________________
'१६२.]
[ तत्त्वबोधिनीविवृतिविभूषितम् "विरमति' इत्यादिन युक्तः, आत्मार्थतया हि 'विरमते ' इत्यस्यैव प्रयोगस्य सङ्गतेः, न चैवं लोक-शास्त्रविलोपः, सर्वत्रैव नयमते तद्विलोपस्य समानत्वादिति सम्मतिवृत्तौ व्यवस्थितम् । वस्तुतो 'ग्राममधिशेते' इत्यादी ग्रामोत्तरद्वितीयादिपदादधिकरणत्वादिप्रकारकप्रतीत्यर्थमधिकरणत्वादिविशिष्टे लक्षणैव स्वीकार्या, तन्निरूढत्वज्ञापनार्थमेव विशेषानुशासनमिति न कोऽपि दोषः । एतेन--
-मेवाभ्युपगन्तृत्वं शब्दस्योपदर्शयति- एवमुपग्रहणभेदेऽपीति-विस्वरूपोपसर्गसम्बन्धाभावे 'रमते' इति प्रयोगः, तत्सम्बन्धे च ‘विरमति' इति प्रयोगः। एतन्मते च यथा 'रमते' इति तथैव विरमते' इत्येव प्रयोगोऽर्थस्तु भिद्यत इवेत्याह- विरमतीत्यादिर्न युक्त इति । एवमुपगमे लोक-शास्त्रविरोधमाशङ्कयेष्टापत्त्या परिहरति-न चवमिति। तद्विलोपस्य लोकशास्त्रविलोपस्य, अनन्तधर्मात्मकवस्त्वभ्युपगमप्रवणस्थाद्वादप्रमाणराजमत एव लोकशास्त्रसुरक्षणस्य सम्भव इत्याशयः। पतदपि न स्वमनीषामात्रोपकल्पितं किन्तु सम्मतिवृत्तौ व्यवस्थित "मतो नाऽत्राऽनास्था विधेया नयविद्भिरित्याशयेनाह- इति सम्मतिवृत्तौ व्यवस्थितमिति । तत् किमधिकरणत्वविवक्षायां ‘ग्राममधिशेते ' इति प्रयोगः सर्वथाऽनुपपन्न एव, नैवम् द्वितीयाविभक्तेरधिकरणरूपार्थे लक्षणाश्रयणे तत्प्रयोगस्योपपन्नत्वादित्याह- वस्तुत इति। लक्षणा च 'द्विविधा- निरूढाऽऽधुनिकी च, तत्राऽऽनादितात्पर्यमूलिका निरूढा स्वारसिकी न प्रयोजनमपेक्षते, आधुनिकी च प्रयोजनवती, तस्याः प्रयोजने सत्येव समाश्रयणात् , प्रकृते त्वियं लक्षणा निरूढा, अस्या निरूढत्वज्ञापनार्थमेव सप्तमीविभक्तिस्थाने द्वितीयाविभक्त्यनुशासनं 'वैयाकरणानामित्याह- तनिरूढत्वेति । एतेन ' इत्यस्य 'व्याख्यातः'