________________
श्री समवसरणाध्ययनं त एवं कथयन्ति ?-क्रियात एव सर्व सिध्यतीति स्वाभिप्रायेण 'लोकं' स्थावरजङ्गमात्मकं 'समेत्य' ज्ञात्वा, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारण प्रतिपादयन्ति, न कथञ्चिन्नास्तीति, कथमाख्यान्ति ?-' तथा तथा' तेन (तेन) प्रकारेण, यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति/ ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, किञ्च यत् किमपि संसारे दुःखं तथा सुर्ख च तत्सर्वं स्वयमेवात्मना कृतं, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, तत्र ह्यक्रियत्वादात्मनोऽकृतयोरेव सुखदुःखयो संभवः स्यात्, एवं च कृतनाशाकृताभ्यागमौ स्याताम्, अत्रोच्यते, सत्यमस्त्यात्मसुखदुःखादिकं, न त्वस्त्येव, तथाहि-यद्यस्त्येव इत्येवं सावधारणमुच्यते ततश्च न कथञ्चिन्नास्तीत्यापन्नम्,एवं चसति सर्वं सर्वात्मकमापद्येत, तथा च सर्वलोकस्य व्यवहारोच्छेदः स्यात्, न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात्, न चोपायमन्तरेणोपेयमवाप्यत इति प्रतीतं, सर्वा हि क्रियाः ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तञ्च -
"पढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजए । अन्नाणी किं काही, किं वा नाही छेयपावयं ॥१॥" छाया- प्रथमं ज्ञानं ततो दया एवं तिष्ठतिसर्वसंयतः। अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेक पापकं॥१॥
इत्यतो ज्ञानस्य प्राधान्यं नापि ज्ञानादेव सिद्धि क्रिया रहितस्य ज्ञानस्य पङ्गोरिव कार्यसिद्धरनुपपत्तेरित्यालोच्याह'आहंसु विज्जाचरणं पमोक्खं' त्ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः उक्तवन्तः, तीर्थकरगण-धरादयः, कमाहुः ?, मोक्षं, कथं ?, विद्या च-ज्ञानं चरणं च क्रिया ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्यार्शआदित्वान्मत्वर्थीयोऽच, असौ विद्याचरणोमोक्षः-ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं-मोक्षं प्रतिपादयन्ति । यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रतिपादितानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्कयाह-'ते एवमक्खंती'त्यादि, अनिरुद्धा-क्वचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञाज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त एवम्' अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति 'लोकं' चतुर्दशरज्वात्मकं स्थावरजङ्गमाख्यं वा 'समेत्य' केवलज्ञानेन करतलामलकन्यायेन ज्ञात्वा तथागताः -तीर्थकरत्वं केवलज्ञानं न गताः, श्रमणाः' साधवो 'ब्राह्मणाः' संयतासंयताः, कौकिकी वा वाचोयुक्तिः किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा क्कचित्पाठः यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यथा यत्किञ्चित्संसारान्तर्गतानामसुमतांदु:खम्-असातोदयस्वभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्स्वयम्-आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तम् -
"सव्वो पुव्वकयाणं कम्माणं पावए फल विवागं । अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ ॥१॥" छाया - सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फल विपाकं । अपराधेषु गुणेषु च निमित्तमात्रं परोभवति ॥१॥
एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा-विद्या-ज्ञानं चरणं-चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम -
क्रियां च सज्ज्ञानवियोग निष्फलां, क्रियाविहीनां च विवोधसम्पदम् ।
निरस्यता क्लेशसमूहशान्तये, त्वया शिवायालिखितेव पद्धतिः ॥१॥११॥ टीकार्थ क्रियावादियों के सिद्धान्त का दोष बताने हेतु सूत्रकार उनका मन्तव्य प्रकट करते हैं । ((जो ज्ञान निरपेक्ष-ज्ञान रहित केवल प्रव्रज्या आदि क्रिया द्वारा ही मोक्ष प्राप्त होना स्वीकार करते हैं । उनका प्रतिपादन है कि माता-पिता है तथा सुष्ठु रूप में आचरित कर्म का-शुभ कर्म का फल भी है । वे क्या चाहकर के ऐसा कहते हैं ? यह प्रश्न उठाते हुए सूत्रकार अभिहित करते हैं । वे सब कार्य क्रिया से ही सिद्ध हो
( 515