________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६५ . एतदेव भावयति- नहि शब्दान्तरवाच्यं वस्तु शब्दान्तरवाच्यार्थतामेति, संशय-विपर्ययैकत्व-सङ्कराऽतिप्रसङ्गेभ्यः, तथाहि- घटादौ पटाद्यर्थपङ्कमे किमयं घटः पटादिति संशयः स्याद् , विपर्ययो वा घटादावपि पटादिनिश्चयात्, पटादौ वा घटाद्यध्यवसायादेकत्वं वा घट-पटाद्यर्थानां प्राप्नुयात् , सङ्करः- सङ्कीर्णरूपगता वा मेचकमणिवत् , अतिप्रसङ्गो वा-पटाद्यर्थिनो घटादौ प्रवृत्तिलक्षणः स्यात् , एवं 'घट चेष्टायाम् ' घटनाद् घटः, 'कुट कौटिल्ये' कुटनात् कुटः, तथा 'उभ उम्भ पूरणे' कूम्भनात् कुस्थितिपूरणात् कुम्भ इति भिन्नाः सर्वेऽपि घट-कुटादिपदार्थाः, ततश्च घटाद्यर्थे कुटादिशब्दप्रयोगे वस्तुनो वस्त्वन्तरसङ्क्रान्तौ संशयादिदोषोपनिपात इति ॥ क्रमेण विवृणोति- द्रव्यमिति। तद्गतः कुटादिद्रव्यगतः। तल्लक्षम तदा. त्मकम् । नञः ‘सक्रामति' इत्यनेनान्वयः। प्रथमगाथार्थभावना. स्वरूपतया द्वितीयगाथामवतारयति- एतदेव भावयतीति। द्वितीयगाथां संस्कृतेनाऽनुवदति- नहीति। शब्दान्तरवाच्यस्य वस्तुनस्तदन्यशब्द. वाच्यत्वाभ्युपगमे यथा संशयादिदोषप्रसङ्गा उपतिष्ठन्ते तथा भाव. यति- तथाहीति। एकधामणि विरुद्धनानाधर्मप्रकारकं ज्ञानं संशय इति तस्याऽऽपादनमुपदर्शयति- किमयमिति । विपरीतकोटिनिष्टङ्कन विपर्यय इति तदापादनं दर्शयति- विपर्ययो वेति। एकत्वप्रसअनं प्रकटयति-पटादौ वेति सङ्करप्रसञ्जनं निगमयति- सङ्कर इति अन्यार्थिनस्तदन्यत्र प्रवृत्तिप्रसङ्गलक्षणमतिप्रसङ्ग सङ्गमयति-अतिप्रसङ्गो वेति। विशेषतो व्युत्पत्तिभेदोपदर्शनेन घटादिशब्दानां भिन्नार्थकत्वमावेदयति- एवमिति । संशयादिदोषप्रसञ्जनं शब्दान्तरवाच्यस्य तदन्यशब्दवाच्यत्वाभ्युपगमे यदुपदर्शितं तदुपसंहरति- ततश्चेति । बाधकप्रमाणं संशयादिप्रसङ्गमूलकविपर्ययानुमानलक्षणम् , तश्च यद्यपि साक्षान्न