________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ८९
प्रमाणतामासादयेत् , दोषगुणप्रभवत्वविशेषस्तूभयोः समानः। लूनपुनर्जातनख-केशादिषु भेदाभेदाध्यवसायादुभयतैवाऽस्तु, स्तम्भादिषु तु विशददर्शनावभासिषु क्षणक्षयविकला स्थायिता प्रतिभातीति तेषां स्थिररूपतैवाऽस्त्वित्यन्ये । न च परिच्छिद्यमानस्य वस्तुनः पूर्वकालताऽपि प्रत्यभिज्ञया निश्चयेत्यवस्तुधर्मग्राहकत्वात् तदप्रामा
पीतदर्शनं दोषजत्वादप्रमाणम्, पीतेषु च तद्गुणप्रभवत्वात् प्रमाणमिति विशेषसद्भावान्नैकस्य प्रत्यक्षस्याऽप्रामाण्ये सर्वप्रत्यक्षस्याऽप्रामाण्यमिति चेत् ? तदेतत् प्रत्यभिज्ञानेऽपि तुल्यम् , लूनपुनर्जातकेशादिषु सौसादृश्यदोषप्रभवमेकत्वप्रत्यभिज्ञानम् , नैवं घटादिषु तत् तथा, किन्तु गुणप्रभवमिति दोषप्रभवस्य तस्याप्रामाण्येऽपि गुणप्रभवस्य तस्य प्रामाण्यसम्भवादित्याह-दोषेति । उभयोः पीतदर्शन-प्रत्यभिज्ञानयोः। अत्रान्येषां मतमुपदर्शयतिलून-पुनर्जातेति । उभयतैव भेदाभेदोभयरूपतैव, स्थिर-क्षणिकोभयरूपतैवेति यावत् । तेषां स्तम्भादीनाम् ।' अन्ये ' इत्यनेनास्वरसः सूचितः, तद्वीजं तु समानाकारेषु प्रत्यभिज्ञानेषु एकत्र भेदाभेदोभयविषयकत्वमन्यत्र च तादात्म्यमात्रविषयकत्वं प्रतिभासावैचित्र्यान्नियुक्तिकम् , किञ्च, एकान्तवादिमते भेदाऽभेदयोर्विरोधान्नैकाधिकरणतया प्रतिभाससम्भव इति । ननु 'सोऽयं घटः' इति प्रत्यभिज्ञानेन परिच्छिद्यमानस्य वर्तमानकालीनस्य घटात्मकवस्तुनः पूर्वकालवर्तित्वमपि निर्णीयते, पूर्वकालस्य तदानीमभावात् तद्वर्तित्वमपि तदानीं न सम्भवतीत्यवस्तुधर्मस्य तस्य ग्राहकत्वान्न प्रत्यभिशानस्य प्रामाण्यमित्यप्रमाणेन तेन न क्षणिकत्वानुमानबाधनमित्याशङ्कय प्रतिक्षिपति-न चेति । तदप्रामाण्यं प्रत्यभिज्ञानस्याऽप्रामाण्यम्। यद् घटादि वस्तु वर्तमानकालवर्तित्वाद् वर्तमानकालीनम्, तदेव पूर्वकालेऽप्यासीदिति पूर्वकालवलंपि, तस्य पूर्वकालीनत्व