Book Title: Sutrakritang Sutra
Author(s): Sudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
Publisher: Shwetambar Sthanakvasi Jain Swadhyayi Sangh
________________
श्री समवसरणाध्ययनं छाया - आज्ञानिकास्ते कुशला अपि सन्तोऽसंस्तुता: नो विचिकित्सातीर्णाः ।
__ अकोविदा आहुरकोविदेभ्योऽननुविचिन्त्य तु मृषा वदन्ति ॥ अनुवाद - अज्ञानवादी यद्यपि अपने को कुशल-योग्य मानते हैं किन्तु वे अंशतः मिथ्याभाषी हैं, विचिकित्सा-संशय में निमग्न हैं, भ्रांत-अकोविद, अज्ञानी हैं तथा अज्ञानी शिष्यों को उपदेश करते हैं । वे सत्य तत्त्व का अनुचिन्तन न कर मिथ्या भाषण करते हैं।
टीका - तदेवं क्रियाऽक्रियावैनषिकाज्ञानवादिनः सामान्येन प्रदाधुना तदूषणार्थ-तन्मतोपन्यासं पश्चा नुपूर्व्यप्यस्तीत्यत:-पश्चानुपूव्यां कर्तुमाह, यदिवैतेसामज्ञानिका एव सर्वापलापितयाऽत्यन्तमसंबद्धा-अतस्तानेवादावाहअज्ञानं विद्यतेयेषामज्ञानेन वा चरन्तीत्यज्ञानिकाः आज्ञानिका वा तावत्प्रदर्श्यन्ते, ते चाज्ञानिकाः किल वयं कुशला इत्येवंवादिनोऽपि सन्तः 'असंस्तुता' अज्ञानमेव श्रेय इत्येवंवादितया असंबद्धाः, असंस्तुतत्वादेव विचिकित्साचित्तविप्लुतिश्चित्तभ्रान्तिः संशीतिस्तां न तीर्णानाति-क्रान्ताः, तथाहि ते ऊचुः-य एते ज्ञानिनस्ते परस्परविरुद्धवादितया न यथार्थवादिनो भवन्ति, तथाहिएके सर्वगतमात्मानं वदन्ति तथाऽन्ये असर्वगतम् अपरे अंगुष्ठपर्वमानं केचन श्यामाकतण्डुलमात्रमन्ये मूर्तममूर्तं हृदयमध्यवर्तिनं ललाटव्यवस्थितनित्याद्यात्मपदार्थ एव सर्वपदार्थपुरः सरे तेषां नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणीक्रियेत्, न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दिर्शिना, 'नासर्वज्ञः सर्वज्ञं जानाती' ति वचनात, तथा चोक्तम्
"सर्वज्ञोऽसाविति ह्योतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम ? ॥१॥"
न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्त्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्ट परिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, तथाहि-यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं, तत्रार्बाग्भागस्यैवोपवब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभाग परिकल्पनया परमाणु पर्यवसानता, परमाणोश्च स्वभावविप्रक ष्टत्वादग्दर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपा-पिरिच्छेदात्सर्ववादिनां च परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवाद ज्ञानमेव श्रेयः; तथाहियद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धर्न तथाविध दोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तविप्लुतिं वितीर्णा इति । तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञानविकला इत्यवगन्तव्याः, तथाहियत्तैरभिहितं 'ज्ञानवादिनः परस्पर विरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवत्वसर्वज्ञप्रणीतागमाभ्युपगमवादि नामयथार्थ वादित्वं, न चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेरिति तथाहि-प्रक्षीणाशेषावरणतया रागद्वेषमोहानानृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न विरोधवादित्वमिति। ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तं, तथाहि-यत्तावदुक्तं 'न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दिर्शिनेति' तयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयत्वात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्य, संभवानुमानं त्विदं-व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यास वशात्सर्वज्ञोऽपि स्यादिति, न च तदभाव साधकं प्रमाणमस्ति, तथाहिन तावदग्दिर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्या हि तज्ज्ञानज्ञेयविज्ञान शून्यत्वाद, अशून्यत्वाभ्युपगमे च सर्वज्ञत्वापत्तिरिति। नाप्यनुमानेन, तदव्यभिचारिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य
495
Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658