________________
दर्शितेयं यथाशास्त्रमृजुसूत्रनयस्य दिक् ।
बौद्धसिद्धान्तहेतुः श्रीयशोविजयवाचकैः ॥ ४ ॥ इति पद्यानि कोडीकुर्वन् विजयते, 'अन्वीक्षानयमाकलथ्य गुरुभिर्ज्ञात्वा गुरूणां मतं, चिन्तादिव्यविलोचनेन च तयोः सारं विलोक्याखिलम् । तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरुगङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् ॥ १ ॥ यतो मणेः पण्डितमण्डनक्रिया, प्रचण्डपाखण्डतमस्तिरस्किया। विपक्षपक्षे न विचारचातुरी, न च स्वसिद्धान्तवचोदरिद्रता ॥ २॥'
इत्येवं कण्ठोक्तविशिष्टताभाजनगङ्गेशोपाध्यायकृतिरूपतत्वचिन्तामणिग्रन्थस्य नव्यन्यायविचारसागरस्य यथावदवबोद्धृत्वं'सिताम्बरशिरोमणिविदितचारुचिन्तामणि,-विधाय हृदि रुच्यतामिह समानतन्त्रे नये। अनर्गलसमुच्छलद्बहलतर्कवर्णोदकच्छटाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥ १॥
___ इति पद्यान्तर्गतविदितचारुचिन्तामणिरिति स्खविशेषणेन प्रकटयतो मूलकर्तुयशोविजयोपाध्यायस्यायमभिप्रायः- यद्यपि तत्त्वप्रकाशकानि सन्ति चतुर्दशअष्टादश वा विद्यास्थानानि तथापि-'आन्वीक्षिकी'-नाम्ना प्रसिद्ध न्यायशास्त्रमेव तर्कशास्त्रतया प्रसिद्धं वाद-जल्प-वितण्डान्यतमकथाश्रयणप्रवृत्तशास्त्रार्थोपयोगितामञ्चति परमतनिराकरणपूर्वकस्वमतव्यवस्थापनलक्षणपरीक्षा शास्त्रार्थत एव सुदृढा भवति, तत्र च परमतखण्डने हेत्वाभास-जाति-निग्रहस्थानान्यतमस्य दोषतयोद्भावनमावश्यकम्, एतत्प्रपञ्चनं च यथा न्यायदर्शने, न तथा वैशेषिक-सांख्य-योग-वेदान्तमीमांसा-बौद्धादिदर्शने, इति शास्त्रार्थेच्छुभिरध्येतव्यं न्यायशास्त्रमिति ।
यत्र च नैगमनयप्रकृतिकवैशेषिकदर्शन-न्यायदर्शन-सङ्ग्रह-नयप्रकृतिकवेदान्तदर्शन-व्यवहारनयप्रकृतिकसाङ्ख्यदर्शन-र्जुसूत्रादिनयप्रकृतिकबौद्धादिदर्शनानां निरूपणं तस्यास्यानेकान्तव्यवस्थाप्रकरणस्य विरचनं न सर्वदर्शनाभिज्ञतामन्तरेण सम्भवतीति प्राचीननवीनतत्तद्दर्शनार्थनिरूपणप्रवणशास्त्रपरिज्ञानमप्यासीदेवोपाध्यायस्य, स्वयमेव च स्वनिर्मितखाद्यखण्डनान्ते
"निबन्धाः प्राचीनाः परिचयमिताः खेलतितरां, नवीना तकोली हृदि विदितमेतत्कविकुले । असौ जैनः काशीविबुधविजयप्राप्तबिरुदो, मुदं यच्छत्यच्छः समयनयमीमांसितजुषाम् ॥ १॥” इत्यनेन यस्य