SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ श्री समवसरणाध्ययनं छाया - आज्ञानिकास्ते कुशला अपि सन्तोऽसंस्तुता: नो विचिकित्सातीर्णाः । __ अकोविदा आहुरकोविदेभ्योऽननुविचिन्त्य तु मृषा वदन्ति ॥ अनुवाद - अज्ञानवादी यद्यपि अपने को कुशल-योग्य मानते हैं किन्तु वे अंशतः मिथ्याभाषी हैं, विचिकित्सा-संशय में निमग्न हैं, भ्रांत-अकोविद, अज्ञानी हैं तथा अज्ञानी शिष्यों को उपदेश करते हैं । वे सत्य तत्त्व का अनुचिन्तन न कर मिथ्या भाषण करते हैं। टीका - तदेवं क्रियाऽक्रियावैनषिकाज्ञानवादिनः सामान्येन प्रदाधुना तदूषणार्थ-तन्मतोपन्यासं पश्चा नुपूर्व्यप्यस्तीत्यत:-पश्चानुपूव्यां कर्तुमाह, यदिवैतेसामज्ञानिका एव सर्वापलापितयाऽत्यन्तमसंबद्धा-अतस्तानेवादावाहअज्ञानं विद्यतेयेषामज्ञानेन वा चरन्तीत्यज्ञानिकाः आज्ञानिका वा तावत्प्रदर्श्यन्ते, ते चाज्ञानिकाः किल वयं कुशला इत्येवंवादिनोऽपि सन्तः 'असंस्तुता' अज्ञानमेव श्रेय इत्येवंवादितया असंबद्धाः, असंस्तुतत्वादेव विचिकित्साचित्तविप्लुतिश्चित्तभ्रान्तिः संशीतिस्तां न तीर्णानाति-क्रान्ताः, तथाहि ते ऊचुः-य एते ज्ञानिनस्ते परस्परविरुद्धवादितया न यथार्थवादिनो भवन्ति, तथाहिएके सर्वगतमात्मानं वदन्ति तथाऽन्ये असर्वगतम् अपरे अंगुष्ठपर्वमानं केचन श्यामाकतण्डुलमात्रमन्ये मूर्तममूर्तं हृदयमध्यवर्तिनं ललाटव्यवस्थितनित्याद्यात्मपदार्थ एव सर्वपदार्थपुरः सरे तेषां नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणीक्रियेत्, न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दिर्शिना, 'नासर्वज्ञः सर्वज्ञं जानाती' ति वचनात, तथा चोक्तम् "सर्वज्ञोऽसाविति ह्योतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम ? ॥१॥" न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्त्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्ट परिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, तथाहि-यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं, तत्रार्बाग्भागस्यैवोपवब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभाग परिकल्पनया परमाणु पर्यवसानता, परमाणोश्च स्वभावविप्रक ष्टत्वादग्दर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपा-पिरिच्छेदात्सर्ववादिनां च परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवाद ज्ञानमेव श्रेयः; तथाहियद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धर्न तथाविध दोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तविप्लुतिं वितीर्णा इति । तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञानविकला इत्यवगन्तव्याः, तथाहियत्तैरभिहितं 'ज्ञानवादिनः परस्पर विरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवत्वसर्वज्ञप्रणीतागमाभ्युपगमवादि नामयथार्थ वादित्वं, न चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेरिति तथाहि-प्रक्षीणाशेषावरणतया रागद्वेषमोहानानृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न विरोधवादित्वमिति। ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तं, तथाहि-यत्तावदुक्तं 'न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दिर्शिनेति' तयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयत्वात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्य, संभवानुमानं त्विदं-व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यास वशात्सर्वज्ञोऽपि स्यादिति, न च तदभाव साधकं प्रमाणमस्ति, तथाहिन तावदग्दिर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्या हि तज्ज्ञानज्ञेयविज्ञान शून्यत्वाद, अशून्यत्वाभ्युपगमे च सर्वज्ञत्वापत्तिरिति। नाप्यनुमानेन, तदव्यभिचारिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य 495
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy