________________
प्रथमं पर्व
वह उत्तम क्षमा आदि दश धर्मोंके चक्र अर्थात् समूहको धारण करते हैं । उपाध्याय परमेष्ठीके पक्षमें 'भत्रै' पदका अर्थ उपाध्याय किया जाता है; क्योंकि वह अज्ञानान्धकारसे दूर हटाकर सम्यग्ज्ञानरूपी सुधाके द्वारा सब जीवोंका भरण-पोषण करते हैं और साधु परमेष्ठीके पक्ष में 'संसारभीमुषे' शब्दका अर्थ साधु लिया जाता है क्योंकि वह अपनी सिंहवृत्तिसे संसारसम्बन्धी भयको नष्ट करनेवाले हैं ।
इस इलोकमें जो ‘श्रीमते' आदि पद हैं उनमें जातिवाचक होनेसे एकवचनका प्रत्यय लगाया गया है अतः भूत भविष्यत् वर्तमान कालसम्बन्धी समस्त तीर्थंकरोंको भी इसी लोकसे नमस्कार सिद्ध हो जाता है । भरत चक्रवर्तीके पक्ष में इस प्रकार व्याख्यान है-जो नवनिधि और चौदह रत्नरूप लक्ष्मीका अधिपति है, जो सकलज्ञानवान् जीवोंके संरक्षणरूप साम्राज्यपदको प्राप्त है, (सकलाश्च ये ज्ञाश्व सकलज्ञाः, सकलज्ञानाम् असं जीवनं यस्मिंस्तत् तथाभूतं यत्साम्राज्यपदं तद् ईयुषे ) जो पूर्व जन्ममें किये हुए धर्मके फलस्वरूप चक्ररत्नको धारण करता
“सिद्धो लोकोत्तराभिख्यां केवलाख्यामकेवलाम् । अनूपमामनन्तां तामनुबोभूयते श्रियम् ॥” इति वादी मसिनोक्तत्वात् ।
तथा च प्रतिज्ञाहानिः जीवन्मुक्तस्यात्राधिकृतत्वात् इत्यत्राह धर्मचक्रेति । द्वितीय दिवसकरा प्रतिबिम्बबिम्बशङ्काकरजाज्वलद्धर्मचक्रायुधं बिभर्ति धर्मचक्रभृत् " स्फुरदरसहस्रसुरुचिर" इत्यादि प्रवचनात् "धर्मचक्रायुधो देवः” इति वचनाच्च तस्मै । जीवन्मुक्तस्यैव धर्मचक्रायुधेन योग इति प्रकृतार्थस्यैव स्वीकरणात् । अनेन तदविनाभूतं समवसरणादिकमप्युपलक्षितम् । अथवा विशेष्यस्य उभयलक्ष्मीरमणत्वस्य व्यावर्णनया एतद्द्वयं संभवद्विशेषणं "सम्भवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत्" इति न्यायात् ।
किं च सकलज्ञानसाम्राज्यपदप्राप्तिः कस्यायुधस्य धारणयेत्यत्र धर्मेति । धर्मः चरित्रम् "चारितं खलु धम्मो " इति कुन्दकुन्दस्वामिभिनिरूपितत्वात् । तदत्र प्रकरणबलात् यथाख्यातचारित्रं तदेव चक्रमिव चक्रं दुर्जयघातिकर्मारिनिर्जयेन सकलसाम्राज्यपदप्राप्तिहेतुत्वात् । तत्सदा बिर्भात इति धर्मचक्रभृत् तस्मै, अनेन यथारुपातचारित्रस्य घातिकर्मारिनिर्जयेन सकलज्ञानसाम्राज्यपदप्राप्तेः साध्यसाधनभावः कथंचिन्निरतिशयं सानुग्राहकत्वं चोपढोकितम् ।
ननु निरतिशयं परानुग्राहकेणापि भवितव्यम् । यतः तन्नमस्कारः पम्फुलीतीत्यत्राह - भर्त्रे इति । विश्वं जगत् बिर्भात पुष्णात्येवंशीलो भर्ता तस्मै भर्त्रे विश्वस्य जगतः स्वामिने पोषणनिरताय, अनेन अपारानुग्रहशीलत्वमुक्तम् । कुतोऽयं निरतिशयं पराननुगृह्णातीति निश्चयः ? इत्यत्रोत्तरयति " संसारेति” । अत्र “गुरवो राजमाषा न भक्षणोयाः" इत्यादिवत् संसारिणां संसारभी मुट्त्वादिहेतुगर्भविशेषणेन उत्तरमिति निर्णयः । स्वभर्तृ त्वस्य स्वसंसारभी मुट्त्वस्य च प्रागुक्तविशेषणद्वयेनैव व्यज्यमानत्वात् । 'क्षुधातृषाजननमरणादिनानाघोरदुःखानामाकरः संसारः भव इति यावत् । " क्षुत्तृष्ण। श्वासकासज्वर मरणजरारिष्टयोगप्रमोहव्यापत्याद्युग्रदुःखप्रभवभवहते" रिति पूज्यपादेर्निगदित्वात् । तस्माद्भोः तां मुष्णाति लुण्टयतीति संसारभीमुट् तस्मै । अत्र संसारिणां संसारभयलुण्टाकत्वव्यावर्णनया निरायासेन संसारभयापहरणदक्षचातुर्यातिशयः प्रकाशितः तीर्थकर - सत्कर्मणः तस्य तादृग्विवातिशयस्य दुर्वारसंसारविच्छेदोपाय नियुक्त दिव्यध्वनिप्रवर्तनामात्रेणैव संसिद्धेः । तदेवं विश्वविद्यापरमेश्वरस्य विश्वस्य जगतः सम्यक् समुद्धरणपाण्डित्यपराकाष्ठामधिष्ठितस्य परमाप्तस्यादिब्रह्मणः पारमैश्वर्यं चतुरलौकिक जनेऽपि प्रथयितुं श्रीमत्साम्राज्यपदचक्रभूत् भर्तृ भीमुदृपदप्रयोगसामर्थ्याद्भरतचक्रधरव दितीव श्रुतेरभावाच्च व्यङ्ग्यतया भरतचक्रधरेणोपमालङ्कारः प्रथते । तथा हि-यथाभूतसंरक्षणा दिक्षात्रधर्मस्य रक्षितयक्षसहस्रचक्ररत्नस्य च धारणया धर्मचक्रभृत् भरतचक्रवर्ती ।