________________
सूक्तिसंचयः
महापुराण अनेक सूक्तियों का रत्नाकर है जैसा कि उसके निम्न श्लोकों से प्रकट है :
यथा महायरत्नानां प्रसूतिर्मकराकरात् ।
तथैव सूक्तरत्नानां प्रभवोऽस्मात्पुराणतः ॥२।११६॥ इस स्तम्भ में विद्वज्जनों के उपयोग के लिए कुछ सूक्तिरत्न समुद्धृत किये जाते हैं। भाषा अत्यन्त सरल है अतः हिन्दी अनुवाद पृथक से नहीं दिया जा रहा है।
पौरस्त्यैः शोधितं मार्ग को वा नानुवजेज्जनः ।१।३१। गुणगृह्यो हि सज्जनः ।१॥३७॥ त एव कवयो लोके त एव च विचक्षणाः । येषां धर्मकथाङ्गत्वं भारती प्रतिपद्यते ॥१॥६२॥ धर्मानुबन्धिनी या स्यात्कविता सैव शस्यते। शेषा पापात्रवायैव सुप्रयुक्तापि जायते ॥११६३॥ परेषां दूषणाज्जातु न बिभेति कवीश्वरः। किमुलूकमया धुन्वन् ध्वान्तं नोदेति भानुमान् ॥१७॥ परे तुष्यन्तु वा मा या कविः स्वार्थ प्रतीहताम् । न पराराधनाच्छ्यः श्रेयः सन्मार्गदर्शनान् ॥१७६॥ श्रेयोऽर्था हि सतां चेष्टा न लोकपरिपक्तये ।१।१४४। कस्य वान कृतार्थत्वं सन्निधौ महतो निधेः ।१।१६०। धूतान्धतमसो भास्वान् भास्यं किमवशेषयेत् ।१।१६३॥ महत्यादर्शिते वर्त्मन्यनन्धः कः परिस्खलेत् ।१।१६४। धर्मो हि मूलं सर्वासां धद्धिसुखसंपदाम् ।२।३३। धर्मः कामदुधा धेनुर्धर्मश्चिन्तामणिमहान् । धर्मः कल्पतरुः स्थेयान् धर्मो हि निधिरक्षयः ॥२॥३४॥ हितमवगणयेद्वा कः सुधीराप्तवाक्यम् ।२।१६१। दुरन्ता मोहसंततिः।४।२५॥ स्पर्द्धा टेकत्र भूष्णूनां क्रियासाम्याद्विवर्धते ।४।१३५॥ धर्माविष्टार्थसंपत्तिस्ततः कामसुखोदयः । स च संप्रीतये पुंसां धर्मात्सैषा परम्परा ॥५॥१५॥