________________
९२]
[तत्वबोधिनीविवृतिविभूषितम् | इत्यप्रतीतेः, अन्यथा प्रथमव्यक्तिप्रतिभाससमय एव तत्प्रसङ्गात् , नवाऽप्रमाणम् , बाधकाभावात् , घटाद्यध्यक्षेण तुल्यत्वादिति । न चात्र संख्येयानां विद्यमानता प्रत्यभिज्ञायां पूर्वकालतायास्त्वविद्यमानतेत्यस्ति विशेषः, पूर्वावगतयत्किश्चित्संख्येयविगमेऽपि शतप्रतीतेः । न च वर्तमानकालावच्छिन्नस्यावर्तमानकालावच्छिन्नेन सह समावेशानुपपत्तेस्तत्तेदन्ताविशिष्टैकत्वग्राहिणः प्रत्यभिज्ञानस्याप्रामाण्यमिति वाच्यम् , छत्र-कुण्डलाधवच्छिन्नस्य देवदत्तादेवि परस्परविरुद्धकालावच्छिन्नस्याप्येकत्वाऽविरोधेन तदप्रामास्यात् , न चैवम् , अतो नैकावभासिनी सा प्रतीतिः स्यादित्याहअन्यथेति । तत्प्रसङ्गात् 'शतम् , इति प्रतीतिप्रसङ्गात् । बाधकस्य कस्यचिदभावात् तस्याः प्रतीतेरप्रामाण्यमपि नास्तीत्याहनवाऽप्रमाणमिति। दृष्टान्तदान्तिकयोर्विशेषोपदर्शनेन वैषम्यमाशङ्कय प्रतिक्षिपति-न चेति । अत्र 'शतम् ' इति प्रतीतौ । निषेधे हेतुमाह-पूर्वावगतेति-तथा च यस्य संख्येयस्य विगमस्तस्य विषयभूतस्याऽविद्यमानत्वं संख्येयप्रतीतावपीति नोक्तविशेषस्य सम्भव इति भावः। न च ' इत्यस्य 'वाच्यम्' इत्यनेनाऽन्वयः । यथा छत्र-कुण्डलादिकं परस्परविरुद्धधर्मयोग्यपि तदवच्छिन्नस्य देवत्तादेरेकत्वं तथा वर्तमानकालाऽवतमानकालयोर्विरुद्धधर्म: योगेऽपि तदवच्छिन्नस्य घटादेरेकत्वमविरुद्धमिति तथाऽवगाहित्वेऽपि नाऽप्रमाण्य मिति निषेधहेतुमाह-छत्र कुण्डलाद्यवच्छिन्नस्येति । तदप्रामाण्याऽसिद्धेः प्रत्यभिज्ञाप्रामाण्यासिद्धः। ननु रूपरसादीनां रूपत्व रसत्वादिविरुद्धधर्मयोगेऽप्येकत्र घटादौ सहभाविनां तदभावनियतभावलक्षणो न विरोध इति तद्विशिष्टस्य घटादेरेकत्वं सम्भवति तथैव सहभाविनां छत्र-कुण्डलादीनां न विरोधस्तेषामेकतरभावस्यान्याभावनियतत्वाभावेनोक्तलक्षणविरोधाभावात् ,