________________
॥ ॐ तत्सत् ॥ ॥ सवृत्तिकस्य-'अनेकान्तव्यवस्थाप्रकरण-स्य प्रस्तावना ॥ सुविदितमेवैतत्-विश्वषां सारस्वताम्भोधिनिमग्नान_नल्पदोषकणिकासंस्पृष्टगुणप्रकरललामस्थानमुक्तिजनकज्ञानविषयतत्त्वरत्नजिघृक्षापरानवरताभ्याससमासादितदृढतराबाधितयुक्तिसमष्टयुपेतमनीषायानपात्रास्खलद्गतिपरिभ्रमणसमुपलब्धविवेकानां विदुषां, यदुत अन्यापरिशीलितदोषमोषसमुल्लसितविचारधुरीणनिजेष्टापारकृपापारावा
राप्तप्रवरसंसूत्रितसूत्रभाष्यवार्त्तिकादिग्रन्थसार्थोपदर्शिततत्त्वनिचययुक्तत्वश्रद्धाधना वादिनो निजपक्षविपक्षपरपक्षसमुल्लासितानल्पविकल्पग्रासाभिभवसम्भाव्यमानान्यथाभावशङ्काकलुषितं स्वखाप्तोपदिष्टं तत्त्वप्रकरमन्योन्यं परोपकल्पितविकल्पेषु कश्चिद्ध्यान्ध्यविलसितः, कश्चित् प्रमाणमार्गातीतः, कश्चित्स्वमताग्रहविलसितः, कश्चिदित्थमुत्थाप्यमानोऽयं स्वपक्षमपि परिभवतीति नोद्भावनाहः, कश्चिदनभ्युपगतोपालम्भरूपः, इत्यादितर्कसमुत्तम्भितविचारसार्थपरिकरोपेतप्रत्यक्षादिप्रमाणतोऽन्योपादीयमानदोषगणप्रतिक्षेपपुरस्सरमभ्युपगमसौधशिखरे व्यवस्थापयन्ति, तत्र केचित् यत्परोपदर्शितवपक्षप्रतिक्षेपकमभिभावयितुमशक्यं दूषणगणं तत्र गजनिमीलिकामेवावलम्बन्ते, केचित्पुनर्यादृशी परकीया पदार्थाभ्युपगमव्यवस्था दूषयितुमशक्या तादृशीं तामस्पृशन्तोऽन्यादृशीमेव दूषयितुं शक्यां भवतो येयं व्यवस्थेत्येवं प्रसह्यारोपिता खोत्प्रेक्षितपरकीयसाधनगणसमर्थितां व्यवस्थां प्रतिक्षिपन्ति, तत एव च परमतखण्डननिकरोपेतापातरमणीययुक्तिजालविलसितखमतमण्डनोपजातविस्तारग्रन्थकर्तृत्वेन खोत्कर्षकाष्टां शास्त्ररहस्यानभिज्ञपण्डितम्मन्यजनसमुदाये प्रगुणयन्ति, अपरे पुनः समीचीनतया स्वाप्तोदीरिततत्त्वसाधनप्रवणशास्त्रोद्भावनायैव यतन्ते, अन्ये पुननर्मा नाम सरला कुयुक्तिनिकरोपेतप्रमाणाभाससमुल्लासितानर्थसार्थफलकप्रतारकदाम्भिकादिकुवादिरचितासच्छास्त्रसन्दर्भाभ्यासजातसन्मार्गपरित्यागिनोऽभूवन्नित्यभिप्रायवन्तोऽसच्छास्त्रोक्ततत्त्वखण्डनैकप्रवणमेव ग्रन्थरत्नं प्रकाशयन्ति, तथाभूता एव केऽपि विद्वांसोऽसच्छास्त्राभिमतपदार्थसार्थयथार्थखण्डनपुरस्सरं खाप्ताभिप्रेतयथार्थसमर्थनपरं शास्त्रं रचितवन्त इत्येवं प्रतायमाने सारखताम्बुधितरङ्गप्रचये नियतिवाद-कालवादा-ऽदृष्टवादपुरुषार्थवाद-स्वभाववादान्यतमप्राधान्यं समाश्रित्य, सत्कार्यवादा-ऽसत्कार्यवादसदस कार्यवादा-ऽवयविवाद-परमाणुप्रचयवादा-ऽनिर्वचनीयतावाद-परिणामवाद-विवर्त्तवादत्रिगुणात्मकप्रकृतिसृष्टिवाद-मायावाद-शब्दमयब्रह्मैकतावाद-ऽर्थब्रह्माद्वैतवाद-दृष्टिसृष्टि