________________
॥ अहँ ॥
आशैशवशीलशालिने श्रीनेमीश्वराय नमो नमः । न्यायविशारद-न्यायाचार्य - महामहोपाध्यायश्रीयशोविजयगणिवरविरचितम्
अनेकान्तव्यवस्थाप्रकरणम् ।
[ उत्तरार्द्धम् ]
ऋजु - अवक्रं श्रुतं ज्ञानमस्य ऋजुश्रुतः, यद्वा ऋजु - अवक्रं वस्तु श्रीमत्तपोगच्छाधिपति-सर्वतन्त्र स्वतन्त्र-शासनसम्राड्-जगद्गुरु श्री विजयने मिसूरीश्वर - पट्टालङ्कारेण ‘व्याकरणवाचस्पति-शास्त्रविशारद - कविरत्न' इति पदालङ्कृतेन श्री विजयलावण्यसूरिणा प्रणीता
तत्त्वबोधिनी विवृतिः
अथ ऋजुसूत्र नयनिरूपणम् - ·
ऋजुसूत्रस्य निरुक्तितो लक्षणमुपदर्शयति — ऋज्वति - ज्ञाने अवक्रत्वमकुटिलत्वम् अतीताऽनागतपरिहारेण वर्तमानक्षणस्वरूपवस्तुग्राहित्वम्, तथा च वर्त्तमानक्षणमात्रग्राहिज्ञानजनको नय ऋजुसूत्रनयः, निरुक्तिसन्निविष्टषष्ठ्यर्थ सम्बन्धस्य जन्यजनकभावलक्षणसम्बन्धरूपत्वे चैतल्लक्षणं शब्दात्मकर्जुसूत्रस्य तादात्म्यरूपत्वे च वर्तमानक्षणमात्रग्राहिज्ञानात्मकत्वं ज्ञानात्मकर्जु सूत्रस्य, विषयविषयिभावलक्षणसम्बन्धरूपत्वे च वर्त्तमानक्षणमात्र ग्राहिज्ञानविषयत्वमर्थात्मकर्जु सूत्रनयस्य, आत्मना सह कथञ्चित्तादात्म्यलक्षणाविष्वग्भावस्य षष्ठ्यर्थ सम्बन्धरूपत्वे निरुक्तज्ञानवत्त्वं तादृशप्रमा