________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[६५ ल्पकेनैकत्वाऽपरिच्छेदात् , स्वरूपप्रतिभासस्य निर्विकल्पकलक्षणत्वात् , स्वरूपस्य च सन्निहितस्यैव भानात् , असन्निहिते च स्मृतेरेव प्रवृत्तेः, विस्मृतस्य प्राग्दृष्टस्याप्यप्रत्यभिज्ञानात् , स्मृतिविकलेन्द्रियजप्रतिभासस्य च निर्विकल्पकत्वात् । सविकल्पकप्रत्यभिज्ञानमपि भ्रान्तमेव, असद्भूततत्ताविषयत्वात् , तस्याः सद्भूतत्वे प्रथमदर्शनेऽपि भानप्रसङ्गात् । न च स्मृतिसहिताया दृशस्तत्वे व्यापारादयमदोषः, अविषये स्मृतिसाहित्यस्याप्यप्रयोजकत्वात् , अन्यथोत्पलचाक्षुषं गन्धस्मृतिसहायं गन्धमपि गृह्णीयात् । यद्येवं कथमक्षव्यापारानन्तरं प्रत्यभिज्ञोदयः ? इति चेत् ? पुरोव्यवस्थितदर्शने पूर्वदृष्टे स्मृतेरुदयात् , दूरव्यवस्थितचन्दनाद्यर्थदर्शनाद् गन्धस्मृतेः
रुपगमे तु उत्पलादिचाक्षुषस्याऽपि गन्धस्मृतिसहायस्य गन्धग्रहणे प्रवृत्तिरापद्यतेत्याह-निर्विकल्पकेनेति । असन्निहिते स्मृतेरेव प्रवृत्तिरिति कुतोऽवधारितमायुष्मतेत्यपेक्षायामाह-विस्मृतस्येति । तस्याः तत्तायाः, अन्यत् स्पष्टम् । यद्यक्षजज्ञानस्य नासन्निहिते व्यापारस्तदाऽक्षजव्यापारानन्तरं प्रत्यभिज्ञोदयः कथं भवेदिति पृच्छतियद्येवमिति । तत्र 'अयम्' इति प्रत्यक्षम् , तस्मिन् सति 'सः' इति स्मरणम्, इति ज्ञानद्वयमेव भिन्नविषयकम् , न तु पूर्वापरैकत्वग्राह्येकं ज्ञानं प्रत्यभिज्ञानलक्षणम् , तादृशज्ञानद्वयादेव तथाऽभिलापः, यथा चन्दनदर्शन-गन्धस्मरणाभ्यां 'सुरभि चन्दनम्' इति प्रतिपत्तिः, न तु चक्षुरिन्द्रियजन्यं 'सुरभि चन्दनम्' इत्येकं ज्ञानमित्युत्तरयति–पुर इति-पुरोऽग्रे व्यवस्थितस्य वर्तमानस्य सन्निहितस्य वस्तुनो दर्शने सति तल्लक्षणोद्बोधकबलात् पूर्वदृष्टे वस्तुनि स्मृतेः स्मरणस्योदयादित्यर्थः । यदि च 'सुरभि चन्दनम्' इति ज्ञानस्य चक्षुरविषयगन्धावगाहित्वाच्चाक्षुषत्वासम्भवे चन्दनगतरूपलक्षणलिङ्गज्ञानजत्वादनुमितिरूपत्वमुपेयते तर्हि इदमर्थस्य