________________
४६ ]
[ तत्त्ववोधिनीविवृतिविभूषितम् सत्त्वम् ; असत्त्वं वा स्यात् , अन्यथा क्षणोत्तरं तन्नाशाभ्युपगमस्याप्रामाणिकत्वप्राप्तेः । अथ कारणोत्पादात् कारणविनाशो भिन्नस्तदा कृतकत्वस्वभावत्वमनित्यत्वस्य न भवेत् , उत्पाद-नाशयोस्तादात्म्यप्रतिबन्ध एव तस्य वक्तुं शक्यत्वात् , व्यतिरिक्ते च नाशे समुत्पन्ने न भावस्य निवृत्तिरिति कथं क्षणिकत्वम् ?"इति तन्निरस्तम् । यतो द्विविधो विनाशः-सांव्यवहार्यस्तात्त्विकश्च, आद्यो भावनिवृत्तिरूप एव, द्वितीयश्च भावः, तत्र कारणनिवृत्तिरूपोऽभावो लोकप्रतीत एव, नायं भावस्वभाव इष्यते, नापि कारणोत्पादादस्वरूप एव, तदा कारणस्य विनाशसमयेऽपि कारणं सम स्तीति सर्वदा कारणात्मनो भावस्य सत्त्वमेवेति न क्षणिकत्वं तस्य स्यात्, अथवा यथा द्वितीयक्षणे विनाशसत्तातो भावस्याऽसत्त्वं तथा प्रथमक्षणेऽप्यसत्त्वं स्यात् , तदाऽपि विनाशस्य भावस्वरूपस्यैव सत्त्वादित्याह-भावस्यैवेति । अन्यथा भावस्याऽसत्त्वाभावे । कारण विना. शस्य कारणोत्पादरूपत्वाभ्युपगमे उक्तदोषो भवेत् , कारणोत्पादादतिरिक्त एव कारणविनाश इत्यभ्युपगमे तु नाऽयं दोष इति यदि परो ब्रूयात् तदा दोषान्तरमुपदर्शयति-अथेति-उत्पादविनाशयोरन्योऽन्यभिन्नत्वे उत्पादखभावस्य कृतकत्वस्य विनाशस्वभावस्यानित्यत्वस्य चाऽन्योन्यभिन्नत्वमेव स्यादित्यनित्यत्वस्य कृतकत्वस्वभावत्वं न स्यात्, उत्पाद-विनाशयोस्तादात्म्यलक्षणप्रतिबन्धे सत्येवाऽनित्यत्वस्य कृतकत्वस्वभावस्य वक्तुं शक्यत्वादित्यर्थः। भावाद् भिन्नस्य नाशस्य भवने भावस्य न किश्चिदपि जातमित्यवस्थितरूप एव सर्वदा भाव इति क्षणिकत्वं तस्य न स्यादित्याह-व्यतिरिक्ते चेति । तत् अविद्धकर्णोद्योतकराद्युक्तम् । निरासहेतुमाह-यत इति । आद्यः सांव्यवहार्यो विनाशः। द्वितीयश्च तात्त्विको विनाशः पुनः । भावः भावस्वरूपः। तत्र द्विविधविनाशयोर्मध्ये ।