________________
४४]
[ तत्त्वबोधिनीविवृतिविभूषितम् कार्य-कारणयोः सहभावप्रसक्तिः, नष्टाच कारणात् कार्योत्पत्त्यभ्युपगमे तृतीयक्षणे तत्प्रसङ्गः, तथाहि-प्रथमे क्षणे कारणसत्ता, द्वितीये तद्विनाशः, तृतीये च कार्योत्पत्तिरिति चेत् ?, न-यथैव कारणविनाशस्तत्सत्तापूर्वको न नष्टाद् भवति तथा तत्समानकालं कार्यमप्यनष्टात् कारणाद् भविष्यतीति दोषाऽभावात् । एवं विनाशोऽपि हेतुमान् स्यादिति चेत् ?,न-नीरूपत्वेन तत्र हेतुव्यापाराभावात्, तदुपन्यासस्यात्र व्यवधायककालाऽसम्भवप्रदर्शनार्थत्वात् , ततो द्वितीयक्षणे कारणं नष्टं कार्य चोपजायत इति कुतस्तयोः सहभावकार्यप्रसङ्गमुपपादयति-तथाहीति । तद्विनाशः कारणविनाशः। अनष्टात् कारणात् कार्यमुत्पद्यत इति प्रथमपक्ष एव स्वीक्रियते, कारणस्य कार्यकालपूर्वकालसत्त्वमपेक्षितम् , तदानीं च स्थितिमनुभवदनष्टमेव कारणम् , तत्सत्तापूर्वकस्तस्य विनाशो यथा न नष्टाद् भवति, किन्त्वनष्टादेव तस्मात् तथैव विनाशसमकालमेव जायमानं विवक्षितकार्य तत्सत्तापूर्वकमनष्टादेव तत इति समाधत्ते-नेति । तत्सत्तापूर्वकः कारणसत्तापूर्वकः। तत्समकालं कारणविनाशसमकालम् । ननु कारणविनाशस्य द्वितीयक्षणे कारणसत्तापूर्वकस्य जायमानस्योररीकारे तस्य हेतुमत्त्वमङ्गीकृतं स्यात् , एवं च निर्हेतुको विनाश इति स्वसिद्धान्तहानिः स्यादित्याशङ्कते-एवमिति-यथा कार्यस्य कारणसत्तापूर्वकत्वेन हेतुमत्त्वं तथेत्यर्थः। विनाशक्षणे एव कार्य भवति, न तु तद्वयवहितक्षणे इत्येतावन्मात्रप्रदर्शनार्थमेव विनाशसमकालत्वं कार्यस्योपदय॑ते, न त्वेतावता विनाशस्य सद्धेतुकत्वं कक्षीकृतं भवति, तुच्छत्वेन विनाशे हेतुव्यापाराभावे तस्य सद्धेतुकत्वासम्भवादिति-नेति । निरूपत्वेन तुच्छतया किञ्चिस्वरूपशून्यत्वेन । तत्र विनाशे। तदुपन्यासस्य द्वितीयक्षणे कारणसत्तापूर्वकतया विनाशोपन्यासस्य । तयोः कार्यकारणयोः।