________________
वैतालिय अध्ययन ____टीका - अपि च बहून् जनान् आत्मानं प्रति नामयति-प्रह्वीकरोति तै र्वा नम्यते-स्तूयते बहुजननमनो धर्मः, स एव बहुभिर्जनैरात्मीयात्मीयाशयेन यथाऽभ्युपगम प्रशंसया स्तूयते प्रशस्यते, कथम् ? अत्र कथान कं राजगृहे नगरे श्रेणिको महाराजः, कदाचिदसौ चतुर्विधबुद्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभि स्ताभिः कथाभिरासाञ्चक्रे, तत्र कदाचिदेवम्भूता कथाऽभूत् तद्यथा-इहलोके धार्मिकाः वहवः उताधार्मिका इति? तत्र समस्तपर्षदाऽभिहितम् यथाऽत्राधार्मिकाः बहवो लोकाः धर्मं तु शतानामपि मध्ये कश्चिदेवैकोविधत्ते, तदाकाभयकुमारेणोक्तं-यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा क्रियताम्, पर्षदाऽप्यभिहितम् एवमस्तु, ततोऽभयकुमारेण धवलेतर-प्रासादद्वयं कारितम्, घोषितं च डिण्डिभेन नगरे, यथा यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः ? इत्येवं पृष्टः कश्चिदाचष्टे-यथाऽहं कर्षक: अनेक शकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलक समागमधान्य कण भिक्षा दानेन च धर्म इति, अपरस्त्वाह यथा हं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचस्नानादिभिर्वेदविहितानुष्ठानेनपितृदेवाँस्तर्पयामि, अन्यः कथयति यथाऽहं वणिक्कुलोपजीवी मिक्षादानादि प्रवृत्तः, अपरस्त्विदमाह यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिकं कुटुम्बकं पालयाम्येव, तावत् श्वपाकोऽपीदमाह-यथाऽहंकुलक्रमागतं धर्ममनुपालयामिति मन्निश्रयाश्च बहवः पिशितभुजः प्राणान् संधार यन्ति, इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापार मुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासादं श्रावकद्वयं प्रविष्टम्, तच्च किमधर्माचरणंभवद्भयामकारीत्येनं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत् तथा साधव एवात्र परमार्थ तो धार्मिकाः यथागृहीतप्रतिज्ञानिर्वाहणसमर्थाः, अस्माभिस्तु -
"अवाप्यमानुषं जन्म, लब्धवा जैनञ्च शासनम् । कृत्वा निवृत्तिं मद्यस्य सम्यक् साऽपि न पालिता" ॥१॥ अनेन व्रतभङ्गेन मन्यमाना अधार्मिकम् । अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः ॥२॥ तथाहि - लज्जागुणौघजननी जननी मिवार्या । मत्यन्तशुद्धहदया मनुवर्तमानाः ॥ तेजस्विनः सुख मसूनपि संत्यजन्ति । सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥३॥ वरं प्रवेष्टु ज्वलितं हुताशनं न चाऽपि भग्नं चिरसंचित व्रतम् । वरं हि मृत्युः सुविशुद्ध चेतसो न चाऽपि शीलस्खलितस्य जीवितम् ॥४॥
इति तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत्त इति कृत्वा बहु जननमनो धर्म इति स्थितम् । तस्मिंश्च संवत्तः समाहितः सन नरः पमान सर्वाथैः बाह्याभ्यन्तैरर्धनधान्यकलत्रममत्त्वादिभिः अनिश्रितः अप्रतिबद्धः सन धर्मं प्रकाशितवानित्यत्तरेण सह सम्बन्धः निदर्शनमाह-हृदइव स्वच्छाम्भसा भृतः सदा अनाविलः अनेकमत्स्यादि जलचर संक्रमेणाप्यनाकुलोऽकलुषो वा क्षान्त्यादिलक्षणं धर्म प्रादुरकार्षीत् प्रकटं कृतवान् यदि वा एवं विशिष्ट एव काश्यपं तीर्थङ्करसम्बन्धिनं धर्मं प्रकाशयेत् छान्दसत्वाद् वर्तमाने भूत निर्देश इति ॥७॥
टीकार्थ - जो बहुत लोगों को अपनी ओर झुका देता है-आकृष्ट कर लेता है अथवा जो उन द्वारा प्रशंसित होता है उसे बहुजन नमन कहा जाता है । वह धर्म है क्योंकि धर्म को ही बहुत से लोग अपनी अपनी भावना तथा वृत्ति के अनुरूप प्रशंसित करते हैं । प्रश्न उठातेहुए कहा गया है-किस प्रकार ? इसका समाधान करते हुए एक कथानक प्रस्तुत किया जाता है
राजगृह नगर में श्रेणिक नामक राजा राज्य करता था । एक दिन की बात है । वह अपने पुत्र अभयकुमार के साथ जो चतुर्विध बुद्धि सम्पन्न था, राजसभा में बैठा था । अनेक प्रकार की कथाओं से मनोविनोद कर
155