________________
श्री सूत्रकृताङ्ग सूत्रम् माहणा खत्तिया वेस्सा, चंडाला अदु बोक्सा । एसिया वेसिया सुद्दा, जे य आरंभणिस्सिया ॥२॥ परिग्गहनिविट्ठाणं, वेरं तेसिं पवड्ढई ।
आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥३॥ छाया - ब्राह्मणाः क्षत्रियाः वैश्या, चाण्डाला अथ वोक्साः ।
एषिका, वैशिकाः शूद्राः, ये चारम्भनिश्रिताः ॥ परिग्रहनिनिष्ठानां, वैरं तेषां प्रवर्धते ।
आरम्भसम्भृताः कामा, न ते दुःखविमोचकाः ॥ अनुवाद - ब्राह्मण, क्षत्रिय, वैश्य, चाण्डाल, वोक्कस, एषिक, वैशिक, शूद्र आदि प्राणी जो आरम्भहिंसा आदि में आसक्त है, परिग्रहानिविष्ट-परिग्रह में सन्निविष्ट-संलग्न है, उनका अन्य जीवों के साथ अनन्त काल वर्ती वैर बढ़ता है आरम्भ से संभृत, भोग लोलुप वे प्राणी दुःखों का जनक-दुःखजनक कर्मों का त्याग
नहीं कर पाते ।
टीका - अन्वय व्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दशयितुमाह-ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ बोक्कसा-अवान्तरजातीयाः, तद्यथा-ब्राह्मणेन शूद्यां जातो निषादो ब्राह्मणेनव वैश्यार्या जातोऽम्बष्ठः तथा निषादेनाम्बष्टयां जातो बोक्कसः, तथा एषितुं शीलमे षामिति एषिका-मृगलुब्धकाहस्तितापसास्च मांसहेतो{गान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च, तथा ये चान्ये पाखण्डिका नानाविधैरूपायैर्भक्ष्यमेषन्त्यन्यानि वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते, तथा 'वैशिका' वणिजो मायाप्रधानाः कलोपजीविनः, तथा शूद्राः कृषीवलादयः आभीरजातीयाः, कियन्तो वा वक्ष्यन्त इति दर्शयति-ये चान्ये वापसदा नानारूपसावद्य 'आरम्भ (म्भे) निश्रिता' यन्त्रपीडननिलञ्छिन कर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमर्द्दकारिणः तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति ॥२॥
टीका - किञ्च-परि-समन्तात् गृह्यत इति परिग्रहो-द्विपदचतुष्पदधनधान्यहिरण्यसुवर्णादिषु ममीकारस्तत्र 'निविष्टानाम्' अध्युपपन्नानां गाद्धर्यं गतानां 'पापम्' असातवेदनीयादिकं तेषां' प्रागुक्तानामारम्भनिश्रितानां परिग्रहे निविष्टानां प्रकर्षेण 'वर्द्धते' वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, क्वचित्पाठः 'वेरं तेसिं पवडढ़इ' त्ति तत्र येन यस्य यथा प्राणिन उपमर्दः क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्नि कृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः, किमित्येवं ? यतस्ते कामेषु प्रवृताः, कामाश्चारम्भैः सम्यग् भृताः संमृता आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तद्विमोचका भवन्ति-तस्यापनेतारो न भवन्तीत्यर्थः ॥३॥
टीकार्थ - जो अर्थ अन्वय तथा व्यतिरेक द्वारा प्रतिपादित किया जाता है, वह सूक्त-समीचीन रूप में कहा हुआ माना जाता है । पहले जो धर्म वर्णित हुआ है उसका प्रतिपक्ष अधर्म है । जो प्राणी उस अधर्म का आश्रय लिए हुए हैं, उस पर टिके हुए हैं उनका दिग्दर्शन कराने हेतु सूत्रकार कहते हैं-ब्राह्मण, क्षत्रिय, वैश्य, चाण्डाल, बोक्कस आदि जो विविध प्रकार के आरम्भों में हिंसा आदि असत् कर्मों में आसक्त रहते है, यन्त्र पीडन, निर्लाञ्छन, अंगारदाह-अग्नि जलाकर कोयले बनाना आदि क्रियायों द्वारा जीवों का उपमर्द
-416