________________
श्री सूत्रकृताङ्ग सूत्रम् युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा शालिबीजाच्छाल्यङ्कुरो जायते न यवाङ्कुर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरुपात् दुःखादिति, तथा ह्यागमोऽप्येवमेव व्यवस्थित:
"मणुण्णं भोयणं भोच्चा, मणुण्णां समणासणं । मणुण्णंसि अगारं सि, मणुण्णं झयए मुणी ॥१॥" छाया - मनोज्ञं भोजनं भुक्त्वा मनोज्ञे शयनासने । मनोज्ञेगारे मनोज्ञं ध्यायेन्मुनिः ॥२॥ तथा
"मृद्वी शय्या प्रातरूत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥१॥
___ इत्यतो मनोज्ञाहारविहारादेश्चित्तस्वास्थ्यं ततः समाधिरूत्पद्यते समाधेश्च मुक्त्यवाप्तिः, अतः स्थितमेतत्सुखेनैव सुखावाप्तिः न पुनः कदाचनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितं, इत्येवं व्यामूढमतयो ये केचन शाक्यादयः 'तत्र' तस्मिन्मोक्षविचारप्रस्तावे समुपस्थिते आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासनप्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति, तथा च 'परमं च समाधि' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि-यत्तैरभिहितं-कारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः शृङ्गाच्छरो जायते गोमयावृश्चिको गोलोमाविलोमादिभ्यो दूर्वेति, यदपि मनोज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपिविशूचिकादिसंभवाद् व्यभिचारीति, अपिच-इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभासतया सुखमेव न भवति, तदुक्तम् -
"दुःखात्मकेषु विषयेषु सुखाभिमानः,सौख्यात्मकेषु नियमादिषुदुःखबुद्धिः। उत्कीर्णवर्णपद पङ्क्तिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥१॥".
इति, कुतस्तत्परमानन्दरूपस्यात्यन्तिकस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटन
क्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतोपन्यस्तं तदत्यन्ताल्पसत्त्वानाम परमार्थदृशां, महापुरुषाणां तु स्वार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तैकतानानां महासत्त्वतया सर्वमेवैतत्सुखायैवेति तथा चोक्तम् -
तणसंथारनिविण्णोवि मुनिवरो भट्ठरागमयमोहो । जं पावइमुत्तिसुहं कत्तो तं चक्कवट्टीवि ?॥१॥ तथा । छाया-तृण संस्तरनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः। यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपितश ।। "दुखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा । सर्वत्याग महोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः? ॥१॥"
इति, अपिच-एकान्तेन सुखेनैव सुखेऽभ्युपगम्यमानेविचित्रसंसाराभावः स्यात्, तथा स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्यात्, तथा नारकाणां च पुनर्दु:खानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारक्य स्यात्, नचैतत् दृष्टमिष्टं चेति ॥६॥ अतोव्यपदिश्यते -
टीकार्थ - मतान्तर का निराकरण करने हेतु सूत्रकार उसे पूर्व पक्ष के रूप में उपस्थित करते हुए कहते हैं-मोक्षप्राप्ति के विचार के सन्दर्भ में शाक्यादि मतवादी तथा केश लुंचन आदि के परिषह से पीडित स्वयूथ्य-अपने परंपरानुवर्ती जनों का कहना है । यहां प्रस्तुत गाथा में तु शब्द पूर्व वर्णित सचित्त जल आदि के परिभोग की विशेषता बताने का सूचक है । तदनुसार वे प्रतिपादित करते हैं कि सुख से ही सुख मिलता है । सभी प्राणी सुख में अभिरत रहते हैं, दुःख से उद्वेजित होते हैं-व्यथित होते हैं । इसलिए सुखार्थी-जो सुख
(246)
परपरिभवक्षुत्पिपासादंशमशका