________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ४५
प्रसक्तिः ?, तदुक्तम्
"अनष्टाज्जायते कार्य हेतुश्वान्योऽपि तत्क्षणम् । क्षणिकत्वात् स्वभावेन तेन नास्ति सह स्थितिः" ॥१॥
] इति । अत्र चाविद्धकोद्योतकारादिभिर्यदुक्तम्-" यदि तुलान्तकयोनमनोनमनवत् कार्योत्पत्तिकाल एव कारणविनाशस्तदा कार्यकारणभावो न भवेत् , यतः कारणस्य विनाशः कारणोत्पाद एव 'उत्पाद एव विनाश' इति वचनात् , एवं च कारणेन सह कार्यमुत्पन्नमिति प्राप्तम् , यदि च स एव नाशः प्रथमेऽपि क्षणे, न सत्ता भावस्य स्यात् , तदैव विनाशात् , भावस्यैव विनाशत्वे सर्वदा भावस्य
उक्तार्थसंवादि प्राचीनवचनमुपदर्शयति - तदुक्तमिति - ‘हेतु. श्वान्योऽपि' इति स्थाने 'हेतोश्चान्योऽपि' इति पाठो युक्तः, तथा च अनष्टाद् हेतोः कारणात् कार्य जायते, अन्योऽपि कार्यभिन्नोऽपि ध्वंसः, तत्क्षणं कार्योत्पत्तिक्षणम् , भवतीति क्रिया, स्वभावेन कार्यकारणयोःक्षणिकत्वात् तेनक्षणिकत्वस्वभावेन,सह स्थिति स्तीत्यर्थः
कार्य-कारणविनाशयोः समकालत्वं बौद्धाभिमतमसहमानानां नैयायिकप्रवराणामविद्धकर्णोद्योतकरप्रभृतीनां मतस्योपदर्शनपूर्वकं प्रतिक्षिप्तत्वमावेदयति-अत्र चेति। तेषामुक्तिमुल्लिखति-यदीति । कारणविनाशस्य कारणोत्पादरूपत्वे बौद्धवचनमेव प्रमाणयति'उत्पाद एवं विनाशः' इति वचनादिति । एवं च कारणोत्पादस्वरूपस्य कारणविनाशस्य कार्योत्पत्तिकाले स्वीकारे च । एवं कारणोत्पादस्य कारणविनाशरूपत्वे यदा कारणस्योत्पादस्तदा कारणविनाशस्य प्राप्तौ कारणं न कदापि सद् भवेत् स्वोत्पादसमयेऽपि विनाशलक्षणस्वभावस्यैव भावादित्याह-यदि चेति । स एव उत्पाद एव। तदैव प्रथमक्षण एव । यदि च कारणस्वरूपभावस्य विनाशः कारण