________________
तत्त्वबोधिनीविवृतिविभूषितम् . ३५१ इमं ग्रन्थं कृत्वा विषयविषविक्षेपकलुष,
फलं नान्यद् याचे किमपि भवभूतिप्रभृतिकम् । इहाऽमुत्रापि स्तान्मम मतिरनेकान्तविषये,
ध्रुवेत्येतद् याचे तदिदमनुयाचध्वमपरे ॥ १३ ॥ स्याद्वादतेजसा, हतैकान्तध्वान्तं विनष्टैकान्त तमसम् , पवित्रम् अतिपूतम् , इदं युक्तिजालैर्मयोत्तम्भितम् , जैनेन्द्रं जिनेन्द्रप्ररूपितम् , मतं जयति सर्वोत्कृष्टतयाऽवभासते, यैर्यतिवृषैरनैकान्तोपोद्वलकयुक्तिजाललक्षणविशिष्टतेजस्समष्टिद्वारा जैनेन्द्र मतं हतैकान्तध्वान्तं तेषामित्थं सामर्थ्य कथमित्यपेक्षयां विशिनष्टि-क्रियायामित्यादि । क्रियायां मुक्त्यादिफलकक्रियानुष्ठाने, फलजननार्थ कलितं निर्णीतं मिलितापेक्षणं यैः, न केवलया क्रियया नापि ज्ञानमात्रेण मोक्षफलनिष्पत्तिः, किन्तु मिलिताभ्यां क्रिया-ज्ञानाभ्यां मोक्षः, एवं न व्यवहारमात्रेण नापि निश्चयमात्रेण लौकिकपरीक्षकसकललोकयात्रानिर्वहणं किन्तु मिलिताभ्यां ताभ्यां तत् , तथोत्सर्गविनिर्मुक्तोऽपवादोऽपवादविनिर्मुक्त उत्सर्गो वा न विहित-निषिद्धशास्त्रार्थनिर्णयक्षम इति मिलितौ तावपेक्षणीयौ शास्त्रार्थनिर्णये इति क्रियैकान्तवादो ज्ञानैकान्तवादो व्यवहारैकान्तो निश्चयैकान्तः केवलापवादमार्गः केवलोत्सर्गमार्गश्च नादरणीयो लोकिकपरीक्षकैरित्येवं निर्णीतं मिलितापेक्षणं यैरिति यावत् , ते कलितमिलितापेक्षणाः, तन्मुखैस्तत्प्रधानैरित्यर्थः, 'कलितमिलितापेक्षणसुखैः' इति पाठप्रामाण्ये तु कलितं निर्णीतं मिलितापेक्षणेनाक्लिष्टकल्पनात्मकानायासलक्षणं सुखं यैस्ते कलितमिलितापेक्षणसुखास्तैरित्यर्थः, क्रियैकान्तादिवादे तु बहुविधक्लिष्टकल्पनायासप्रभवं दुःखं सुप्रतीतमेवेत्याशयः ॥ १२ ॥
एतद्रन्थकरणफलं प्रार्थयति-इमं ग्रन्थमिति-इमं ग्रन्थं कृत्वा 'विषयविषविक्षेपकलुषमन्यत् किमपि भवभूतिप्रभृतिकं फलमभीष्टदेवदेवेभ्यः श्रीभगवद्भयो जिनेन्द्रेभ्यो न याचे, किन्तु इह लोके, अमुत्रापि परलोकेऽपि, अनेकान्तविषये ध्रुवा मतिर्मम स्तादित्येतत् फलं याचे, तदिदम् अनेकान्ततत्त्वविषयकमतिलक्षणफलम्, अनु मत्तः पश्चाद् अपरेऽन्येऽपि जना याचध्वमित्यन्वयः। भवभूतिप्रभृतिकं भवो मनुष्यादिगतौ जन्म, भूतिर्धनधान्यादिसमृद्धिः, तत्प्रभृतिकं तदाद्यन्यदपि, अथवा भवो महादेवस्तस्य भूतिरणिमाद्यष्टसिद्धिस्तत्प्रभृतिकं तत्फलमनिष्टत्वादनाकासितमित्यावेदयितुं विशिनष्टि-विषयेति-विषयः कलत्र-पुत्र-हिरण्य-राजादिः, दुरन्तसंसारमहागर्तपातनिबन्धनमोहजनकत्वाद् विषं तत्प्रभवो यो विक्षेपो मनसोऽनेकाग्रता तेन कलुषमित्यर्थः मोक्षलक्षणं फलं सर्वेषामेवाभीष्टम् , तच्चानेकान्ततत्त्वज्ञानादेवेत्य