________________
श्री सूत्रकृताङ्ग सूत्रम्
तृतीय उद्देशकः जं किचि उ पूइकडं, सड्ढी मागंतु मीहियं ।
सहस्संतरियं भुंजे दुपक्खं चेव सेवइ ॥१॥ छाया - यत्किञ्चित्पूतिकृतं श्रद्धावताऽऽगन्तुकेभ्य ईहितं ।
सहस्रान्तरितं भुजीत द्विपक्षञ्चैव सेवते ॥ अनुवाद - जो आहार, आधाकर्मी आहार की एक कणिका से भी युक्त है, अपवित्र है । श्रद्धालु श्रमणोपासक द्वारा श्रमणों के लिये जो बनाया गया है, उस आहार को एक सहस्र घरों का-एक हजार घरों की दूरी पर भी जो घर हो, वहां जाकर भी जो लेता है, वैसे आहार का सेवन करता है, वह श्रमण-साधु, गृहस्थ-दोनों पक्षों का सेवन करता है।
___टीका - अथ प्रथमाध्ययने तृतीयोद्देशक आरम्यते - द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः-अध्ययनार्थाधिकारः स्वसमयपरसमयप्ररूपणेति, तत्रोद्देशकद्वयेन स्वपरसमयप्ररूपणा कृता अत्राऽपि सैव क्रियते । अथवाऽऽद्ययोरुद्देशकयोः कुदृष्टयः प्रतिपादिताः तद्दोषाश्च तदिहाऽपि तेषामाचारदोषः प्रदीत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्य्यनुयोगद्वाराणि व्यावास्खलित गुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्।
___ अस्य चानन्तरसूत्रेण सहायं सम्बन्ध-इहानन्तरोद्देशकपर्य्यन्तसूत्रेऽभिहितम् “एवं तु श्रमणा एके" इत्यादि तदिहाऽपि सम्बध्यते, एके श्रमणा:यत्किञ्चित् पूतिकृतं भुञ्जानाः संसार पर्यटन्तीति । परम्परसूत्रे त्वभिहितं बुज्झिज्ज" इत्यादि, यत्किञ्चित्पूतिकृतं तद्बुध्येतेति । एवमन्यैरपि सूत्रै रूत्प्रेक्ष्यसम्बन्धो योज्यः । अधुना सूत्रार्थः प्रतन्यते यत्किञ्चिदिति आहारजातं स्तोकमपि आस्तां तावत्प्रभूतं तदपि पूतिकृतमाधाकर्मादिसिक्थेनाप्युपसृष्टम् आस्तानातावदाधाकर्म तदपि न स्वयंकृतमपितुश्रद्धावताऽन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य ईहितं चेष्टितं निष्पादितं तच्च सहस्रान्तरितमपि यो भुञ्जीत अभ्यवहरेदसौ द्विपक्षं गृहस्थपक्षं प्रव्रजितपक्षञ्चासेवते । एतदुक्तम्भवतिएवम्भूतमपि परकृत मपरागन्तुकयत्यर्थं निष्पादितं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापियोऽवयवस्तेनाप्युपसृष्ट माहारजातं भुञानस्य द्विपक्षसेवन मापद्यते किं पुनः य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेवचोपभुञ्जते ? ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थः । यदि वा द्विपक्ष मिति ई-पथः साम्परायिकञ्च, अथवा पूर्वबद्धाः निकाचिताद्यवस्थाः कर्मप्रकृतीर्नयत्यपूर्वाश्चादत्ते, तथाचागमः "आहारकम्मं णं भुंजमाणे समणे कइ कम्मपगडीओ बंधइ ? गोयमा ! अट्ठकम्मपगडीओ बंधइ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ करेइ चियाओ करेइ उवचियाओ करेइ हस्सठिइयाओ दीहठिइयाओ करेइ' इत्यादि, ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूथ्या वा आधाकर्म भुञ्जानाः द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थः ॥१॥
टीकार्थ - अब प्रथम अध्ययन का तीसरा उद्देशक प्रारंभ किया जाता है ।
द्वितीय उद्देशक आख्यात किया जा चुका है । अब इसके बाद तृतीय उद्देशक शुरु किया जाता है । इसका अभिसंबंध-पूर्वा पर संबंध इस प्रकार है -
प्रथम अध्ययन का अर्थाधिकार या विवेच्य विषय स्वसमय-अपने जैनधर्म के सिद्धान्त तथा परसमयअन्यवादियों के सिद्धान्त को प्ररूपित करना है । इसलिये प्रथम अध्ययन के दो उद्देशकों में स्वसमय तथा परसमय
-g2A