________________
८४]
[ तत्वबोधिनी विवृतिविभूषितम् विशेषात् , नैवम्-यतो न नाम विनाशोऽन्य एव कश्चिदुदयापवर्गिणो भावात् , भावश्च स्वहेतोरेव तथाभूत उत्पन्नः, न कश्चिद् धर्मोऽस्यानिमित्तः, केवलं तमस्य स्वभावं पश्यन्नपि मन्दबुद्धिर्न विवेचयति, दर्शनपाटवाऽभावात् , यदा तु विसदृशः कपालादिक्षणः प्रत्ययान्तरोपनिपातादुत्पद्यते, तदा भ्रान्तिकारणविगमात् प्रत्यक्षनिबन्धनः क्षणक्षयनिश्चय उत्पद्यते, अनुमानतस्तु विदुषः प्रागपि भवत्येव, यथा विषयरूपदर्शनेऽप्यतत्कारिपदार्थसाधर्म्य विप्रलब्धौ न कारणशक्ति निश्चिनोति प्राक्,पश्चाच विकारदर्शनात् तनिश्चयः, न च शक्ति-शक्तिमतोर्भेद इति, उक्तं च सौगतैः-" जातस्य च
जायते, मन्दबुद्धरित्थंक्षणक्षयनिश्चयः, विदुषस्तु सत्त्वादिलिङ्गकानुमानेन विसदृशक्षणोत्पादाऽदर्शनेऽपि क्षणक्षयनिश्चय इति समा. धत्ते-नैवमिति । तथाभूतः उदयापवर्गिस्वभावः। अस्य भावस्य । ननु भावस्योदयापवर्गिस्वभावस्य प्रत्यक्षेण ग्रहणे क्षणक्षयनिश्चयोऽपि तदानीमेव किं न स्यादित्यत आह-केवलमिति । तम् उदयापवर्गस्वरूपम् । अस्य भावस्य । कस्यचित् कार्यस्य यत् किमपि प्रतिनियतं कारणं तत् पश्यन्नपि जनोऽकारिपदार्थसाधर्म्यतस्तदप्यकारिस्वरूपमेव भ्रान्त्याऽभिमन्यमानस्तदानीमिदमस्यकारणमित्येवमनिश्चिन्वन्नपि विकारस्य कार्यस्य दर्शनानन्तरं निश्चिनोत्येवेदमस्य कारणम्, कारणशक्तिश्च कारणस्वरूपादभिन्नाऽपि पूर्व न निश्चीयते, विकारदर्शने सति तु निश्चीयत इति यथा तथा क्षणक्षयो भावस्वभावोऽपि पूर्वमनिश्चितः पश्चानिश्चितो भविष्यतीत्याह-यथेति । नाशस्य भावस्वभावस्य भावहेतुव्यतिरिक्तहेत्वनपेक्षणमात्रेण निर्हेतुकत्वे बौद्धानां वचनं संवादकतयोपदर्शयतिउक्तं च सौगतैरिति । ऋजुसूत्रसमुत्थसौगतमताभीष्टं क्षणक्षयित्वं