SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ चिता श्री समवसरणाध्ययनं । 'दु:खम' असातोदयरूपं तत्कारणं च यो जानाति 'सुखं' च तद्विपर्ययभूतं यो जानाति, तपसा यो निर्जरां च इदमुक्तं भवति-यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति तथाहि - "यथा प्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेश हेतवः ॥१॥" स एव परमार्थतो 'भाषितुं वक्तुमर्हति, किं तद् ? इत्याह-क्रियावादम्, अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति । तथाहि-जीवाजीवास्त्रवसंवरबन्धपुण्यपापनिर्जरा मोक्षरूपा नवापि पदार्थाः श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन जीवपदार्थः, लोक मित्यनेना जीवपदार्थः तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतं, तथाऽऽश्रवसंवरौ स्वरूपेणैवोपात्तौ दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानिं, तदविनाभावित्वादुःखस्य, निर्जरायास्तु स्वाभिधाने नैवापादानं, तत्फलभूतस्य च मोक्षस्योपादान द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति, नि 'जानाति' अभ्यपगच्छति स परमार्थतः क्रियावादं जानाति । नन चापरदर्शनोक्त पदार्थपरिज्ञानेन सम्यग्वादित्वं । कस्मान्नाभ्युपगम्यते ? तदुक्तपदार्थनामेवाघटमानत्वात्, तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशय प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद जल्पवितण्डाहेत्वाभासच्छलजाति निग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय (निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्ति, क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्की,तत्रेन्द्रियार्थसंनिकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं, तदेवेन्द्रियार्थयोर्यः संबन्धस्तस्मात्तदुत्पन्नं, नाभिव्यक्तं ज्ञानं, न सुखादिकम्, अव्यपदेश्यमिति व्यदेश्यत्वेशाब्दप्राप्ते; अव्यभिचारीताद्धिद्विचन्द्र ज्ञानवत् व्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं, तत्रास्य प्रत्यक्षता न बुध्य (युज्य) ते, तथाहियत्रात्माऽर्थग्रहणं प्रति साक्षाव्याप्रियते तदेव प्रत्यक्षं, तच्चावधिमनःपर्यायकेवलात्मकम्, एतच्चापरोपाधिद्वारेण । प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात्, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताश्चुता जगतीतियदिवा देवदत्तादौ गतिपूर्विकां स्थानात् स्थानान्तरावाप्तिं दृष्ट्वाऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया बिना कारणस्य कार्य प्रति व्यभिचारात्, यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावौ दृष्टः, तद्यथा-भविष्यति शकटोदयः कृत्तिकादर्शनादिति, तदुक्तम् - "अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपन्नत्वं, यत्र यत्र त्रयेण किम् ? ॥१॥" अपिच-प्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्या प्रामाण्यमिति । प्रसिद्धसाधात्साध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सञ्जासञ्जिसम्बन्धप्रतिपत्तिरूपमानार्थः अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणत्वेन तत्रैवान्तर्भावात्पृथक्प्रमाणत्व मनुपपन्नमेव, अथ नास्त्यनुपपत्तिस्ततो व्यभिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्वं प्रमाणं, किं तर्हि ? आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न चाहद्वयातिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निर्लोठितमिति । किञ्च-सर्वमप्येतत्प्रमाणमात्मनो ज्ञानं ज्ञानं चात्मनो गुणः (गुणश्च) पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिता, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि-द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् । प्रमेयं त्वात्मशरीरेन्द्रियार्थबुद्धिमनः-प्रवृत्तिदोषप्रेत्यभावफल दुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे (स चे) च्छाद्वेषप्रयत्नसुखदुःखज्ञानानुमेयः, स च जीवपदार्थतया गृहीत एवस्याभिरिति, शरीरं तु तस्य भोगायतनं, भोगायतननानीन्द्रियाणि भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमस्माभिरिति । उपभोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवोपादान तयो 527
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy