________________
तव्यवस्थाप्रकर
[७५ धारत्वव्याप्यत्वात् , न च कपालादेर्भावरूपतेव ध्वस्ता नाभावात्मकतेति नाऽयं दोषः, धर्मिप्रच्यवे धर्मप्रच्यवानिराश्रयधर्मावस्थानाऽयोगात् , कपालादिकार्यपरम्परायामेव घटध्वंसत्वस्वीकारान्न दोष इति चेत् ? न-एवं सति घटध्वंसत्वस्य व्यासज्ज्यवृत्तित्वे यावदाश्रयभानं विनाऽभानप्रसङ्गात् , प्रत्येकं वृत्तित्वे च नानात्वेनाऽननुगमप्रसङ्गात् तन्नानात्वस्य प्रतीतिबाधितत्वाच्च । तत्प्रवंसेति-घटप्रध्वंसेत्यर्थः, निरुक्तकालस्य घटाधारत्वव्याप्यत्वं तादात्म्यसम्बन्धेन बोध्यम् । ननु कपालादीनां विनाशकाले कपालादीनां या कपालादिभावरूपता सैव विनश्यति, तेषां तु या घटादिविनाशलक्षणाभावरूपता सा तु वर्तत एवेति विनाशरूपताया अविनाशान्न घटाधुन्मजनप्रसङ्ग इत्याशङ्कय प्रतिक्षिपतिन चेति । नाऽयं दोषः प्रतियोग्युन्मजनप्रसङ्गो न । कपालादेर्भावरूपताविनाशे नदाधारभूतः कपालादिरपि विनश्यत्येव, एवं च विनष्टे कपालादिलक्षणधर्मिणि तत्र व्यवस्थितो घटादिविनाशरूपताधमोऽपि विनष्ट एव, आधारनाशे तदाश्रितधर्मावस्थानाऽसम्भवादिति निषेधहेतुमुपदर्शयति-धर्मि प्रच्यव इति। ननु मुद्गरपाताद्यनन्तरं कपालादि कार्य यद् भवति तद् यथा घटादिविनाशस्तथा कपालादिविनाशानन्तरमपि कपालादितो यद् भवति तदपि घटादि विनाश इति घटादिविनाशानां यावतां विनाशस्याऽभावान्न कपालादिविनाशे घटाधुन्मजनप्रसङ्ग इत्याशङ्कते-कपालादिकार्यपरम्परायामेवेति । घटध्वंसत्वं कपालाद् उत्तरकार्येषु यावत्सु व्यासज्यवृत्ति ? प्रत्येकं वा वृत्त्युपेयते ? आधे-व्यासज्यवृत्तिधर्मप्रत्यक्ष प्रति यावदाश्रयप्रत्यक्षस्य कारणत्वेन यावतामुत्तरोत्तरभाविकार्याणां प्रत्यक्षस्याऽसम्भवे घटध्वंसत्वस्याऽपि प्रत्यक्षाऽसम्भवात् , द्वितीयेआश्रयभेदेन घटध्वंसत्वस्यापि भिन्नत्वप्रसङ्गात् , तथाप्रतीत्यभावेन नानात्वेन घटध्वंसत्वस्योपगन्तुमशक्यत्वादिति समाधत्ते- नेति ।