________________
२२ ] ·
[ तत्त्वबोधिनीविवृतिविभूषितम्
च क्रमिणामभिन्नः एकप्रतिभासश्च तत्प्रतिभासः । अथैकप्रतिभासानन्तरमपरस्य प्रतिभासः क्रमप्रतिभासो न त्वेकस्यैवातिप्रसङ्गात्, एवमेतत् किन्तु यदैकप्रतिभासो जातोऽपरश्व जायते तदा प्राक्तने यौगपद्यप्रतिभासप्रसक्तिरानन्तर्याभावात्, तस्मात् क्रमिणोः
केचन समादधतीत्याह- अत्रेति । स्वरूपोव वर्णनपुरस्सरं क्रम-योगपद्ययो: प्रत्यक्षसिद्धत्वं भावयति तथाहीति । स च पूर्वापरभावलक्षणः क्रमश्च । धर्म धमिणोरभेद इति पूर्वापरभावलक्षणधर्मस्य क्रमिभ्यो धर्मिभ्योऽभेदात् क्रमिप्रतिभास एव क्रमप्रतिभास इत्याह- क्रमिणामभिन्न इति । एकप्रतिभासश्च एकक्रमिप्रतिभासश्च । तत्प्रतिभासः निरुक्तक्रमप्रतिभासः । एकप्रतिभासस्य क्रमप्रतिभासत्वे यदैक एव क्रमी प्रतिभासते तदाऽपि क्रमप्रतिभास आपद्येत इत्यत एकक्रमिभासानन्तरमपरस्य क्रमिणः प्रतिभास एव क्रमप्रतिभासो न त्वेकस्यैव प्रतिभासस्तथेत्याशङ्कते - अथेति । समाधत्त - एवमेतदितिएकप्रतिभासान्तरमपरप्रतिभासः क्रमप्रतिभास इति यद् भवतोक्तं तत् तथैवेत्यर्थः । एवं तर्हि 'एकप्रतिभासः क्रमप्रतिभासः' इति भवदुक्तं किमयुक्तमिति पृच्छति - किन्त्विति । एकप्रतिभासान्तरमपर प्रतिभासो जायते तदा द्वावपि प्रतिभासौ प्रत्येकमेकप्रतिभास इति कृत्वा क्रमप्रतिभासौ भवतः, एकप्रतिभासत्वलक्षणक्रमप्रतिभासत्वमुभयत्र सद्भावात्, एकप्रभासानन्तर्यविशिष्टा परप्रतिभासस्य क्रमप्रतिभासरूपत्वाभ्युपगमे तु द्वितीयप्रतिभास एव प्रथमैकप्रतिभासानन्तर्यशालित्वादुक्तलक्षणयोगतः क्रमप्रतिभासो भवेत्, प्रथमैकप्रतिभासे तु नैकप्रतिभासानन्तर्य मित्युक्तलक्षणवैकल्यान्न क्रमप्रतिभासत्वम्, ततश्च प्रतिभासस्य क्रमप्रतिभास- यौगपद्यप्रतिभासभेदेन द्वैविध्ये तत्र क्रमप्रतिभासत्वाभावे यौगपद्यप्रतिभासत्वमासज्येतेत्यत एकप्रतिभासानन्तरमपरप्रतिभासः क्रमप्रतिभास इत्येतन्न सम्भवतीत्युत्तरयति-यदेक प्रतिभासो जात इति । एवं चैकप्रतिभास:
!