________________
श्री सूत्रकृताङ्ग सूत्रम्
सप्तकुशीलपरिज्ञाध्ययन
पुढवी य आऊ अगणी य वाऊ, तण रुक्ख बाया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा ॥१॥ एयाई कायाइं पवेदितताई, एतेसु जाणे पडिलेह सायं । एतेण कणए य आयदंडे, एतेसु या विप्परियासुविंति ॥२॥ छाया - पृथिवी चापश्चाग्निश्च वायुः, तृणवृक्षवीजाश्च त्रसाश्च प्राणाः ।
येऽण्डजा ये च जरायुजाः प्राणाः, संस्वेदजा ये रसजाभिधानाः ॥ छाया - एते कायाः प्रवेदिता, एतेषु जानीहि प्रत्युपेक्षस्व सातम् ।
एतैः कायै ये आत्मदण्डा एतेषु च विपर्यासमुपयान्ति ॥ अनुवाद - सर्वज्ञों ने पृथ्वी, जल, अग्नि, वायु, तृण, वृक्ष बीज तथा त्रस अण्डज, जरायुज, स्वेदज एवं रसज इनको जीव का शरीर कहा है । इनमें सुख की वाँछा रहती है । जो व्यक्ति इन शरीर युक्त प्राणियों का नाश कर पाप संचित करते हैं वे पुनः पुनः इन्हीं प्राणियों में जन्म प्राप्त करते हैं ।
____टीका - 'पृथिवी' पृथिवीकायिकाः सत्त्वाः चकारः स्वगतभेदसंसूचनार्थः, स चायं भेदः-पृथिवी कायिकाः सूक्ष्मा बादराश्च, ते च प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा, एवमप्कायिका अपि तथाऽग्निकायिका वायुकायिकाश्च द्रष्टव्याः, वनस्पतिकायिकान् भेदन् दर्शयति-तृणानि' कुशादीनि 'वृक्षाश्च' अश्वत्थादयो 'बीजानि' शाल्यादीनि एवं वल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टव्याः, त्रस्यन्तीति 'त्रसा' द्वीन्द्रियादयः 'प्राणा' प्राणिनः ये चाण्डाजाता अण्डजाः-शकुनिसरीसृपादयः 'ये च-जरायुजा' जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाविक मनुष्यादयः, तथा संस्वेदाज्जाता:संस्वेदजा यूकामत्कुणकृम्यादयः ये चरसजाभिधाना' दधिसौवीरकाविषुरुतपक्ष्मसन्निभा इति ॥१॥ भगवद्धिः नानाभेदभिन्नं जीवसंघातं प्रदाधुना तदुपघाते दोषं प्रदर्शयितुमाह- एते' पृथिव्यादयः 'काया' जीवनिकाया 'प्रवेदिताः' कथिताः, छान्दसत्वान्नपुंसकलिङ्गता, 'एतेषु' च पूर्वं प्रतिषादितेषु पृथिवीकायादिषु प्राणिषु 'सातं' सुखं जानीहि, एतदुक्तं भवति-सर्वेऽपि सत्त्वाः सातैषिणो दुःखद्विषश्चेति ज्ञात्वा 'प्रत्युपेक्षस्व' कुशाग्रीयया बुद्धया पर्यालोचयति, यथैभिः कायैः समारभ्यमाणैः पीड्यमानैरात्मा दण्डयते, एतत्समारम्भादात्मदण्डो भवतीत्यर्थः, अथवैभिरेव कायैर्ये 'आयतदण्डा' दीर्घदण्डाः, एतदुक्तं भवति-एतान् कायान् ये दीर्घकालं दण्डयन्तिपीडयन्तीति, तेषां यद्भवति तद्दर्शयति-ते एतेष्वेव-पृथिव्यादिकायेषु विविधम्-अनेकप्रकारं परि-समन्ताद् आशुक्षिप्रमुप-सामीप्येन यान्ति-व्रजन्ति, तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा-विपर्यासो-व्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखामिति, यदि वा कुतीथिका मोक्षार्थमेतैः कायैाँ क्रियां कुर्वन्ति तया संसार एव भवतीति ॥२॥ यथा चासावायतदण्डो मोक्षार्थी तान् कायान् समारभ्य तद्विपर्ययात् संसारमाप्नोति तथा दर्शयति
टीकार्थ - पृथ्वी का अभिप्राय पृथ्वीकाय के जीव हैं । यहाँ चकार स्वगत भेद का सूचक है । वह भेद यह है कि पृथ्वी काय के प्राणी सूक्ष्मतया बादर व स्थूल दो प्रकार के होते हैं । उनमें से प्रत्येक के पर्याप्त
-366)