Book Title: Sutrakritang Sutra
Author(s): Sudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
Publisher: Shwetambar Sthanakvasi Jain Swadhyayi Sangh

View full book text
Previous | Next

Page 647
________________ श्री गाथाध्ययन ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्तरोक्तगुणकदम्बकयुक्तः साधुहिनो ब्राह्मण [ग्रंथाग्रम ८०००] इति वा वाच्यः, तथा श्राम्यति तपसा खिद्यत इतिकृत्वा श्रमणो वाच्योऽथवा सम-तुल्यं मित्रादिषु मन:-अन्तःकरणं यस्य स सममनाः सर्वत्र वासीचन्दन-कल्प इत्यर्थः, तथा चोक्तम् - "णत्थि य सि कोइ वेसो" (छाया - नास्ति तस्य कोऽपिद्वेष्यः ।) इत्यादि । तदेवं पूर्वोक्त गुण कलितः श्रमणः सन् सममना वा इत्येवं वाच्यः साधुरिति । तथा भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षु स साधुर्दान्तादिगुणोपेतो भिक्षुरिति वाच्यः । तथा सबाह्याभ्यन्तरग्रन्थाभावान्निर्ग्रन्थः । तदेव मनन्तरोक्तं पञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च (स) निर्ग्रन्थ इति वाच्य इति । एवं भगवतोक्ते सति प्रत्याह तच्छिष्यः-भगवन् ! भदन्त ! भयान्त ! भवान्त ! इति वा योऽसौ दान्तो द्रव्यभूतो व्युत्सृष्टकायः सन् ब्राह्मणः श्रमणो भिक्षुनिर्ग्रन्थ इति वाच्यः तदेतत्कथं ? यद्भगवतोक्तं ब्राह्मणादिशब्दवाच्यत्वं साधोरिति, एतन्न:-अस्माकं 'ब्रूहि' आवेदय 'महामुने !' यथावस्थितत्रिकालवेदिन् ॥१॥ इत्येवं पृष्टो भगवान् ब्राह्मणादीनां चतुर्णामप्यभिधानानां कथञ्चिद्भेदाद्भिन्नानां यथाक्रमं प्रवृत्तिनिमित्तमाह-'इति' एवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् 'विरतो' निवृत्तः सर्वेभ्यः पापकर्मेभ्यः-सावद्यानुष्ठानरूपेभ्य:स तथा, तथा प्रेम-रागाभिष्वङ्ग लक्षणं द्वेषः अप्रीतिलक्षणः कलहो-द्वन्द्वाधिकरणमभ्याख्यानम्-असदभियोगः पैशुन्यं (कर्णेजपत्वं) परगुणासहनतया तद्दोषोद्धहनमितियावत् परस्य परिवादः काक्वा परदोषापादनं अरति:-चित्तोद्वेगलक्षणा तया कुटिलमतेम॒षावादः-असदर्थाभिधानं गामश्वं ब्रुवतो भवति, मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशस्तत्त्वे वाऽतत्त्वमिति, यथा - णत्थि ण णिच्चो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१॥ छाया-नास्तिनित्योतकरोति न कृतं वेदयति नास्ति निर्वाणं । नास्ति न मोक्षोपायः षण्मिथ्यात्वस्य स्थानानि ॥१॥ इत्यादि, एतदेव शल्यं तस्मिस्ततो वा विरत इति, तथा सम्यगितः समित इत्यर्थः, तथा सह हितेनपरमार्थभूतेनवर्तत इति सहितः, यदिवा सहितो-युक्तो ज्ञानादिभिः तथा 'सदा' सर्वकाल 'यतः' प्रयतः सत्संयमानुष्ठाने, तदनुष्ठानमपि न कषायैनि:सारीकुर्यादित्याह-कस्यचिदप्यपकारिणोऽपि न क्रुध्येत-आक्रुष्टः सन्न क्रोधवशगो भूयात्, नापि मानी भवेदुत्कृष्टतपोयुक्तोऽपि न गर्वं विदध्यात्, तथा चोक्तम् - "जइ सोऽवि निजरमओ पडिसिद्धो अट्ठमाणमहणेहिं । अवसेसमयट्ठाणा परिहरियव्वा पयत्तेणं ॥१॥" छाया-यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमथनैः। अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन॥१॥ अस्य चोपलक्षणार्थत्वाद्रागोऽपि मायालोभात्मको न विधेय इत्यादिगुणकलितः साधुमहिन इति निः शङ्क वाच्य इति ॥१॥ साम्प्रतं श्रमणशब्दस्य प्रवृतिनिमित्तमुद्भावयन्नाह - टीकार्थ – यहां प्रयुक्त 'अथ' शब्द अवसान मंगलार्थक है-ग्रंथ के अंत में मंगल द्योतक है । आदि मंगल तो बुज्झिज्जा-बुध्येत इस पद द्वारा अभिहित हुआ है, यों आदि और अंत के मंगलत्व से-दोनों स्थानों पर मंगल होने से समस्त श्रुतस्कन्ध मंगलमय है, यह आवेदित-परिज्ञापित या सूचित होता है । अथवा 'आय' शब्द का प्रयोग आनन्तर्य-अनन्तरता के अर्थ में है । पन्द्रह अध्ययनों के बाद उनके अर्थों का संग्राहक-उपसंहारक यह सोलहवां अध्ययन प्रारंभ किया जाता है । इसके अनन्तर दिव्य ज्ञान युक्त-सर्वज्ञ भगवान महावीर देवों और मनुष्यों से युक्त परिषद्-धर्म सभा में वक्ष्यमाण-आगे कहा जाने वाला प्रसंग बतलाते हैं । वह इस प्रकार हैपन्द्रह अध्ययनों में जो अर्थ-मन्तव्य या सिद्धान्त प्रतिपादित किये गये हैं उनके अनुसार आचरणशील साधु दांतइन्द्रिय और मन का नियंत्रक-नियामक है, दमनशील है । वह मोक्ष प्राप्त करने के योग्य है, अतः द्रव्यभूत 619)

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658