________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १४३ ऋजुसूत्रशिक्षणार्थमाह" जइ विगया-ऽणुप्पना पओअणाऽभावओ न ते कुम्भा। नामादओ किमिट्ठा पओअणाऽभावो कुम्भा ?" ||
[विशेषावश्यकभाष्यगाथा-२२३०] यदि विगता अनुत्पन्नाश्च तव हे ऋजुसूत्र ! कुम्भा नेष्टाः, प्रयोजनाऽभावात् , तर्हि नामादयोऽपि कुम्भाः किमिष्टाः ? प्रयोजनाभावस्य समानत्वात् , न खलु तैरपि कुम्भप्रयोजनं किमपि विधीयते, वासनाविशेषोत्थापितप्रतीत्यादिप्रयोजनं तु शशविषाणादेरिव न सत्त्वसाधकमिति भावः। तदेवमृजुसूत्राच्छन्दनयस्य विशेषिततरत्वमुक्तम् ॥ नामादयः किमिष्टाः प्रयोजनाभावतः कुम्भाः ?' ॥ इति संस्कृतम् । विवृणोति-यदि विगता अनुत्पन्नाश्चेति। नामादिषु प्रयोजनाऽभावस्यासिद्धत्वं निराकरोति-न खल्विति- नमो 'विधीयते' इत्यनेनान्वयः। तैरपि नामादिभिरपि । ननु नामघटादिकं दृष्ट्वा 'अयं घटः' इति प्रतीतिरुपजायते, नामघटादयोऽपि स्वस्वनिष्पाद्यं यत्किञ्चित् कार्य कुर्वन्त्येव, भवत्येव च पूर्वानुभूतस्य नामघटादितः स्मृतिपथमागतस्य यथावासनमाहादिकमित्यत आह- वासनाविशेषोत्थापितेति-पृथुबुध्नाद्याकारविकले गोपालदारकादौ घटपदसङ्केतप्रभवघटविकल्पोपजातवासनाविशेषतः प्रतीत्यादिकं यद्यपि प्रभवति, नैतावता तस्य सत्त्वम् , तथा सति शशशृङ्गादिशब्दसङ्केतकरणोपजातविकल्पसमुत्थवासनाविशेषप्रभवप्रतीत्यादिमात्रेण शशविषाणादेरपिसत्त्वं स्यात्, यदि च तत्र प्रतीतिमात्रमेव वासनाविशेषतो न तु प्रतीतिविषयस्तत्र किमप्यस्ति शशविषाणादिवाच्यं तदेतत् प्रकृतेऽपि समानमिति भावः। एतावता ऋजुसूत्राद् विशेषिततरत्वं शब्दनयस्योपदर्शितमुपसंहरति- तदेवमिति।