________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १०५ एव जनकत्वाभ्युपगमात् , अनेकस्मात् कार्योत्पत्त्युपलब्धेश्व, नाप्य- . नेकमेकोत्पादकम् , अनेकस्मादुपजायमानस्य कार्यस्य नानात्वस्य न्यायप्राप्तत्वात् , इष्यते च सौत्रान्तिक-वैभाषिकाभ्यां सश्चितेभ्यः परमाणुभ्यः सश्चितनामेव तेषामुत्पत्तिः, सश्चितपरमाणुव्यतिरेकेण मिन्नस्य वस्तुनोऽनभ्युपगमात् , संवृत्यैकस्य घटादेश्वाऽजन्यत्वात् , ज्ञानमपि विषयाऽऽलोक-मनस्कारादिसामग्रीप्रभवं नैकं युक्तम् , अनेकस्मात् कार्योत्पत्त्युपलब्धेश्चति । समुदिताः क्षणिका एक कार्यमुत्पादयन्तीति तृतीयकल्पं निरस्यति-नाप्यनेकमेकोत्पादकमिति । कारणभेदात् कार्यभेद इति नियमेन कारणस्यानेकत्वे कार्यस्याप्यनेकत्वं प्रसज्यत इति निषेधहेतुं दर्शयति-अनेकस्मादुपजायमानस्येति । 'पुआत् पुलोत्पत्तिः' इत्यभ्युपगच्छतोः सौत्रान्तिक-वैभाषिकयोौद्धविशेषयोरनेकस्मादनेकोत्पत्तिरेवाभिमतेत्याह-इष्यते चेति। तेषां परमाणूनाम् । ननु कपालादितो घटादेरवयविन एकस्योत्पत्तिदृश्यत एवेति कथं पुजात् पुञ्जोत्पत्तिरित्यत आह-सञ्चितेति-सञ्चिताः परमाणुविशेषा एव कपालादयः, घटादयोऽपि सश्चिताः परमाणुविशेषा एव, सश्चितपरमाणुव्यतिरेकेणातिरिक्तस्यावयविरूपवस्तुनः सौत्रान्तिक वैभाषिकाभ्यामनभ्युपगमादित्यर्थः । ननु 'अयं घटः, अयं पटः' इत्येवमेकस्य घटादेरवयविनोऽपि प्रतिभासनं समस्ति, तस्यैवैकस्यानेकजन्यत्वं स्यादित्याह-संवृत्येति-वस्तुगत्या नास्त्येव घटादिरेकः, संवृत्तिः कल्पना, तया कल्पितस्य तस्य सम्भवेऽपि न तस्य जन्यत्वम्, काल्पनिकस्य तस्य वान्ध्येयकल्पस्य जन्यजनकभावानाश्रयत्वादित्यर्थः । ननु विषयाऽऽलोकेन्द्रियाद्यनेककारणसमुत्थमेकं विज्ञानलक्षणं कार्य दृश्यत एवेति कथमेकस्य नानेककारणप्रभवत्वमित्यत आह-ज्ञानमपीति-'नैकं युक्तम्' इत्यनेनान्वयः, अनेकजन्यस्यानेकत्वे क्लृप्ते यदि ज्ञानमप्यनेकजन्यमिष्यते तदा