________________
कलुषितश्रावकसमष्टयैकमत्यसम्पादनसम्पादितविरोधापहारपूर्वकसङ्घवात्सल्योपचय- : निमित्तोपदेशोल्लासितकारुण्यपारावारस्य बहुविधकामनासमृध्योयातभावनगराधीशादितत्प्रधानप्रभृतिकर्तृकप्रमाणकुशलादिपृच्छापूर्वकान्यानिवर्त्यबहुकालजिज्ञासितोपनीतानेकप्रकारप्रश्नविषयीकृतपदार्थसार्थसम्यगावेदनोल्लासितान्तिकस्थनृपादिगतजैनमतश्रद्धातिशयाभिवर्धितसमीहितसिद्धिप्रभावितजगद्गुरुताभाजनस्य विशिष्टपुरुषदिदृक्षोपगतपण्डितप्रकाण्डभारतजनस्वातत्र्यैककार्यपरायणकाशीविश्वविद्यालयोल्लासकविशिष्टविचारसागरमहामनादिबिरुदविराजितदेशनेतृप्रवरमदनमोहनमालवीयानेकविद्यानिधाना-ऽऽनन्दशङ्करध्रुवप्रभृतिकर्तृकनानादर्शनविचारपूर्वकविश्वविद्यालयोन्नतिसाधनाध्ययनाध्यापनसम्यक्प्रचारानुकूलशिक्षणवैशिष्टयनिरीक्षणार्थकाशीविश्वविद्यालयागमनाभ्यर्थनापरिभावितापूर्वपाण्डित्यस्य सूरिचक्रचूडामणेराचार्यविजयनेमिसूरीश्वरस्य पट्टालङ्कारा विजयदर्शनसूरि-विजयोदयसूरि-विजयनन्दसूरि-विजयविज्ञानसूरि विजयपद्मसूरि-विजया- . ऽमृतसूरि-विजयलावण्यसूरि-विजयकस्तूरसूरयोऽष्टावाचार्यास्तदीयाज्ञाप्रतिपालनपरायणास्तत्कामितोत्तरोत्तरजैनधर्मोन्नतिप्राचीननवीनजैनाचार्यप्रणीतशास्त्राध्यापनकुशला न्यायादिदर्शन-व्याकरण-साहित्यमननपरिनिष्ठितबुद्धयोऽन्यानुच्छिष्टाभिनवग्रन्थरचनपटवो निजपरदर्शनाभिज्ञविद्वजनसदसि वादिप्रतिवादिभावेन मल्लप्रतिमल्लन्यायेन शास्त्रार्थसङ्ग्राममुररीकृत्यानेकान्तमतेनैकान्तमतं प्रतिक्षिपन्तो विजयन्ते ।
तेषां मध्ये आचार्यविजयदर्शनसूरिर्विशेषतो नव्यन्यायप्रवीणोऽपि खदर्शनपरदर्शनाध्ययनाध्यापनोपजातपाण्डित्यप्रकर्षः स्याद्वादबिन्दु-खण्डनखाद्योपेतमहावीरस्तवप्रकरणटीका-न्यायालोकटीका-श्रीमदुदयसूरिकृतत्रुटितांशपूरणोपेतश्रीमद्यशोविजयोपाध्यायकृततत्त्वार्थप्रथमाध्यायविवरणटीका, सिद्धसेनदिवाकररचितसम्मतितर्ककारिकाटीका,इत्येवं ग्रन्थनिचयं जैनमतसुखावबोधाय रचितवान् । - आचार्यविजयोदयसूरिस्तु प्राचीनन्यायविशारदो नवीनन्यायोपनीततत्त्वसमष्टयभिज्ञोऽखिलदर्शनप्रवेशकुशलबुद्धिनिधानो यावन्तो हस्तलिखिता मुद्रिताश्च जैनागमा उपलभ्यन्ते तेषां सर्वेषामादित आरभ्यान्तपर्यन्तं गुरुसकाशात्स्वयञ्च पूर्वापरपर्यालोचनपुरस्सरं पदार्थव्याक्यार्थभावार्थानवगत्य निरन्तरं स्वसमुदायपरसमुदायस्थसाधुसाध्वीवृन्दं तत्त्वजिज्ञासून श्रावकान् तदितरांश्चाध्यापयन् आगमज्ञानां शिरोमणिरेव सम्भूतः, यः कोऽपि स्वसमुदायगतः परसमुदायगतो वा विद्वान् साधुप्रवरो यस्मिन् कस्मिन्नप्यागमगूढार्थे सन्दिहानः पृच्छति स्म तं तत्तद्विषयपरि