________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१२७ समानम् । अथ प्राग् घटादिकमसत् सद्भवत्युत्पत्तिसमय इत्यविरुद्धम् । ननु प्राग् घटः सन् विनाशहेतुसन्निधौ कपालीभवतीत्यविरुद्धमेव, कथं तस्यैव तदन्यत्वमिति चेत् ? यथा संवेदनस्य नीलाद्याकारभेदस्तथा स्वरूपेणानेकमनेकं भवन विरोत्स्यते । इत्थं च निवृत्तिः कारणस्य कार्यात्मना परिणतिरेवाभिधीयते, तथा च घटप्रच्युतेः कपालस्वरूपत्वे कुतः क्षणिकत्वमिति संक्षेपः॥
अयं चर्जुसूत्रनयः पर्यायनयतरोर्मूलम् , शब्दादीनामेतच्छाखारूपत्वात् , तदुक्तं सम्मतौउत्पत्तिरस्य घटत इति शङ्कते-अथेति । विनाशात् प्राग् घटः सन् विनाशसमये च कपालीभवतीत्यप्यविरुद्ध मिति समाधत्तेननु प्राग् घटः सन्निति । ननु घटो घट एव, कथं तस्य घटान्यत्वं येन कपालभाव इति शङ्कते-कथं तस्यैवेति । एकमपि स्वरूपेण संवेदनं नीलाद्याकारभेदादनेकं भवति तथा स्वरूपेणैकस्यापि घटस्य कपालादिभावेऽनेकत्वं न विरुद्ध मिति समाधत्ते-यथा संवेदनस्येति । ‘स्वरूपेणाऽनेकमनेकम्' इति स्थाने 'स्वरूपेणैकमनेकम्' इति पाठो युक्तः । इत्थं च घट-कपालभावस्याविरुद्धत्वे च, कारणस्य निवृत्तिः कार्यात्मना कारणस्य परिणतिरेवेत्येवं 'कारणस्य' इत्यस्य निवृत्तौ परिणतौ चान्वयः । उपसंहरति-तथा चेतिकार्यरूपेण परिणतिरेव कारणस्य निवृत्तिरिति व्यवस्थितौ चेत्यर्थः। कुतः क्षणिकत्वमिति-घटकाले घटोऽस्तीति निर्विवादम्, घटप्रच्युतेः कपालस्वरूपत्वे घट एव कपालात्मना परिणत इति कपालात्मकघटप्रच्युतिकालेऽपि कपालात्मना घटोऽस्तीति द्रव्यार्थिकनयादेशाद् ध्रौव्यमेव घटस्यायातीत्येकान्तक्षणिकत्वमृजुसूत्रनयप्रवृत्तबौद्धमतसिद्धं न सिद्धिप्रासादमारोहति, कथंचित् क्षणिकत्वं च स्याद्वादराद्धान्तितमेवेत्याशयः।