________________
दशयति- बहुप्यानन्द्रादिकं वस्तू, शम्, इन्दन-शक
१७६ ]
[ तत्त्वबोधिनीविविवृतिभूषितम् दशयति- बहुपर्यायमपि- ' इन्द्रः, शक्रः, पुरन्दरः' इत्यादिनानापर्यायवाच्यमप्येकमिन्द्रादिकं वस्तु, शब्दस्येन्द्रादेरिन्दनादिको योऽर्थस्तद्वशेन शब्दनयस्य, मतम् -अभिप्रेतम् , इन्दन-शकन पूरणादीनामर्थानामेकस्मिनिन्द्रादिके वस्तुनि समावेशसम्भवात् , समभिरूढस्तु नैवं मन्यत इति स्फुटीभविष्यतीत्ययमनयोर्भेदः। अत्र 'अभिनलिङ्ग-वचनम्' इति यदुक्तं तदभिन्नकारकाद्युपलक्षणम् , कारकादिभेदेनाप्यनेकार्थभेदाभ्युपगमात् , तथाहि-यथा ऋजुमूत्रनयमत एव 'अग्निष्टोमयाजी पुत्रोऽस्य जनिता' इत्ययुक्तम् , अतीता-ऽनागतयोः सम्बन्धाऽभावात् , तथा शब्दनयमतेऽन्यकारकयुक्तं यत् तदात्मकं वस्तु न भवति, किन्तु तद्वाच्यमित्यतस्तथैव तद् व्याख्यानयति- इन्द्र इत्यादि- 'वस्तु' इत्यन्तं तद्वयाख्यानम्। 'शब्दार्थवशेन' इत्यस्य विवृतिमाह- शब्दस्येति । इन्द्रादेरित्यादिपदाच्छक-पुरन्दराद्युपग्रहः । 'इन्दनादिकः' इत्यत्रादिपदाच्छकन-पूरणादेर्ग्रहणम् । 'शब्दस्य' इत्यस्य ‘शब्दनयस्य' इत्यर्थकथनम् । 'मतम् ' इत्यस्य 'अभिप्रेतम्' इति विवरणम् । शब्दनये एकस्मिन्निन्द्रादिके वस्तुनि इन्द्रन शकनपूर्दारणाद्यर्थानां समावेशस्य सम्भवेन बहुपर्यायवाच्यमेकं वस्त्वभिप्रेतं भवतीत्याह- इन्दनेति । समभिरूढनये यन्दनं तत्र न शकनं नवा पूर्दारणादिकमित्येकस्य वस्तुन एक एव शब्दो वाचक इति बहुपर्यायवाच्यमेकं वस्तु न तत्सम्मतमिति शब्द-समभिरूढयोर्भेद इत्याह- समभिरूढस्त्विति । नवं मन्यते यथा बहुपर्यायवाच्यमेकं वस्त्वभ्युपैति शब्दस्तथा नाभ्युपैति । अयम् अनन्तरोपवर्णितः। अनयोः शब्दसमभिरूढयोः । यथा लिङ्गभेदेन वचनभेदेन चार्थभेदमभ्युपगच्छति शब्दस्तथा कारक पुरुषोपग्रहभेदेनाऽर्थभेदमभ्युपगच्छति शब्द इति 'अभिन्नलिङ्ग-वचनम्' इत्यभिन्नकारकादेरप्युपलक्षकमित्याह- अत्राऽभिन्नलिङ्ग-वचनमितीति।कारकादिभेदेन यथाऽर्थभेदाभ्युपगमःशब्दस्य तथा दर्शयति- तथाहीति । अतीतेति- 'अग्निष्टोमयाजी' इत्येनेनाऽतीतकाल