________________
.स्वसमय वक्तव्यताधिकारः वा न वा ? यदिविद्यते किमिति क्रमकरणम् ? सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा? यदि क्रियते किं पूर्वस्वभावपरित्यागेन परित्यागेन वा? यदि परित्यागेन ततोऽतादवस्थयापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाऽभावात् किं सहकार्यपेक्षया ? अथ अकिञ्चित्करोऽपि विशिष्ट कार्यार्थपेक्षते, तदयुक्तम्, यतः
"अपेक्षेत परं कश्चिद्यदि कुर्वीत किंचन । यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते ? ॥१॥"
अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः । अथाऽसौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथम क्षण एवाशेषार्थक्रियाणां करणात् द्वितीयक्षणेऽकर्तृत्वमायातं, तथा च सैवानित्यता । अथ तस्य तत्स्वभावत्त्वात्ता एवार्थक्रिया भूयो भूयो द्वितीया दिक्षणेष्वपिकुर्य्यात्, तदसाम्प्रतम् कृतस्य करणाभावादिति । किंच द्वितीयादिक्षणसाध्या अप्यर्थाः प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात् अतत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थ क्रियाविरहान्न स्वकारणेभ्यो नित्यस्योत्पाद इति । अथानित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादाया तमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वम्, तथाचोक्तम्
"जातिरेव हि भावानां विनाशे हेतुरिष्यते । यो जासश्च न च ध्वस्तो नश्येत् पश्चात्स केन च" ॥१॥
ननुसत्यप्यनित्यत्वे यस्य यदा विनाशहेतुसद्भावस्तस्य तदा विनाशः,तथा चस्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमिति एतच्चानुपासितगुरोर्वचः, तथाहि तेन मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते? किमत्र प्रष्टव्यम् ? अभावः क्रियते, अत्र च प्रष्टव्यो देवानां प्रियः अभाव इति किं पर्युदासप्रतिषेधोऽयमुतप्रसज्यप्रतिषेध इति ? तत्र यदि पर्युदासस्ततोऽयमर्थो भावादन्योऽभावो भावान्तरं घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्गरादि व्यापारो न तर्हि तेन किंचित घटस्य कृतमिति । अथ प्रसज्यप्रतिषेधस्तदाऽयमर्थोविनाशहेतुरभावं करोति, किमुक्तं भवति ? भावं न करोतीति ततश्च क्रियाप्रतिषेध एव कृतःस्यात्, न च घटादेः पदार्थस्य मुद्गरादिना करणं, तस्य स्वकारणैरेव कृतत्वात् अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपत्वात् कुतस्तत्रकारकारणां व्यापारः ? अथ तत्राऽपि कारकव्यापारो भवेत् खरशृंगादावपि व्याप्रियेरन् कारकाणीति । तदेवं विनाशहे तोरकिंचित्करत्वात् स्वहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकत्वमवस्थितमिति । 'तु' शब्दः पूर्वावादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धन दर्शयति 'अण्णो अणण्णो' इति । ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा नैवाहु वोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इतियावत्, तथाऽहेतुकोऽनाद्य पर्यवसितत्वान्नित्य इत्येवं तमात्मानं ते बौद्धा:नाभ्युपगतवन्त इति ॥१७॥
टीकार्थ - अब आगमकार बौद्ध दर्शन को पूर्व पक्ष के रूप में प्रस्तुत करते हुए नियुक्तिकार द्वारा प्रतिपादित अफलवाद का निरूपण करते हैं -
कई सिद्धान्तवादी-बौद्ध दर्शन को मानने वाले पांच स्कन्धों का प्रतिपादन करते हैं । उनका कथन है कि इस संसार में रूप, वेदना, विज्ञान, संज्ञा तथा संस्कार नामक पांच स्कन्ध विद्यमान हैं । इनसे अन्य या पृथक् कोई आत्मा नाम का स्कन्ध-पदार्थ नहीं है । पृथ्वी धातु तथा रूप आदि को रूप स्कन्ध कहा जाता है । सुखानुभूति, दुःखानुभूति और न सुख एवं न दुःख की अनुभूति को वेदना स्कन्ध कहा जाता है । रूप
(41)