________________
७४]
[तत्त्वबोधिनीविवृतिविभूषितम् इत्यत्र किं निबन्धनम् ? तस्मिन् सति तनिवृत्तिरिति चेत् ? नतुच्छस्वभावनिवृत्त्यनङ्गीकरणेऽङ्गारादिभावेऽङ्गारादिभावात् काष्ठादेरङ्गारादिकमेव ध्वंस इति वाक्यार्थः स्यात् , स च स्वात्मनि क्रियाविरोधादसङ्गतः । अव्यक्तस्वात्मरूपविकारान्तरं ध्वंस इत्यप्यनुद्घोष्यम् , बुद्धयादीनामात्मरूपविकारापत्तौ प्रमाणाऽभावात् , प्रदीपादेवाव्यक्तरूपस्य विकारस्य कार्यविशेषादर्शनेनाऽसिद्धेः, तन्न भावान्तरं प्रध्वंसाभावः, भावान्तरस्य च प्रध्वंसत्वे तद्विनाशाद् घटाद्युन्मजनप्रसङ्गः, घटप्रागभाव-तत्प्रध्वंसाऽनाधारकालस्य घटासम्भवादिति समाधत्ते-नेति । स च निरुक्तवाक्यार्थश्च । व्यक्तरूपस्य काष्ठादेरव्यक्तकाष्ठादिस्वरूपं विनाश इत्यपि पराभिमतं न सङ्गतम् , स्वसंविदितरूपाणां बुद्धयादीनामव्यक्तबुद्धयादिस्वरूपसद्भावे प्रमाणाऽभावेन तत्राऽव्यक्तस्वस्वरूपात्मकस्य स्वध्वंसस्याऽसम्भवात् । एवं प्रदीपादेः प्रकाशस्वरूपस्यैवान्यावभासनरूपकार्यकारितया प्रसिद्धस्य कार्यान्तरादर्शनेनाव्यक्तप्रदीपादिस्वरूपतद्विकारासिद्धया तस्याप्युक्तलक्षणविनाशाऽसम्भवादित्याह-अव्यक्तेति। भावान्तरस्य भावान्तरविनाशस्वरूपत्वाऽसम्भवमुपसंहरति-तन्नेति। यदि च काष्ठादेरङ्गारादिकमेव विनाशस्तदाऽभावाऽभावस्य प्रथमाऽभावप्रतियोगिस्वरूपत्वात् काष्ठादिध्वसस्याङ्गारादिस्वरूपस्य विनाशः काष्ठादिकमेवेत्यङ्गारादिविनाशे काष्ठाद्युन्मज्जनं कर्परसंहतिविनाशे घटाद्युन्मजनं च प्रसज्येतेत्याह-भावान्तरस्य चेति । यदि चात्यन्ताऽभावाऽभावस्यैव प्रतियोगिरूपत्वं नाऽपराऽभावाभावस्येति ध्वंसध्वंसम्य न प्रथमध्वंसप्रतियोगिस्वरूपत्वमित्यभ्युपगम्यते तदाऽपि स्वध्वंसस्वप्रागभावानाधारकालत्वं यत्र तत्र स्वाधारत्वमिति नियमेन घटध्वंसध्वंसकाले घटध्वंस-प्रागभावयोरसत्त्वे घटसत्त्वस्याऽवश्यम्भावत एव घटोन्मजनप्रसङ्ग इत्याह-घटप्रागभावेति ।