________________
श्री सूत्रकृताङ्ग सूत्रम्
अहोऽवि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निज्जरं च, सो भासिउमरिहइ किरियवादं ॥ २१ ॥
छाया आत्मानं यो जानाति यश्च लोकं गतिं यो जानात्यनागतिञ्च । यः शाश्वतं जानात्यशाश्वतञ्च, जातिञ्च मरणञ्च जनोपपातम् ॥२०॥
-
अधोऽपि सत्त्वानां विकुट्टनाञ्च य आस्रवं जानातिसंवरञ्च । दुःखञ्च यो जानाति निर्जराञ्च, सभाषितुमर्हति क्रियावादम् ॥२१॥
अनुवाद जो आत्मा को जानता है। लोक-लोक के स्वरूप एवं लोकान्तरवर्ती पदार्थों को जानता है, जो शाश्वत - मोक्ष, अशाश्वत - संसार को जानता है, जो जन्म मृत्यु तथा गति एवं आगति - विभिन्न गतियों में आवागमन को जानता है । अधोगति में नरकादि में प्राणियों के वि कुट्टण - पीड़ाओं, और यातनाओं को जानता है, जो आश्रव संवर दुःख एवं निर्जरा को जानता है, वही यथार्थतः क्रियावाद का निरूपण कर सकता है ।
टीका - किंचान्यत्- यो ह्यात्मानं परलोकयायिनं शरीराद्व्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषु प्रवर्तते स आत्मज्ञो भवति । येन चात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्राह्यो निर्ज्ञातो भवति तेनैवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया । यश्च ‘लोकं' चराचरं वैशाखस्थानस्थ कटिस्थकरयुग्मपुरुषाकारं चशब्दादलोकं चानन्ताकाशास्तिकायमात्रं जानाति, यश्च जीवानाम् ' आगतिम् ' आगमनं कुतः समागता नारकास्तिर्यञ्चो मनुष्या देवाः ? कैर्वा कर्मभिर्नारिकादित्वेनोत्पद्यन्ते ? एवं यो जानाति, तथा 'अनागतिं च' अनागमनं च कुत्र गतानां नागमनं भवति ? चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, तत्रानागतिः - सिद्धिरशेषकर्मच्युतिरूपा लोकाग्राकाशदेशस्थानरूपा, वा ग्राह्या सा च सादिरपर्यवसाना । यश्च 'शाश्वतं ' नित्यं सर्ववस्तुज्ञातं द्रव्यास्तिकनयाश्रयाद् 'अशाश्वतं ' वाऽनित्यं प्रतिक्षण विनाशरूपं पर्यायनयाश्रयणात् चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा ह्यगमः “ णेरइया दव्वट्टयाए सासया भाव ट्ठयाए असासया " छाया - नैरयिका द्रव्यार्थतयाशाश्वता भावार्थतया अशाश्वताः । एवमन्येऽपि तिर्यगादयो द्रष्टव्याः । अथवा निर्वाणंशाश्वतं संसार:- अशाश्वतस्तद्गतानां संसारिणां स्वकृतकर्मवशगानामितश्चेतश्च गमनादिति । तथा 'जातिम्' उत्पत्तिं नारकतिर्यञ्चमनुष्यामरजन्मलक्षणां 'मरणं च' आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सत्त्वास्तेषामुपपातं यो जानाति, स च नारकदेवयोर्भवतीति, अत्रच जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचिताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृत्ता मिश्रा चेत्येवं सप्तविंशतिविधेति । मरणं - पुनस्तिर्यङ्मनुष्ययोः, च्यवनं ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिव्यन्तरनारकाणामिति ॥२०॥ किञ्च
सत्त्वानां स्वकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरुपां वा कुट्टनांजातिजरामरणरोगशोककृतां शरीरपीड़ां, चशब्दात्तदभावोपायं यो जानाति, इदमुक्तं भवति - सर्वार्थसिद्धादारतोऽघः - सप्तमीं नरकभुवं यावदसुमन्तः स्वकर्माणो विवर्तन्ते, तत्रापि ये गुरुतर कर्माणस्तेऽप्रतिष्ठान नरकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेदि तं तथा ‘संवरम्' आश्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावं - चकारात्पुण्यपापे च यो जानीते तथा
526