतुतया प्रमाणान्तरं मीमांसकवेदान्तिनावभ्युपगच्छत इति सर्वनयमये स्याद्वादे तदृष्ट्याऽनुपलब्धिरभावविषयप्रमाणं स्यादित्युपेत्याह-कथञ्चिन्मत इति । तां विना शब्दानुपलब्धि विना । तद्विषयं शब्दाभावविषयकम् । विलक्षणं प्रत्यक्षादिभिन्नम् । शब्दाच्छाब्दबोध उत्पद्यत इति निर्विवादमतोऽवक्तव्यपदाद् वक्तव्यत्वाभावविषयकशाब्दबोधोत्पत्तौ किं बाधकम् ? न किञ्चिद् बाधकमित्यर्थः, एवं च वक्तव्यत्वाभावविषयकशाब्दबोधजनकतयाऽवक्तव्यत्वभङ्गः शब्दनयेऽपि स्यादेवेत्यर्थः । 'नहि' इत्यस्य 'अस्ति' इत्यनेनान्वयः । भावविषयकशाब्दत्वावच्छिन्नं प्रति पदज्ञानादिकं कारणमित्येवं कार्यकारणभावो यदि भवेत् तदा तादृशकार्य-कारणभावमूलको भावविषयक एव शाब्दबोधो नाभावविषयक इति नियमोऽपि भवेत् , न च तथा कार्य-कारणभावः सम्भवति, भावविषयकशाब्दत्वस्य शाब्दत्वापेक्षया गुरुभूतत्वेन कार्यताऽनवच्छेदकत्वादित्याह-पदज्ञानादीति-आदिपदादाकाङ्क्षायोग्यताज्ञानादेरुपग्रहः । यदि च भावविषयक एव शाब्दबोधो भवेत् तर्हि 'घटो नास्ति' इत्यादिवाक्याद् घटाभावादिविषयकशाब्दबोधस्य सार्वजनीनस्यापलापः कृतः स्यात्, न तन्याय्यमित्याहघटो नास्तीत्यादेरिति । ननु 'घटो नास्ति' इत्यत्र पदार्थद्वयान्वयबोधलक्षणः शाब्दबोधो न भवत्येव, किन्तु घटपदस्य घटप्रतियोगिकाभावे लक्षणया ततो घटप्रतियोगिकाभावस्योपस्थितिरेव भवति; 'घटपदं घटप्रतियोगिकाभावपरम्'