Book Title: Sutrakritang Sutra
Author(s): Sudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
Publisher: Shwetambar Sthanakvasi Jain Swadhyayi Sangh
________________
चिता
श्री समवसरणाध्ययनं । 'दु:खम' असातोदयरूपं तत्कारणं च यो जानाति 'सुखं' च तद्विपर्ययभूतं यो जानाति, तपसा यो निर्जरां च इदमुक्तं भवति-यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति तथाहि -
"यथा प्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेश हेतवः ॥१॥"
स एव परमार्थतो 'भाषितुं वक्तुमर्हति, किं तद् ? इत्याह-क्रियावादम्, अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति । तथाहि-जीवाजीवास्त्रवसंवरबन्धपुण्यपापनिर्जरा मोक्षरूपा नवापि पदार्थाः श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन जीवपदार्थः, लोक मित्यनेना जीवपदार्थः तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतं, तथाऽऽश्रवसंवरौ स्वरूपेणैवोपात्तौ दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानिं, तदविनाभावित्वादुःखस्य, निर्जरायास्तु स्वाभिधाने नैवापादानं, तत्फलभूतस्य च मोक्षस्योपादान द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति,
नि 'जानाति' अभ्यपगच्छति स परमार्थतः क्रियावादं जानाति । नन चापरदर्शनोक्त पदार्थपरिज्ञानेन सम्यग्वादित्वं । कस्मान्नाभ्युपगम्यते ? तदुक्तपदार्थनामेवाघटमानत्वात्, तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशय प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद जल्पवितण्डाहेत्वाभासच्छलजाति निग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय (निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्ति, क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्की,तत्रेन्द्रियार्थसंनिकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं, तदेवेन्द्रियार्थयोर्यः संबन्धस्तस्मात्तदुत्पन्नं, नाभिव्यक्तं ज्ञानं, न सुखादिकम्, अव्यपदेश्यमिति व्यदेश्यत्वेशाब्दप्राप्ते; अव्यभिचारीताद्धिद्विचन्द्र ज्ञानवत् व्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं, तत्रास्य प्रत्यक्षता न बुध्य (युज्य) ते, तथाहियत्रात्माऽर्थग्रहणं प्रति साक्षाव्याप्रियते तदेव प्रत्यक्षं, तच्चावधिमनःपर्यायकेवलात्मकम्, एतच्चापरोपाधिद्वारेण । प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात्, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताश्चुता जगतीतियदिवा देवदत्तादौ गतिपूर्विकां स्थानात् स्थानान्तरावाप्तिं दृष्ट्वाऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया बिना कारणस्य कार्य प्रति व्यभिचारात्, यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावौ दृष्टः, तद्यथा-भविष्यति शकटोदयः कृत्तिकादर्शनादिति, तदुक्तम् -
"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपन्नत्वं, यत्र यत्र त्रयेण किम् ? ॥१॥"
अपिच-प्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्या प्रामाण्यमिति । प्रसिद्धसाधात्साध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सञ्जासञ्जिसम्बन्धप्रतिपत्तिरूपमानार्थः अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणत्वेन तत्रैवान्तर्भावात्पृथक्प्रमाणत्व मनुपपन्नमेव, अथ नास्त्यनुपपत्तिस्ततो व्यभिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्वं प्रमाणं, किं तर्हि ? आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न चाहद्वयातिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निर्लोठितमिति । किञ्च-सर्वमप्येतत्प्रमाणमात्मनो ज्ञानं ज्ञानं चात्मनो गुणः (गुणश्च) पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिता, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि-द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् । प्रमेयं त्वात्मशरीरेन्द्रियार्थबुद्धिमनः-प्रवृत्तिदोषप्रेत्यभावफल दुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे (स चे) च्छाद्वेषप्रयत्नसुखदुःखज्ञानानुमेयः, स च जीवपदार्थतया गृहीत एवस्याभिरिति, शरीरं तु तस्य भोगायतनं, भोगायतननानीन्द्रियाणि भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमस्माभिरिति । उपभोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवोपादान तयो
527
Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658