________________
३३६
अनेकान्तव्यवस्थाप्रकरणम् । "कुंभो ण जीवदवियं, जीवो वि ण होइ कुंभदवियं ति । . तम्हा दोवि अदवियं, अण्णोण्णविसेसिया होति ॥"
[सम्मतिकाण्ड० ३, गाथा ३१] कुम्भो जीवद्रव्यं न भवति, जीवोऽपि न भवति घटद्रव्यम् , तस्माद् द्वावप्यद्रव्यम् , अन्योन्यविशेषितौ-परस्पराभावात्मकौ, यतोऽयमभिप्रायः-जीवद्रव्यं कुम्भादेरजीवद्रव्याद् व्यावृत्तम् ? अव्यावृत्तं वा ? प्रथमपक्षे स्वरूपापेक्षया जीवो जीवद्रव्यम् , कुम्भाद्यजीवद्रव्यापेक्षया तु न जीवद्रव्यमित्युभयरूपत्वादनेकान्त एव, द्वितीयविकल्पे तु सर्वस्य सर्वात्मकत्वापत्तेः, प्रतिनियतरूपाभावतस्तयोरभावः खरविषाणवत्, ततः सर्वमनेकान्तात्मकम् , अन्यथा प्रतिनियतरूपतानुपपत्तेरिति द्रव्यत्वं जीवद्रव्यत्वं चेत्थमुपपादिकां गाथां पराशङ्कासमाधानपरतयाऽवतार्योल्लिखतिनन्वेवमिति । कुंभो० इति-"कुम्भो न जीवद्रव्यं जीवोऽपि न भवति कुम्भद्रव्यमिति । तस्माद् द्वावप्यद्रव्यमन्योन्यविशेषितौ भवतः ॥” इति संस्कृतम् । विवृणोति-कुम्भो जीवद्रव्यं न भवतीति । द्वावपि कुम्भजीवावुभावपि । अभिप्रायमाविष्करोति-यतोऽयमभिप्राय इति । प्रथमपक्षे जीवद्रव्यं कुम्भादेरजीवद्रव्याद् व्यावृत्तमिति कल्पे । स्वरूपेति-जीवस्याजीवस्य च धर्मास्तिकायादेः खरूपापेक्षया-स्वस्खासाधारणधर्मापेक्षया द्रव्यत्वमिति जीवो जीवद्रव्यं भवति, यद् द्रव्यतो व्यावृत्तं तन्न द्रव्यमिति जीवोऽपि अजीवात्मकद्रव्याद् व्यावृतोऽतो न द्रव्य मित्येवमजीवद्रव्यापेक्षया न जीव इत्युभयस्वरूपत्वादनेकान्त एवात्रापीत्यर्थः। द्वितीयविकल्पे तु जीवद्रव्यं कुम्भादेरजीवद्रव्यादव्यावृत्तमिति द्वितीयपक्षे पुनः । सर्वस्येति-यद् यतोऽव्यावृत्तं तत्तदात्मके भवति, यथा स्वस्वरूपं स्वस्मादव्यावृत्तं वात्मकम् जीवद्रव्यं चाजीवद्रव्यात् कुम्भादेरव्यावृत्तं कुम्भाद्यात्मकं स्यात् , एवं कुम्भाद्यजीवद्रव्यमपि जीवद्रव्यादव्यावृत्तं जीवद्रव्यात्मकं स्यादित्येवं सर्वस्य सर्वात्मकत्वं स्यादित्यर्थः। यदा जीवोऽजीवतामेति, अजीवश्च जीवतामेति तदा तयोः प्रतिनियतस्वरूपाभावतोऽभाव एव प्रसज्यते, यन्न प्रतिनियतवरूपं तन्न सत् , यथा खरविषाणमिति व्याप्तेरित्याहप्रतिनियतेति-तस्मात् सर्वस्य वस्तुनः प्रतिनियतरूपान्यथानुपपत्त्याऽनेकान्तात्मकत्वमास्थयमित्युपसंहरति-तत इति । अन्यथा अनेकान्तात्मकत्वाभावे । एतावता