Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003324/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स भगमसुवाणि (सटीकं) भागः - २० :संशोधक सम्पादकश्च: रत्नासागर Fol Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्योनमः आगम सुत्ताणि (सटीक) भागः-२० बृहत्कल्पछेदसूत्रम्-३ उद्देशकः३ - मूलं-९७...आरम्भात् उद्देशकः६ सम्पूर्णः -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर | ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५- आगम सुत्ताणि-सटीकं __ मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन प्र ----: संपर्क स्थल :'आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, ब्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ बृहत्कल्पछेदसूत्रस्य विषयानुक्रमः उद्देशकः-१, मूलं- ७ पर्यन्तः दुखो भागः १८ उद्देशकः- १ मूलं - ८ ( आरभ्य ....) उद्देशकः - ३ मूलं ९६ पर्यन्तः भुख भागः १८ विषयः पृष्ठाङ्कः मूलाङ्कः विषयः मूलाङ्कः ९७-११० उद्देशकः - ३ ९७ तिकर्म - ९८ अन्तरगृहस्थानं - १०० | अन्तरगृहाख्यानं -१०३ शय्यासंस्तारकः - १०८ अवग्रहः |-१०९ | सेनाप्रकृत - ११० अवग्रहप्रमाणं उद्देशक:-४ -१११ अनुद्घातिक |- ११२ | पाराञ्चिक -११३ अनवस्थाप्य -११५ प्रव्राजना आदि -११६ वाचनाप्रकृत -११८ संज्ञाप्य प्रकृत - १२० | ग्लान- प्रकृत -१२२ कालक्षेत्रातिक्रान्त - १२३ | अनेषणीयं -१२४ कल्पस्थिताकल्पस्थित -१३३ गणान्तरोपसम्पत् - १३४ विष्वग्भवन - १३५ अधिकरणप्रकृत - १३६ परिहारिक प्रकृत -१३८ । महानदी प्रकृत -१४२ उपाश्रय विधिप्रकृत ३ उद्देशकः-५ - १४६ मैथुनप्रतिसेवन-प्रकृत - १४७ अधिकरण -१५१ | संस्तृतनिर्विचिकित्स - १५२ उद्गार प्रकृत -१५३ आहारविधिः - १५४ पानकविधिः - १५६ | इन्द्रियसूत्र १०३ - १५७ एकाकी - १५८ अचेलं -१५९ अपात्रः - १६० व्यत्सृष्टकायः - १६१ आतापना - १७७ स्थानायत आदि सूत्राणि -१९३ आकुंचनपट्ट-आदि निषेधः - १९५ व्यवहार प्रकृत -१९६ । पुलाक प्रकृत | उद्देशकः-६ -१९६ वचन प्रकृत -१९७ प्रस्तार प्रकृत - २०१ कण्टकादि उद्धरणम् बृहत्कल्प-छेदसूत्र - २०४ दुर्ग-प्रकृत - २१३ क्षिप्तचित्तादि सम्बन्धी - २१४ परिमन्थ प्रकृत - २१५ कल्प स्थितिः पृष्ठाङ्कः २६७ ३४४ Page #4 -------------------------------------------------------------------------- ________________ - - - - આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જેન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. '-પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય કચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નફલ એફ. -પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ. સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧લ્મી અઠ્ઠાઇ નિમિત્તે શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. ચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ, સ્વનામધન્યા સા. શ્રી સોમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુમસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રયારાધના સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. - - - Page #5 -------------------------------------------------------------------------- ________________ -૫.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા.શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -૫.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમ્મેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃષ્યકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -૫.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી ૫.પૂજ્ય વૈયાવૃત્ત્વકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ. સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સૌંદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વીશ્રી મલચાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ,ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #6 -------------------------------------------------------------------------- ________________ ३ - नमो नमो निम्मल देसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः ३५/३ बृहत्कल्प -छेदसूत्रम् -- सटीकं [द्वितीयं छेद सूत्रम्] . उद्देशकः -३, मू. ९७..आरंम्भात् उद्देशक:-६-सम्पूर्णम् [भद्रबाहुस्वामि रचितं मूलं + (स्वोपज्ञनियुक्तियुक्तं] संघदासगणि विरचितं भाष्यं । एवं मलयगिरि-क्षेमकीर्ति आचार्याभ्याम् विरचिता वृत्तिः] मू. (९७) कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए किइकम्मं करित्तए। वृ.अथ कोऽस्य सूत्रस्य सम्बन्धः? इत्याह[भा.४४१४] संथारंदुरुहंत, किइकम्मंकुणइ वातिगं सायं । पातो विय पणिवायं, पडिबुद्धो एक्कमेक्कस्स ॥ वृ-सायं प्रदोषसमये पौरुष्यांपूर्णायांगुरुप्रदत्तायां भुविप्रस्तीर्य संस्तारकमारोहन् वाचिकं कृतिकर्म' 'नमः क्षमाश्रमणेभ्यः' इति लक्षणं वाचनिकं प्रणामं करोति, 'प्रातरपिच' प्रभातेऽपि प्रतिबुद्धः सन्नेकैकस्य साधोः 'प्रणिपातं' वन्दनं यथारलाधिकंकरोति, अत इदं कृतिकर्मसूत्रमारभ्यते। अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा यथारालिकं' योयोरत्नाधिकस्तदनतिक्रमेण कृतिकर्मकर्तुमिति सूत्रस पार्थः ।।अथ विस्तरार्थंभाष्यकार आह.. [भा.४४१५] किइकम्मं पिय दुविहं, अब्भुट्ठाणं तहेव वंदनगं। वंदनगंतहि ठप्पं, अब्मुट्ठाणं तुवोच्छामि॥ कृ-कृतिकर्मद्विविधम्, तद्यथा-अभ्युत्थानं वन्दनकंच। तत्र' तयोर्द्वयोर्मध्ये वन्दनकं स्थाप्यं पश्चाद् भणिष्यत इत्यर्थः । अभ्युत्थानं तु साम्प्रतमेव वक्ष्यामि ।। प्रतिज्ञातमेव निर्वाहयन्नाह[भा.४४१६] अब्मुट्ठाणे लहुगा, पासत्थाद-उन्नतित्थि-गिहिएसु। . अहछंद अत्रतिस्थिणि, संजइवग्गे अगुरुगा उ॥ वृ- साधुभिः साधूनामेवाभ्युत्थानं विधेयं न गृहस्थादीनाम्, तत्रापि संविग्नानामेव न पार्श्वस्थादीनाम् । अथ पार्श्वस्थादीनामन्यतीर्थिकानांगृहिणांच अभ्युत्थानं करोतितदा चत्वारो लघवः । यथाच्छन्दानामन्यतीर्थिनीनां संयतीवर्गस्य चाभ्युत्थाने चतुर्गुरवः ।। अथात्रैव दोषानुपदर्शयति[भा.४४१७] उढेइ इत्थिं जह एस एति, धम्मे ठिओ नाम न एस साहू। दक्खिन्नपन्ना वसमेइ चेवं, मिच्छत्तदोसा य कुलिंगिणीसु ॥ -संयतं कस्याअपिस्त्रिय अभ्युत्तिष्ठन्तं दृष्ट्वा श्रावकादिश्चिन्तयेत्-यथैष साधुःस्त्रियमायाती Page #7 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-३/९७ दृष्ट्वाऽभ्युत्तिष्ठति तथा 'नाम' इति सम्भावनायाम्, सम्भावयाम्यहम् - नैष सम्यग् 'धर्मे' श्रुतचारित्रात्मके स्थितः, अन्यता किमेवमेनामभ्युत्तिष्ठति ? अपि च- एवं स्त्रिया अभ्युत्तिष्ठन् दाक्षिण्यवान् भवति, दाक्षिण्यपण्याच्च तस्याः 'वशम्' आयत्ततामुपैति, ततश्च ब्रह्मचर्यविराधनादयो दोषाः । यास्तु कुलिङ्गिन्यः- तापसी - ०परिव्राजिकाप्रभृतयः तास्वभ्युत्थीयमानासु यथाभद्रकादीनां मिथ्यात्वगमनादयो दोषा भवन्ति ॥ अन्यतीर्थिकेषु पुनरिमे दोषाः ४ [भा. ४४१८] ओभावणा पवयणे, कुतित्थ उब्भावणा अबोही य । खिंसिति य तप्पक्खिएहि गिहिसुव्वया बलियं ।। वृ-भौत-भागवत-सौगतादीनामन्यतीर्थिकानामभ्युत्थाने प्रवचनस्य महती अपभ्राजना भवतिअहो ! निसारं प्रवचनममीषाम् यदेवमन्यदर्शनिनामभ्युत्थानं विदधतीति । तदीयस्य च कुतीर्थस्य ‘उद्भावना' प्रभावना भवति-एतदेव दर्शनं शोभनतरं यदेवं जैना अप्येतव्यतिपन्नानभ्युत्तिष्ठन्तीति। " अबोही य" त्ति प्रवचनलाघवप्रत्ययं मिथ्यात्वमोहनीयं कर्मोपचित्य भवोदधौ परिभ्रमन् बोधिलाभं नासादयति । ये च गृहिणः सुव्रताः -शोभनाणुव्रतधारकाः सुश्रावका इत्यर्थः ते 'तत्पाक्षिकैः ' शाक्यादपक्षपातभिरुपासकैः 'बलिकम्' अत्यर्थं खिस्यन्ते - अस्माकमेव दर्शनं सर्वोत्तमम्, भवदीयगुरूणामपि गौरवार्हत्वात् ॥ [भा. ४४१९] एए चैव य दोसा, सविसेसयरऽन्नतित्थगीसुं पि । लाघव अनुज्जियत्तं, तहागयाणं अवन्नो य ॥ वृ- एत एव 'दोषाः ' प्रवचनापभ्राजनादयोऽन्यतीर्थिकीष्वपि भवन्ति, नवरं 'सविशेषतराः ' शङ्कादिभिर्दोषैः समधिकतरा मन्तव्याः । गृहिणामन्यतीर्थिकादीनां चाभ्युत्थाने सामान्यत इमे दोषाः, तद्यथा-'लाघवम्' 'एतेभ्योऽप्ययं हीनः' इत्येवंलक्षणो लघुभाव उपजायते । 'अनूर्जितत्वं' वराकत्वमुपदर्शितं भवति, तथाहि लोको ब्रूयात् - अहो ! अदत्तदाना श्वाना इव वराका अमी, यदेवमाहारादिनिमित्तमविरतकानामपि चाटूनि कुर्वन्ति । तथा तेन यथावस्थितपदार्थोपलम्भकात्मकेन प्रकारेण गतं ज्ञानमेषां ते तथागताः' सद्भूतार्थवेदिनः तीर्थकर - गणधरा इत्यर्थः तेषामवर्णवादो भवति, यथा-नामी सम्यग् मोक्षमार्गं दृष्टवन्त इति ॥ अथ संयतीनामभ्युत्थाने दोषं विशेषतो दर्शयन्नाह [भा.४४२०] पायं तवस्सिणीओ, करेंति किइकम्म मो सुविहियाणं । सुत्तिट्ठइ वतिणिं, भवियव्वं कारणेणेत्थं ॥ वृ- संयतीमभ्युत्तिष्ठन्तं दृष्ट्वा कश्चिदभिनवधर्मा चिन्तयेत् प्रायः 'तपस्विन्यः' संवत्यः सुविहितानां कृतिकर्म कुर्वन्ति, "मो” इति पादपूरणे, एष पुनर्व्रतिनीमुत्तिष्ठति, तद् द्भवितव्यमत्र कारणेनेति । एवं शङ्कायां चतुर्गुरु, निशङ्किते मूलम् । यत एते दोषास्ततो नैषामभ्युत्थानं विधेयम् । अथ येषामभ्युत्थातव्यं तदभ्युत्थानाकरणे प्रायश्चित्तमभिधित्सुराह [भा.४४२१ ] आयरिए अभिसेगे, भिक्खुम्मि तहेव होइ खुड्डे य । गुरुगा लगा हुगो, भिन्ने पडिलोम बिइएणं ॥ वृ- आचार्येऽभिषेके भइक्षौ तथैव क्षुल्लके आचार्यादीन् प्राघुणकान् यथाक्रममनभ्युत्तिष्ठति गुरुका लघुका लघुको भिन्नमासश्चेति प्रायश्चित्तानि । द्वितीयादेशेनेदमेव प्रायश्चित्तं 'प्रतिलोमं' Page #8 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-९७, [भा. ४४२१] प्रतीपक्रमेणाचार्यादीनांवक्तव्यम्,आचार्यस्य भिन्नमासः, अभिषेकस्यलघुमासः, भिक्षोश्चतुर्लघवः, क्षुल्लकस्य चतुर्गुरु इति भावः । एष सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति[भा.४४२२] आयरियस्सायरियं, अनुट्ठियंतस्स चउगुरू होति । वसभे भिक्खू खुड्डे, लहुगा लहुगो य भिन्नो य॥ वृ- आचार्यस्याचार्य प्राघूर्णकमायान्तमनुत्तिष्ठतश्चतुर्गुरवो भवन्ति, वृषभमनभ्युत्तिष्ठतश्चतुर्लघुकाः, भिक्षुमनत्तिष्ठतो लघुमासः, क्षुल्लकमनुत्तिष्तो भिन्नमासः।। एवमाचार्यास्य प्रायश्चित्तमुक्तम् । अथ शेषाणामतिदिशति[भा.४४२३] सट्ठाण परट्टाणे, एमेव य वसह-भिक्खु-खुड्डाणं । जंपरठाणे पावइ, तं चेवय सोहि सट्ठाणे॥ वृ-एवमेव वृषभ-भिक्षु-क्षुल्लकानामपि स्वस्थान-परस्थानप्रायश्चित्तंवक्तव्यम्। स्वस्थाननामवृषभस्य वृषभः, परस्थानं वृषभस्याचार्य-भिक्षु-क्षुल्लकाः; एवं भिक्षु-क्षुल्लकयोरपि स्वस्थानपरस्थानभावना कर्तव्या । अत्र च यत् परस्थाने आचार्य प्राप्नोति तदसावपिवृषभादि स्वस्थाने प्राप्नोति।किमुक्तंभवति?-वृषभस्य प्राघूर्णकचार्यमनभ्युत्तिष्ठतश्चतुर्गुरुकाः वृषभस्यानभ्युत्थाने चतुर्लघवः, भिक्षोरनभ्युत्थाने मासलघु, क्षुल्लकस्यानभ्युत्थाने भिन्नमासः; एवं भिक्षु-क्षुल्लकयोरपि मन्तव्यम् । अत्र परस्थानमाचार्यस्य वृषभादयः, तेषामनभ्युत्थाने यथाऽसौ चतुर्लघुकादिकमापन्नवान् तथा वृषभादयोऽपि स्वस्थानमनभ्युत्तिष्ठन्तस्तदेव प्राप्नुवन्ति ॥ अथैतदेव प्रायश्चित्तं तपः-कालाभ्यां विशेषयन्नाह[भा.४४२४] दोहि वि गुरुगा एते, आयरियस्सा तवेन कालेन । तवगुरुगा कालगुरू, दोहि विलहुगा य खुड्डुस्स ॥ वृ-आचार्यस्य ‘एतानि' चतुर्गुरुकादीनि प्रायश्चित्तानि द्वाभ्यामपि गुरुकाणि कर्त्तव्यानि, तद्यथा-तपसा कालेनच। वृषभस्य तपोगुरुकाणि, भिक्षोः कालगुरुकाणि, क्षुल्लकस्य द्वाभ्यामपि' तपः-कालाभ्यां लघुकानि॥ [भा.४४२५] अहवा अविसिट्ठ चिय, पाहुणयाऽऽगंतुए गुरुगमादी। पाति अनुटुिंता, चउगुरु लहुगा लहुग भिन्नं ।। कृ'अथवा इतिप्रायश्चित्तस्य प्रकारान्तरताद्योतकः। अविशिष्टमेव' आचार्यादिविशेषैर्विरहितं प्राघूर्णकमागन्तुकमनत्तिष्ठन्तः 'गुर्वादयो' आचार्यप्रभृतयो यथाक्रमंचतुर्गुरुक-चतुर्लघुकलघुमासभिन्नमासान् प्राप्नुवन्ति । तद्यथा-आचार्यस्य यं वा तं वा प्रघूर्णकमागतमनभ्युत्तिष्ठतशचतुर्गुरु वृषभस्य चतुर्लघु, भिक्षोलघुमासः, क्षुल्लकस्य भिन्नमास इति ॥ [भा.४४२६] अहवाजं वा तं वा, पाहुणगं गुरुमनुट्ठिह पावे । भिनं वसभी सुक्कं, भिक्खु लहू खुड्डए गुरुगा। वृ-अथवायंवातंवाप्राघूर्णकमनुत्तिष्ठन् 'गुरु' आचार्यो भिन्नमासंप्राप्नोति, वृषभः 'शक्लमासं' लघुमासमित्यर्थः, भिक्षुश्चतुर्लघुकम्, क्षुल्लकश्चतुर्गुरुकम् । एतेन “पडिलोम बिइएणं" ति पदं व्याख्यातम् ॥अथ किमर्थमयं द्वितीयादेशः प्रवृत्तः ? इत्याह [भा.४४२७] वायण-वावारण-धम्मकहण-सुत्तत्थचिंतणासुंच। Page #9 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/९७ वाउलिए आयरिए, बिइयादेसो उ भिन्नाई ।। -इहाचार्यस्यानेकधा व्याक्षेपः, तद्यथा-वाचनानाम-अनुयोगःसा विनेयानांदातव्या, व्यापारणं साधूनां वैयावृत्यादिषु यथायोग्यं विधेयम्, श्राद्धानां धर्मकथनं विधातव्यम्, स्वयं च सूत्राऽर्थयोश्चिन्तना-अनुप्रेक्षा कर्तव्या । एवमादिषु कार्येषु निरन्तरमाचार्यो व्याकुलितो भवति, वृषभादयस्तु न तथा व्याकुला इत्यतोऽयं भिन्नमासादिर्दितीय आदेशः प्रवृत्त । इयमत्र भावनाआचार्यो बहुव्याकुलतयाप्राघुण मागच्छन्तं दृष्ट्वाऽपिनाभ्युत्थातुंपारयेत्, अतस्तस्य स्वल्पतरं प्रायश्चित्तम्। वृषभ-भिक्षु-क्षुल्लकास्तुयथाक्रगमल्पा-ऽल्पतरा-ऽल्पतमव्याक्षेपाः,ततोलघुमासादीनि प्रभूत-प्रभूततर-प्रभूततमानि तेषांप्रायश्चित्तानीति॥ अथ क्षुल्लकस्य गुरुतमप्रायश्चित्तदाने विशेषकारणमाह[भा.४२८] वेसइ लहुमुढेइ य, धूलीधवलो असंफुरोखुड्डो। . इति तस्स होति गुरुगा, पालेइ हुचंचलं दंडो॥ वृ-'क्षुल्लकः' बालः स लघुशरीरतया सुखैनैवोपविशति उत्तिष्ठति च, क्रीडनशीलतया च प्रायेण 'धूलीधवलः' रजोगुण्डितदेहः 'असंस्फुरश्च' असंवृतोऽसौ भवति, अतो यद्यसावपि प्राघुणकमागतं नोत्तिष्ठतितदा महद् दूषणमाप्नोति, अत एतस्य चतुर्गुरुकाःप्रायश्चित्तम्। किञ्चयश्चञ्चलः-स्वभावाताचपलोऽपिसन्गुर्वादीनां नाभ्युत्तिष्ठतितं 'दण्डः प्रायश्चित्तलक्षणोदीयमानः पालयति, चञ्चलत्वमपनयतीत्यर्थः ।।अपिच[भा.४४२९] जइ ता दंडत्थाणं, पावइ बालो वि पयणुए दोसे। हनुदानि अक्खमं ने पमाइउं रक्खाणा सेसे ।। कृ-बालस्यापिगुरुकेप्रायश्चित्तेदतेसतिशेषसाधवश्चिन्तयेयुः-यदि तावदयंबालोऽपि प्रतनुके अनभ्युत्थानमात्रलक्षणेस्वल्पेऽप्यपराधेएवंदण्डस्थानंप्राप्नोति "हनुदाणि"तिततइदानीमस्माकं 'प्रमत्तुम्' अभ्युत्थाने प्रमादं कर्तुम् ‘अक्षमम्' अनुचितमिति शेषसाधुवर्गतत इदानीमस्माकं कृतं भवति ॥ आह-अभ्युत्थानमकुर्वतामात्म-संयमयोस्तावत् काचिदपि विराधना नास्ति ततः किं कारणमेवमेव प्रायश्चित्तं दीयते? उच्यते[भा.४४३०] दिटुंतो दुवक्खरए, अब्मुट्टितेहि जह गुणो पत्तो। तम्हा उडेयव्यो, पाहुणओ गच्छे आयरिओ।। वृ-इह प्राघुणकमाचार्यमनुत्तिष्ठन् भगवतामाज्ञामतिक्रामति।तथाचात्र द्वयक्षरकेण' दासेन दृष्टान्तः- एगो राया, सो केणइ दुअक्खरएणं आराहिओ ।रना से पढ़ें बंधिउं पहाणं रज्जं दिन्नं । तत्थ दंड-भड-भोइयाइणो 'दुअक्खरो'त्ति काउं परिभवेणं तस्स अब्मुट्ठाणाइयं न करेंति, ताहे तेन ते अणब्भुटुंता दंडिया मारिया याजे विनीयाते अब्मुट्ठिति, तेसिंतेन परितुद्वेण रज्जसंविभागो दिन्नो ।। अथार्थोपनयः-यथा तैरभ्युत्तिष्ठद्भिरिहलोके गुणः प्राप्तः तथा साधवोऽपि प्राघुणकमाचार्यमभ्युत्तिष्ठन्त इह परत्र च गुणानासादयन्ति।तस्मात्प्राघुणक आचार्य सकलेनापि गच्छेनाभ्युत्थातव्यः ।।अमुमेव व्यक्षरकदृष्टान्तं व्याख्यानयति[भा.४४३१] आराहितो रज सपट्टबंध, कासी य राया उ दुवक्खरस्स। पसासमाणं तु कुलीयमादी, नाढंति तं तेन य ते विनीया। Page #10 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-९७, [भा. ४४३१] वृ-'आराधितः' केनापि गुणविशेषेण परितोषं प्रापितः सन् राजा व्यक्षरकस्य सपट्टबन्धं राज्यमकार्षीत्, पट्टबन्धनृपतिं तं विहितवानिति भावः । ततस्तं व्यक्षरकराजं राज्यं प्रशासतं 'कुलीनादयो नाद्रियन्ते' 'वयं कुलीनाः, अयं तुहीनकुलोत्नः, आदिशब्दाद् द्वयंप्रधानपुरुषाः, अयंपुनः कर्मकरः' इत्यादिपरिभवबुध्या नाभ्युत्थानादिकमादरंतस्य कुर्वन्ति।ततस्ते तेन राज्ञा 'विनीताः' शिक्षांप्रापिताः, “विनयः शिक्षा-प्रणत्योः" इति वचनात् । कथं शिक्षिताः? इत्याह[भा.४४३२] सव्वस्सं हाऊणं, निजूढा मारिया य विवदंता। भोगेहिं संविभत्ता, अनुकूल अनुव्वणा जे उ॥ वृ-सर्वस्वमपहृत्य ते स्वनगराद् “निजूढा" निष्काशिताः। येचतत्र निष्काश्यमाना विवदन्ते'किमस्माभिरपराद्धम् ? यो यो व्यक्षरो भविष्यति तस्य तस्य किं वयमभ्युत्थानं करिष्यामः?' इत्यादि कलहायन्ते ते विवदमाना मारिताः । ये त तत्र 'अनुकूलाः' अभ्युत्थानादिकारिणः 'अनुल्बणाः' अगर्वितास्ते भोगैः 'संविभक्ताः' राज्यभोगसंविभागस्तेषां कृतः॥ एष दृष्टान्तः, अयमर्थोपनयः[भा.४४३३] अहिराया तित्थयरो, इयरो उ गुरू उ होइ नायव्यो। साहू जहा व दंडिय, पसत्थमपसत्थगा होति ।। वृ-यथा 'अधिराजः' मौलः पृथिवीपति तथा तीर्थकरः । यथा 'इतरः' व्यक्षरकराजः तथा तीर्थकराधिराजेनैवानुज्ञाताचार्यपदपट्टबन्धसहितगणाधिपत्यराज्यः 'गुरु' आचार्योज्ञातव्योभवति। यथा च ते प्रशस्ता-ऽप्रशस्तरूपा दण्डिकास्तथा साधवोऽप्युभयस्वभावा भवन्ति ।। तत्र[भा.४३४] जह ते अनुट्ठिहंता, हियसव्वस्सा उ दुक्खमाभागी। इय नाणे आयरियं, अनुट्ठिहताण वोच्छेदो॥ वृ- यथा ते दण्ड-भट-भोजिकादयो व्यक्षरकनृपतिमनुत्तिष्ठन्तो हृतसर्वस्वा ऐहिकस्य दुःखस्यामागिनः सञाताः 'इति' एवमाचार्यमप्यनुत्तिष्ठतांदुर्विनीतसाधूनां ज्ञाने उपलक्षणत्वाद् दर्शनचारित्रयोश्च व्यवच्छेदो भवति । ततश्चानेकेषां जन्म-जरा-मरणादिदुःखानामाभागिनस्ते सञ्जायन्ते। एषोऽप्रशस्तोपनयः, अथ प्रशस्तोपनयः[भा.४४३५]उट्ठाण-सेज्जा-5ऽसनमाइएहिं, गुरुस्सजे होंति सयाऽनुकूला। नाउं विनीए अह ते गुरू उ, संगिण्हई देइ य तेसि सुत्तं ॥ वृ. उत्थानं-गुरुमागच्छन्तं दृष्ट्वा ऊर्वीभवनम्, शय्या-सम-सुन्दरावकाशे गुरूणां संस्तारकरचनम्, आसनम्-उपवेशनयोग्यनिषद्यादिरचनम्, यद्वा “सेज्जा-ऽऽसणं"ति गुरूणां शय्याया आसनाच्च नीचतरशय्या-ऽऽसनयोराश्रयणम्, आदिशब्दादालिप्रग्रहादिपरिग्रहः । एवमादिभिर्विनयभेदैर्ये शिष्याः सदैव गुरोरनुकूला भवन्ति तान् विनीतान् ज्ञात्वा 'अथ' अनन्तरं गुरु संगृह्णाति’ ‘मयैते सम्यक्पालनीयाः' इत्येवं सङ्ग्रहबुध्या स्वीकरोति सूत्रंचतेषां प्रयच्छति। ततश्च ते इह परत्रच कल्याणपरम्पराभाजनंजायन्ते। अथाप्रशस्तोपनयं विशेषतो भावयन्नाह[भा.४४३६] पज्जाय-जाई-सुततो य वुड्डा, जच्चनिया सीससमिद्धिमंता। कुव्वंतऽवन्नं अह ते गणाओ, निजूहई नो य ददाइ सुत्तं॥ वृ- पर्यायतो ये वृद्धास्ते 'अवमरात्निकोऽयम्' इति बुध्या, जातिमधिकृत्य ये वृद्धाः Page #11 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/९७ षष्टिवर्षजन्मपर्याया इत्यर्थःस्ते 'बालकोऽयम्' इति बुध्या, 'श्रुततश्च' श्रुतमङ्गीकृत्य ये वृद्धास्ते 'अल्पश्रुतोऽयम्' इति कृत्वा, जात्यन्विताः' विशिष्टजातिसम्भूताः 'हीनजात्युद्भवोऽयम्' इति मत्या, 'शिष्यसमृद्धिमन्तः' परिवारसम्पदुपेताः 'अल्पपरिवारोऽयम्' इति बुध्यागुरोः 'अवज्ञाम्' अनभ्युत्थानलक्षणां कुर्वन्ति ।अथैवमवज्ञाकरणानन्तरं गुरुस्तान् स्वगच्छनगराद् नि'हति । ये च बहुपाक्षिकत्वादिभि कारणैर्नियूंहितुंन शक्यन्ते तेषांभोगसंविभागकल्पं सूत्रं श्रुतंनप्रयच्छति। एवं तावत् प्राघुणकमाचार्यमङ्गीकृत्याभ्युत्थाना-ऽनभ्युत्थानयोर्गुण-दोषा उपवर्णिताः । अथ सामान्यतो गच्छमध्यस्थितस्यैवाचार्यस्यानभ्युत्थाने दोषमाह[भा.४४३७] मज्झत्थ पोरिसीए, लेवे पडिलेह आइयण धम्मे। पयल गिलाणे तह उत्तिमट्ठ सव्वेसि उट्ठाणं ।। वृ-आचार्यमागच्छन्तं दृष्ट्वा गच्छसाधवो मध्यस्थास्तिष्ठन्ति न पुनरभ्युत्तिष्ठन्ति पूर्वोक्तमेव प्रायश्चित्तम् । सूत्रा-ऽर्थपौरुषीं लेपप्रदानं प्रतिलेखनां “आइयणं"ति समुद्देशनं धर्मकथां वा विदधानाः प्रचलायमाना वानाभ्युत्तिष्ठन्ति अत्रापि तदेव' वृषभादिविषयं प्रायश्चित्तम् । ग्लानो वा उत्तमार्थप्रतिपत्रो वा शक्तौ सत्यां यदि नोत्तिष्ठति तदा तस्यापि प्रायश्चित्तम् । यत एवमतः सर्वेषामप्यभ्युत्थानं भवति । इदमत्र हृदयम्-आचार्याणामनभ्युत्थाने सूत्रपौरुषीकरणादीनि कदालम्बनानि नालम्बनीयानि, यथा-ममायमालापकोऽर्धपठितो वर्तते, लेपोवापात्रके नाद्यापि परिपूर्णो दत्तः, प्रतिलेखनादिकं वा सम्प्रति कुर्वाणोऽस्मि, ग्लानो वा कृतभक्तप्रत्याख्यानो वा अहमस्मीति; किन्तु सर्वैरपि सूत्राध्ययनादिव्यापारंपरिहृत्याभ्युत्थातव्यम् । एवं तावदुपाश्रये विधिरभिहितः, अथान्यत्र गृहादौ रथ्यादिषु वा यत्र दृश्यते तत्रायं विधिः[भा.४४३८] दूरागयमुद्रुउं, अभिनिग्गंतुं नमंतिणं सव्वे । दंडगहणंच मोत्तुं, दिढे उट्ठाणमन्नत्य ।। वृ-दूराचार्यमागतं दृष्ट्वाअभि-आभिमुख्येन निर्गत्य सर्वेऽपिसाधवः "न"मितिएनमाचार्य 'नमन्ति' शिरसा वन्दन्ते । यदा च गुरव उपाश्रयं प्रविशन्ति तदा दण्डकग्रहणमपि कर्तव्यम् । 'अन्यत्र तु' गृहादौ दृष्टे गुरौ दण्डकग्रहणं मुक्त्वा अभ्युत्थानमेव कर्तव्यम् ॥ एवमभ्युत्थाने के गुणाः ? इत्याह[भा.४४३९] परपक्खे य सपक्खे, होइअगम्मत्तणंच उट्ठाणे । सुयपूयणा थिरत्तं, पभावना निजरा चेव ।। वृ-परपक्षः-परपाषण्डिनः स्वपक्षः-पार्श्वस्थादिवर्गस्तयोः 'अगम्यत्वम्' अनभिभवनीयता गुरोरभ्युत्थाने भवति।तथा गुरवोबहुश्रुताभवन्तीतिश्रुतपूजनमपिकृतस्यात्।अन्येषामभ्युत्थानादौ विनये सीदतां स्थिरत्वमनुष्ठितं भवति । प्रभावनाच शासनस्यैवं कृता भवेत्-अहो! शोभनमिदं प्रवचनं यत्रैवंविधो विनयो विधीयते । निर्जरा च कर्मक्षयरूपा विपुला भवति, विनयस्याभ्यन्तरतपोभेदत्वात्, तस्य च निर्जरानिबन्धनतया सुप्रतीत्वात्॥ आह-यः प्रव्रजितः सर्वपापोरतस्तस्य किं नाम विनयेन कार्यम् ? इति उच्यते[भा.४४४०] अकारणा नत्थिह कज्जसिद्धी, न यानुवाएण वदेति तन्ना। उवायवं कारणसंपउत्तो, कजाणि साहेइ पयत्तवं च ॥ Page #12 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-९७, [भा. ४४४०] वृ-अकारणा कार्यस्य सिद्धिः ‘इह' अस्मिन् जगति नास्ति, यद्यस्य कार्यस्योपादानं कारणं तत् तेन विना न सिध्यतीत्यर्थः, यथा मृत्पिण्डं विना घट इति कारणसद्भावेऽपि 'न च' नैव 'अनुपायेन' उपायाभावेन कार्यं भवतीति 'तज्ज्ञाः' कार्यसिद्धिवेदिनो वदन्ति, यथा मृत्पिण्डसद्भावेऽपि चक्र-चीवरोदकाद्यपायमन्तरेण घटो न सिध्यति । यः पुनरुपायवान् कारणसम्प्रयुक्तः प्रयत्नवांश्च भवति स कार्याणि साधयति, यथा कुम्भकारो मुत्पिण्डमासाद्य चक्रचीवराधुपायसाचिव्यजनितोपष्टम्भः स्वहस्तव्यापारणरूपं प्रयत्नं कुर्वन् घटमिति ॥ आहयद्येवमुपायकारणयुक्तः कार्याणि साधयति ततः प्रस्तुते किमायातम् ? इत्याह[भा.४४४१] धम्मस्स मूलं विनयं वयंति, धम्मो य मूलं खलु सोग्गईए। सा सोग्गई जत्थ अबाहया ऊ, तम्हा निसेव्यो विनयो तदट्ठा ॥ वृ-'धर्मस्य' श्रुत-चारित्ररूपस्य मूलं प्रथममुत्पत्तिकारणं विनयम्' अभ्युत्थानादिरूपंवदन्ति तीर्थकरादय इति गम्यते । स च धर्म ‘खलु' अवधारणे सुगतेः 'मूलं' कारणं मन्तव्यम्, दुर्गतौ प्रपतन्तंप्राणिनं धारयति सुगतौच स्थापयतीतिनिरुक्तिसिद्धत्वात्तस्येतिभावः ।अथसुगतिरिह कीशीगृह्यते? इत्याह-सासुगतिरभिधीयतेयत्र 'अबाधता' क्षुत्पिपासारोग-शोकादीनांशारीरमानसानां बाधानामभावः, सिद्धिरित्यर्थः। यतवंतस्मात् 'तदर्थं' सुगतिनिमत्तं विनयो निषेव्यः। इदमत्र हृदयम्-इह कार्यं तावदव्याबाधसुखलक्षणो मोक्षः, तस्य च कारणं श्रुत-चारित्ररूपः सर्वज्ञभाषितोधर्म, सचगुरोरभ्युत्थान-वन्दनादिविनयलक्षणमुपायमन्तरेण न साधयितुंशक्यते, अतः परम्परया मोक्षकारणमेवायमिति मत्वा तदर्थं विनय आसेवितव्य इति ।। आह-य युक्तं पौरुषी-लेपप्रदानादिकारिणामभ्युत्थानम्, ग्लानोत्तमार्थप्रतिपत्रयोस्तुकिमर्थमभ्युत्थानम्? उच्यते[भा.४४४२] मंगल-सद्धाजननं, विरियायारो न हाविओचेवं। एएहिं कारणेहिं, अतरंत परित्र उट्ठाणं॥ वृ-'अतरन्तः' ग्लानः “परिन्न"त्तिमतप्रत्ययलोपात् 'परिज्ञावान्' अनशनी, एतयोर्गुरूणामभ्युत्थानेमङ्गलं भवति, ततश्च ग्लानस्याचिरादेवप्रागुणीभवनंकृतभक्तप्रत्याख्यानस्यतुनिर्विघ्नमुत्तमार्थसाधनस्यात्।तथा ग्लाने परिज्ञावति वा गुरुमभ्युत्तिष्ठतिशेषाणामप्यभ्युत्थाने श्रद्धाजननं विहितं भवति, यद्येषोऽप्येवं गुरूनभ्युत्तिष्ठति ततोऽस्माभि सुतरामभ्युत्थातव्यम् । अपिच-एवं कुर्वता ग्लानेन परिज्ञावताच वीर्याचारोनहापितोभवति।अत एतैः कारणैरेताभ्यामभ्युत्थातव्यम्। प्रकारान्तरेण प्रायश्चित्तमुपदर्शयन्नाह[भा.४४४३] चंकमणे पासवणे, वीयारे साहु संजई सन्नी। सन्निणि वाइ अमचे, संघे वा रायसहिए वा ।। [भा.४४४] पनगं च भिन्नमासो, मासो लहुगो य होइ गुरुगोय। चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगंच ॥ वृ-इहप्रथमगाथाया द्वितीयगाथायाश्चपदानांयथासङ्खयेन योजना। तद्यथा-आचार्यंचङ्क्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति ‘पञ्चकं' पञ्चरात्रिन्दिवानि प्रायश्चित्तम् । प्रश्रवणभूम्याआगतं नाभ्युत्तिष्ठति भिन्नमासः । “विचारः' संज्ञा तां कृत्वा समागतस्यानभ्युत्थाने मासलघु । अन्यैः साधुभिः समागतस्यानभ्युत्थाने मासगुरु । संयतीभि सार्धमागतस्यानुत्थाने षड्लघु । संज्ञिनः Page #13 -------------------------------------------------------------------------- ________________ १० बृहत्कल्प-छेदसूत्रम् -३-३/९७ श्रावकास्तैः सममायातमनुत्तिष्ठतश्चतुर्गुरु । असंज्ञिभिः सममायातस्यानभ्युत्थाने षड्लघु । संज्ञिनीभिरसंज्ञिनीभिश्च स्त्रीभिः सममायान्तमनभ्युत्तिष्ठतः षड्गुरु । वादिना सार्धमायातेऽनभ्युत्थिते छेदः ।अमात्येन सार्धमागते मूलम् । सङ्घन सार्धमायातेऽनुत्थितेऽनवस्थाप्यम्। राज्ञा सहितं सूरिमागतमनुत्तिष्ठतः पाराञ्चिकम् ।। अथ किमर्थं स्त्रीभिः सममायाते पाराश्चिकम् ॥ अथ किमर्थं स्त्रीभिः सममायाते गुरुतरं प्रायश्चित्तम् ? उच्यते[भा.४४४५] पूएंति पूइयं इत्थियाउ पाएण ताओ लहुसत्ता। एएण कारणेणं, पुरिसेसुंइत्थिया पच्छा॥ वृ-इहस्त्रियःप्रायेण 'पूजितं पूजयन्ति' यमेवाचार्यादिकंसाधु-श्रावकादिभिरभ्युत्थानादिना पूज्यमानं पश्यन्ति तस्यैव पूजां विदधति, ताश्च स्त्रियः प्रायेण ‘लघुसत्त्वाः' तुच्छाशया भवन्ति, ततःसाधुभिरनभ्युत्थीयमानमाचार्यं गाढतरं परिभवबुध्यापश्यन्ति-नकिमप्येषआचार्योजानाति, नचायं विशिष्टगुणवान् सम्भाव्यते, अन्यथा किमेते साधवो नाभ्युत्तिष्ठन्ति? । एवमेतेन कारणेन 'पुरुषेषु साधु-श्रावकादिषुपूर्वंलघुतरप्रायश्चित्तमुक्त्वा पश्चास्त्रियोऽधिकृत्य गुरुतरमुक्तम्। अथ राज्ञा सार्धं समागतस्यानभ्युत्थाने किं कारणं पाराञ्चिकम् ? इत्याह[भा.४४६]पाएणिद्धा एंति महानेन समंतू, फातिं दोसो गच्छइ एएसुतनू वि। गझं वक्कं होज कहं वा परिभूतो, वेडुज्जं वा कुच्छियवेसम्मि मनूसे ।। वृ-'ऋद्धा-' राजादय ऋद्धिमन्तः 'प्रायेण' बाहुल्येन 'महाजनेन' सामन्त-मन्त्रि-महत्तमादीनां महतासमवायेन समं समागच्छन्ति, तत एतेषु 'तनुरपि' स्वल्पोऽप्यनभ्युत्थानमात्रलक्षणो दोषः स्फातिं गच्छति, सर्वत्र विस्तरतीति भावः । अप च-साधुभिरनभ्युत्थीयमान आचार्य परिभूतो भवति, परिभवपदमुपगच्छतीत्यर्थः ।परिभूतस्य च 'वाक्यं वचनं कथं नाम राजादीनां 'ग्राह्यम्' उपादेयं भवेत् ? । वैडर्यमिव रलं 'कुत्सितवेषे' कार्पटिकवेषधारिणि मनुष्ये वर्तमानम्; यथा तदीयेहस्तेस्थितंसद्अनर्थ्यमपितद्न जनस्योपादेयम्, एवंगुरूणामपिधर्मकथावाक्यं गाम्भीर्यमाधुर्यादिगुणैरनध्रयमपि परिभूततया न राजादीनामुपादेयं भवति । तदनुपादेयतायां च तेषां सम्यग्दर्शनादिप्रतिपत्तिरपि न भवति । अतो राज्ञा सार्धं समायातेऽनभ्युत्थीयमाने पाराञ्चिकम् । परः प्राह-युक्तं प्रश्रवणभूम्यादेरागतस्याभ्युत्थानम्, यतुचक्रमणंकुर्वतोऽभ्युत्थानंतद्नास्माकं युक्तिक्षमं प्रतिभाति, यतः[भा.४४४७] अवस्सकिरियाजोगे, वर्सेतो साहु पुज्जया। परिफग्गुंतु पासामो, चंकम्मंते वि उट्ठणं॥ वृ-विचार-विहारादिको योऽवश्यं कर्त्तव्यः क्रियायोगस्तत्र वर्तमानो यदा समागच्छति तदा 'साध्वी' श्रेयसीतस्य पूज्यता। यदातुचङ्कमणंकरोति तदा निरर्थके योगेवर्तते अतश्रचङ्कमत्यपि गुरौ यद् उत्थानं तत् 'परिफल्गु' निष्फलमेवपश्यामः । यत उक्तं भगवत्याम्-जावंचनं से जीवे सयासमियं एयइ० तावं च नं से जीवे आरंभे वट्टइ संरंभे वट्टइ० । जावं च नं से जीवे आरंभे वट्टइ० तावं च नं तसस जीवस्स अंतकिरिया न भवइ ।। अत्र सूरिः प्रतिविधानमाह[भा.४४४८] कामंतु एअमाणो, आरंभाईसु वट्टई जीवो। सो उ अणट्ठा नेट्ठो, अविबाहूणं पि उक्खेवो। Page #14 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-९७, [भा. ४४४८] वृ-'कामम्' अनुमतमिदं यद्एष जीवः ‘एजमानः' स्पन्धमानः ‘आरम्भादिषु' कर्मबन्धकारणेषु वर्तते, ‘स तु' स पुनः परिस्पन्द 'अनर्थं' निष्कारणं 'नेष्टः' नाभिमतः अपि 'बाहोरुत्क्षेपः' बाहूत्क्षेपमात्रोऽपि, किं पुनश्रचङ्क्रमणादिरित्यपिशब्दार्थः, अर्थादापत्रम्-यः सार्थकश्चक्रमणादिव्यापारः स इष्ट एवेति ।। अथ सार्थकोऽपि व्यापारः कथमिष्टः ? इत्यस्यां जिज्ञासायां यथा योगत्रयेऽपि व्यापार्यमाणे दोषा यथा च गुणा भवन्ति तदेतत् प्रतिपादयति[भा.४४४९] मनो य वाया काओ अ, तिविहो जोगसंगहो। ते अजुत्तस्स दोसाय, जुत्तस्स उगुणावहा॥ वृ- मनोयोगो वाग्योगः काययोगश्चेति त्रिविधो योगसङ्गहो भवति, सङ्क्षपतस्त्रिधा योगो भवतीत्यर्थः । ते च' मनो-वाक्-काययोगाः ‘अयुक्तस्य' अनुपयुक्तस्य ‘दोषाय' कर्मबन्धाय भवन्ति, युक्तस्य तु त एव 'गुणावहाः' कर्मनिर्जराकारिणः सम्पद्यन्ते ॥ इदमेव भावयति[भा.४५०] जह गुत्तस्सिरियाई, न होंति दोसा तहेव समियस्स। गुत्तीट्ठिय प्पमायं, रुंभइ समिई सचेट्ठस्स ॥ वृ यथा किल मनो-वाक्-कायगुप्तस्य ईर्यादिप्रत्यया अनुपयुक्तगमना-ऽऽगमनादिक्रियासमुत्थादोषान भवन्ति तथैव ‘समितस्यापि चङ्क्रमणं कुर्वत ईर्यादिप्रत्यया दोषा न भवन्त्येव । किं कारणम् ? इत्याह-यदा किल गुप्तिषु-मनोगुप्तयादिषु स्थितो भवति तदा योऽगुप्तिप्रत्ययः प्रमादस्तं निरुणद्धि, तन्निरोधाच्च तत्प्रत्ययं कर्मापिन बध्नाति । यस्तु समिती स्थितः ससचेष्टस्य यःप्रमादो यश्च तत्प्रत्ययः कर्मबन्दस्तयोनिरोधं विदधाति॥परः प्राह-यो गुप्तः स समितो भवति उतन? इति यो वा समितः स गुप्तो भवति उत न? इति अत्रोच्यते[भा.४४५१] समितो नियमा गुत्तो, गुत्तो समियत्तणम्मि भइअव्वो। कुसलवइमुदीरंतो, जं वइसमितो विगुत्तो वि॥ वृ-इह समितयः प्रवीचाररूपा इष्यन्ते, गुप्तयस्तु प्रवीचारा-ऽप्रवीचारोभयरूपाः। प्रवीचारो नाम-कायिको वाचिको वा व्यापारः। ततो यः समितः' सम्यग्गमन-भाषणादिचेष्टायां प्रवृत्तःस नियमाद् 'गुप्तः' गुप्तियुक्तो मन्तव्यः, यस्तु गुप्तः स समितत्वे 'भक्तव्यः' विकल्पनीयः । तत्र समितः कथं नियमाद् गुप्तः? इत्याह-'कुशलां' निरवद्यादिगुणोपेतां वाचमुदीरयन् 'यद्' यस्माद् वाक्समितोऽपि गुप्तोऽपि । किमुक्तं भवति?-यः समयगनुविचिन्त्य निरवद्यां भाषां भाषते स भाषासमितोऽपि वाग्गुप्तोऽपि वाग्गुप्तोऽपि च भवति, गुप्तेः प्रवीचाररूपतयाऽप्यभिधानात्। अतः समितो नियमाद् गुप्त इति । गुप्तः समितत्वे कथं भजनीयः? इत्याह[भा.४५२] जो पुन काय-वतीओ, निरुज्झ कुसलं मणं उदीरेइ। चिट्ठइ एकग्गमणो, सो खलु गुत्तो न समितो उ॥ वृ- यः पुनः काय-वाचौ निरुध्य 'कुशलं' शुभं मन उदीरयन् एकाग्रमना धर्मध्यानाधुपयुक्तचित्तस्तिष्ठति स खलु गुप्त उच्यते, न समितः, समितेः प्रवीचाररूपत्वात् । यस्तु कायवाचौसम्यक्प्रयुक्तेस गुप्तोऽपि समितोऽपिमन्तव्यः ॥अथ समिति-गुप्तीनांपरमवतारंदर्शयन्नाह[भा.४४५३] वाइगसमिई बिइया, तइया पुन मानसा भवे समिई। सेसा उ काइयाओ, मनो उ सव्वासु अविरुद्धो॥ Page #15 -------------------------------------------------------------------------- ________________ १२ बृहत्कल्प-छेदसूत्रम् -३-३/९७ वृ-'वाचिकसमिति म' भाषासमिति सा द्वितीया वाग्गुप्तिमन्तव्या । यदा किल भाषासमितो भवति तदाथा भाषाया असमितिप्रत्ययं सा द्वितीया वाग्गुप्तिमन्तव्या । यदा किल भाषासमितो भवति तदा यथा भाषायाअसमितिप्रत्ययं कर्मबन्धं निरुणद्धि तथा वागगुप्तिप्रत्ययमपिकर्मबन्धं निरुणद्धि, एवं भाषासमिति-वाग्गुप्तयोरेकत्वम् । 'तृतीया पुनः' एषणाख्या समिति 'मानसी' मानसिकोपयोगनिष्पन्ना । किमुक्तं भवति ?-यदा साधुरेषणासमितो भवति तदा श्रोत्रादिभिरिन्द्रियैर्हस्त-मात्रकधावनादिसमुत्थेषु शब्दादिषूपयुज्यते, अत एवास्या मनोगुप्तेश्चैकत्वम्। 'शेषास्तुसमितयः' ईर्या-ऽऽदाननिक्षेपोच्चारादिपारिष्ठापनिकाख्याः 'कायिक्यः' कायचेष्टानिष्पन्ना, अत एवासां तिसृणामपि कायगुप्तया सहैकत्वम्। __ "मणो उसव्वासुअविरुद्धो"त्तिमानसिक उपयोगः सर्वासु पञ्चस्वपिसमितिषु 'अविरुद्धः' समितिपञ्चकेऽप्यस्तीति भावः । अत एव मनोगुप्तस्य सचेष्टस्य सर्वासां समितीनां मनोगुप्तया सहैकत्वं मन्तव्यम् ॥ आह-भिक्षार्थं गृहद्वारे स्थितस्य तत्राहारादीनि कल्पनीयानि मार्गयतः श्रोत्रादिभिरुपयुक्तस्य भाषासमिति-मनोगुप्तयेषणासमितीनां तिसृणामपि सम्भवो दृश्यते अतः किमासामेकत्वम् उतान्यत्वम् ? इत्याशङ्कयाह[भा.४४५४] वयसमितो चिय जायइ, आहारादीणि कप्पणिज्जाणि। एसणउवओगे पुन, सोयाई माणसा न वई॥ .. वृ- 'शङ्कित-मक्षितादिदशदोषरहितं मया ग्राह्यम्' इत्येषणासमितिभावसंयुक्तो यदा साधुराहारादीनि कल्पनीयानि मार्गयति तदा वाक्समित एवासौ जायते, न पुनर्मनोगुप्त इत्येवकारार्थः। यदातुश्रोत्रादिभिरेषणायामुपयोगकरोतितदामानसी नाम गुप्तिर्भवेत्, मनोगुप्तिरित्यर्थः, नपुनः ‘वाग्' भाषासमिति । इदमत्र तात्पर्यम्-भाषासमितिमनोगुप्तिश्चेतिद्वे समिति-गुप्ती युगपत्र भवतः किन्तु भिन्नकालम्, यद्यपिच "मनोयसव्वत्थ अविरुद्धो" ति वचनाद्भाषासमितावपि मानसिकोपयोगः समस्ति तथापि गौणत्वादसौ सन्नपिन विवक्ष्यत इति ॥अपि च[भा.४५५] जा विय ठियस्स चेट्ठा, हत्थादीणंतु भंगियाईसु। सावि य इरियासमिती, न केवलं चंकमंतस्स ॥ वृ-न केवलं चक्रमतः' चङ्क्रमणेकुर्वतएवईर्यासमिति किन्तु स्थितस्य गमना-ऽऽगमनक्रियामकुर्वतः ‘भङ्गिकादिषु' भङ्गबहुल-गमबहुलादिश्रुतेषु परावर्तयमानेषु भङ्गकादिरचनाय याऽपि हस्तादीनांचेष्टा साऽपि परिस्पन्दरूपत्वादीर्यासमिति प्रतिपत्तव्या॥यच्च परेण प्रागुक्तम् “चङ्क्रमणं निरर्थकम्" इत्यादि तत्परिहाराय चङ्क्रमणगुणानुपदर्शयति[भा.४४५६] वायाई सट्ठाणं, वयंति कुविया उ सन्निरोहेणं । लाघवमग्गिपडुत्तं, परिस्समजतो य चंकमतो॥ कृ-अनुयोगदानादिनिमित्तंयश्चिरमेकस्थानोपवेशनलक्षणःसन्निरोधस्तेन 'कुपिताः स्वस्थानात् चलितायेवातादयो धातवस्तेचक्रमतो भूयः स्वस्थानं व्रजन्ति। लाघवं शरीरेलधुभावउपजायते। 'अग्निपटुत्वं' जाठरानलपाटवं च भवति । यश्च व्याख्यानादिजनितः परिश्रमस्तस्य जयः कृतो भवति । एते चङ्क्रमतो गुणा भवन्ति अतोन निरर्थकं चङ्क्रमणम् ।।आह-यद्येवंतत किमवश्यं तत्राभ्युत्थानं कर्तव्यम् उतन? इति अत्रोच्यते ww Page #16 -------------------------------------------------------------------------- ________________ १३ उद्देशकः ३, मूलं-९७, [भा. ४४५७] [भा.४४५७] चंकमणे पुन भइयं, मा पलिमंथो गुरूविदिन्नम्मि। पणिवायवंदनं पुन, काऊण सई जहाजोगं । वृ- पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-प्रश्रवण-विचारभूम्यादेरागतस्य गुरोः कर्त्तव्यमेवाभ्युत्थानम्, चक्रमणे पुनः भक्तं' विकल्पितम् । कथम् ? इति अत आह-मा सूत्राऽर्थपरावर्तनयोः ‘परिमन्थः' व्याघातो भवत्विति कृत्वा यदि गुरवोऽनभ्युत्थानं वितरन्ति तदानाभ्युत्थातव्यम्, परमेवंगुरुभिर्वितीर्णेसति सकृद्' एकवारमभ्युत्थानंविधाय 'प्रणिपातवन्दनं' शिरःप्रणामलक्षमं कृत्वा ‘भगवन् ! अनुजानीध्वम्' इति भणित्वा 'यथायोगं' यथेप्सितं सूत्रार्थगुणनादिकंव्यापारं कुर्यात् । अथ गुरवोन वारयन्ति ततो नियमादभ्युत्थातव्यम्॥पुनरपि परः प्रेरयति-यदि चङ्क्रमणा-ऽभ्युत्थाने सूत्रार्थपरिमन्थदोषो भवति तत इदमस्माभिरुच्यते[भा.४४५८] अइमुद्धमिदं वुच्चइ, जं चंकमणे वि होइ उट्ठाणं । एवमकारिजंता, भद्दगभोई व मा कुजा। वृ- ‘अतिमुग्धम्' अतीवाप्रबुद्धजनोचितमिदं भवद्भिरुच्यते-यत् चङ्क्रमणेऽप्यभ्युत्थानं कर्त्तव्यं भवति । सूरिराह-एवं चङ्क्रमणविषयमभ्युत्थानमकार्यमाणा भद्रकभोजिकस्येवप्रसङ्गतो माशेषमप्यविनयंकापुरिति कृत्वा चङ्क्रमणेऽप्यभ्युत्थानं कार्यन्ते।अथकोऽयंभद्रकभोजिकः? इति उच्यते-जहा-एगो भोइतो। तस्स रन्ना तुटेणं गामंडलं पसाएण दिन्न । सो तत्थ गतो ताहे ते गामिल्लगातुट्ठा ‘भद्दओसामीलद्धोति, ऋजुरित्यर्थः। तओतेभोइयं विनवेति-अम्हेतवपुत्तानुपुत्तियं भिचा जाया तो अम्हे 'चिंतणिज्ज'त्ति काउं करं पुवपरिमाणाओ थोवतरं करेहि । भोइएण अब्भुवगयं । अन्नया जंजंते विन्नति तं तं सो भद्दतो भोइतो तेसिं गामिल्लयाणं अनुग्गहं करेइ। अइवीसत्थत्तणेण लद्धपसरा तेजहारिहं विनयं भंसिउमाढत्ता। ततो भोइएणरुटेण ते गामिल्लया दंडिया, केइ उद्दविया । एस दिटुंतो । अयमत्थोवणओ-चंकमणअणब्भुट्ठाणे सेसं पि विनयं परिहविजा ततो रुट्ठो आयरिओ पच्छित्तदंडेण दंडिज्जा ।जे यतत्थ अच्चंतावराहिणोते गच्छाओ निच्छुभिज्जा । विनयमकारिजंता य ते इहलोए परलोए य परिचत्ता भवंति । आयरिओ य सरणमुवगयाणंतेसिंन सारक्खणकारी भवइअओचंकमणे विते अब्भुट्ठाणं कारिजंति॥अपि [भा.४४५९] वसभाण होति लहुगा, असारणे सारणे अपच्छित्ता। ते वियपुरिसा दुविहा, पंजरभग्गा अभिमुहा य॥ वृ-ये ते गुरुचङ्क्रमणादिषु नाभ्युत्तिष्ठन्ति तान् यदि वृषभाः 'न सारयन्ति' 'कस्मादार्या ! नाभ्युत्तिष्ठथ ?' ततो वृषभाणां चतुर्लघवः । अथ वृषभैः प्रतिनोदिताः परं ते न प्रतिशृण्वन्ति ततः सारणे कृते सति वृषभा अप्रायश्चित्ता इतरे प्रायश्चित्तमापद्यन्ते । अनभ्युत्थाने असारणायां चामी दोषा भवन्ति-ये प्रतीच्छका उपसम्प्रत्प्रतिपत्त्यर्थमायातास्ते द्विविधाः पुरुषा भवन्तिपञ्जरभग्नाः संयमाभिमुखाश्च । तत्र गच्छे वसतां यद् आचार्योपाध्याय-प्रवर्तक-स्थविरगणावच्छेदिकाख्यपदस्थपञ्चकस्य पारतन्त्रयं या परस्परंप्रतिनोदना एतत् पञ्जरमुच्यते, एतस्मात् पञ्जराद् भग्नाः-निर्विनाः पञ्जरभग्नाः । संयमाभिमुखास्तु-पार्श्वस्थाद्यवमग्नविहारिगच्छात् चारित्राभिलाषिणः संविग्नगच्छं प्रवेष्टुकामाः । तत्र ये पञ्जरभग्ना आगतास्ते तामनभ्युत्थानविषयामप्रतिनोदनां दृष्ट्वा चिन्तयन्ति Page #17 -------------------------------------------------------------------------- ________________ १४ बृहत्कल्प-छेदसूत्रम् -३-३/९७ [भा. ४४६० ] भगह की अब्भुणेण देइ य अनुट्ठणे सोही । अनिरोहसुहो वासो, होहिइ ने इत्थ अच्छामो ॥ वृ- अस्माकं पूर्वस्मिन् गच्छे वसतामाचार्यस्य चङ्क्रमणादिषु वारंवारमभ्युत्थानेन कटी भग्ना, अथासौ नाभ्युत्थीयते ततः 'शोधिं' प्रायश्चित्तं प्रयच्छति गाढं च खर- परुषैः खरण्टयति, अस्मिस्तु गच्छे न प्रायश्चित्तं न च खरण्टना, तोऽनिरोधः - अनियन्त्रणा तेन सुखः सुखदायी वासोऽत्र “ने” अस्माकं भविष्यति, तिष्ठामो वयमत्रेति कृत्वा तत्रैव तिष्ठेयुः, न भूयः स्वगच्छं गच्छेयुः ॥ [भा. ४४६१] जे पुन उज्जयचरणा, पंजरभग्गो न रोयए ते उ । अन्नत्थ विसरत्तं, न लब्भई एति तत्थेव ॥ वृ- ये पुनः उद्यतचरणाः' स्वल्पेऽप्यनभ्युत्थानादावपराधे सम्यक् प्रतिनोदनाकारिणस्तान् पञ्जरभग्नः 'न रोचयति' न रुचिपथं प्रापयति, चिन्तयति च - 'अन्यत्रापि' गच्छान्तरे 'स्वैरित्वं' स्वातन्त्र्यं न लभ्यते इति विचिन्त्य 'तत्रैव' स्वगच्छे 'एति' समागच्छति ॥ अथ संयमाभिमुखोऽसौ समागतस्ततः किम् ? इत्याह [भा. ४४६२ ] चरणोदासीणे पुन, जो विप्पजहाय आगतो समणो । सो तेसु पविसमाणो, सद्धं बहेइ उभओ वि ॥ वृन्यः पुनः श्रमणः 'चरणोदासीनान्' पार्श्वस्थादीन् सुखशीलविहारिणो विप्रहाय संयमाभिमुखः समागतः सः 'तेषु' गच्छान्तरीयेषु साधुषु प्रविशन् उभयेषामपि साधूनां श्रद्धां वर्धयति । तथाहियत्र गच्छेऽसौ प्रविशति तदीयाः साधवश्चिन्तयन्ति - एषः 'सुन्दरा अमी' इति परिभाव्यास्माकं मध्ये प्रविशति अतः सुन्दरतरं कुर्महे । यस्मादपि गच्छादायातस्तदीया अपि चिन्तयन्ति - अस्मान् 'सुखशीलान्' इति विज्ञायैष गच्छान्तरं गच्छति अतो वयमुद्यता भवाम इति ॥ अथासौ संयमाभिमुखस्तत्रापि सामाचारीहापनं प्रतिनोदनाया अभावं च पश्यति ततश्चिन्तयति [भा. ४४६३] इत्थ वि मेराहानी, एते वि हु सार-वारणामुक्का । अन्ने वयइ अभिमूहो, तप्पच्चयनिञ्जराहानी ॥ वृ- अत्रापि गच्छे न केवलं पूर्वस्मिन् इत्यपिशब्दार्थ, मर्यादायाः-अभ्युत्थानादिसामाचार्या हानिरवलोक्यते, 'एतेऽपि च ' साधवः स्मारणा- वारणामुक्ताः परिस्फुटं प्राक्तनगच्छसाधव इव निरर्गलाः समीक्ष्यन्ते, अतः को नामामीषां समीपे स्थास्यति ? इति मत्वा स संयमाभिमुखः साधुः 'अन्यान्' गच्छान्तरीयान् साधून् 'व्रजति' प्रविशति । प्रविशतु नाम गच्छान्तरं का नो हानि ? इति चेद् अत आह- 'तप्रत्यया' तस्य साधोः संयमानुपालनोपष्टम्भकरणहेतुका या निर्जरा तस्या हानि प्राप्नोति सा न भवतीत्यर्थः । आह किं कारणमसौ तेषु न प्रविशति ? इत्याह[भा. ४४६४ ] जहि नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि । सो उ अगच्छ गच्छो, संजमकामीण मोत्तव्वो ॥ वृ-विस्मृते कचित् कर्त्तव्ये 'भवतेदं न कृतम्' इत्येवंरूपा स्मारणा सारणा, अकर्त्तव्यनिषेधो वारणा, उपलक्षणत्वाद् अन्यथा कर्त्तव्यमनाभोगादिना अन्यथा कुर्वतः सम्यक्प्रवर्त्तना प्रेरणा, निवारितस्यापि पुनः पुनः प्रवर्त्तमानस्य खर- परुषोक्तिभि शिक्षणं प्रतिनोदना । एताः सारणादयो यत्र गच्छे न सन्ति स गच्छो गच्छकार्याकरणादगच्छो मन्तव्यः, अत व 'संयमकामिना' Page #18 -------------------------------------------------------------------------- ________________ उद्देशकः ३, मूलं-९७, [भा. ४४६४] संयमाभिमुखेन साधुना मोक्तव्योऽसौ, नाश्रयणीय इति भावः । गाथायां प्राकृतत्वाद् इकारस्य दीर्घत्वम् ।। प्रकारान्तरेण प्रायश्चित्तमभिधित्सुः प्रस्तावनामाह[भा.४४६५] अयमपरो उ विकप्पो, पुव्वावरवाहय त्ति ते बुद्धी। लोए वि अनेगविहं, ननु भेसज मो रुजोवसमे॥ वृ-'अयम्' अग्रेतनगाथायां वक्ष्यमाणोऽपरः प्रायश्चित्तस्य 'विकल्पः' प्रकारः । अत्र परः प्राह-'पूर्वापरव्याहतमिदं' पूर्वमन्याशं प्रायश्चित्तमुक्त्वा यदिदानीमन्याशमभिधीयते तदेतत् पूर्वापरविरुद्धम् इति 'ते' तवबुद्धि स्यात् तत्रोच्यते-ननुलोकेऽपिरुजोपशमे विधातव्येतथाविधे त्रिफला-त्रिकटुकादिभेदादनेकविधं भेषजं “मो" इति पादपूरणे प्रयुज्यमानं दृष्टमेव, एवमत्राप्येकस्यैवानभ्युत्थानस्य तथातथाक्षेत्र-महाजनादिभेदेनानेकविधंप्रायश्चित्तमभिधीयमानं न विरुध्यते ।। इत्थं पराभिप्रायं परिहत्य प्रायश्चित्तमाह[भा.४६६] वीयार-साहु-संजइ-निगम-घडा-राय-संघ-सहिते तु। लहुगो लहुगा गुरुगा, छम्मासा छेद मूल दुगं॥ कृ-आचार्यविचारभूमेरागतंनाभ्युत्तिष्ठन्तिमासलघु, साधुभिसममायामनभ्युत्तिष्ठतांचतुर्लघवः, संयतीभिः समं चतुर्गुरवः, निगमैः-पौरवणिग्विशेषैः षड्लघवः, घटया-महत्तरा-ऽनुमहत्तरादिगोष्ठीपुरुषसमवायलक्षणया समं छेदः, सङ्घन समं मूलम्, राज्ञा सममनवस्थाप्यम्, “सहिए तु"त्ति सङ्कसहितेन राज्ञा सममायातमनभ्युत्तिष्ठतां पाराञ्चिकम् ॥ गतमभ्युत्थानम् । अथ वन्दनकमभिधित्सुराह[भा.४६७] देसिय राइय पक्खिय, चाउम्मासे तहेव वरिसे य । लहुगुरु लहुगा गुरुगा, वंदनए जानि य पदाणि ॥ वृ-दैवसिके रात्रिकेवा आवश्यके वन्दनकंन ददतिमासलघु। पाक्षिके वन्दनकंन प्रयच्छन्ति मासगुरु । चातुर्मासिके वन्दनकमददतां चतुर्लघु । सांवत्सरिके वन्दनकादाने चतुर्गुरु । चशब्दाद् विपरीतं न्यूनाधिकं च कुर्वतां लघुमासः । यानि च वन्दनके व्यवनत-यथाजातादीनि पदानि तेषामप्यकरणेऽसामाचारीनिष्पन्नं मासलघु ॥अथैतदेव प्रायश्चित्तं विशेषयन्नाह[भा.४६८] आयरियाइचउण्हं, तव-कालविसेसियं भवे एयं । अहवा पडिलोमेयं, तव-कालविसेसओ होइ॥ वृ-आचार्यादीनां चतुर्णामपि 'एतद्' अनन्तरोक्तं प्रायश्चित्तं तपः-कालविशेषितं भवतितत्राचार्यस्य द्वाभ्यामपि तपः-कालाभ्यां गुरुकम्, वृषभस्य तपोगुरुकम्, भिक्षोः कालगुरुकम्, क्षुल्लकस्यतपसा कालेन च लघुकम् । अथवा तपः-कालविशेषत एतदेव 'प्रतलोम पश्चानुपूर्व्या वक्तव्यम्-आचार्यस्य द्वाभ्यामपि लघुकम्, वृषभस्य कालगुरुकम्, भिक्षोस्तपोगुरुकम्, क्षुल्लकस्य द्वाभ्यामपि गुरुकम् ॥अथ “देसिय-राइय"त्ति पदद्वयं विशेषतो भावयति[भा.४६९] दुगसत्तगकिइकम्मस्स अकरणे होइ मासियं लहुगं। आवासगविवरीए, ऊणऽहिए चेव लहुओ उ॥ वृ"दुगसत्तग"त्तिद्वेसप्तके चतुर्दश भवन्तीति कृत्वापूर्वाह्ना-ऽपरालयोश्चतुर्दशवन्दनकानि भवन्ति। कथम्? इति चेद्उच्यते-इह रात्रिप्रतिक्रमणेचत्वारि वन्दनकानि-तत्रैकमालोचनायाम्, Page #19 -------------------------------------------------------------------------- ________________ १६ बृहत्कल्प-छेदसूत्रम् - ३-३/९७ द्वितीयं त्रामणके, तृतीयं षाण्मासिकतपश्चिन्तनकायोत्सर्गार्थम्, चतुर्थं प्रत्याख्यानग्रहणार्थमिति । तथा स्वाध्याये त्रीणि वन्दनकानि, तत्र च वृद्धसम्प्रदायः- सज्झाए वंदित्ता पट्ठवेइ, एयं पढमं । पवेयंतस्स बिइयं, पच्छा उद्दिनं समुद्दिनं पढइ, उद्देस समुद्देसवंदनाणमिहेवंतब्भावो । तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइ न पढिउकामो तो वंदइ, अह पढिउकामो ताहे अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउं पडिक्कमइ, एयं तइयं । एवं पूर्वाह्णे सप्त वन्दनानि अपराह्येऽप्येवमेव सप्त भवन्ति तत्र चत्वारि दैवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावादिति सर्घसङ्ख्यया चतुर्दशवन्दनकानि भवन्ति । एतच्चाभक्तार्थिकभङ्गीकृत्योक्तम् । यस्तु भक्तार्थिकस्तस्य भोजनान्तरभाविप्रत्याख्यानवन्दनकसहितानि पञ्चदश भवन्तीति । एतेषां मध्यादेकतरस्यापि कृतिकर्मणोऽकरणे मासिकं लघुकं प्रायिश्चित्तं भवति । तथा आवश्यं कुर्वन् विपरीतमालापकोच्चारणं करोति, तद्यथादैवसिके आवश्यके 'क्षामयामि क्षमाश्रमण ! रात्रिकं व्यतिक्रमम्' इत्युञ्चरति, रात्रिके वा दैवसिकाभिलापं करोति, एवं पाक्षिकः चातुर्मासिक-सांवत्सरिकेष्वपि प्रतिक्रमणेषु वक्तव्यम्, अत्र सर्वत्राप्यसामाचारीनिष्पन्नं मासलघु । “ऊणऽहिए चेव"त्ति ऊनानि वा एकद्व्यादिभिर्वन्दकैर्हीनानि अधिकानि। वा यथोक्तप्रमाणादतिरिक्तानि दैवसिकादिप्रतिक्रमणेषु वन्दनकानि प्रयच्छतो मासलघु ॥ अथ “वंदनए जानि य पयानि" त्ति पदेन यानि द्व्यवतादीनि पञ्चविंशतिवन्दनकस्यावश्यकपदानि सूचितानि तानि दर्शयति [भा. ४४७० ] दुओणयं अहाजायं, किइकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ वृ- अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनम्, द्वे अवनते यस्मिन् तद् द्व्यवनतम् एकं यदा प्रथममेव " इच्छामि खमासमणो ! वंदिउं जावणिजाए निसीहियाए" इत्यभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनरेवमेव द्वितीयप्रवेशे इति २ । 'यथाजातं नाम' यथा प्रमतो जननीजठरान्निर्गतो यथा च श्रमणो जातस्तथैव वन्दनकं दातव्यम् - तत्र रजोहरणमुखवस्त्रिकाचोलपट्टकमातच्या श्रमणः सञ्जातः, रचितकरसम्पुटस्तु योन्या विनिर्गतः, एवम्भूत एव वन्दनकं दत्ते ३ | 'कृतिकर्म' वंन्दनकं "बारसावयं' ति द्वादशावर्त्त भवति-इह प्रथमतः प्रविष्टस्य "अहो कायं, काय, जत्ता भे, जवणि जंच भे" इति सूत्राभिधानगर्भा गुरुचरणन्यस्तहस्तशिरःस्थापनरूपाः षडावर्त्ता भवन्ति, अवग्रहान्निर्गत्य पुनः प्रविष्टस्याप्येवमेव षडिति द्वादशावर्तवन्दनकमुच्यते १५ । चत्वारि शिरांसि उपचारात् शिरोऽवनमनानि यस्मिन् तत् चतुः शिरः -तत्र संफासनमने एगं, खामणानमणे सीसस्स बीयं, एवं बीयपवेसे वि दोन्नि त्ति १९ । तथा त्रयः -मनो- वाक्- काययोगा गुप्ताः- सुप्रणिहिता यस्मिन् तत् त्रिगुप्तम्, इयमत्र भावना-मनसा सम्यक्प्रणिहितो वाचा अस्खलितानि सूत्रपदानि विकथादिनिरोधेनोच्चारयन कायेनावर्त्तान् सम्यक् प्रयुआनो वन्दनं ददाति २२ । द्वौ प्रवेश गुरोरवग्रहादावश्यिक्या निर्गच्छतो यत्र तद् एकनिष्क्रमणम् २५ । एतेषां पञ्चविंशतेरावश्यकानामकरणे प्रत्येकं मासलघु प्रायश्चित्तम् । अथवा “वन्दनके यानि पदानि" इत्यत्र अनाध्तादीनि द्वात्रिंशत्सङ्ख्याकानि दोषपदानि मन्तव्यानि ।। तानि चामूनि[भा. ४४७१] अनाढियं च थद्धं च पविद्धं परिपिंडियं । Page #20 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- ९७, [भा. ४४७१] टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥ वृ- अनाध्तं च स्तब्धं च प्रवृद्धं परिपिण्डितं टोलगति अङ्कुशं चैव तथा कच्छपरिङ्गितमिति प्रथमगाथायां सप्त दोषा- ॥ [भा. ४४७२] मच्छुव्वत्तं मनसा, य पउट्टं तह य वेइयाबद्धं । भयसा चैव भयंतं, मित्ती - गारव - कारणा ।। वृ-मत्स्योद्धृतं मनसा प्रद्विष्टं तथा च वेदिकाबद्धं “ भयसा चैव "त्ति भयेनैव "भयंतं” ति भजतो वन्दनमपि भजेत् तथा मैत्रीं गौरवं कारणं चाश्रित्य वन्दनकमिति द्वितीयगाथायामष्टौ दोषाः ॥ [भा. ४४७३] नियं पडिनियं चेव, रुवं तजियमेव य । सढंच हीलियं चेव, तहा विप्पलिउंचियं ॥ वृ- स्तैन्येन-चौर्येण कृतं वन्दनमपि स्तैन्यं प्रत्यनीकवन्दनं रुष्टवन्दनं तर्जयन् वन्दत इति तर्जितवन्दनं शठवन्दनं हीलितवन्दनं तथा विपरिकुञ्चितमिति तृतीयगाथायां सप्त दोषाः ॥ दिट्ठमदिट्ठे च तहा, सिंगं च कर मोअणं । [भा. ४४७४] आलिट्ठमनालिट्ठे, ऊनं उत्तरचूलियं ॥ वृष्टादृष्टं तथा शृङ्गं करो मोचनम आश्लिष्टा ऽनाश्लिष्टं न्यून उत्तरचूलिकमिति चतुर्थगाथायां सप्त दोषाः ॥ [भा. ४४७५ ] १७ मूयं च ढड्ढरं चेव, चुडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्पं पउंजए । वृ- मूक ढड्डरं चुडलिकम् 'अपश्चिमं' पर्यन्तवर्ति इति पञ्चमगाथार्थे त्रयो दोषाः । एवं द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म प्रयुञ्जीत साधुरिति दोषनामोत्कीर्त्तनायां पञ्च गाथाः ॥ इदानीमेतानेव यथाक्रमं व्याचष्टे [भा. ४४७६ ] आयरकरणं आढा, तव्विवरीयं अनाढियं होइ । दव्वे भावे थद्धो, चउभंगो दव्वतो भइतो ॥ वृ- आदरः- सम्भ्रमस्तत्करणमाध्तता सा यत्र न भवति तदनाध्तमुच्यते । द्वितीयं दोषमाहस्तब्धस्तावद् द्रव्यतो भावतश्च भवति । अत्र चतुर्भङ्गिका, तद्यथा द्रव्यतः स्तब्धो न भावतः १ भावतः स्तब्धो न द्रव्यतः २ अपरो द्रव्यतो भावतश्च ३ अन्यस्तु न द्रव्यतो नापि भावतः ४ इति । अत्र चरमो भङ्गः शुद्धः । शेषभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु 'भक्तः' विकल्पितः, उदर-पृष्ठ शूल्यव्यथादिबाधितोऽवनामं कर्तुमशक्तः कारणिकः स्यादपि स्तब्धो न तु निष्कारणिक इति भावः ।। तृतीयं दोषमाह [भा. ४४७७] पविद्धमनुवयारं, जं अप्पितो न जंतितो होति । जत्थ व तत्थ व उज्झति, कतकिच्चो वक्खरं चैव ॥ 20 2 वृ- प्रवृद्धं नाम यद् उपचाररहितम् । एतदेव व्याचष्टे यद् वन्दनकं गुरुभ्यः 'अर्पयन्' ददद् न यन्त्रितो भवति । अयन्त्रितत्वेन यत्र तत्र वा स्थने प्रथमप्रवेशादिलक्षणे असमाप्तमपि वन्दनकमुज्झति । Page #21 -------------------------------------------------------------------------- ________________ १८ बृहत्कल्प-छेदसूत्रम् -३-३/९७ क इव यथा किमुज्झति? इत्याह-“कयकिच्चो वक्खरंचेव"त्ति, एतदुक्तं भवति-यथा केनचिद् भाटिकेन कुतश्चिद् नगराद् नगरान्तरे 'वक्खरं' भाण्डमुपनीतम् । वक्खरस्वामिना च भाटिकोऽभिहितः-प्रतीक्षस्व कञ्चित् कालं यावदस्य वक्खरस्यावतारणस्थानं किञ्चिदन्वेषयामि। स प्राह-‘मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोक्तम्, अतः कृतकृत्यत्वाद् नातः परं प्रतीक्षेऽहम्' इत्युक्त्वाऽस्थान एव तद्भाण्डमुज्झित्वा गच्छति। एवंसाधुरप्यस्थान एववन्दनकं परित्यज्य नश्यतीत्येतावता दृष्टान्त इति ॥ चतुर्थ दोषमाह[भा.४४७८] परिपिंडिए व वंदइ, परिपिंडियवयण-करणओ वा वि। टोलो व्व उप्फिडतो, ओसक्क-ऽहिसक्कणं दुहओ। वृ-यत्र परिपिण्डितान्' एकत्र मिलितानाचार्यादीनेकवन्दनकेनैव वन्दते न पृथक् पृथक् तत् परिपिण्डितमुच्यते; अथवा वचनानि-सूत्रोच्चारणगर्भाणि, करणानि-कर-चरणादीनि, परिपिण्डितानि-अव्यवच्छिन्नानि वचन-करणानि यस्य स तथा, ऊर्वोरुपरि हस्तो व्यवस्थाप्य सम्पिण्डितकर-चरणोऽव्यक्तसूत्रोच्चारणपुरः सरंयत्र वन्नदते तद् वा परिपिण्डितमिति भावः । पञ्चमं दोषमाह-उत्ष्वष्कणम्-अग्रतः सरणम् अभिष्वष्कणं-पश्चादपसरणं "दुहओ"त्ति ते द्वे अपि टोलवद् उस्लुत्योत्प्लुत्य करोति यत्र तत् टोलगतिवन्दनकमिति ॥षष्ठं दोषमाह[भा.४४७९] उवगरणे हत्थम्भिव, धित्तु निवेसेति अंकुसं बिंति। ठित-विट्ठरिंगणंजं, तं कच्छभरिंगियं नाम॥ वृ-यत्राशेन गजमिव शिष्य आचार्यमूर्द्धस्थितं शयितं प्रयोजनान्तरव्यग्रं वा 'उपकरणे' चोलपट्ट-कल्पादौ हस्ते वा अवज्ञया समाकृष्य वन्दनकदानार्थमासने उपवेशयति तद् अडशं ब्रुवते । नहि पूज्याः कदाचिदप्युपकरणाद्याकर्षणमर्हन्ति मविनयत्वात्, किन्तु प्रणामं कृत्वा कृताञ्जलिपुटैर्विनयपूर्वकमिदमुच्यते-उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीति; अतो दोषदुष्टमिदम् । सप्तमं दोषमाह-स्थितस्योर्द्धस्थानेन "तित्तीसन्नयराए" इत्यादिसूत्रमुचारयत उपविष्टस्य वा-आसीनस्य "अहो कायंकाय" इत्यादिसूत्रंभणतः कच्छपस्येवजलचरजीवविशेषस्य रिङ्गणम्-अग्रतोऽभिमुखंयत्किञ्चित् चलनंतचत्र करोतिशिष्यस्तदिदं कच्छपरिङ्गितं नामेति॥ अष्टमंदोषमाह[भा.४४८०] उठिंत निवेसंतो, उव्वत्तति मच्छउ व्व जलमज्झे। वंदिउकामो वऽनं, झसो व्व परियत्तती तुरियं ॥ वृ-उत्तिष्ठन् निविशमानो वाजलमध्ये मत्स्य इव 'उद्वर्तते' उद्वेल्लयति यत्रतमत्स्योद्धृत्तम्। अथवा एकमाचार्यादिकंवन्दित्वातत्समीपतत्समीपएवापरंवन्दनाहकञ्चनवन्दितुमिच्छंस्तत्समीपं जिगमिषुरुपविष्ट एव 'झषइव' मत्स्यइवत्वरितमपंपरावर्तयंयत्र गच्छति तद्वामत्स्योद्धृत्तम्।। नवममाह[भा.४४८१] अप्प-परपत्तिएणं, मणप्पदोसो अनेगउट्ठाणो। ___ पंचेव वेइयाओ, भयं तु निजूहणाईयं ॥ वृ-मनःप्रद्वेषः 'अनेकोत्थानः' अनेकनिमित्तो भवति, सचसर्वोऽप्यात्मप्रत्ययेन परप्रत्ययेन वा स्यात् । तत्रात्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित् परुषमभिहितो भवति, परप्रत्ययेन तु www. Page #22 -------------------------------------------------------------------------- ________________ १९ उद्देशक : ३, मूलं-९७, [भा. ४४८१] यदा तस्यैव शिष्यस्य सम्बन्धिनः सुह्वदादेः सम्मुखं सूरिणा किमप्यप्रियमुक्तं भवतीति । एवंप्रकारैरन्यैरपि स्व-परप्रत्ययैः कारणान्तरैनिसः प्रद्वेषो भवति यत्र तद् मनसा प्रदुष्टमुच्यते। दशमं दोषमाह-"पंचेव वेइयाउ"त्ति जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकंवा जानुं दक्षिणं वामं वाकरद्वयान्तः कृत्वा वन्दनकंयत्र करोति तद्वेदिकाबद्धम्। एकादशं दोषमाह-“भयंतु नितहणाईयं" ति नि!हणं-गच्छान्निष्काशनं तदादिकंय भयं तेन यत्र वन्दते तद् भयवन्दनकम् ॥ द्वादशं दोषमाह[भा.४४८२] भयति भयस्सति व ममं, इइ वंदति ण्होरगं निवेसंतो। एमेव य मेत्तीए, गारव सिक्खाविनीतोऽहं ।। वृ-‘स्मर्त्तव्यं भो आचार्य! भवन्तं वन्दमाना वयं तिष्ठामः' इत्येवं निहोरकं निवेसयन् वदन्ते। किमिति? इत्याह-एष तावद् ‘भजते' अनुवर्तयति माम्, सेवायां पतितो मे वर्तत इत्यर्थ, अग्रे वामम भजनं करिष्यत्यसौ, ततश्चाहमपिवन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायवान् यत्र वन्दते तथा मैत्र्याऽपि हेतुभूतया कश्चिद् द्वन्दते, आचार्येण समं मैत्री मम भविष्यतीत्यर्थ, तदिदं मैत्रीवन्दनकम्।चतुर्दशंदोषमाह-"गारव"त्तिसूचामात्रत्वाद् गर्ववन्दनकमितिप्रत्येयम्।कथम्भूतं तत्? इत्याह-“सिक्खाविणीओहं"तिशिक्षा-वन्दनकप्रदानादिसामाचारीविषया तस्यां विनीतःकुशलोऽहमित्यवगच्छन्त्वमी शेषसाध्वादय इत्यभिप्रायवान् 'यथावद्' आवर्ताधाराधयन् यत्र वन्दत इति । पञ्चदशं दोषमाह[भा.४४८३] नाणाइतिगंमुत्तुं, कारणमिहलोगसाहगंहोइ। . पूया-गारवहेउं, नाणग्गहणे विएमेव ॥ वृ-ज्ञान-दर्शन-चारित्रत्रयंमुक्त्वा यत् किमप्यन्यद् ‘इहलोकसाधकं वस्त्रादिकंवन्दनकदानात् साधुरभिलषति तत् कारणं भवतीति प्रतिपत्तव्यम् । ननु ज्ञानादिग्रहणार्थं यदा वन्दते तदा किमेकान्तेनैव कारणंनभवति? इत्याशङ्कयाह-यदिपूजार्थंगौरवार्थंवा वन्दनकंदत्त्वा विनयपूर्वकं ज्ञानं श्रुतंगृह्णाति, येनलोके पूज्योऽन्येभ्यश्च श्रुतधरेभ्योऽधिकतरोभवामीतितदातदपि एवमेव' कारणवन्दनकं भवतीति ॥ तत्र किमभिप्रायवत् इहलोकसाधकं कारणं भवति? इत्याह[भा.४४८४] आयरतरेण हंदि, वंदामिणं तेन पच्छ पणयिस्सं। वंदनग मोल्लभावो, न कारस्सइ मे पणयभंगं॥ वृ- 'हन्दि' इतीहलोकसाधककारणोपप्रदर्शने।अतिशयादरेण 'वन्दे' प्रणमामि “ण” मिति एनमाचार्यम्, 'तेन च वन्दनकप्रदानेन हेतुभूतेन पश्चादमुकिञ्चिद्वस्त्रदि प्रणयिष्ये' याचिष्ये, नचासौ मम 'प्रणयभङ्गं प्रार्थनाभङ्ग करिष्यति। कथम्भूतः सन् ? इत्याह-वन्दनकमेव मूल्यं तत्र भावः-अभिप्रायो यस्य सूरेः स तथाभूतः, वन्दनकमूल्यवशीकृत इत्यर्थः, इत्यभिप्रायवतः कारणवन्दनकं भवतीति ॥षोडशं दोषमाह[भा.४४८५] हाउं परस्स चक्, वंदंते तेणियं हवइ एतं। तेनो इव अत्ताणं, गूहइ ओभावणा मा मे ।। वृ-'हापयित्वा' वञ्चयित्वा 'परस्य' साधु-श्रावकादेः 'चक्षु' दृष्टिं गुरुं वन्दमानस्य शिष्यस्य स्तैन्यंवन्दनकं भवति। एतदेव स्पष्टतरंव्याचष्टे-'स्तेन इव' तस्कर इवान्यसाध्वाधन्तर्धानेनात्मानं Page #23 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् - ३-३/९७ गूहयति, कस्मात् ? इत्याह- " ओभावना मा मे "त्ति असावप्यतिविद्वान् किमन्येषां वन्दनकं प्रयच्छति ? इत्येवम्भूताऽपभ्राजना मम मा भूदिति ॥ सप्तदशं दोषमाहआहारस्स उ काले, नीहारुभयो य होइ पडिनीयं । रोसेण धमधमेंतो, जं वंदति रुट्ठमेयं तु ॥ [ भा. ४४८६ ] २० वृ- आहारस्य नीहारस्य वा 'उभयस्य' मूत्र- पुरीषलक्षणस्य काले यत्र वन्दते तत् प्रत्यनीकम् । अष्टादशं दोषमाह - 'रोषेण' स्वविकल्पजनितेन क्रोधेन ‘धमद्धमन्' जाज्वल्यमानो यद् वन्दते तद् रुष्टं वन्दनकमिति ॥ एकोनविंशं दोषमाह [ भा. ४४८७] न वि कुप्पसि न पसीयसि, कट्ठसिवो चैव तज्जियं एयं । सीसंगुलिमादीहि व, तज्ज्ञेति गुरुं पणिवयंतो ।। वृ- काष्ठघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि, तथा वन्द्यमानोऽप्यविशेषज्ञतया न प्रसीदसीत्येवं तर्जयन्-निर्भर्त्सयन् यत्र वन्दते तत् तर्जितम् । यदि वा 'मेलापकमध्ये वन्दनकं मां दापयँस्तिष्ठस्याचार्य ! परं ज्ञास्यते तवैकाकिनः' इत्यभिप्रायवान् यदा शीर्षेण अङ्गुल्या वाप्रदेशिनीलक्षणया गुरुं 'प्रणिपतन् ' वन्दमानस्तर्जयति तद् वा तर्जितम् ॥ विंशतितमं दोषमाह[भा. ४४८९] वीसंभट्ठाणमिणं, सब्भावजढे सढं हवइ एतं । कवडं ति कययवं तिय, सढया वि य होंति एगट्ठा ॥ वृ-विश्रम्भः-विश्वासस्तस्य स्थानमिदं वन्दनकम्, एतस्मिन् यथावद् दीयमाने श्रावकादयो विश्वसन्तीत्यभिप्रायेणैव 'सद्भावरहिते' अन्तर्वासनाशून्ये वन्दमाने शिष्ये शठमेतद् वन्दकं भवति । शठशब्दमेव पर्यायशब्दैव्यार्चष्ट-कपटमिति वा कैतवमिति वा शठताऽपि वा इति एकार्था शब्दा भवन्ति ।। एकविंशं दोषमाह [भा. ४४८९ ] गणि ! वायग ! जिट्ठज्ज!, त्ति हीलियं किं तुमे पणमितेन । देसी कहवित्तंते, कधेति दरवंदिए कुंची ॥ वृ-गणिन् ! वाचक ! ज्येष्ठार्य ! किं त्वया वन्दितेन ? इत्यादि सोव्यासं हीलयित्वा यत्र वन्दते तद् हीलितवन्दनकम् । द्वाविंशं दोषमाह - 'दरवन्दिते' अर्धवन्दनके दत्ते सति देशीकथावृत्तान्तान् यत्र करोति तद् विपरिकुञ्चितम् ।। दृष्टादृष्टदोषं शृङ्गदोषं चाह [भा. ४४९० ] अंतरितो तमसे वा, न वंदती वंदती उ दीसंतो । एयं दिट्ठमदि, सिंगं पुन कुंभगणिवातो ॥ वृ- बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितः 'तमसि वा' सान्धकारप्रदेशे व्यवस्थितो मौनं विधाय उपविश्य वाऽऽस्ते न तु वन्दते, ६श्यमानस्तु वन्दते यत्र तद् दृष्टादृष्टवन्दनकम् । तथा कुम्भशब्देनेह लाटमुच्यते, तस्य वम-दक्षिणपार्श्वयोर्यो निपातः हस्ताभ्यां स्पर्शनं तद्युक्तं वन्दनकं शृङ्गमुच्यते । एतदुक्तं भवति- 'अहोकायं” इत्याद्यावर्त्तान् कुर्वन् कराभ्यां न ललाटस्य मध्यदेशं स्पृशति किन्तु वामपार्श्व दक्षिणपार्श्व वा स्पृशतीति ।। गाथापूर्वार्धन करलक्षणं पश्चार्धेन तु मोचनलक्षणं दोषमाह[ भा. ४४९१] करमिव भन्नइ दिंतो, वंदनगं आरहंतिय करु त्ति । लोइयकरस्स मुक्का, नमुच्चिमो वंदनकरस्स ॥ Page #24 -------------------------------------------------------------------------- ________________ उद्देशकः ३, मूलं-९७, [भा.४४९१] वृ-वन्दनकं ददत् ‘करमिव' राजदेयभागमिव मन्यते, आर्हतोऽयं कर इति । गृहीतवरताश्च वयं लौकिककराद् मुक्तास्तावन्न मुच्यामहे वन्दनकरस्यार्तस्येति ।। सप्तविंशं दोषमाह[भा.४४९२] आलिट्ठमनालिट्टे, रयहर सीसे य होति चउभंगो। वयण-करणेहि ऊणं, जहन्नकाले सेसेहिं॥ वृ-आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरण-शिरसोर्विषये चतुर्भङ्गिका भवति, सा च "अहोकायंकाय" इत्याद्यावर्त्तकाले सम्भवति-रजोहरणं कराभ्यामाश्लिष्यतिशिरश्चेत्येकः, रजोहरणं श्लिष्यति नशिर इति द्वितीयः, शिरः श्लिष्यतिन रजोहरणमिति तृतीयः, नरजोहरणं नशिरश्चश्लिष्यति इतिचतुर्थो भङ्ग इति।अत्राद्यो भङ्गः शुद्धः,शेषभङ्गत्रयेआश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनमवतरति।अष्टाविंशंदोषमाह-वचनैः-आलापकैः करमैर्वा-अवनामादिभिरावश्यकैः 'न्यून' हीनं यद्वन्दते, यद्वा कश्चदत्युत्सुकतया 'जघन्येनैव' स्वल्पेनैव कालेन वन्दनं समापयति शेषैर्वा साधुभिर्वन्दिते सति पश्चाद्वन्दते तद् न्यूनं नाम वन्दनकम्॥एकोनत्रिशंत्रिशंच दोषमाह[भा.४४९३] दाऊण वंदनं मत्थएण वंदामि चूलिया एसा। तुसिणी आवत्ते पुन, कुणमाणो होइ मूयं तु॥ वृ-यद् वन्दनकं दत्त्वा पश्चाद् महता शब्देन "मस्तकेन वन्दे" इति ब्रूते एषा उत्तरचूलिका मन्तव्या। यत् 'तूष्णीकतया' मौनेन आवर्तान्द्वादशापि कुर्वाणोवन्दतेतद्मूकवन्दनकंभवति।। एकत्रिंशं द्वात्रिंशं च दोषमाह[भा.४४९४] उच्चसरेणं वंदइ, ढड्डर एयं तु होइ बोधव्वं । चुडुलि व्व गिण्हिऊणं, रयहरणं होइ चुडुलीओ। वृ-'उच्चस्वरेण' महताशब्देन वनद्नकसूत्रमुच्चारयन्यद्वन्दते तदेतद्ढड्डरमितिबोद्धव्यम्। चुडली नाम-उल्का तामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रामयन् यद् वन्दते स चुड्डलिका नाम द्वात्रिंशो दोष इति ॥ साम्प्रतमेतेष्वेव प्रायश्चित्तमाह[भा.४४९५] थद्धे गारव तेनिय, हीलिय रुट्ठ लहुगा सढे गुरुगो। दुट्ठ पडिनीय तज्जित, गुरुगा सेसेसु लहुगोतु॥ - कृस्तब्ध-गौरव-स्तेनित-हीलित-रुष्टेषु प्रत्येकचतुर्लघवः । शठे मायादोषप्रत्ययंमासगुरुकम्। दुष्ट-प्रत्यनीक-तर्जितेषुचत्वारो गुरुकाः। शेषेषु अनाप्त-प्रविद्ध-परिपिण्डितादिषुत्रयोविंशतौ दोषेषु प्रत्येकमसमाचारीनिष्पनं मासलघु ।। अथ कृतिकर्मकरणविधिमाह[भा.४४९६] आयरिय-उवज्झाए, काऊणं सेसगाण कायव्वं । उप्परिवाडी मासिग, मदरहिए तिन्निय थुतीओ॥ वृ-प्रतिक्रमणसूत्राकर्षणानन्तरमाचार्योपाध्याययोः प्रथमं कृतिकर्म कृत्वा ततः शेषसाधूनां यथारनाधिकक्रमं कर्तव्यम्। अथोत्परिपाट्या वन्दतेततोलघुमासिकम्।तेनापि चाचार्यादिना मदरहितेन वन्दनकं प्रतीच्छनीयम् । प्रतिक्रमणे च समापिते तिम्रः स्तुतयः स्वरेण च्छन्दसा च प्रवर्धमानादातव्याः॥आह-शेषसाधूनां किं सर्वेषामपि वन्दनं विधेयम् ? उतन? इतिअत्रोच्यते[भा.४४९७] जा दुचरिमोत्ति ता होइ वंदनं तीरिए पडिक्कमणे। आइन्नं पुन तिण्हं, गुरुस्स दुण्हं च देवसिए॥ ___ Page #25 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/९७ वृ-प्रतिक्रमणे' प्रतिक्रमणसूत्रे 'तीरते' पारं प्रापिते सति वन्दनंं भवति यावद् द्विचरमः साधुः, साधू अवशिष्यमाण यावत् सर्वेषामपि वन्दनं कृत्वा क्षामणकं कर्त्तव्यमिति भावः । एष विधि पूर्वं चतुर्दशपूर्वधर- दशपूर्वधरादिकाले आसीत्, सम्प्रति पुनः पूर्वाचार्यैराचीर्णमिदम्-त्रयाणां साधूनां वन्दनकं कर्त्तव्यम्, तत्रैकस्य गुरोर्द्वयोश्च शेषसाध्वोः पर्यायज्येष्ठयोर्देवसिके उपलक्षणत्वाद् रात्रिके चावश्यकेऽयं विधिरवगन्तव्यः । पाक्षिके तुपञ्च साधवो वन्दित्वा क्षमयितव्याः, चतुमासिए संवत्सरे य सत्त अवस्सं ति ॥ आह-किमत्र कारणं मौलं विधिमुल्लङ्घय पूर्वसूरय इत्थमभिनवां सामाचारी स्थापयन्ति ? इति उच्यते [ भा. ४४९८ ] धिइ- संघयणादीनं, मेराहानिं च जाणिउं थेरा । सेह-अगीतट्ठा वि य, ठवणा आइन्नकप्पस्स ॥ वृ- धृतिः - मानसावष्टम्भरूपा संहननं वज्रऋषभनाराचादि तयोः आदिशब्दाद् द्रव्यक्षेत्रकालादीनां च या परिहानिर्या च मर्यादायाः - सिद्धान्ताभिहितनिरपवादसामाचारीरूपाया हानिस्तां ज्ञात्वा पूर्वसूरय ऐदंयुगीनसाधुजनोचितस्याचीर्णकल्पस्य स्थापनां कुर्वन्ति । किमर्थम् ? इत्याह-शैक्षाणामगीतार्थानां चानुग्रहार्थम् मा भूदमीषां बहुतरसाधून वन्दित्वा क्षमयतां विशिष्टधृतिसहननादिबलाभावात् परिभग्नानां विपरिणाम इति ॥ अथाचीर्णस्यैव लक्षणमाहअसढेन समाइन्नं, जं कत्थइ कारणे असावज्जं । न निवारियमन्नेहि य, बहुमनुमयमेतमाइन्नं ॥ [भा. ४४९९] वृ- 'अशठेन' राग-द्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता 'समाचीर्णम्' आचरितं यद् भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् 'कुत्रचिद्' द्रव्य-क्षेत्र कालादी 'कारणे' पुष्टालम्बने 'असावद्य' प्रकृत्या मूलोत्तरगुणाराधनाया अबाधकम्, 'न च' नैव निवारितम् 'अन्यैः' तथाविधैरेव तत्कालवर्तिभिर्गीतार्थे, अपि तु बहु यथा भवति एवमनुमतमेतदाचीर्णमुच्यते ॥ अथ ये आचार्यस्यापि पर्यायज्येष्ठास्तैः किमाचार्यस्य वन्दनकं कर्त्तव्यम् ? उतन ? इति अत्रोच्यते २२ [भा. ४५०० ] वियडण पञ्चक्खाणे, सुए य रादीनिगा वि हु करिंति । मज्झिल्ले न करिंती, सो चेव करेइ तेसिं तु । वृ-विकटनम् - आलोचनं प्रत्याख्यानं प्रतीतं तयोः तथा श्रुते च उद्दिश्यमान-समुद्दिश्यमानादौ 'रालिका अपि' ज्येष्ठार्या अप्युपसम्पदं प्रतिपन्ना अवमरानिकस्याचार्यस्य वन्दनकं कुर्वन्ति । यत्तु मध्यमं क्षामणकवन्दनं तन्न कुर्वन्ति, किन्तु स एवाचार्यस्तेषां रानिकानां करोति ॥ अथ यदुक्तम् 'तिस्रः स्तुतयो दातव्याः' इति तत्र विधिमाह [भा. ४५०१ ] थुइमंगलम्मि गणिणा, उच्चारिते सेसगा थुती बेंति । पम्हुट्ठमेरसारण, विनयो य न फेडितो एवं ॥ वृ- पाक्षिकादिषु यद्यप्याचार्योऽवमरालिकस्तथापि सएवावश्यके समापिते प्रथमतस्तिस्रः स्तुतीर्ददाति, दैवसिक-रात्रिकयोरपि प्रथममाचार्येण स्तुतिमङ्गलं प्रारम्भणीयम्, ततः शेषः । अत एवाह-स्तुतिमङ्गले 'गणिना' आचार्येणोच्चारिते सति शेषाः साधवः स्तुतीब्रुवते, ददतीत्यर्थः, दत्त्वा च गुरुपादमूल एव कियन्तमपि कालं तिष्ठन्ति । किमर्थम् ? इति चेद् अत आह-काचिद् मर्यादा- सामाचारी “पम्हुट्ठा” विस्मृता भवेत् तस्याः स्मारणं गुरवः कुर्वीरन् । परमोपकारिणश्च Page #26 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं- ९७, [भा. ४५०१ ] गुरवः, तत एव प्रतिक्रमणानन्तरं कियन्तमपि कालं तेषु पर्युपास्यमानेषु विश्रामणादिविधानेन विनयोऽपि 'न स्फेटितः' न हापितो भवति ॥ अथ के पुनस्ते ये आचार्यस्यापि रत्नाधिका भवन्ति ? इति उच्यते [भा. ४५०२] २३ अन्नेसिं गच्छाणं, उवसंपन्नाण वंदनं तहियं । बहुमान तस्स वयणं, ओमे वाऽऽलोयणा भणिया ।। वृ- अन्येषां गच्छानां सम्बन्धिन आचार्या रत्नाधिकतराः सूत्रार्थनिमित्तं कमप्यवमरानिकमाचार्यमुपसम्पन्नास्तेषां मध्यमवन्दनकमवमरालिकेन दातव्यम् । सेषकालं तेऽपि रानिकाः 'तस्य' अवमरालिकस्य 'बहुमानं' 'पूज्योऽयमस्माकं गुणाधिकतया' इति लक्षणं 'वचनं च' आज्ञानिर्देशं कुर्वन्ति । अवमेऽपि च तत्रालोचना भणिता भगवद्मि । किमुक्तं भवति ? - तस्य पुरत आलोचनं प्रत्याख्यानं च वन्दनकं दत्त्वा विधेयमिति भगवतामुपदेशः ।। अथ परः प्राह- कस्यपुनः कृतिकर्म कर्त्तव्यम् ? कस्य वा न ? इति उच्यते [भा. ४५०३] सेढीठाणठियाणं, कितिकम्पं बाहिराण भयितव्वं । सुत्त - ऽत्थजाणएणं, कायव्वं आनुपुव्वीए ॥ वृ- संयमश्रेण्याः सम्बन्धीनि विशुद्धिप्रकर्षापकर्षकृतस्वरूपभेदरूपाणि यानि स्थानानि तेषु स्थितानां साधूनां कृतिकर्म कर्त्तव्यम् । ये तु संयमश्रेणिस्थानेभ्यो बाह्यास्तेषां 'भक्तव्यं' कर्त्तव्यं वा न वेति भावः । तत्र कारणे समुत्पन्ने 'सूत्रार्थजञेन' गीतार्थेन 'आनुपूर्व्या' "वायाइ नमोक्कारो” इत्यादिकया वक्ष्यमाणपरिपाट्या कर्त्तव्यम्, अन्यथा तु नेति पुरातनगाथासमासार्थः ॥ साम्प्रतमेनामेव विवरीषुराह [भा. ४५०४] सेढीठाणठियाणं, कितिकम्मं सेढि इच्छिमो नाउं । तम्हा खलु सेढीए, कायव्व परूवणा इणमो ॥ वृ- संयमश्रेणिस्थानस्थितानां कृतिकर्म कर्त्तव्यमित्युक्ते कश्चिद् विनेयो ब्रूयात्-वयं तामेव श्रेणि प्रथमतो ज्ञातुमिच्छामः । सूरिराह-यत एवं भवतः श्रेणिविषया जिज्ञासा तस्मादस्माभिरपि कर्त्तव्या श्रेणेः प्ररूपणा 'इयं' वक्ष्यमाणलक्षणा ॥ अतस्तामेव चिकीर्षु प्रथमतः श्रेणिस्थितानां कृतिकर्मकरणे विधिमाह [भा. ४५०५ ] पुव्वं चरित्तसेढीठियस्स पच्छाठिएण कायव्वं । सो पुन तुल्लचरित्तो हविज्ज ऊनो व अहिओ वा ।। वृ- 'पूर्वं' प्रथमं यः सामायिकस्य छेदोपस्थापनीयस्य वा प्रतिपत्त्या चारित्रश्रेण्यां स्थितस्तस्य पश्चात्स्थितेन कृतिकर्म कर्त्तव्यम् । 'सपुनः' पूर्वस्थितस्तं पश्चात्स्थितमपेक्ष्य निश्चयतस्तुल्यचारित्रो न्यूनो वाऽधिको वा भवेत् ॥ यतः [ भा. ४५०६ ] निच्छयओ दुन्नेयं, को भावे कम्मि वट्टई समणो । ववहारओ य कीरइ, जो पुव्वठिओ चरित्तम्मि ॥ वृ- 'निश्चयतः' तत्त्ववृत्त्या कः पूर्वस्थितः पश्चात्स्थितो वा श्रमणः कस्मिन् 'भावे' चारित्राध्यवसायरूपे मन्दे मध्ये तीव्र वा वर्त्तते इति दुर्ज्ञेयम्, तदपरिज्ञानाच्च कथं निश्चयनयाभिप्रायेण कृतिकर्म कर्त्तुं शक्यम् ? । 'व्यवहारतस्तु' व्यवहारनयमङ्गीकृत्य पुनः क्रियते कृतिकर्म यः पूर्वं Page #27 -------------------------------------------------------------------------- ________________ २४ - बृहत्कल्प-छेदसूत्रम् -३-३/९७ चारित्रे स्थितस्तस्येति ।। ननु फलसाधकत्वाद् निश्चयस्यैव प्रामाण्यं न व्यवहारस्य इत्याह[भा.४५०७] ववहारो वि हुबलवं, जंछउमत्थं पि वंदई अरिहा। जा होइ अनाभित्रो, जाणतो धम्मयं एयं ॥ वृ-व्यवहारोऽपि, आस्तांनिश्चयइत्यपिशब्दार्थ, 'हुः' निश्चितंबलवान्, यद्यस्मात्छद्मस्थमपि स्वगुरुपभृतिकं वन्दते 'अरहाः' केवली। कियन्तं कालम् ? इत्याह-यावदसौ अनाभिन्नोऽस्ति' केवलितयाअनभिज्ञातोभवति तावद् एतां व्यवहारनयबलवत्त्वलक्षणांधर्मतांजानन्छद्मस्थमपि वन्दते इति ॥ कथं पुनरसौ केवलितया ज्ञायते? इत्याह[मा.४५०८] केवलिना वा कहिए, अवंदमानो व केवलिं अन्नं । वागरणपुव्वकहिए, देवयपूयासु व मुणंति ।। - वृ-अन्येन केनापि केवलिना कथिते' 'अयं केवली जातः' इत्याख्याते सति, अवन्दमानोवा केवलिमनमन्यं केवलितयाज्ञायते । व्याकरणपूर्वं वा-अतिशयिज्ञानगम्यार्थकथनपुरःसरंतेनैव केवलिना स्वयमेव कथिते सति, 'दैवतपूजासु वा' यथासन्निहितदेवैः क्रियमाणां महिमां दृष्ट्वा गुरुप्रभृतयस्तं केवलिनं विदन्ति ॥अथ श्रेणिप्ररूपणामाह[भा.४५०९] अवभागपलिच्छेया, ठाणंतर कंडए यछट्ठाणा। हिट्ठा पज्जवसाणे, वुद्धी अप्पाबडं जीवा ॥ वृ- अविभागपरिच्छेदप्ररूपणा स्थानान्तरप्ररूपणा कण्डकप्ररूपणा षट्स्थानप्ररूपणा अधःप्ररूपणा पर्यवसानप्ररूपणा वृद्धिप्ररूपणा अल्पबहुत्वप्ररूपणा जीवप्ररूपणा चेति॥ [भा.४५१०] आलाव गणण विरहियमविरहियं फासणापरूवणया। - गणणपय सेढिअवहार भाग अप्पाबहुं समया॥ वृ-जीवप्ररूपणायां चामूनि प्रतिद्वाराणि, तद्यथा-आलापप्ररूपणा श्रेण्यपहारप्ररूपणा भागप्ररूपणा अल्पबहुत्वप्ररूपणा श्रमण(समय) प्ररूपणा चेति द्वारगाथाद्वयम् ॥ तत्राविभागपरिच्छेदपररूपणांतावत् करोति[भा.४५११] अविभागपलिच्छेदं, चरित्तपज्जव-पएस-परमाणू । परमाणुस्स परूवण, चउव्विहा भावओऽनंता ।। वृ-इह संयमस्थानं केवलिप्रज्ञाच्छेदनकेन छिद्यमानं निरंशतया यदा विभागं न यच्छति तदाऽसावन्तिमोअंशो अविभागपरिच्छेद उच्यते, सचारित्रपर्यायश्चारित्रप्रदेशश्चारित्रपरमाणु भण्यते। परमाणोश्च सामान्यतश्चतुर्विधाप्ररूपणा द्रव्य-क्षेत्र-काल भावभेदात्। द्रव्यत एकोऽणुकः, क्षेत्रत आकाशप्रदेशः,कालतःसमयः, भावतस्त्वेकगुणकालकादि।अत एववाचारित्राविभागपरिच्छेदाः, तेच 'अनन्ताः' अनन्तानन्तकप्रमाणाः । तथा चाह[भा.४५१२] ते कित्तिया पएसा, सव्वागासस्स मग्गणा होइ। तेजत्तिया पएसा, अविभाग तओ अनंतगुणा। वृ-'ते' चारित्रस्य प्रदेशाः "कियन्तः' किंप्रमाणा इति चिन्तायां निर्वचनमाह-सर्वस्य-लोकाऽलोकगतस्याकाशस्य मार्गणा भवति । यावन्तः किल 'ते' सर्वाकाशस्य प्रदेशाः 'ततः' तेभ्यः सर्वाकाशप्रदेशेभ्यश्चारित्रस्य अविभागपरिच्छेदा अनन्तगुणाः सर्वजघन्येऽपि संयमस्थाने Page #28 -------------------------------------------------------------------------- ________________ २५ उद्देश : ३, मूलं- ९७, [भा. ४५१२] कोया ( गाधीनगर) पि ३८२००९ प्रतिपत्तव्याः । एषा अविभागपरिच्छेदप्ररूपणा १ । सर्वजघन्यात् संयमस्थानाद् यद् द्वितीयं संयमस्थानं तत् तस्मादनन्तभागवृद्धम् । किमुक्तं भवति ? - प्रथमसंयमस्थानगतनिर्विभागभागपेक्षया द्वितीये संयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति । एषा स्थानान्तरप्ररूपणा २ । तस्मादपि यदनन्तरं तृतीयं तत् ततोऽनन्तभागवृद्धम्, एवं पूर्वस्मादुत्तरोत्तराणि अनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि तावद् वक्तव्यानि यावद्गुलमात्र क्षेत्रासङ्घयेयभागगतप्रदेशराशिप्रमाणानि भवन्ति । एतावन्ति च समुदितानि स्थानानि कण्डकमित्युच्यते । एषा कण्डकप्ररूपणा ३ । अस्माच्च कण्डकात् परतो यदन्यदनन्तरं संयमस्थानं भवति तत् पूर्वस्मादसङ्घयेयभागाधिकम् । एतदुक्तं भवति - पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकानन्तरे संयमस्थाने निर्विभागा भागा असङ्घयेयतमेन भागेनाधिकाः प्राप्यन्ते । ततः पराणि पुनरपि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरेकमसङ्घयेयभागाधिकं संयमस्थानम् भूयोऽपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसङ्घयेयभागाधिकं संयमस्थानम्ः एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थानैर्व्यवहितानि असङ्घयेयभागाधिकानि संयमस्थानानि तावद् वक्तव्यानि यावत् तान्यपि कण्डकप्रमाणानि भवन्ति । ततश्चरमादसङ्घयेयभागाधिकसंयमस्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं सङ्घयेयभागाधिकं संयमस्थानं वक्तव्य, इदं द्वितीयं सङ्ख्येयभागाधिकं संयमस्थानम्; अनेनैव क्रमेण तृतीयम्, यावत् सङ्घयेयभागाधिकानि संयमस्थानानि कण्डकमात्राणि भवन्ति तावद् वाच्यम् । तत उक्तक्रमेण भूयोऽपि सङ्घयेयभागाधिकसंयमस्थानप्रसङ्गे सङ्घयेयगुणाधिकमेकं संयमस्थानं वक्तव्यम्, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि वक्तव्यानि ततः पुनरप्येकं सङ्घयेयगुणाधिकं संयमस्थानं वक्तव्यम्; ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि ततः पुनरप्येकं सङ्घयेयगुणाधिकं संयमस्थानम्; अमून्यप्येवं सङ्घयेयगुणाधिकानि संयमस्थानानि तावद् वक्तव्यानि यावत् कण्डकमात्राणि भवन्ति । तत उक्तक्रमेण पुनरपि सङ्घयेयगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्घयेयगुणाधिकं संयमस्थानं वक्तव्यम्, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि ततः पुनरप्येकमसङ्घयेयगुणाधिकं संयमस्थानं वक्तव्यम्; ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमसङ्घयेयगुणाधिकं संयमस्थानं वक्तव्यम्: अमूनि चैवमसङ्घयेयगुणाधिकसंयमस्थानानि तावद् वक्तव्यानि यावत् कण्डकप्रमाणानि भवन्ति । ततः पूर्वपरिपाट्या पुनरप्यसङ्घयेयगुणाधिकसंयमस्थानप्रसङ्गे अनन्तगुणाधिकं संयमस्थानं वक्तव्यम्, ततो भूयोऽपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम्; ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम्; एवमनन्तगुणाधिकानि तावद् वक्तव्यानि यावत् कण्डकमात्राणि भवन्ति । ततो भूयोऽपि तेषामुपरि Page #29 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/९७ पञ्चवद्यात्मकानि संयमस्थानानि मूलादारभ्य तथैव वक्तव्यानि, यत् पुनरनन्तगुणवृद्धिस्थानं तन्न, प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । इत्थम्भूतान्यसङ्घयेयानि कण्डकानि समुदितानि षट्स्थानकं भवति । तस्माच्च प्रथमषटस्थानकादूर्द्धमुक्तक्रमेणैव द्वितीयं षटस्थानकमुत्तिष्ठति, एवमेव च तृतीयम्, एवं षटस्थानकान्यपि तावद् वाच्यानि यावदसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्तं च २६ छट्ठाणगअवसाणे, अन्नं छट्ठाणयं पुनो अन्नं । एवमसंखा लोगा, छट्टाणाणं मुणेयव्वा ॥ इत्थम्भूतानि चासङ्घयेयलोकाकाशप्रदेशप्रमाणानि षटस्थानकानि संयमश्रेणिरुच्यते । तथा चोक्तम्- छट्ठाणा उ असंखा, संजमसेठी मुणेयव्वा ॥ तदेवं कृता अविभागपरिच्छेद-स्थानान्तरकण्डक - षटस्थानकानां प्ररूपणा ४ । साम्प्रतमधःस्थानप्ररूपणा क्रियते प्रथमादसङ्घयेयभागवृद्धात् स्थानादधः कियन्ति संयमस्थानान्यनन्तभावृद्धानि ? उच्यते- कण्डकमान्नाणि । तथा प्रथमात् सङ्घयेयभागवृद्धात् स्थानादधः कियन्ति असङ्घयेयभागवृद्धानि स्थानानि ? उच्यते - कण्डकमात्राणि । एवमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण तावद् मार्गणा कर्त्तव्या यावत् प्रथमादनन्तगुणवृद्धानि स्थानानि ? उच्यते- कण्डकवर्ग कण्डकं च । तथा प्रथमात् सङ्ख्येयगुणवृद्धात् स्थानादधः कियन्ति असमयेयगुणवृद्धात् स्थानानि ? उच्यते- कण्डकवर्ग कण्डकंच । तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति सङ्घयेयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकवर्ग कण्डकं च। एवमुक्तप्रकारेण यान्तरिता त्र्यन्तरिता चतुरन्तरिता च मार्गणा स्वधिया परिभावनीया । अथ पर्यवसानद्वारम् तत्रानन्तगुणवृद्धकण्डकादुपरिपञ्चवृध्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं षट्स्थानकस्य पर्यवसानम् ॥ अथ भाष्यकारः प्रकारान्तरेणाधः पर्यवसानद्वारयोर्युगपत् प्ररूपणामाह [भा. ४५१३] एयं चरित्तसेढिं, पडिवज्जइ हिट्ठ कोइ उवरिं वा । जो हिट्ठा पडिवज्जइ, सिज्झइ नियमा जहा भरहो ॥ वृ- एतां चारित्रश्रेणि कश्चिद् जीवः 'अधस्ताद्' जघन्यसंयमस्थानेषु प्रतिपद्यते, कश्चित् पुनः 'उपरि' उपरितनेषु पर्यन्तवर्तिषु, उपलक्षणत्वाद् मध्यमेषु वा संयमस्थानेषु प्रतिपद्यते । तत्र योऽधस्तनेषु संयमस्थानेषु चारित्रश्रेणिं प्रतिपद्यते स नियमात् तेनैव भवग्रहणेन सिध्यति, यथा भरतश्चक्रवर्ती ॥ [ भा. ४५१४] मज्झे वा उवरिं वा, नियमा गमनं तु हिट्ठिमं ठाणं । अंतोमुहुत्त वुड्डी, हानी वि तहेव नायव्वा ।। वृ- यः पुनः 'मध्ये वा' मध्यमेषु 'उपरि वा' उपरितनेषु संयमस्थानेषु चारित्रश्रेणि प्रतिपद्यते तस्यन नियमाद् 'अधस्तनं' सर्वजघन्यं संयमस्थानं यावद् गमनं भवति, ततोऽसौ तेनान्येन वा भवग्रहणेन सर्वाणि संयमस्थानानि स्पृष्ट्वा सिध्यति । या पुनरधस्तनसंयमस्थानेभ्य उपरितनसंयमस्थानारोहणलक्षणा वृद्धिः साऽन्तर्मुहूर्तमात्रं भवति । या चोपरितनसंयमस्थानेभ्योऽधस्तनसंयमस्थानेष्ववरोहणरूपा हानि साऽपि तथैव' अन्तर्मुहूर्तमात्रैव ज्ञातव्या Page #30 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- ९७, [ भा. ४५१४ ] २७ ५-६ । एतेन वृद्धिद्वारप्ररूपणाऽपि कृता ७ । सम्प्रति अल्पवहुत्वद्वारं प्ररूप्यते तत्र सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमात्रत्वात् तेषाम् । तेभ्योऽसङ्घयेयगुणवृद्धानि स्थानानि असङ्घयेयगुणानि, गुणकारश्चेह कण्डकप्रमाणो ज्ञातव्यः, एकैकस्यानन्तगुणवृद्धस्य स्थानस्याधस्तात् प्रत्योकमसङ्घयेयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्त इति कृत्वा ; अनन्तगुणवृद्धस्थानकण्डकस्य चोपरि कण्डकमात्राण्यसङ्घयेयगुणवृद्धानि प्राप्यन्ते, न त्वनन्तगुणवृद्धं स्थानम्, तेनोपरिष्टादेकस्य कण्डकस्याधिकस्य प्रक्षेपः । तेभ्योऽप्यसङ्कयेयगुणवृद्धेभ्यः स्थानेभ्यः सङ्घयेयगुणवृद्धानि स्थानानि असङ्घयेयगुणानि, तेभ्योऽपि सङ्घयेयभागाधिकानि स्थानान्यसङ्घयेयगुणानि, तेभ्योऽपि असङ्खयेयभागाधिकानि स्थानान्यसङ्घयेयगुणानि, तेभ्योऽप्यनन्तभागवृद्धानि स्थानानि असङ्घयेयगुणानि । गुणकारश्च सर्वत्रापि कण्डकमुपरि चैककण्डकप्रक्षेपः । प्ररूपितमल्पबहुत्वद्वारम् ८ । जीवपदप्रतिबद्धानां त्वालाप-गणनादीनां द्वाराणां प्ररूपणा सम्प्रदायाभावाद् न क्रियते ९ ॥ अथ प्रस्तुतयोजनां कुर्वन्नाहसेढीठाणठियाणं, किइकम्मं बाहिरे न कायव्वं । पासत्थादी चउरो, तत्थ वि आणादिणो दोसा ।। [ भा. ४५१५] वृ- अनन्तरोक्तायाः श्रेणेः सम्बन्धिषु संयमस्थानेषु स्थितानां साधूनां कृतिकर्म कर्त्तव्यम्, ये तु श्रेणेर्बाह्यास्तेषां न कर्त्तव्यम् । के पुनस्ते ? इत्याह- पार्श्वस्थादयश्चत्वारः । तत्र पार्श्वस्थाSवसन्न- कुशील- संसक्त-यथाच्छन्दाः पञ्चाप्येको भेदः, काथिक-प्राश्निक-मामाक-सम्प्रसारका द्वितीयः, अन्यतीर्थिकास्तृतीयः, गृहस्थाश्चतुर्थः एते चत्वारोऽपि श्रेणिबाह्या मन्तव्याः । 'तत्रापि' एतेषां कृतिकर्मकरणेऽपि न केवलमभ्युत्थाने इत्यपिशब्दार्थः, आज्ञादयो दोषाः प्रायश्चित्तं च प्राग् यथाऽभ्युत्थाने पार्श्वस्था ऽन्यतीर्थिकादिविषयं वर्णितं तथैव वक्तव्यम् । शिष्यः पृच्छति[ भा. ४५१६] लिंगेन निग्गतो जो, पागडलिंगं धरेइ जो समणो । किध होइ निग्गतो त्ति य, दिट्ठतो सक्करकुडेहिं ॥ वृ- 'लिङ्गेन' 'रजोहरणादिना यो मुक्तः स संयमश्रेण्या निर्गतः प्रतीयते, यस्तु श्रमणः प्रकट मेव लिङ्गं धारयति स कथं ‘निर्गतः' श्रेणिबाह्यो भवति ?, श्रमणलिङ्गस्योपलभ्यमानत्वाद् न भवतीति भावः । अत्र सूरिराह-दृष्टान्तः शर्कराकुटाभ्यामत्र क्रियते- जहा कस्सइ रन्नो दो घडया सक्कराभरिया । ते अन्नया मुद्दं दाऊण दोण्हं पुरिसाणं समप्पिया भणिता य, जहा-सारक्खह, जया मग्गज तया दिजाह ।। ततः किमभूत् ? इत्याह [भा. ४५१७] दाउ हिट्ठा छारं, सव्वत्तो कंटियाहि वेढित्ता । सकवाडमनाबाधे, पालेति तिसंझमिक्खंतो ।। वृ-तयोरेकः पुरुषस्तं राज्ञा समर्पितं घट गहीत्वा तस्याधः क्षारं दत्त्वा यथा कीटिका नागच्छेयुरिति भावः, ततः सर्वतः कण्टिकाभिस्तं वेष्टयित्वा 'सकपाटे' कपाटपिधानयुक्तेऽनाबाधे प्रदेशे स्थापयित्वा त्रिसन्ध्यमीक्षमाणः सम्यक् पालयति ॥ द्वितीयः पुनः किं कृतवान् ? इत्याहमुद्द अविद्दवंतीहिं कीडियाहिं स चालनी चेव । जञ्जरितो कालेणं, पमायकुडए निवे दंडो । [भा. ४५१८] वृ- द्वितीयः पुरुषस्तं घटं कीटिकानगरस्यादूरे स्थापयित्वा मध्यंमध्येनावलोकते, ततः Page #31 -------------------------------------------------------------------------- ________________ २८ बृहत्कल्प-छेदसूत्रम् -३-३/९७ शर्करागन्धाघ्राणतः समायाताभि कीटिकाभिर्मुद्रामविद्रवन्तीभिः ‘सः' घटोऽधस्तात् कालेन जर्जरितः कृतः, शर्करा सर्वाऽपिभक्षिता ।अन्यदाराज्ञा तौपुरुषौघटंयाचितौ, ततो द्वाभ्यामप्यानीय दर्शितयोर्घटयोः “पमायकुडए"त्ति येन कुटरक्षणे प्रमादः कृतस्तस्य नृपेण दण्डः कृतः । उपलक्षणमिदम्, तेन यस्तं सम्यक् पालितवान् तस्य विपुला पूजा विदधे । एष दृष्टान्तः, अयमर्थोपनयः-राजस्थानीया गुरवः, पुरुषस्थानीयाः साधवः, शर्करास्थानीयंचारित्रम्, घटस्थानीय आत्मा, मुद्रास्थानीयं रजोहरणम्, कीटिकास्थानीयान्यपराधपदानि, दण्डस्थानीयादुर्गतिप्राप्ति, पूजास्थानीया स्वर्गादिसुखपरम्पराप्राप्ति ॥ तथा चामुमेवोपनयं लेशतो भाष्यकारोऽप्याह[भा.४५१९] निवसरिसो आयरितो, लिंग मुद्दा उ सक्करा चरणं । पुरिसा य होति साहू, चरित्तदोसा मुयिंगाओ॥ वृ-गतार्था । नवरं 'मुयिङ्गाः' कीटिकाः । यथा तस्य प्रमत्तपुरुषस्य मुद्रासद्भावेऽप्यधःप्रविशन्तीभिः कीटिकाभिर्घटं विभज्य शर्करा विनाशिता, एवं साधोरपि प्रमादिनो रजोहरणमुद्रासद्भावेऽप्यपराधपदैरात्मनि जर्जरिते शर्करातुल्यं चारित्रं कालेन वा सद्यो वा विनाशभाविशति ॥तत्र कालेन यथा विनश्यति तथा दर्शयति[भा.४५२०] एसणदोसे सीयइ, अनानुतावी न चेव वियडेइ। नेव य करेइ सोधिं, न त विरमति कालतो भस्से ।। वृ-एषणादोषेषु सीदति, तद्दोषदुष्टंभक्त-पानंगृह्णातीत्यर्थः । एवं कुर्वनपिपश्चात्तापंकरिष्यति इत्याह-'अननुतापि' पुरःकर्मादिदोषदुष्टाहारग्रहणाद् अनु-पश्चात् तप्तुं-'हा ! दुष्ठु कृतं मया' इत्यादिमानसिकतापंधर्तुंशीलमस्येत्यनुतापी, नतथा अननुतापी। कथमेतद् ज्ञायते? इत्याह'न.चैव विकटयति' गुरूणां पुरतः स्वदोषं न प्रकाशयति, विकटयति वा परं तस्य 'शोधिं' प्रायश्चित्तं गुरुप्रदत्तं नैव करोति, 'नच' नैव अशुद्धहारग्रहणाद् विरमति । एवं कुर्वन् 'कालतः' कियताऽपि कालेन चारित्रात् परिभ्रश्येत् । यस्तु मूलगुणान् विराधयति स सद्यः परिभ्रश्यति ॥ अमुमेवार्थं सविशेषमाह[भा.४५२१] मूलगुण उत्तरगुणे, मूलगुणेहिं तु पागडो होइ । उत्तरगुणपडिसेवी, संचयऽवोच्छेदतो भस्से॥ वृ-इह प्रतिसेवको द्विधा-मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकश्च।तत्रमूलगुणप्रतिसेवायां वर्तमानः प्रकट एव प्रतीयते यथा चारित्रात् परिभ्रश्यति । उत्तरगुणप्रतिसेवी तु सञ्चयेनबह्वपराधमीलकेन योऽशुद्धाहारग्रहणादेरव्यवच्छेदः-परिणामस्यानुपरमस्ततः 'भ्रश्येत् चारित्रात् परिभ्रंशमाप्नुयात् ॥अत्रैवार्थे दृष्टान्तमाह[भा.४५२२] अंतो भयणा बाहिं, तु निग्गते तत्थ मरुगदिटुंतो। संकर सरिसव सगडे, मंडव वत्थेण दिटुंतो॥ वृ-इह सम्बन्धानुलोम्यतः प्रथममुत्तरार्धं व्याख्यायते-सङ्करः-तृणादिकचवरःतदृष्टान्तोयथाआरामो सारणीए पाइज्जइ । ताए वहंतीए एगंतणं सयंलग्गंतंन अवणीयं, अनं लग्गं तं पिन अवनीयं, एवं वहूहिं लग्गंतेहिं तत्थ तेन आश्रयेण चिक्खल्लधूलीए संचओ जाओ। तेनं संचयेणं तं पानियं रुद्धं अन्नओ गंतुं पयर्ट, ताहे सो आरामो सुक्को । एवमभिक्खणमभिक्खणं Page #32 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-९७, [भा. ४५२२] २९ उत्तरगुणपडिसेवाए अवराहसंचओभवइ, तेन संजजलंपवहमाणं निरुज्झइ, तओचारित्तारामो सुक्कइ।।सर्षपशकट-मण्डपदृष्टान्तो यथा-शकटेमण्डपेवा काप्येकःसर्षपःप्रक्षिप्तः सतत्र मातः, अन्यः प्रक्षिप्तः सोऽपि मातः, एवं प्रक्षिप्यमाणैः सर्षपैभविष्यति ससर्षपो यस्तं शकटं मण्डपंवा भनक्ति । एवं चारित्रेऽप्यशुद्धाहारग्रहणादिरेकोऽपराधः प्रक्षिप्तः स तत्रावस्थितिं कृतवान्, द्वितीयः प्रक्षिप्तः सोऽपि मातः, एवं प्रक्षिप्यमाणै-सर्षपैर्भविष्यति स सर्षपो यस्तं शकटं मण्डपं वा भनक्ति । एवं चारित्रेऽप्युद्धाहारग्रहणादिरेकोऽपराधः प्रक्षिप्तः स तत्रावस्थितिं कृतवान्, द्वितीयः प्रक्षिप्तः सोऽप्यवस्थितः, एवमपरापरैरुत्तरयुणापराधैः प्रक्षिप्यमाणैर्भविष्यति स उत्तरगुणापराधो येन चारित्रं सर्वथा भङ्गमुपगच्छति॥ अथ वस्त्रदृष्टान्तो भाव्यते-वस्त्रे क्वचिदेकस्तैलबिन्दुः कथमपि लग्नः स न शोधितः, एवमन्यान्यस्तैलबिन्दुभिर्लगद्भिरप्यशोध्यमानैः सर्वमपि तद् वस्त्र मलिनीभूतम् । एवं चारित्रवस्त्रमप्यपरापरैरुत्तरगुणापराधैरुपलिप्यमानमचिरादेव मलिनीभवतीति ।। तदेवमुत्तरगुणप्रतिसेवी कालेन चारित्रात् परिभ्रश्यतीतिस्थितम् । अथ कृतिकर्मविषयं विशेषं बिभणिषुराह"अंतो भयणा" इत्यादि पूर्वार्धम् । यः संयमश्रेणेः 'अन्तः' मध्ये स्थितस्तस्य कृतिकर्मकरणे भजना, सा चाग्रे दर्शयिष्यते। यस्तुश्रेणेबहिर्निगतस्तस्य कृतिकर्मन कर्त्तव्यम्। तथाच मरुकःब्राह्मणस्तस्य दृष्टान्तोऽत्र भवति ।। तमेव दर्शयति[भा.४५२३] पक्कणकुले वसंतो, सउणीपारो वि गरहिओ होइ।। इय गरहिया सुविहिया, मज्झि वसंता कुसीलाणं । वृ-पक्कणकुलं-मातङ्गगृहंतत्र वसन् 'शकुनीपारगोऽपि' द्विजोगर्हितो भवति । शकुनीशब्देन चतुर्दश विद्यास्थानानि गृह्यन्ते, तानि चामूनि ___अङ्गानि वेदाश्चत्वारो, मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्र च, स्थानान्याहुश्चतुर्दश॥ तत्राङ्गानिषट्-शिक्षा व्याकरणंकल्पः छन्दो निरुक्तिज्योतिषमिति। "इय" एवं सुविहिताः' साधवः ‘कुशीलानां' पार्श्वस्थादीनां मध्ये वसन्तो गर्हिता भवन्ति, अतो न तेषु वस्तव्यं न वा कृतिकर्मादि विधेयम् ॥ ननु च ‘पार्श्वस्थादीनां कृतिकर्म न कर्तव्यम्' इति भवद्भिरभिहितम् तत्र पार्श्वस्थादीनां लक्षणं कचिदग्रपिण्डभोजित्वादि स्वल्पदोषरूपं क्वचित्तु स्त्रीसेवादि महादोषरूपमावश्यकादिशास्त्रप्वभिधीयतेतदत्र वयंतत्त्वं नजानीमहे कस्य कर्तव्यं कृतिकर्म? कस्य वान? इत्याशङ्कावकाशमवलोक्य विषयविभागमुपदर्शयति[भा.४५२४] संकिन्नवराहपदे, अनानुतावी अहोइ अवरद्धे । . उत्तरगुणपडिसेवी, आलंबनवजिओ वजो।। वृ-इह यो मूलगुणप्रतिसेवी सनियमादचारित्रीति कृत्वा स्फुटमेवावन्दनीय इति न तद्विचारणा; परं य उत्तरगुणविषयैर्बहुभिरपराधपदैः सङ्कीर्णः-शबलीकृतचारित्रः, अपरं च 'अपराद्ध' अशुद्धाहारग्रहणादावपराधे कृतेऽपि अननुतापी' 'हा! दुष्ठुकृतम्' इत्यादि पश्चात्तापं न करोति, निशङ्को निर्दयश्च प्रवर्तत इत्यर्थः । एवंविध उत्तरगुणप्रतिसेवी यदि आलम्बनेन- ज्ञान-दर्शनचारित्ररूपविशुद्धकारणेन वर्जितः, कारणमन्तरेण प्रतिसेवत इति वः, तदाऽसौ ‘वर्व्यः' Page #33 -------------------------------------------------------------------------- ________________ नववाह बृहत्कल्प-छेदसूत्रम् -३-३/९७ कृतिकर्मकरणे वर्जनीयः ।शिष्यः प्राह-नन्वेवमर्थादापन्नम्-आलम्बनसहित उत्तरगुणप्रतिसेव्यपि वन्दनीयः । सूरिराह-न केवलमुत्तरगुणप्रतिसेवी मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः॥ कथम् ? इति चेद् उच्यते[भा.४५२५] हिट्ठाणठितो वी, पावयणि-गणट्ठया उ अधरे उ। कडजोगिजं निसेवइ, आदिनिगंठो व्व सो पुज्जो॥ कृ'अधस्तनस्थानेषु जघन्यसंयमस्थानेषुस्थितोऽपि, मूलगुणप्रतिसेव्यपीतिभावः, 'कृतयोगी' गीतार्थ प्रावचनिकस्य-आचार्यस्य गणस्य च-गच्छस्यअनुग्रहार्थम् “अधरे" आत्यन्तिके कारणे समुपस्थिते यद् निषेवते तत्रासौ संयमश्रेण्यामेव वर्तते इति कृत्वा पूज्यः । क इव ? इत्याह'आदिनिर्ग्रन्थ इव' इह पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातकाख्याः पञ्च निर्ग्रन्थाः, तेषामादिभूतः पुलाकः तद्वत्; तस्य ह्येताद्दशी लब्धिर्यया चक्रवर्तिस्कन्धावारमपि अभिवादनादौ कुलादिकार्ये स्तभ्नीयाद् वा विनाशयेद् वा, न च प्रायश्चित्तमाप्नुयात् ।।तथा चाह[भा.४५२६] कुणमाणो विय कडणं, कतकरणो नेव दोसममेति । अप्पेण बहुं इच्छइ, विसुद्धआलंबणो समणो॥ वृ-“कडणं" कटकमदं कुर्वाणोऽपि 'कृतकरणः' पुलाको नैव स्वल्पमपि दोषम् ‘अभ्येति' प्राप्नोति । कुतः ? इत्याह-यतोऽसौ श्रमणो विशुद्धालम्बनः सन् अल्पेन संयमव्ययेन बहुं संयमलाभमिच्छति॥अमुमेवार्थं समर्थयन्नाह[भा.४५२७] संजमहेउं अजतत्तणं पिन हु दोसकारगं बिति। पायण वोच्छेयं वा, समाहिकारोवणादीणं॥ वृ-प्रावचनिकादेः प्राणव्यपरोपणाद्युपद्रवरक्षणेन यः संयमस्तद्धतोः-तन्निमित्तं पुलाकादेरयतत्वमपि 'नहि' नैव दोषकारकं ब्रुवते । यथा 'समाधिकारः' वैद्यो व्रणादीनां यत् तथाविधौषधप्रलेपनेन पाचनं यच्च शस्त्रादिना विच्छेदनं यद्वा व्यवच्छेदं' लङ्घनं कारयति तत् तदानीं पीडाकरमपि परिणामसुन्दरमिति कृत्वा न सदोषम् एवमिदमपीति ॥ अथ परस्याभिप्रायमाशङ्कमान आह[भा.४५२८] तत्थ भवे जति एवं, अन्नं अन्नेण रक्खए भिक्खू । अस्संजया वि एवं, अन्नं अन्नेण रक्खंति॥ वृ-'तत्र' इत्यनन्तरोक्तेऽर्थेऽभिहिते सतिभवेत् परस्याभिप्राय इति वाक्यशेषः-यद्येवं 'भिक्षु' पुलाकादि अन्यम्' आचार्यादिकम् ‘अन्येन' स्कन्धावारादिना कृत्वा रक्षति, एकस्यविनाशेनापरं पालयतीतिभावः, ततएवम् ‘असंयताः' गृहस्थाअप्यन्यमन्येन रक्षन्त्येव, अतोनकश्चिदसंयतानां संयतानां च प्रतिविशेषः॥एवं परेणोक्ते सूरिराह[भा.४५२९] नहु ते संजमहेउं, पालिंति असंजता अजतभावे । अच्छित्ति-संजमट्ठा, पालिंति जती जतिजनं तु॥ वृ- 'नहि' नैव 'ते' असंयताः ‘अयतभावव्यवस्थितान्' गृहस्थान् संयमहेतोः पालयन्ति, किन्तु स्वात्मनो जीविकादिनिमित्तम् । ये तु यतयस्ते या तीर्थस्याव्यवच्छत्तिर्यश्च तेषां रक्ष्यमाणानामात्मनश्चान्योऽन्योपकारद्वारेण संयमस्तदर्थयतिजनं पालयन्ति।तुशब्दोविशेषणार्थः, Page #34 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-९७, [भा. ४५२९] एष विशेषः साधूनां गृहस्थानां चेति । किञ्च[भा.४५३०] कुणइ वयं धनहेउं, धनस्स धनितो उ आगमं नाउं। इय संजमस्स वि वतो, तस्सेवऽट्ठा न दोसाय ।। वृ- यथा धनिको वाणिज्यं कुर्वन् ‘आगमं' लाभं ज्ञात्वा ‘धनहेतोः' द्रव्योपार्जनार्थं शुल्ककर्मकरवृत्ति-भाटकादिप्रदानेन धनस्य व्ययं करोति, “इय" एवं पुलाकादेर्मूलगुणप्रतिसेवनां कुर्वाणस्ययः कोऽपि संयमस्य व्ययः सः 'तस्यैव' संयमस्यार्थाय विधीयमानो नदोषाय सञ्जायते, ततः पुष्टालम्बनसहितो मूलगुणप्रतिसेव्यपि शुद्ध इति स्थितम् ।। अथापुष्टालम्बनो निरालम्बनो वा प्रतिसेवते ततः संसारोपनिपातमासादयति, तथा चात्र दृष्टान्तमाह[भा.४५३१] तुच्छमवलंबमानो, पडति निरालंबणो य दुग्गम्मि। सालंब-निरालंबे, अह दिटुंतो निसेवंते॥ वृ-इहालम्बनंद्रव्य-भावभेदाद्विधा । तत्र गर्तादौ पतद्भिर्यद्रव्यमालम्ब्यतेतद्रव्यालम्बनम्। तच्च द्विधा-पुष्टमपुष्टं च । अपुष्टं-दुर्बलं कुश-वल्ककादि, पुष्टं-बलिष्ठं तथाविधकठोरवल्लयादि । एवं भावालम्बनमपि पुष्टा-ऽपुष्टभेदाद्विधा । पुष्टंतीर्थाव्यवच्छित्ति-ग्रन्थाध्ययनादि, अपुष्टं शठतया स्वमतिमात्रोप्रेक्षितमालम्बनमात्रम्। ततश्च द्रव्यालम्बनं 'तुच्छम्' अपुष्टमवलम्बमानो निरालम्बनो वा यथा 'दुर्गे' गर्तादौ पतति, यस्तुपुष्टालम्बनमवलम्बते ससुखेनैवात्मां गर्तादौ पतन्तं धारयति, एवं साधोरपि मूलगुणाद्यपराधान् निषेवमाणस्य सालम्ब-निरालम्बविषयः ‘अथ' अयं दृष्टान्तो मन्तव्यः ।किमुक्तं भवति?-योनिरालम्बनोऽपुष्टालम्बनोवा प्रतिसेवतेस आत्मानं संसारगर्तायां पतन्तंन सन्धारयितुं शक्नोति, यस्तुपुष्टालम्बनः सतदवष्टम्भादेव संसारगर्तासुखेनैवातिलश्यति। यत एवमतः पुष्टालम्बनवर्जितः कृतिकर्मणि वर्जनीय इति ॥ अथ श्रेणिस्थानस्थिता अपि ये कृतिकर्मणि नियमेन भजनया वा न व्यवह्रियन्ते तान् प्रतिपादयति[भा.४५३२] सेढीठाणे सीमा, कज्जे चत्तारि बाहिरा होति। सेढीठाणे दुयभेययाए चत्तारि भइयव्वा ॥ कृ श्रेणिस्थानं सीमास्थानमित्यननन्तरम्, तत्र वर्तमानाअपि चत्वारोजनाः' प्रत्येकबुद्धादयो वक्ष्यमाणाः कार्ये बाह्या भवन्ति । इह कार्यं द्विधा-वन्दनकार्य कार्यकार्यं च । तत्र वन्दनकार्य द्विधा-अभ्युत्थानं कृतिकर्मच। कार्यकार्यं कुलकार्यादिभेदादनेकविधम्, कार्यम्-अवश्यकर्त्तव्यरूपं यत् कार्यं तत् कार्यकार्यमिति व्युत्पत्तेः । एतद् द्विविधमपि प्रत्येकबुद्धादयो न कुर्वन्तीति भावः। तथा श्रेणिस्थाने वर्तमानाअपि गच्छप्रतिबद्धयथालन्दिकादयश्चत्वारो जनाः "दुयभेदयाए"त्ति द्विकभेदम् अनन्तरोक्तकार्यद्वयिवधानमङ्गीकृत्य भक्तव्याः, तत्र व्यवह्रियन्ते वा न वेति भावः । इदमेव स्फुटतरमाह[भा.४५३३] पत्तेयबुद्ध जिनकप्पिया य सुद्धपरिहारऽहालंदे । एए चउरो दुगभेदयाए कज्जेसु बाहिरगा॥ वृ-प्रत्येकबुद्धा जिनकल्पिकाः शुद्धपरिहारिणोअप्रतिबद्धयथालन्दिकाश्च, एते चत्वारोजना द्विकभेदान्तर्गतेषुकृतिकर्म-कुलकार्यादिषुकार्येषुबाह्या भवन्ति, नतद्विषयंव्यवहारपथमवतरन्तीति भावः॥ Page #35 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/९७ [भा.४५३४] गच्छम्मि नियमक्कजं, कजे चत्तारि होति भइयव्वा । गच्छपडिबद्ध आवन्न पडिम तह संजतीतो य॥ वृ- गच्छे नियमाद्-अवश्यन्तया कर्तव्यं यत् कार्य-कुल-गण-सङ्घविषयं तत्र कार्ये चत्वारो जना भक्तव्या भवन्ति-गच्छप्रतिबद्धयथालन्दिकाः “आवत्र" ति आपनपरिहारिकाः प्रतिमाप्रतिपन्नाः संयत्यश्चेति । यदा सङ्घः कुलादिकार्यं कर्तुं न शक्नोति तत एतेऽपि कुर्वन्तीति। वन्दनकाSतुगच्छप्रतिबद्धयथालन्दिका यस्याचार्यस्य पार्वे सूत्रार्थग्रहणं कुर्वते तस्यावमस्यापि कुर्वन्ति, शेषसाधूनां तु न कुर्वन्ति । आपन्नपरिहारिणां प्रतिमाप्रतिपन्नानां संयतीनां च कृतिकर्म क्रियते वा न वा, तेऽपि कुर्वन्ति वा न वेति ॥ इदमेव सविशेषमाह[भा.४५३५] अंतो वि होइ भयणा, ओमे आवन संजतीओ य। बाहिं पि होइ भयणा, अतिवालगवायगे सीसा॥ वृः ‘अन्तरपि' श्रेणेरभ्यन्तरतःस्थितानामपि वन्दनकंप्रतीत्य भजनाभवति। कथम् ? इत्याह"ओमि"त्ति योऽवमरालिकः स आलोचनादौ कार्ये क्न्धते, अन्यदा तु नेति । “आवनि"त्ति आपन्नपरिहारिको न वन्द्यते, स पुनराचार्यान् वन्दते । “संजईउ"त्ति संयत्योऽपि उत्सर्गतो न वन्द्यन्ते, अपवादपदे तुयदि बहुश्रुतामहत्तरा काचिदपूर्वश्रुतस्कन्धंधारयति ततस्तस्याः सकाशात् तत्र ग्रहीतव्ये उद्देश-समुद्देशादिषुसा फेटावन्दनकेन वन्दनीया।न केवलमन्तः किन्तु श्रेणेर्बहिरपि स्थितानां कृतिकर्मणि भजना मन्तव्या, कारणे तेषामपि कृतिकर्म विधेयमिति भावः । अथ न कुर्वन्ति ततो महान् दोषो भवति, यथा अजापालकवाचकमवन्दमाना अगीतार्था शिष्या दोषं प्राप्तवन्त इति वाक्यशेषः । अथवा “सीस"त्तिसंविग्नविहारा लिङ्गाद्वा परिच्युतं स्वगुरुंरहसि शीर्षेण प्रणम्य वक्तव्यम्-भगवन् ! युष्माभिः परित्यक्ताः सन्तः साम्प्रतमनाथा वयम्, अतः कुरुतोद्यमं भूयश्चरणकरणानुपालनायामिति ॥ अथ “ओमे आवत्र संजईओ"त्ति गाथावयवं विवृणोति[भा.४५३६] आलोयण-सुत्तट्ठा, खामण ओमे य संजतीसुंच। आवन्नो कज्जकज्जं, करेइ न य वंदती अगुरुं॥ वृ-आलोचनानिमित्तं सूत्रार्थग्रहणार्थं चावमस्यापि वन्दनकं दातव्यम् । क्षामणके तु सएव रत्नाधिकानां वन्दनकं दद्यात् । संयतीनामप्यालोचना-सूत्रार्थनिमित्तं कृतिकर्म कर्त्तव्यम् । यः पुनरापन्नपरिहारिकः सः 'कार्यकार्य' कुलकार्यादि करोति। “अगुरुं"ति गुरुं मुक्त्वा न कमपि साधुंवन्दते। उपलक्षणमिदम्, तेन नचासौ केनापि साधुना वन्द्यते।।अथअजापालकदृष्टान्तमाह[भा.४५३७] पेसविया पच्चंतं, गीतासति खित्तपेहग अगीया। पेहियखित्ता पुच्छंति वायगं कत्थ रन्ने ति॥ [भा.४५३८] ओसकते दटुं, संकच्छेती उ वातगो कुविओ। ___ पल्लिवति कहण रुंभण, गुरु आगम वंदणं सेहा ।। वृ-केनचिदाचार्येण गीतार्थाभावेऽगीतार्थासाधवः प्रत्यन्तपल्लयां क्षेत्रप्रत्युपेक्षकाःप्रेषिताः। तत्रच भ्रष्टव्रतएको वाचको राजकुले यत्कृतप्रमाणः परिवसति।तेच प्रत्युपेक्षितक्षेत्राःसाधवस्तं वाचकं लोकस्य समीपे पृच्छन्ति-कुत्रासौ तिष्ठति ? । लोकेनोक्तम्-अरण्ये । ततस्तेऽपि तत्र Page #36 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- ९७ [भा. ४५३८] ३३ गताः, तं चाजारक्षणप्रवृत्तं भ्रष्टव्रतं दृष्ट्वा 'अद्रष्टव्योऽयम्' इति विमृश्यागीतार्थत्वेन शनैः शनैरवष्वष्कन्ति । तांश्च तथा दृष्ट्वा वाचकस्य शङ्का-किमेतेऽपसर्पन्ति ? इति नूनं मां भ्रष्टव्रतं ज्ञात्वा । ततः शङ्काच्छेदी स वाचकः कुपितः सन् पल्लीपतेः कथयित्वा तेषामगीतार्थानां " रुम्मणं” गुप्तौ प्रक्षेपणं कृतवान् । ततस्तदन्वेषणार्थं गुरूणां तत्रागमनम्। ते च तं वाचकं वन्दित्वा 'शिक्षकाः' अगीतार्था एते इत्याद्युक्त्वा स्वशिष्यान् मोचितवन्तः । एवं श्रेणिबाह्यानामपि वन्दनकं कर्त्तव्यम् । अथ "सीस "त्ति पदं प्रकारान्तरेण व्याचष्टे [भा. ४५३९] अहवा लिंग-विहाराओ पच्चयं पणिवयत्तु सीसेणं । भणति रहे पंजलिओं, उज्जम भंते! तव-गुणेहिं ।। वृ- अथवा लिङ्गाद् वा संविग्नविहाराद् वा प्रच्युतं स्वगुरुं रहसि शीर्षेण प्रणिपत्य 'प्राञ्जलिकः ' रचिताञ्जलिपुटो भणति-भदन्त ! प्रसादं विधाय उद्यच्छ तपो-गुणेषु, अनशनादौ तपःकर्मणि मूलगुणोत्तरगुणेषु च प्रयत्नं कुर्विति भावः । एवमादिके कारणे श्रेणिबाह्यानामपि 'कृतिकर्म' वन्दनकं कर्त्तव्यम् ।। अथ न करोति तत इदं प्रायश्चित्तम् [भा. ४५४०] उप्पन्न कारणम्मिं, कितिकम्मं जो न कुज दुविहं पि । पासत्थादीयाणं, उग्घाया तस्स चत्तारि ॥ वृ-उत्पन्ने वक्ष्यमाणे कारणे यः कृतिकर्म 'द्विविधमपि' अभ्युत्थान-वन्दनकरूपं पार्श्वस्थादीनां न कुर्यात् तस्य चत्वार उद्धाता मासा भवन्ति, चतुर्लघुकमित्यर्थः । शिष्यः प्राह[ भा. ४५४१] दुविहे किइकम्मम्मिं, वाउलिया मो निरुद्धबुद्धीया । आतिपडिसेहितम्मिं, उवरिं आरोवणा गुविला ।। वृ- एवं 'द्विविधे' अभ्युत्थान-वन्दनलक्षणे कृतिकर्मणि पूर्वं प्रतिषिध्य पश्चादनुज्ञाते सति 'व्याकुलिताः' आकुलीभूता वयम्, अत एव निरुद्धा-संशयक्रोडीकृता बुद्धिर्येषां ते निरुद्धबुद्धिकाः सञ्जाता वयम् । कुतः ? इत्याह-आदौ प्रथमं प्रतिषिद्धं- 'द्विविधमपि कृतिकर्म न वर्त्तते पार्श्वस्थादीनां कर्त्तुम्' आरोपणा च महती तत् कुर्वतो निर्दिष्टा; “उवरिं 'ति इदानीं पुनस्तेषां वन्दनकमप्रयच्छतो या चतुर्लघुकाख्या आरोपणा प्रतिपाद्यते सा 'गुपिला' गम्भीर, नास्या भावार्थं वयमवबुध्यामहे इति भावः ।। सूरिराह- उत्सर्गतो न कल्पते पार्श्वस्थादीन् वन्दितुम्, परम् [भा. ४५४२ ] गच्छपरिरक्खणट्ठा, अनागतं आउवायकुसलेण । एवं गणाधिवतिमा, सुहसीलगवेसणा कज्जा ॥ वृ- अवम- राजद्विष्टादिषु ग्लानत्वे वा यदशन-पानाद्युपग्रहकरणेन गच्छस्य परिपालनं तदर्थम् 'अनागतम्' अवमादिकारणे अनुत्पन्न एव 'आयोपायकुशलेन' आयो नाम पार्श्वस्थादेः पाश्र्वाद् निप्रत्यूहसंयमपालनादिको लाभः उपायो नाम तथा कथमपि करोति यथा तेषां वन्दनकमददान एव शरीरवार्त्ता गवेषयति; न च तथा क्रियमाणे तेषामप्रीतिकमुपजायते प्रत्युत स्वचेतसि ते चिन्तयन्ति-अहो ! एते स्वयं तपस्विनोऽपि एवमस्मासु स्निह्यन्ति; तत एतयोरायोपाययोः कुशलेन गणाधिपतिना 'एवं' वक्ष्यमाणप्रकारेण सुखशीलानां पार्श्वस्थादीनां गवेषणा कार्या ॥ तत्र येषु स्थानेषु कर्तव्या तानि दर्शयति 20 3 Page #37 -------------------------------------------------------------------------- ________________ ३४ बृहत्कल्प - छेदसूत्रम् - ३-३/९७ [भा. ४५४३ ] याहिं आगमनपहे, उज्जाने देउले सभाए वा । रच्छ उवस्सय बहिया, अंतो जयणा इमा होइ ॥ वृ-यत्र ते ग्राम-नगरादौ तिष्ठन्ति तस्य बहि स्थितो यदा तान् पश्यति तदा निराबाधवार्त्ता गवेषयति । यदा वा ते भिक्षाचर्यादौ तत्रागच्छन्ति तदा तेषामागमनपथे स्थित्वा गवेषणं करोति । एवमुद्याने दृष्टानाम्, चैत्यवन्दनिमित्तं गतैर्देवुले वा समवसरणे वा दृष्टानाम्, रध्यायां वा भिक्षामटतामभिमुखागमन मिलितानां वार्त्ता गवेषणीया । कदाचित् ते पार्श्वस्थादयो ब्रवीरन्अस्माकं प्रतिश्रयं कदाऽपि नागच्छत; ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपिगत्वा तत्रोपाश्रयस्य बहि स्थित्वा सर्वमपि निराबाधतादिकं गवेषयितव्यम् । अथ गाढतरं निर्बन्धं ते कुर्वन्ति तत उपाश्रयस्य 'अन्तः' अभ्यन्तरतोऽपि प्रविश्य गवेषयतां साधूनाम् 'इयं' वक्ष्यमाणा पुरुषविशेषवन्दनविषया यतना भवति । पुरुषविशेषं तावदाह [भा. ४५४४] मुक्कधुरा संपागड अक्किच्चे चरण-करणपरिहीने । 'लिंगावसेसमित्ते, जंकीरइ तारिसं वोच्छं ॥ वृधूः संयमधुरा सा मुक्ता - परित्यक्ता येन स मुक्तधुरः, सम्प्रकटानि - प्रवचनोपघातनिरपेक्षतया समस्तजनप्रत्यक्षाणि अकृत्यानि-मूलोत्तरगुणप्रतिसेवनारूपाणि यस्य स सम्प्रकटाकृत्यः, अत एव चरणेन-व्रतादिना करणेन च पिण्डविशुध्यादिना परिहीनः, एताशे 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते 'यद्' याध्शं वन्दनं क्रियते तादृशमहं वक्ष्ये ॥ . [भा. ४५४५ ] वायाए नमोकारो, हत्थुस्सेहो य सीसनमनं च । संपुच्छणऽच्छणं छोभवंदनं वंदनं वा वि ॥ वृ- बहिरागमनपथादिषु दृष्टस्य पार्श्वस्थादेर्वाचा नमस्कारः क्रियते, 'वन्दामहे भवन्तं वयम्' इत्येवमुच्चार्यत इत्यर्थः । अथासौ विशिष्टतर उग्रतरस्वभावो वा ततो वाचा नमस्कृत्य 'हस्तोत्सेधम्' अञ्जलिं कुर्यात् । ततोऽपि विशिष्टतरेऽत्युग्रस्वभावे वा द्वावपि वाङनमस्कार - हस्तोत्सेधौ कृत्वा तृतीयं शिरः प्रणामं करोति । एवमुत्तरोत्तरविशेषकरणे पुरुष-कार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या । “संपुच्छणं”ति पुरतः स्थित्वा भक्तिमिव दर्शयता शरीरवार्त्तायाः सम्प्रच्छनं कर्त्तव्यम्, कुशलं भवतां वर्त्तत इति । “अच्छणं ”ति शरीरवार्त्ता प्रश्नयित्वा क्षणमात्रं पर्युपासनम् । अथवा पुरुषविशेषं ज्ञात्वा तदीयं प्रतिश्रयमपि गत्वा छोभवन्दनं सम्पूर्णं वा वन्दनं दातव्यम् ॥ अथ किमर्थं प्रथमतो वाचैव नमस्कारः क्रियते ? कारणाभावे वा किमिति मूलत एव कृतिकर्म न क्रियते ? इत्याशङ्कयाह [भा. ४५४६] जइ नाम सूइओ मि, त्ति वज्जितो वा वि परिहरति कोयी । इति विहु सुहसीलजनो, परिहज्जो अनुमती माय ॥ वृ-यदि नाम कश्चित् पार्श्वस्थादिर्वाङनमस्कारमात्रकणेन अहो ! 'सूचितः' तिरस्कृतोऽहममुना भङ्गयन्तरेणेति, सर्वथा कृतिकर्माकरमेन वा 'वर्जितः' परित्यक्तोऽहममीभिरिति पराभवं मन्यमानः सुखशीलविहारितां परिहरति । "इय" एवंविधमपि कारणमवलम्ब्य परिहार्य कृतिकर्मिण सुखशीलजनः, न केवलं पूर्वोक्तं दोषजालमाश्रित्येत्यपिशब्दार्थः । अपि चतस्य कृतिकर्मणि विधीयमाने तदीयायाः सावद्यक्रियाया अप्यनुमति कृता भवति, अतः सा मा भूदिति बुध्याऽपि Page #38 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-९७, [भा. ४५४६] ३५ न वन्दनीयोऽसौ । किञ्च[भा.४५४७] लोए वेदे समए, दिट्ठो दंडोअकज्जकारीणं । . दम्मति दारुणा विहु, दंडेन जहावराहेन । वृ-'लोके' लोकाचारे 'वेदे समस्तदर्शनिनांसिद्धान्ते समये राजनीतिशास्त्रे 'अकार्यकारिणां' चौरिकाद्यपराधविधायिनां ‘दण्डः'असम्भाष्यता-शलाका-निर्गृहणादिलक्षणः प्रयुज्यमानो दृष्टः। कुतः पुनरसौ प्रयुज्यते? इत्याह-'दारुणाः' रौद्रास्तेऽपि यथापराधेन' अपराधानुरूपेण दण्डेन दीयमानेन ‘दम्यन्ते' वशीक्रियन्ते । अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्डः प्रयुज्यते । एतच्च कारणाभावमङ्गीकृत्योक्तम्, कारणेतु वाङनमस्कारादिकं वन्दनकपर्यन्तं सर्वमपि कर्तव्यम् ।। यत आह[भा.४५४८] वायाए कम्मुणा वा, तह चिट्ठति जह न होति से मन्नु । पस्सति जतो अवायं, तदभावे दूरतो वजे ॥ वृ-'यतः' पार्श्वस्थादेः सकाशाद्कृतिकर्मण्यविधीयमाने अपायं संयमा-ऽऽत्मविराधनादिकं पश्यति तंप्रति 'वाचा' मधुरसम्भाषणादिना 'कर्मणा' शिरःप्रणामक्रिययातथा चेष्टते यथा तस्य 'मन्यु' स्वल्पमप्यप्रीतिकं न भवति। अथावन्दनेऽपि संयमोपघातादिरपायो न भवति ततस्तस्यअपायस्याभावेदूरतस्तंसुखशीलजनं वर्जयेत्, एष विषयविभागः कृतिकर्मकरणाऽकरणयोरिति भावः॥ [भा.४५४९] एताइं अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे। न भवति पवयणभत्ती, अभत्तिमंतादिया दोसा ।। वृ-'एतानि' वाङ्नमस्कारादीनि पार्श्वस्थादीनां यथाऽर्ह' यथायोग्यमहद्दशिते मार्गे स्थितः सन् कषायोत्कटतयायो न करोति तेन प्रवचने भक्ति कृतान भवति, किन्तु अभक्तिमत्त्वादयो दोषाभवन्ति; तत्राऽऽज्ञाभङ्गेन भगवतामभक्तिमत्त्वं भवति, आदिशब्दात्स्वार्थपरिभ्रंशःचारिकहेरिकाद्यभ्याख्यानप्राप्ति बन्धनादयश्च दोषा भवन्ति ॥कानिपुनस्तेषांवन्दने कारणानि? इत्याह[भा.४५५०] परिवार परिस पुरिसं, खित्तं कालंच आगमं नाउं । . कारणजाते जाते, जहारिहं जस्स कायव्वं ।। वृ-परिवार पर्षदं पुरुष क्षेत्रं कालं च आगमंज्ञात्वा तथा कारणानि-कुल-गणादिप्रयोजनानि तेषां जातं-प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद् वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्त्तव्यम् ।। अथ परिवारादीनि पदानि व्याचष्टे[भा.४५५१] परिवारो से सुविहितो, परिसगतो साहती व वेरगं। मानी दारुणभावो, निसंसं पुरिसाधमों पुरिसो॥ वृ-"से" तस्य पार्श्वस्थादेर्य परिवारः सः 'सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । 'पर्षदि गतो वा' सभायामुपविष्टः 'वैराग्यम्' इति कारणे कार्योपचारात् संसारवैराग्यजनकं धर्मं स कथयतियेनप्रभूताःप्राणिनः संसारविरक्तचेतसः सञ्जायन्ते।तथा कश्चित्पार्श्वस्थादिस्वभावादेव 'मानी' साहङ्कारः तथा 'दारुणभावः' रौद्राध्यवसायः 'नृशंसो नाम' क्रूरकर्मा अवन्धमानो वधबन्धादिकं कारयतीत्यर्थः, अतएव पुरुषाणांमध्येऽधमः पुरुषाधमः एताशः पुरुषइह गृह्यते।। Page #39 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् - ३-३/९७. ३६ [ भा. ४५५२] लोगपगतो निवे वा, अहवण रायादिदिक्खितो होज्जा । खित्तं विहमादि अभावियं व कालो यऽनाकालो ॥ वृ- यद्वा 'लोकप्रकृतः' बहुलोकसम्मतः, 'नृपप्रकृतो वा' धर्मकथादिलब्धिसम्पन्नतया राजबहुमतः, “अहवण"त्ति अथवा राजादिदीक्षितोऽसौ शैलकाचार्यादिवद्, एवंविधः पुरुष इह प्रतिपत्तव्यः । क्षेत्रं नाम विहादिकमभावितं वा । विहं कान्तारम्, आदिशब्दात् प्रत्यनीकाधुपद्रवयुक्तम्, तत्र वर्त्तमानानां साधूनामसावुपग्रहं करोति । 'अभावितं नाम' संविग्नसाधुविषयश्रद्धाविकलम्, पार्श्वस्थादिभावितमित्यर्थः, तत्र तेषामनुवृत्तिं विदधानैः स्थातव्यम् । कालश्च “अनागालो” दुष्काल उच्यते, तत्र साधूनां वर्त्तापनं करोति । एवं परिवारादीनि कारणानि विज्ञाय कृतिकर्म विधेयम् ॥ आगमग्रहणेन च द्वारगाथायां दर्शन - ज्ञानादिको भावः सूचितः, अतस्तमङ्गीकृत्य विधिमाह[ भा. ४५५३] दंसण-नाण-चरित्तं, तव - विनयं जत्थ जत्तियं जाणे । जिनपन्नत्तं भत्तीइ पूयए तं तहिं भावं ॥ वृ- दर्शनं च निशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च आचारादि श्रुतं चारित्रं चमूलोत्तरगुणानुपालनात्मकं दर्शन - ज्ञान- चारित्रम्, द्वन्द्वैकवद्भावः । एवं तपश्च-अनशनादि विनयश्च अभ्युत्थानादि तपो-विनयम् । एतद् दर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे 'यावद्' यत्परिमाणं स्वल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव 'भक्त्या' कृतिकर्मादिलक्षणया पूजयेत् ॥ मू. (९८) नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि चिट्ठित्तए वा निसीयत्तए वा जाव काउस्सग्गं वा ठाणं ठाइत्तए । अह पुन एवं जाणिज्जा-वाहिए जराजुन्ने तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज वा, एवं से कप्पइ अंतरगिहंसि चिट्ठित्तए वा जाव ठाणं ठाइत्तए । [भा. ४५५४] राइनिओ य अहिगतो, स चाव थेरो अनंतरे सुत्ते । तस्संतराणि कप्पंति चिट्ठणादीणि संबंधो ॥ वृ-वस्त्रपरिभाजनसूत्रादारभ्य पूर्वसूत्रेषु 'रालिकोऽधिकृतः' रत्नाधिकस्याधिकारोऽनुवर्त्तते। 'सचापि' रानिकः कृतिकर्मसूत्रादनन्तरस्मिन् सूत्रे शय्यासंस्तारकविषये 'स्थविरः' षष्टिवर्षपर्याय उक्तः । उपलक्षणमिदम्, तेन ग्लानस्तपस्वी च यः पूर्वं रालिकतया व्याख्यातः सोऽप्यत्राधिक्रियते । ‘तस्य च’ स्थविरादेः ‘आन्तराणि' गृहद्वयान्तरालभावीनि स्थानादीनि कर्तुं कल्पन्ते, न शेषस्य तरुणादेः समर्थशरीरस्येत्येतदत्र सूत्रे प्रतिपाद्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'अन्तरगृहे' गृहस्य गृहयोर्वा अन्तराले, राजदन्तादित्वाद् आर्षत्वाद् वा अन्तरशब्दस्य पूर्वनिपातः, स्थातुं वा निषत्तुं वा; यावत्करणात् त्वग्वर्त्तयितुं वा निद्रायितुं वा प्रचलायितुं वा, अशनं वा पानं वा स्वादिमं वा स्वादिमं वा (आहारं ] आहर्तुम्, उच्चारं वा प्रश्रवणं वा खेलं वा सिङ्घानं वा परिष्ठापयितुम्, स्वाध्यायं वा कर्तुम्, ध्यानं वा ध्यातुम्, "काउस्सग्गं" ति कायोत्सर्गलक्षणं वा स्थानं 'स्थातुं' कर्तुम् । सूत्रेणैवापवादं दर्शयति-अथ पुनरेवं जानीयात् "वाहिए" इत्यादि 'व्याधितः' ग्लाः 'जराजीर्णः' स्थविरः 'तपस्वी' क्षपकः 'दुर्बलः' ग्लानत्वादधुनैवोत्थितोऽसमर्थशरीरः, एतेषां मध्यादन्यतमस्तपसा भिक्षापर्यटनेन वा Page #40 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं- ९८, [ भा. ४५५४ ] ३७ ‘क्लान्तः’ परिश्रान्तः सन् मूर्च्छद्वा प्रपतेद्वा; एवं कारणमुद्दिश्य कल्पते अन्तरगृहे स्थातुं वा यावत् कायोत्सर्गं वा कर्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः [भा. ४५५५ ] सब्भावमसब्भावे, दुण्ह गिहानंतरं तु सब्भावे । पास पुरोहड अंगन, मज्झम्मि य होतऽ सब्मावं ॥ वृ-गृहान्तरं द्विधा - गृहान्तरं द्विधा-सद्भावतोऽसद्भावतश्च । द्वयोर्गृहयोर्यद् 'अन्तरं' मध्यं तत् सद्भावगृहान्तरम् । यत्तु गृहस्य पार्श्वतः पुरोहडेऽङ्गणे गृहमध्ये वा तद् असद्भावगृहान्तरं भवति । एतस्मिन् द्विविधेऽपि भिक्षाद्यर्थं निर्गतस्य स्थानादि कर्तुं न कल्पते ।। कुडुंतर भित्तीए, निवेसन गिहे तहेव रच्छाए । ठायंतगाण लहुगा, तत्थ वि आणादिणो दोसा ।। [ भा. ४५५६ ] वृ-द्वयोः कुड्ययोरन्तरे, "भित्तीए "त्ति शटित पतितस्याभिनवक्रियमाणस्य वा गृहस्य भित्ती, 'निवेशने वा' त्रिप्रभृतीनां गृहाणामाभोगे, “गिहि” त्ति गृहपार्श्वे, 'रथ्याया' प्रतीतायाम् एतेषु स्थानेषु तिष्ठतश्चतुर्लघुकाः, तत्राप्याज्ञादयो दोषा मन्तव्याः, तन्निमितं प्रायश्चित्तं प्रायश्चित्तं पृथग् भवतीति भावः ॥ तथा[भा. ४५५७ ] खरए खरिया सुण्हा, नट्टे वट्टक्खुरे व संकिज्जा । खन्ने अगनिक्काए, दारे वति संकणा तिरिए । वृ- ‘खरकः’ दासः ‘खरिका’ दासी 'सुषा' वधुः 'वृत्तखुरः' तरुङ्गमः, एतेषु नष्टेषु साधुः शङ्कयेत-यः श्रमणकः कल्पेऽत्र गृहान्तरे उपविष्ट आसीत् तेन हृतं भविष्यति, द्वारे वा श्रमणेनोद्धाटिते स्तेनः प्रविश्य हृतवनिति । " खन्नि" त्ति खत्रं केनचित् स्वातम् दत्तमित्यर्थः, अग्निकायो वा केनापि दत्तो भवेत्, द्वारेण वा प्रविश्य वृतिं वा छित्त्वा केनापि सुवर्णादिकमपहृतं स्यात्, तिर्यग्योनीयो गो-महिषीप्रभृतिको हतो भवेत्, तत्रापि शङ्कायां प्रहणनाऽऽकर्षणादयो दोषाः । यत एवमतो गृहान्तरे न स्थातव्यम् ॥ अथ सूत्रोक्तं द्वितीयपदं भावयति [भा. ४५५८ ] उच्छुद्धसरीरे वा, दुब्बल तवसोसिते व जो होज्जा । थेरे जुन्न-महल्ले, वीसंभणवेस हतसंके ।। वृ- उच्छुद्धं - रोगाघ्रातं शरीरं यस्य स उच्छुद्धशरीरः, वाशब्द उत्तरापेक्षया विकल्पार्थे, 'दुर्बलः' अधुनोत्थितग्लानः, 'तपः शोषितो वा' विकृष्टतपोनिष्टप्तदेहो यो भवेत्, यो वा स्थविर: 'जीर्णः ' षष्टिवर्षातिक्रान्तजन्मपर्यायः सोऽपि यदि 'महान् ' सर्वेभ्योऽपि वृद्धतरः; एते विश्रामग्रहणार्थं गृहान्तरे तिष्ठेयुः । इह च व्याधितादय उत्सर्गतो भिक्षाटनं न कार्यन्ते, परम् आत्मलब्धिकादिकारणापेक्षया भिक्षामटतां प्रकृतसूत्रावतारो मन्तव्यः । स च व्याधितादिः 'विश्रम्भणवेषः’ संविग्नवेषधारी ‘हतशङ्कश्च’ हास्यादिविकारविकलतया असम्भावनीयव्यलीकशङ्कः सन् तत्र स्थानादीनि पदानि कुर्यात् ॥ [ भा. ४५५९ ] अहवा ओसहहेउं, संखडि संघाडए व वासासु । वाघाए वा तत्थ उ, जयणाए कप्पती ठातुं ॥ वृ- सूत्रोक्तस्तावदपवादो दर्शितः, अथार्थतः प्रकारान्तरेणाप्युच्यते इत्यथवाशब्दार्थः । औषधहेतोर्दातारं गृहेऽस्वाधीनं प्रतीक्षते सङ्खड्यां वा यावद् वेला भवति, सङ्घाटकसाधुर्वा Page #41 -------------------------------------------------------------------------- ________________ ३८ बृहत्कल्प-छेदसूत्रम् -३-३/९८ यावद्भक्त-पानभृतंभाजनंवसतौ विभुच्य समागच्छति, वर्षासुवागृहं प्रविष्टानां वर्षं निपतेत्, वधु-वराद्यागमनेन वा रथ्यायां व्याघातो भवेत् तावत् तत्रैव गृहान्तरे 'यतनया' वक्ष्यमाणया स्थातुं कल्पते । एष द्वाराथासमासार्थः।। अथैनामेव विवरीषुरौषध-सङ्घडिद्वारे व्याख्यानयति[भा.४५६०] पीसंति ओसहाई, ओसहदाता व तत्थ असहीणो। संखडि असतीकालो, उटुिंतेवा पडिच्छंति॥ वृ-ग्लानस्यौषधानि पेष्टव्यानि, तत्र पेषणशिला प्रतिश्रयेनेतुंन लभ्यते ततस्तेषामेवागारिणां गृहान्तरे स्थित्वा तानि पिंषन्ति । औषधमार्गणार्थं वा कस्यापि गृहं गताः, सचौषधदाता तदानीं तत्रास्वाधीनः, अतस्तं प्रतीक्षमाणैः स्थातव्यम् । सङ्खडी च क्वापि वर्तते, तत्र च 'असत्कालः' अद्यापि देशकालो न भवति, गृहस्वामिना चोक्तम्-प्रतीक्षध्वं क्षणमेकं यावद् वेला भवति, ततस्तस्मिन्नन्यस्मिन् वा गृहे प्रतीक्षणीयम्; अगारिणो वा तदानीं गृहाङ्गणमापूर्य भोक्तुमुपविष्टाः सन्ति ततस्तान् उत्तिष्ठतः प्रतीक्षन्ते। सङ्घाटकद्वारमाह[भा.४५६१] एगयर उभयओवा, अलंभे आहन्च वा उभयलंभो। वसहिं जा नेएगो, ता इअरो चिट्ठई दूरे॥ वृ-'एकतरस्य' भक्तस्य वापानकस्य वा उभयोर्वा 'अलाभे दुर्लभतायामित्यर्थ, "आहच्च" कदाचिदुभयमपि प्रचुरतरंलब्धम्, तेन च भाजनमापूरितम्, ततः सङ्घाटकस्य मध्याद्यावदेकः तद् भाजनं वसतिं नयति तावदितरः साधुरगारिणां दूरे भूत्वा तिष्ठति । एष चूर्ण्यभिप्रायः । पुनरयम्-भक्तस्य पानस्य वा उभयस्य वा दुर्लभस्य लाभः समुपस्थितः, मात्रकंचतस्मिन् दिने अनाभोगेन नगृहीतम्ततो यावदेको मात्रकं वसतेरानयतितावदितरस्तत्रगृहीणां दूरे तिष्ठतीति। वर्षाद्वारमाह[भा.४५६२] वासासु व वासंते, अनुन्नवित्ताण तत्थऽनावाहे। ___ अंतरगिहे गिहे वा, जयणाए दो वि चिट्ठति ॥ वृ-वर्षासु वाक्वापिगृहे गतानांवर्षेवर्षतिगृहस्वामिनमनुज्ञाप्य तत्रानाबाधेऽवकाशेऽन्तरगृहे वा गृहे वा 'द्वावपि' सङ्घाटकसाधू 'यतनया' विकथादिपरिहारेण तिष्ठतः ।। प्रत्यनीकद्वारमाह[भा.४५६३] पडिनीय निवे एंते, तस्स व अंतउरे गते फिडिए। वुग्गह निव्वहणाती वाघातो एवमादीसु॥ वृ-प्रत्यनीकं समागच्छन्तं दृष्ट्वा यावदसौ व्यतिव्रजति तावदेकान्ते निलीय तिष्ठन्ति । नृपो वा सम्मुखमेति, तस्य वा नृपस्यान्तःपुरं 'गजो वा' हस्ती निर्गच्छति, ततो यावदसौ स्फिटितो भवति तावत्तत्रैवासते। “वुग्गह"त्ति दण्डिकौ द्विजौवा द्वौपरस्परं विग्रहं कुर्वन्तौसमागच्छतः, "निव्वहणं" ति वधु-वरं तद् महता विच्छर्दैन समायाति, आदिशब्देन गौष्ठिका गीतं गायन्तः समायान्ति, एवमादिषु कारणेषु व्याधातः' तत्रैव प्रतीक्षणलक्षणो भवति॥ तत्र च तिष्ठतामियं यतना[भा.४५६४] आयाणगुत्ता विकहाविहीना, अच्छन्न छन्ने व ठिया विट्ठा । अच्छंति ते संतमुहा निवि, भजंति वा सेसपदे जहुत्ते ॥ . वृ-आदानैः-इन्द्रियैर्गुप्ताःतथा विकथया-भक्तकथादिरुपया विशेषेण हस्तसंज्ञादेरपिपरिहारेण Page #42 -------------------------------------------------------------------------- ________________ ३९ उद्देशक ः ३, मूलं-९८, [भा. ४५६४] हीनाः-त्यक्ताः तत्र गृहान्तरेऽच्छन्ने वा छन्ने वा प्रदेशे ऊद्रधवस्थिता उपविष्टा वा 'ते' साधवः शान्तमुखाआसते। निविश्य च' उपविश्य शेषाण्यपि-स्वाध्यायविधानादीनि यथोक्तानि पदानि यथायोगं भजन्ते, न च दोषमापद्यन्ते ।। कथम्? इति चेद् उच्यते[भा.४५६५] थाणं च कालंच तहेव वत्युं, आसज्ज जे दोसकरे तु ठाणे । तेचेव अन्नस्स अदोसंते, भवंति रोगिस्स व ओसहाई॥ वृ-'स्थानंच' स्त्री-पशु-पण्डकसंसक्तभूभागादि कालंच ऋतुबद्धादिकंतथैव वस्तु' तरुणनीरोगादिकं पुरुषद्रव्यमासाद्य यान्येकस्य गृहान्तरे स्थान-निषदनादीनि स्थानानि दोषकारीणि भवन्ति तान्येवान्यस्य पूर्वोक्तविपरीतस्थान-काल-पुरुषवस्तुसाचिव्याद् अदोषवन्ति भवन्ति । रोगिण इवौषधानि-यथा किल यान्यौषधान्येकस्य पित्तरोगिणो दोषाय भवन्ति तान्येवापरस्य वातरोगिणो न कमपि दोषमुपजनयन्ति, एवमत्रापि भावनीयम् ।। मू. (९९) नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहसिजाव चउगाह वा पंचगाहंवा आइक्खित्तए वा विभावित्तए वाकिट्टित्तए वा पवेइत्तए वा; नऽन्नत्थ एगनाएण वा एगवागरणेन वा एगगाहाए वा एगसिलोएण वा; से विय ठिच्च नो चेवनं अद्विचा ।। [भा.४५६६]अइप्पसत्तो खलु एस अत्थो, जं रोगिमादीण कता अनुन्ना । अन्नो वि मा भिक्खगतो करिजा, गाहोवदेसादि अतो तु सुत्तं ।। वृ-अतिप्रसक्तः खल्वेषोऽर्थः, यदनन्तरसूत्रे रोगिप्रभृतीनामन्तरगृहे स्थानादीनामनुज्ञा कृता। एवं हि तत्र स्थानादिपदानि कुर्वन् कश्चिद् धर्मकथामपि कुर्वीत, ततश्चातिप्रसङ्गो भवति, अतोऽन्योऽपि भैक्षगतो मा गाथोपदेशादिकं कार्षीदितीदं सूत्रमारभ्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां अन्तगृहे यावत् चतुर्गाथं वा पञ्चगाथं वा आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा । एतदेवापवदन्नाह-"नऽनथ" इत्यादि, “न कल्पते" इति योऽयं निषेधः स एक ज्ञाताद्वा एकव्याकरणाद्वा एकगाथाया वा एकश्लोकाद्वा अन्यत्र मन्तव्यः । सूत्रे च पञ्चम्याः स्थाने तृतीयानिर्देशः प्राकृतत्वात् । तदपि च एकज्ञातादिव्याख्यानं स्थित्वा कर्त्तव्यम्, नैव अस्थित्वा' भिक्षांपर्यटतोपविष्टेनवा इति सूत्रार्थः।। अत्र विषमपदानि भाष्यकृद् विवृणोति[भा.४५६७] संहियकड्डणमादिक्खणंतु पदछेद मो विभागो उ। सुत्तत्थोकिट्टणया, पवेतणं तप्फलं जाणे ।। वृ-इह संहितायाः-अस्खलितपदोच्चारणरुपाया यद् आकर्षणं तद् आख्यानमुच्यते; तच्चेदम् व्रत-समिति-कषायाणां, धारण-रक्षण-विनिग्रहाः सम्यक् । . दण्डेभ्यश्चोपरमो, धर्म पञ्चेन्द्रियदमश्च ।। एवं भिक्षां गतो गृहस्थानां धर्मकथनार्थं संहिताकर्षणं करोति । यस्तु पदच्छेदः “मो" इति पादपूरणे सः 'विभागः' विभावना भण्यते, यथा-व्रतानां धारणं समितीनां रक्षणं कषायाणां निग्रह इत्यादि । यत्तुसूत्रार्थकथनं सा उत्कीर्तना, साचेयम्-व्रतानि-प्राणातिपातादिविरमणरुपाणि तेषां सम्यग्-अप्रमत्तेन धारणं कर्त्तव्यम्, समितयः-ईर्यासमित्यादयस्तासामेकाग्रचेतसा रक्षणं विधेयमित्यादि । तस्य-धर्मस्य यत् फलम्-ऐहिका-ऽऽमुष्मिकलाभलक्षणं तत्परुपणं प्रवेदनं Page #43 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-३/९९ जानीयात्, यथा- भगवाणीतमसुं धर्ममनुतिष्ठत इहैव भुवनवन्दनीयतायशः प्रवादादयो गुणा उपढौकन्ते, परत्र च स्वर्गा-ऽपवर्गसौख्यप्राप्तिर्भवतीति ॥ एवं श्लोकादेराख्यानादिषु भिक्षां गतेन विधीयमानेषु दोषानाह ४० [भा. ४५६८ ] एक्का वि ता महल्ली, किमंग पुन होंति पंच गाहाओ । साहणे लहुगा आणादिदोस ते च्चेविमे अन्ने ॥ वृ एवं संहितादिविस्तरेण व्याख्यायमाना तावदेकाऽपि गाथा 'महती' महाप्रमाणा भवति, किमङ्ग पुनः पञ्च गाथाः ? । अतो यद्येकामपि गाथां कथयति तदा चतुर्लघुका आज्ञादयश्च दोषाः, तथा तुरङ्गमादिहृत-नष्टशङ्कादयः 'त एव' अन्तरगृहोक्ता दोषा भवन्ति, 'इमेच' वक्ष्यमाणा अन्ये दोषाः । तानेवाह [भा. ४५६९ ] गाहा अद्धीकारग, पोत्थग खररडणमक्खरा चेव । साहारण पडिणत्ते, गिलाण लहुगाई जा चरिमं ।। वृ- भिक्षां पर्यटन कमप्यगारिणमशुद्धां गाथां पठन्तं श्रुत्वा ब्रवीति-विनाशितेयं त्वया गाथा, तथा ‘“अद्धीकारग” त्ति गाथाया अर्धमहं करोमि अर्धं पुनस्त्वया कर्त्तव्यम्, “पुत्यग” त्त्ि पुस्तकादेव भवता शास्त्रमधीतं न पुनर्गुरुमुखात्, "खररडणं" ति किमेवं खर इवारटनं करोषि ? “अक्खरा चेव” त्ति अक्षराण्येव तावद् भवान् जानीते अतः पट्टिकामानय येनाहं भवन्तं तानि शिक्षयामि । इत्यादि ब्रुवाणो यावत् तत्र व्याक्षेपं करोति तावदिभे दोषाः- “साहारणं" ति “साधारणं” सर्वेषु मिलितेषु यद् मण्डल्यां भोजनं तन्निमित्तमितरे साधवस्तं प्रतीक्षमाणास्तिष्ठन्ति । “पडिणत्ति” त्ति तेन साधुना कश्चिद् ग्लानः 'प्रतिज्ञप्तः' अद्याहं भवतः प्रायोग्यमानेष्यामीति, ततस्तेन वेलाविलम्बेन यदसौ ग्लानः परितापादि प्राप्नोति तत्र चतुर्लघुकादि 'चरमं' पाराञ्चिकं यावत् प्रायश्चित्तमिति द्वारगाथासमासार्थः । साम्प्रतमेनामेव व्याख्याति [भा. ४५७० ] भग्गविभग्गा गाहा, भणिइहीना व जा तुमे भणिता । अद्धं से करेमि अहं, तुमं से अद्धं पसाहेहि ॥ वृ-साधुर्भिक्षां गतः स्वपाण्डित्यख्यापनार्थं गृहस्थं पठन्तं श्रुत्वा ब्रवीति-येयं त्वया गाथा भणिता सा भग्नविभग्ना भणितिहीना वा कृता, यद्वा अर्धं "से" तस्या गाथाया अहं करोमि अर्धं पुनस्त्वं प्रसाधय इत्येवमभिनवा गाथा क्रियते ॥ [भा. ४५७१ ] पोत्थगपच्चयपढियं, किं रडसे रासहु व्व असिलायं । अकयमुह ! फलयमानय, जा ते लिक्खंतु पंचग्गा ॥ वृ- पुस्तकप्रत्ययादेव भवता पठितं न गुरुमुखाद् अतः किमेतेन प्रयासेन ?, किं वा त्वमेवं रासभ इव " असिलायं" विस्वरमारटसि ?, यद्वा अकृतम्- अक्षरसंस्कारेणासंस्कृत मुखं यस्यासावकृतमुखस्तस्यामन्त्रणं हे अकृतमुख ! पठितशिक्षित एव भवान् किमपि ज्ञास्यति, अतः 'फलक' पट्टिकामानय येन तव योग्यनि 'पञ्चाग्राणि' अक्षराणि लिख्यन्तामस्माभि ॥ एवं भिक्षां पर्यटन यदि विकत्थते ततं इदं प्रायश्चित्तम् [भा. ४५७२ ] लहुगादी छग्गुरुमा, तव कालविसेसिया व चउलहुगा । अधिकरणमुत्तरुत्तर, एसण-संकाइ फिडियम्मि ।। Page #44 -------------------------------------------------------------------------- ________________ उद्देशकः ३, मूलं-९९, [भा. ४५७२] वृ- गाथायाम् अर्धीकारके च चतुर्लघु, पुस्तके चतुर्गुरु, अक्षरशिक्षणे षड्लघु, स्वररटने षड्गुरु ।अथवा तपः-कालविशेषिताश्चतुर्लघुकाः, तद्यथा-गाथा-ऽर्थीकारकयोस्तपः-कालाभ्यां लघुकाः, पुस्तके कालेन गुरुकाः, अक्षरेषु तपसा गुरुकाः, खररटने तपसा कालेन च गुरुकाः । 'अधिकरणंच कलहस्तेन समंभवति, उत्तरोत्तराः' उक्तिप्रत्युक्तीः कुर्वाणस्य च तस्य भिक्षाया देशकालः स्फिटति, तस्मिन् स्फिटिते पर्यटन्नेषणायाः प्रेरणं कुर्यात्, अकालचारिणश्च शङ्कादयो दोषा भवन्ति॥ [भा.४५७३] वामद्दति इय सो जाव तेन ता गहियभोयणा इयरे। ___अच्छंते अंतरायं, एमेव य जो पडिन्नत्तो।। वृ-यावदसौतेन सममुत्तरप्रत्युत्तरिकां कुर्वन् ‘व्यामृद्राति' व्याक्षेपेण वेलां गमयति तावदितरे साधवो गृहीतभोजनाः सन्त आसते, ततोऽन्तरायदोषः । एवमेव च यो ग्लानः 'प्रतिज्ञप्तः' 'त्वद्योग्यं प्रायोग्यमद्य मया आनेतव्यम्' इत्यभ्यर्थितः तस्मिन्नपि तावन्तं कालं बुभुक्षिते तिष्ठति तस्य साधोरन्तरायं भवति॥ [भा.४५७४] कालाइक्कमदाने, होइ गिलाणस्स रोगपरिवुड्डी। परितावऽनगाढाती, लहुगाती जाव चरिमपदं ।। वृ-कालातिक्रमेण च ग्लानस्य भक्त-पानदाने रोगपरिवृद्धिर्भवति । ततश्च यदसावनागाढपरितापनादिकं प्राप्नोति तत्र चतुर्लघुकादि प्रायश्चित्तं यावत् कालगते 'चरमपदं' पाराञ्चिकम् । द्वितीयपदे गोचरप्रविष्टोऽपि परेण पृष्टः सन् कथयेत् ।। किं कारणम् ? इति चेद् उच्यते[भा.४५७५] किं जाणंति वरागा, हलं जहित्ताण जे उ पव्वइया। एवंविधो अवन्नो, मा होहिइ तेन कहयंति॥ वृ-यदा परेण प्रश्निता अपि न कथयन्ति तदा स चिन्तयति-किमेते वराका जानन्ति ये हलं परित्यज्य प्रव्रजिताः? । एवंविधोऽवर्ण प्रवचनस्य मा भूत् तेन कारणेन कथयन्ति ।। अथ “एगनाएण वा" इत्यादिसूत्रपदव्याचिख्यासयाऽऽह[भा.४५७६] एगं नायं उदगं, वागरणमहिंसलक्खणो धम्मो । गाहाहिं सिलोगेहि व, समासतो तं पि ठिच्चाणं ।। वृ-परप्रश्नितेन विवक्षितार्थसमर्थनार्थमेकं ज्ञातमभिधातव्यम्, तत्रच उदकदृष्टान्तो भवति। 'व्याकरणं' निर्वचनम्, यथा-केनचिद्धर्मलक्षणं पृष्टस्ततः प्रतिब्रूयात्-अहिंसालक्षणो धर्म इति; अथवा गाथाभिः श्लोकैर्वा समासतो धर्मकथनं कर्त्तव्यम् । तदपि च स्थित्वा नोपविष्टेन न वा भिक्षां हिण्डमानेनेति नियुक्तिगाथासमासार्थः । अथैनामेव विवृणोति[भा.४५७७] नज्जइ अनेन अत्थो, नायं दिटुंत इति व एगहुँ । ' वागरणं पुन जा जस्स धम्मता होति अत्थस्स ।। वृ- ज्ञायतेऽनेन दान्तिकोऽर्थ इति ज्ञातं दृष्टान्त इति चैकार्थम् । व्याकरणं पुनर्या यस्य मोक्षादेरर्थस्य 'धर्मता' स्वभावस्तस्य निर्वचनम् ।। अथोदकदृष्टान्तो भाव्यते-एगो साहू उभामगभिक्खायरियाए अन्नं गामं वच्चइ । तत्थ अंतरा गिहत्थो मिलितो । ते दो वि वच्चंता अंतरापहे उदगंउत्तिन्ना । सोअगारो गामं वच्चइ । तत्थ अंतरा गिहत्थो मिलितो। ते दो विवचंता Page #45 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/९९ अंतरापहे उदगं उत्तिन्ना । सो अगारो गामं पविट्ठो । तत्थ यतस्स भगिनी अस्थि तीए घरं पाहुणगो गतो । साहू वि भिक्खं हिंडंतोतं घरंगतो । भगिनीए से पुरेकम्मं कयं । साहुणा पडिसिद्धं । कीस नगिण्हसि? साहू भणइ-उदगसमारंभो, न वट्टइ।अगारोभणति-जंमए समं पंथे उदगं उत्तिन्नो सितं किह कप्पइ? अहो! मायाविनो दुद्दिधम्माणो त्ति । साहू भणति-न वयं मायाविनोन वा दुद्दिट्टधम्माणो । किन्तु[भा.४५७८] पप्पंखु परिहरामो, अप्पप्पविवज्जओ न विनति हु। पप्पं खलु सावजं, वळतो होइ अणवजो॥ वृ-'प्राप्यमेव' परिहर्तुं शक्यमेव वयं परिहरामः, अप्राप्यस्य-परिहर्तुमशक्यस्य मार्गक्रमायातोदकवाहकादेः विवर्जकः-परिर्ता न विद्यते । अत एव प्राप्यं 'सावा' पुरःकर्मादिकं वर्जयन् 'अनवद्यः' निर्दोषो भवति ।।अपिच नायमेकान्तो यदेकत्रानवद्यतया दृष्टं तदन्यत्राप्यनवद्यमेव भवति, तथाहि[भा.४५७९] चिरपाहुणतो भगिनिं, अवयासितो अदोसवं होति । तंचेव मज्झ सक्खी,गरहिज्जइ अन्नहिं काले ॥ वृ-चिरकालादायातःप्राघूर्णको भगिनीम् अवकाशमानः' सस्त्रहमालिङ्गन् अदोषवान् भवति, तथा चात्र त्वमेव मम ‘साक्षी' प्रमाण, साम्प्रतमेव भवता चिरप्राधूर्णकतया भगिनीपरिष्वङ्गस्य कृतत्वादिति भावः । तामेव च भगिनीमन्यस्मिन् काले परिष्वजन् ‘गहते' निन्द्यते, अत्रापि त्वमेव प्रमाणमिति ॥ तथा[भा.४५८०] पादेहिं अधोतेहि वि, अक्कमितूणं पि कीरती अच्चा। सीसेण वि संकिजति, सचेव चितीकया छिविउं । .. 'अर्चा प्रतिमासा यावनाद्यापिप्रतिष्ठितातावदधौतैरपिपादैः ‘आक्रम्य उपरिचटित्वाऽपि क्रियते । सैव प्रतिमा 'चितीकृता' चैत्यत्वेन व्यवस्थापिता शीर्षेणापि स्प्रष्टुं शङ्कयते, शिरसा स्पृशद्भिरपि शङ्का विधीयत इति भावः ॥ [भा.४५८१] केइ सरीरावयवा, देहत्था पूइया न उ विउत्ता। सोहिजंति वनमुहा, मलम्मि बूढे न सव्वे तु ।। - वृ-'केचित् शरीरावयवाः' दन्त-केश-नखादयो देहस्थाः सन्तः 'पूजिताः' प्रशस्ता भवन्ति, न पुनः “वियुक्ताः' शरीरात् पृतग्भूताः । तथा 'व्रणमुखान्यपि' श्रोत्र-चक्षु-पायुप्रभृतीनि मले व्यूढे सति न सर्वाण्यपि शोध्यन्ते किन्तु कानिचिदेवेति ॥ [भा.४५८२] जइ एगत्युवलद्धं, सव्वत्थ वि एव मनसी मोहा। भूमीतो होति कनगं, किन्न सुवन्ना पुनो भूमी ।। वृ-यदि नाम एकत्र यद् उपलब्धं सर्वत्रापितेन भवितव्यम् इत्येवं मोहाद्' अज्ञानाद् मन्यसे, ततः कथय भूमीतः कन्कमुत्पद्यमानं दृश्यते ततः सुवर्णात् पुनरपि किं न भूमिरुप्तद्यते? ॥ [भा.४५८३] तम्हा उ अनेगंतो, न दिट्ठमेगस्थ सव्वहिं होति । ____ लोए भक्खमभक्खं, पिज्जमपिजं च दिट्ठाई॥ वृ-तस्माद् ‘अनेकान्तः' अनियमोऽयम्, कीदृशः? इत्याह-नैकत्र दृष्टं सर्वत्रापि भवतीति । Page #46 -------------------------------------------------------------------------- ________________ ४३ उद्देशक ः ३, मूलं-९९, [भा. ४५८३] तथा च लोके प्राण्यङ्गत्वे समानेऽप्योदन-पकान्नादिकं भक्ष्यं मांस-वसादिकममक्ष्यम्, तक्रजलादिकं पेयं मद्य-रुधिरादिकमपेयम्, इत्यादीनि पृथग् व्यवस्थान्तराणि दृष्टानि; तथाऽत्राप्युदकसमारम्भादौ मन्तव्यानि।। गतमेकज्ञातम्, अथैकव्याकरणेन यथाधर्मोऽभिधीयतेतथादर्शयति[भा.४५८४] जंइच्छसि अप्पणतो, जंचन इच्छसि अप्पणतो। तंइच्छ परस्स विया, एत्तियगं जिनसासनयं॥ वृ-यद्‘आत्मनः' स्वजीवस्य सुखादिकमिच्छसियच्चदुःखादिकमात्मनो नेच्छसितत् परस्यापि' आत्मव्यतिरिक्तस्य जन्तोःइच्छ,आत्मवत्परमपिपश्येतिभावः । एतावजिनशासन इयन्मात्रो जिनोपदेश इति ।। गाथया पुनरित्यं धर्म उपदिश्यते[भा.४५८५] सव्वारंभ-परिग्गहनिक्खेवो सव्वभूतसमया य । एकग्गमनसमाहाणया य अह एत्तिओ मोक्खो।। वृ-सर्वस्य-सूक्ष्म-बादराद्यशेषजीवविषयस्यारम्मस्य सर्वस्यच-सचित्ता-ऽचित्त-मिश्रमेदभिन्नस्य परिग्रहस्य यो निक्षेपः- संन्यासो या च सर्वभूतेषु समता या चैकाग्रमनःसमाधानता 'अथ' एष एतावान् मोक्ष उच्यते, कारणे कार्योपचाराद् एष मोक्षोपाय इत्यर्थ ॥ श्लोकेन यथा[भा.४५८६] सव्वभूतऽप्पभूतस्स, सम्मं भूताई पासओ। पिहियासवस्स दंतस्स, पावं कम्मं न बंधई। वृ-पाठसिद्धः । ये तु संस्कृतरुचयस्तेषामित्थं गाथया श्लोकेन वा धर्मकथा क्रियते व्रत-समित-कषायाणां, धारण-रक्षण-विनिग्रहाः सम्यक् । दण्डेभ्यश्चोपरमो, धर्म पञ्चोन्द्रियदमश्च।। यत्र प्राणिवधो नास्ति, यत्र सत्यमनिन्दितम् । यत्रात्मनिग्रहो दृष्टस्तं धर्ममभिरोचयेत् ॥ वृ-अथ किं कारणं स्थित्वा धर्म कथनीयः? इत्याशङ्कयाह[भा.४५८७] इरियावहियाऽवन्नो, सिटुंपि न गिण्हए अतो ठिच्चा। . भद्दिड्डी पडिनीए, अभियोगे चउण्ह वि परेण ॥ वृ-ईर्यापथिकी-चङ्क्रमणक्रिया तां कुर्वन् यदि कथयति तदा लोकेऽवणों भवति-दुईष्टधर्मोणोऽमी यदेवं गच्छन्तो धर्मं कथयन्ति । अपि च-शिष्टमपि' कथितमपि धर्ममेवं श्रोता न गृह्णाति अतः स्थित्वा एकश्लोकादि कथनीयम् । अथापवादापवाद उच्यते-कश्चिद् भद्रको धर्मश्रद्धालुऋद्धिमान् धर्मं पृच्छति ततः सत्त्वानुकम्पया 'प्रवचनोपग्रहकरश्च भविष्यति' इति कृत्वा तिस्रश्चतस्त्रः पञ्च वा बहुतरा वा गाथा उपविश्य कथयितव्याः । प्रत्यनीको वा कश्चिद् व्यतिव्रजति तं प्रतीक्षमाणस्तावद् धर्मं कथयेद् यावदसौ व्यतीतो भवति । यद्वा स प्रत्यनीकः सहसा दृष्टो भवेत् ततो यः सलब्धिकः स उपशामनानिमित्तंबहुविधमुपदेशं दद्यात् । दण्डिकस्य वा अभियोगः' बलात्कारो भवेत् । किमुक्तं भवति?-एकश्लोकेन धर्मे उपदिष्टे दण्डिको यात्कथय कथय मम सम्प्रति महती श्रद्धा वर्तते; ततश्चतुर्णां श्लोकनां परतोऽपि कथयेत् ।। आहकीशी पुनः कथा कथयितव्या? कीशी वा न? इति उच्यते [भा.४५८८] सिंगाररसुत्तुइया, मोहमई फुफुका हसहसेति। Page #47 -------------------------------------------------------------------------- ________________ ४४ बृहत्कल्प-छेदसूत्रम् -३-३/९९ जं सुणमाणस्स कहं, समणेण न सा कहेयव्वा ।। - वृ-यां कथां शृण्वतः श्रोतुः स्त्रीवर्णकादिश्रवणजनितो यः शृङ्गारो नाम रसस्तेनोत्तेजिता सती मोहमयी फुम्फुका ‘हसहसति' जाज्वल्यते सा कथा श्रमणेन न कथयितव्या॥ [भा.४५८९] समणेण कहेयव्वा, तव-नियमकहा विरागसंजुत्ता। जंसोऊण मनूसो, वच्चइ संवेग-निव्वेयं ॥ वृ-तपः-अनशनादि नियमाः-इन्द्रिय-नोइन्द्रियनिग्रहास्तप्रधाना कथा तपो-नियमकथा 'विरागसंयुक्ता' न निदानादिना रागादिसङ्गताश्रमणेन कथयितव्या, यां श्रुत्वा मनुष्यः' श्रोता संवेग-निर्वेदं व्रजति । संवेगः-मोक्षाभिलाषः, निर्वेदः-संसारवैराग्यम्॥ मू. (१००) नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि इमाइं पंच महव्वयाई सभावणाई आइक्खित्तए वा विभावित्तए वा किट्टित्तए वा पवेयत्तए वा, नऽनत्थ एगनाएण वा जाव सिलोएण वा, से विय ठिच्चा नो चेवनं अठिचा ॥ वृ-अस्यव्याख्या प्राक्सूत्रवद्रष्टव्या । नवरम् ‘इमानि' स्वयमनुभूयमानानि पञ्च महाव्रतानि 'सभावनानि' प्रतिव्रतं भावनापञ्चकयुक्तान्याख्यातुं वा विभावयितुंवा कीर्तयितुं वा प्रवेदयितुं वा न कल्पन्ते । आख्यानं नाम-साधूनां पञ्च महाव्रतानि पञ्चविंशतिभावनायुक्तानि षट्कायरक्षणसाराणि भवन्ति । विभावनं तु-प्राणातिपात विरमणं यावत् परिग्रहाद् विरमणमिति।भावनास्तु-"इरियासमिएसयाजए०" इत्यादिगाथोक्तस्वरूपाः ।षट्कायास्तु-पृथिव्यादयः। कीर्तनं नाम-या प्रथमव्रतरूपा अहिंसा सा भगवती सदेव-मनुजा-ऽसुरस्य लोकस्य पूज्या द्वीपः त्राणंशरणंगति प्रतिष्ठेत्यादि, एवं सर्वेषामपि प्रश्नव्याकरणाङ्गोक्तान् गुणान् कीर्तयति।प्रवेदनं तु-महाव्रतानुपालनात्स्वर्गोऽपवर्गोवाप्राप्यतइति सूत्रार्थः॥परः प्रह-ननुपूर्वसूत्रेणगतार्थमिदम् अतः किमर्थमारभ्यते? उच्यते[भा.४५९०] गहिया-ऽगहियविसेसो, गाधासुत्तातो होति वयसुत्ते। निद्देसकतो व भवे, परिमाणकतो व विनेतो॥ वृ-गाथासूत्राद् व्रतसूत्रे ग्रथिता-ऽग्रथितविशेषो मन्तव्यः । किमुक्तं भवति?-अनन्तरसूत्रे "चउगाहं वा पंचगाहं वा" इत्युक्तंताश्च गाथा ग्रथिता भवन्ति, इमानि तुमहाव्रतानि ग्रथितानि अग्रथितानि वा भेयुः । ग्रथितानि नाम-पद-पाठबन्धेन वा श्लोकबन्धेन वा बद्धानि, अग्रथितानि तु-मुत्कलैरेव वचनैर्यान्यभिधीयन्ते।यद्वा निर्देशकृतोऽत्र विशेषो भवति-अनन्तरसूत्रे "चतुर्गाथं पञ्चगाथंवा कथयितुंन कल्पते" इत्युद्देशमात्रमेव कृतम्, अत्रतु “महाव्रतानि सभावनाकानि" इत्यनेन तस्यैव विशेषनिर्देशः क्रियते । परिमाणकृतो वा विशेषो विज्ञेयः-यदधस्तनसूत्रे धर्मस्वरूपमुक्तं तदेवात्र “महाव्रतपञ्चकम्" इति सङ्ख्यया विशेषितंनिरूप्यते॥अथात्रैवदोषानाह[भा.४५९१] पंचमहव्वयतुंगं, जिनवयणं भावनापिणिद्धागं। साहणे लहुगा आणाइ दोस जंवा निसिजाए। वृ-इह जिनवचनं मेरुसशंपञ्चभिर्महाव्रतैस्तुङ्गम्-उच्छ्रितम्, पञ्चमहाव्रतमयोच्छ्रयमित्यर्थः। तस्यैवच महाव्रतोच्छ्रयस्य रक्षणार्थंभावनाभि पञ्चविंशतिसङ्ख्याकाभिपिनद्धं-गाढतरंनियन्त्रितम्। ईशं जिनवचनमन्तरगृहे उपविश्य कथयतश्चतुर्लघुकाः आज्ञादयश्चदोषाः।यद्वागृहनिषद्यायां Page #48 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- १००, [भा. ४५९१] ४५ वाहितायां प्रायश्चित्तं यच्च दोषजालं तद् आपद्यते । तथा महाव्रतपञ्चकविषया दोषा भवन्ति, तथाहि प्राणवधमापद्येत प्राणवधे वा शङ्कयेत, एवं यावत् परिग्रहमापद्येत परिग्रहे वा शङ्कयेत ॥ तथाहि [ भा. ४५९२ ] पाणवहम्मि गुरुव्विणि, कप्पट्ठोद्दाणए य संका उ । भणिओ न ठाइ कोयी, मोसम्म य संकणा साणे ॥ वृ- गृहे उपविश्य साधुर्धर्मं कथयति, गुर्विणी च तस्यान्तिके उपविष्टा शृणोति, यावच्चासौ तत्र तिष्ठति तावत् तदीयगर्भस्य आहारव्यवच्छेदेन विपत्तिर्भवति, एवं प्राणवधे लगति । तथा धर्मं कथयतः काचिदविरतिका शृण्वत्येवापान्तराले कायिकाभूमिं गच्छेत्, तस्याः पुत्रस्तत्रैवास्ते, ततः सपत्नी च्छिद्रं लब्ध्वा तमुत्क्षेपणभिषेण साधोरग्रतो निपात्यापद्रावयति, एवं प्राणातिपातविषया शङ्का भवेत् । तथा 'यत् तीर्थकरैः प्रतिषिद्धं तद् मया न कर्त्तव्यम्' इति प्रतिज्ञाय तैः प्रतिषिद्धां निषद्यां वाहयतो मृषावादो भवति । यद्वा स्वमुखेनैव गृहनिषद्यांनिषिध्य पश्चादात्मनैव तां परिभुञ्जानो मृषावादमापद्यते । अथवा स दिने दिने तस्या अविरतिकाया अग्रे धर्मं कथयति ततो गृहस्वामिना भणितः मा मम गृहमायासीरिति साधुना भणितम् आगमिष्यन्ति ते गृहं पाणशुनकाः; एवमुक्त्वाऽपि जिह्वालोलतादोषेण तदेव गृहं व्रजन् 'भणितोऽपि ' तेन गृहस्थेन वारितोऽपि कश्चिद् न तिष्ठति, एवं मृषावादमाप्नोति; स च गृहस्थो ब्रूयात् किं पाणशुनकः संवृत्तोऽसि ? इति । यद्वा गृहस्थो भोजन कुवंन धर्मं शृण्वतीमगारीं किमप्युत्कृष्टं द्वितीयाङ्ग याचेत, सा ब्रूयात्शुना भक्षितम्; अगारो ब्रूयात्-जानाम्यहं तं श्वानं येन भक्षितमिति; एवं मृषावादविषया शङ्का भवेत् ॥ अथास्या एव पूर्वार्धं व्याचष्टे [ भा. ४५९३] खुहिया पिपासिया वा, मंदक्खेणं न तस्स उट्ठेइ । गभस्स अंतरायं, बाधिज्जइ सन्निरोधेणं ॥ वृ-गुर्विणी धर्मकथां शृण्वती क्षुधिता वा पिपासिता वा भवेत्, सा च तस्य साधोः सम्बन्धिना 'मन्दाक्षेण' लज्जया नोत्तिष्ठति, ततो गर्भस्यान्तरायं भवति । तेन चाऽऽहारव्यवच्छेदलक्षणेन सन्निरोधेन स गर्भो बाध्यते, ततो विपत्तिमप्यसौ प्राप्नुयादिति प्राणवधमापद्यते ।। अथ प्राणिवधविषयां शङ्कां दर्शयति [भा. ४५९४] उक्खिवितो सो हत्था, चुतो त्ति तस्सऽग्गतो निवाडित्ता । सोतार वियारगते, हा ह त्ति सवित्तिणी कुणती ।। 'वृ- अविरतिकाया अग्रे स धर्मं कथयति सा चापान्तराले कायिक्यर्थं निर्गता, ततस्तस्यां 'श्रोत्र्यां' श्राविकायां विचारभूमौ गतायां सपत्नी तदीयं पुत्रं तस्य साधोरग्रत उत्क्षिप्य भूमौ सहसैव निपातयति, निपात्य च 'अहो ! अनेन श्रमणेनायं पुत्र उत्क्षिप्तः सन्नेतदीयहस्ताच्युतो विपन्नः' इति महता शब्देन 'हा हा !' इति पूत्कारं करोति, ततो भूयांल्लोको मिलितस्तं साधुं तत्र स्थितं दृष्टवा शङ्कां कुर्यात् किं मन्ये सत्यमेवेदम् ? इति । मृषावाददोषः प्राक् सप्रपञ्चमुक्तं इति इति न भूयो भाव्यते ।। अथादत्तादान-मैथुनयोर्दोषानाह [ भा. ४५९५ ] सयमेव कोइ लुद्धो, अवहरती तं पडुच्च कम्मकरी । वाणिगिणी मेहुन्ने, बहुसो य चिरं च संकाय ॥ Page #49 -------------------------------------------------------------------------- ________________ ४६ बृहत्कल्प-छेदसूत्रम् - ३-३/१०० वृ- कश्चिद् व्रतीलुब्धः सन् विजनं मत्वा स्वयमेव सुवर्णसङ्कलिका- मुद्रिकादिकमपहरति, एवमदत्तादानमापद्यते; तं वा संयतं प्रतीत्य 'साधुरत्रार्थे शङ्किष्यते नाहम्' इति कृत्वा कर्मकरी काचिदपहरेत् । वाणिजिका वा काचित् प्रोषितभर्तृका तया समं मैथुनविषया आत्म-परोभयसमुत्था दोषा भवन्ति अथवा यत्र प्रोषितपतिकास्तिष्ठन्ति तत्रासौ 'बहुशः' वारं वारं व्रजति चिरं च ताभि सह कन्दर्पं कुर्वाणस्तिष्ठति ततश्चतुर्थविषये शङ्कयेत ।। अथ परिग्रहदोषानाह[भा. ४५९६] धम्मं कहइ जस्स उ, तम्मि उ वीयारए गए संते । सारक्खणा परिग्गहो, परेण दिट्ठम्मि उड्डाहों ॥। वृ- 'यस्य' श्रावकादेरग्रे धर्मं कथयति स ब्रूयात्-यावदहं कायिकां व्युत्सृज्य समागच्छामि तावद् भवता गृहं रक्षणीयम्; एवमुकत्वा तत्र विचारभूमौ गते स संयतो तावत् तद् गृहं संरक्षति तावत् परिग्रहदोषमापद्यते । तदेवं गृहं रक्षन् परेण दृष्टः स शङ्कां कुर्यात् नूनमेतस्यापि हिरण्यं सुवर्णं वा विद्यते; उड्डाहं च स कुर्यात् अहो ! अयं श्रमणकः सपरिग्रह इति । यत एते दोषा अतो नान्तरगृहे धर्मकथा कर्त्तव्या ॥ द्वितीयपदमाह [ भा. ४५९७ ] एगं नायं उदगं, वागरणमहिसलक्खणो धम्मो । गाहाहि सिलोगेहि य, समासतो तं पि ठिच्चाणं ॥ वृ - गतार्था ॥ मू. (१०१) नो कप्पति निग्गंधाण वा निग्गंधीण वा पाडिहारियं सिज्जा-संथारयं आयाए अपडिहद्दु संपव्वएत्तए । [ भा. ४५९८ ] अविदिन्नमंतरगिहे, परिकहणमियं पदिन्नमिइ जोगो । निग्गमणं व समाणं, बहिं व वृत्तं इमं अंतो ॥ दृ- अन्तरगृहे यत् 'परिकथनम्' उपदेशप्रदानंतद् 'अवितीर्ण' तीर्थकरैर्गृहपतिना वा नानुज्ञातम् । 'इदमपि' प्रातिहारिकशय्या संस्तारकस्याप्रत्यर्पणम् 'अदत्तम्' अननुज्ञातम् 'इति' अयं 'योगः ' सम्बन्धः । यद्वा निर्गमनं प्रतिश्रयाद् द्वयोरपि सूत्रयोः 'समानं' तुल्यम् । अथवा पूर्वसूत्रे प्रतिश्रयाद् ‘बहिः’ भिक्षायां निर्गतस्य धर्मकथनंन कल्पते इत्युक्तम्, इदं पुनः 'अन्तः प्रतिश्रयमध्ये संस्तारकस्य यद् निक्षेपणं तन्त्र कल्पते इत्यत्र प्रतिपाद्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रतिहरणं प्रतिहारः- प्रत्यर्पणं तमर्हतीति प्रातिहारिकं शय्या चसर्वाङ्गीणा संस्तारकः - अर्धतृतीयहस्तमानः शय्या-संस्तारकं तद् 'आदाय' गृहीत्वा कार्यसमाप्तौ 'अप्रतिहृत्य' प्रत्यर्पणमकृत्वा 'सम्प्रतव्रजितुं' ग्रामान्तरं विहर्तुमिति सूत्रार्थ ।। अथ भाष्यविस्तरः[ मा. ४५९९] सिजा संथारो या, परिसाडी अपरिसाडि मो होइ । परिसाडि कारणम्मिं, अणप्पिणे मासो आणादी । वृ- शय्या संस्तारको वा परिशाटी अपरिशाटी च भवति । परिशाटी तृणादिमयः, अपरिशाटी फलकादिमयः । तत्र परिशाटीसंस्तारकः कारणवशाद् ऋतुबद्धे गृहीतो भवेत् तं मासकल्पे पूर्णेऽनर्पयित्वा व्रजतो मासलघु आज्ञादयो दोषाः । एते चापरे [भा. ४६००] सोच्द्या गत त्ति लहुगा, अप्पत्तिय गुरुग जं च वोच्छेओ । कप्पट्ट खेल्लणे नयन sहण लगु लहुग गुरुगा य ॥ Page #50 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१०१, [भा. ४६००] ४७ वृ-संस्तारकस्वामिना श्रुतम्-संस्तारकमनर्पयित्वा गतास्ते संयताः; एवं श्रुत्वा यदि प्रीतिकं करोति-'अनर्पितेऽप्यनुग्रह एवास्माकम् इति ततश्चतुर्लघवः । अथाप्रीतिकं करोति-मदीयानि तृणानि हारितानि विनाशितानि वा इति तदा चतुर्गुरवः । यच्च तद्र्व्यस्यान्यद्रव्यस्य वा व्यवच्छेदस्तदाऽपिचतुर्गुरुकम्।अथवा तस्मिन् संस्तारकेशून्ये “कप्पट्ट"त्ति बालकानिखेलन्ते ततो मासलघु, अथान्यत्र तं नयन्ति ततश्चतुर्लघु, अथाग्नौ प्रक्षिप्य दहन्ति चतुर्लघवः, दह्यमाने च तस्मिन्नन्येषांप्राणजातीयानां विराधना भवेत्तन्निष्पन्नंप्रायश्चित्तम्॥अथाप्रीतिकपदं व्याचष्टे[भा.४६०१] दिज्जंते वि तयाऽनिच्छितूण अप्पेमु भेत्ति नेतूणं । कयकज्जा जनभोगं, काऊण कहिं गया भच्छा। ई-ग्रहणकाले निर्देजमपि दीयमानंतदानीं नेच्छन्ति स्म। अनिष्यच' अनभिकाङ्क्षयमासकल्पे पूर्णे “भे" भवतामर्पयिष्याम इति भणनपूर्वकं नीत्वा साम्प्रतं 'कृतकार्या' विहितात्मप्रयोजनाः शून्ये जनभोग्यं कृत्वा कुत्र ग्रामेनगरे वा गताः? । “भच्छे"ति नैपातिकं पदं कुत्सायां वर्तते, क पुनस्ते दुईष्टधर्माणो गताः ? इत्यर्थः ।। अथ “कप्पट्ट खेल्लणे" इत्यादि विवृणोति[भा.४६०२] कप्पट्ठ खेल्लण तुअट्टणे य लहुगो य होति गुरुगोय। इत्थी-पुरिसतुयट्टे, लहुगा गुरुगा अनायारे॥ वृ-तत्र संस्तारके कल्पस्थकानि खेलन्ते लघुको मासः । अथ तान्येव त्वग्वर्त्तयन्ति गुरुको मासः । अथ महती स्त्री महान् पुरुषो वा त्वग्वर्तयति चतुर्लघु । अथैतावनाचारमाचरतस्तदा चतुर्गुरुकाः॥ [भा.४६०३] वोच्छेदे लगु-गुरुगा, नयने डहणे य दोसु वी लहुगा ॥ विहनिग्गयादऽलंभे, जंपावे सयं व तु नियत्ता ॥ -तस्यैवैकस्य साधोः तस्यैव चैकस्यद्रव्यस्य व्यवच्छेदे चतुर्लघु ।अनेकेषांसाधूनामन्यद्रव्याणां चव्यवच्छेदे चतुर्गुरु ।संस्तारकस्य कल्पस्थकैरन्यत्र नयेन दहनेच द्वयोरपिचतुर्लघवः । व्यवच्छेदकरणाच्च संस्तारकादेरलाभे विहम्-अधवा तनिर्गतादयो यत् परितापनादि प्राप्नुवन्ति स्वयं वा निवृत्तास्तत्र प्राप्ताः संस्तारकादिकमलभमानायां विराधनामासादयन्ति तन्निष्पन्न प्रायश्चित्तम्॥ [भा.४६०४] माइस्स होति गुरुगो, जति एक्कतो भागऽनप्पिए दोसा। अह होति अनमन्ने, तेचेव य अप्पिणणे सुद्धो॥ कृ-'मायिनः' मायावतो गुरुको मासो भवति।कथं पुनर्मायां करोति? इत्याह-यदि अकतः' एकस्माद् गृहादनेकैः साधुभिरनेके संस्तारका आनीतास्तदा “भाग"त्ति प्रत्यर्पणकाले तेषु पृथग्भागीकृतेषु य आत्मीयं भागं 'तत्रैव गृहे नेतव्यः' इति कृत्वा तेषां मध्ये प्रक्षिपति नात्मना तत्र नयति एष मायी भण्यते । अस्य च येऽनर्पिते संस्तारके दोषाः ते सर्वेऽपि मन्तव्याः । अथान्यान्येभ्यो गृहेभ्य आनीताः संस्तारका भवन्ति तदापि मायाकरणे त एव दोषाः । तस्माद् यतो गृहादानीतस्तत्र विधिना प्रत्यर्पणे शुद्ध इति सङ्ग्रहगाथासमासार्थः॥अथैनामेव विवृणोति[भा.४६०५] संथारेगमनेगे, भयणऽढविहा उ होइ कायव्वा । ___ पुरिसे घर संथारे, एगमनेगे तिसु पतेसु॥ कृसंस्तारके गृह्यमाणे एका-ऽनेकपदाभ्यामष्टविधा भजना कर्त्तव्या भवति, अष्टौ भङ्गा इत्यर्थः । Page #51 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-३/१०१ सा चैतेषु त्रिषु पदेषु, तद्यथा- पुरुषे गृहे संस्तारके च । एतेषु एका-ऽनेकपदाभ्यामथै भङ्गाः, यथा - एकेन साधुना एकस्माद् गृहाद् एकः संस्तारकः आनीतः १ एकेनैकस्मादनेके २ एकेनानेकेभ्यो गृहेभ्य एकः ३ एकेनानेकेभ्यो गृहेभ्योऽनेके संस्तारका आनीताः ४; एवमेकेन साधुना चत्वारो भङ्गा लब्धाः, अनेकैरपि साधुभिरेवमेव चत्वारो भङ्गा लभ्यन्ते, सर्वसङ्घययैतेऽष्ट भङ्गाः ॥ ४८ [भा. ४६०६ ] आनयने जा भयणा, सा भयणा होति अप्पिनंते वि । वोच्चत्थ मायसहिए, दोसा य अनप्पिणंतम्मि ।। वृ-संस्तारकस्यानयने या 'भजना' अष्टभङ्गी भणिता सैव भजना संस्तारकमर्पयतोऽपि भवति, यथैवानीतस्तथैव प्रत्यर्पयितव्य इति भावः । अथ विपर्यस्तं प्रत्यर्पयति मायां वा करोति न वा सर्वथैवार्पयति ततो विपर्यस्ते मायासहितेऽनर्पयति च दोषा व्यवच्छेदादयो भवन्ति । तत्र ये आद्याश्चत्वारो भङ्गास्तेषु यथैव ग्रहणं तथैवार्पयन्ति । पञ्चमभङ्गे ग्रहणकाले 'अस्माकमन्यतरः समर्पयिष्यति' इत्येष विधिर्न विहितस्ततो यद्येकः प्रत्यर्पयति तदा विपर्यस्तं भवति । षष्ठभङ्गे एकः साधुः प्रत्यर्पयितुं प्रस्थितः अपरश्चिन्तयति 'मदीय अपि तृणकम्बिकास्तत्रैव नेतव्या' इति कृत्वा तदीयानां तृणादीनां मध्ये प्रक्षिपति, एषा माया भण्यते । सप्तमे भङ्गे तृतीयभङ्गे वा कम्बिकास्तृणानि वा एकस्मिन् गृहेऽर्पयतोऽनर्पणं भवति । यत एते दोषास्तस्मात् पृथक् पृथक् सर्वैरपि प्रत्यर्पणीयाः । कारणे पुनर्विपरीतमर्पयति न वा अर्पयति ।। तदेव कारणमाह [भा. ४६०७ ] बिइयपय झामिते वा, देसुट्ठाणे व बोधिकभए वा । अद्धाणसीस वा, सत्थो व पधावितो तुरियं ॥ वृ- द्वितीयपदे संस्तारको ध्यामितो भवेत्, देशोत्थान वा संस्तारकस्वामी कुत्रापि गत इति न ज्ञायते, बोधिकभये संस्तारकस्वामीसाधवो वा नष्टाः, अध्वशीर्षके वा सार्थस्त्वरितं प्रधावितो यावत् संस्तारकं प्रत्यर्पयति तावत् सार्थो दूरं गच्छति अपरश्च सार्थो दुर्लभः ॥ [भा. ४६०८] तेहि कारणेहिं, वच्चंते को वि तस्स उ निवेदे । अप्पाहंति व सागारियाइ असदऽन्नसाहूणं ॥ वृ- एतैः कारणैर्न प्रत्यर्पयेयुः - अध्वशीर्षके च त्वरितं व्रजतामेकः कोऽपि साधुर्गत्वा तस्य संस्तारकस्वामिनो निवेदयति-सार्थस्त्वरितं प्रधावितस्ततो नास्माभि प्रत्यर्पितः, यूयं पुनस्तं संस्तारकमानयध्वम् । अन्यसाधूनां वा निवेदयन्ति - अमुकस्मिन् कुले संस्तारकः प्रत्यर्पणीयः । अन्यसाधूनाम् 'असति' अभावे सागारिकादीन् "अप्पाहन्ति” सन्दिशन्ति - एष संस्तारकोऽमुकस्यार्पणीयः । एष तृणकम्बिकासु विधिरुक्तः ॥ [ भा. ४६०९ ] एसेव गमो नियमा, फलएसु वि होइ आनुपुव्वीए । चउरो लहुगा माई, य नत्थि एयं तु नाणत्तं ॥ वृ- एष एव गमो नियमात् फलकेष्वप्यानुपूर्व्या वक्तव्यो भवति । नवरम्-प्रायश्चित्ते विशेषः । फलकमयस्य संस्तारकस्याप्रत्यर्पणे चतुर्लघुकाः । मायी च नास्ति, यथा तृणेषु कम्बिकासु वा अपरास्तृणकम्बिकाः प्रक्षिप्यन्ते तथा फलकानां नास्ति प्रक्षेप इति भावः । एतद् नानात्वमत्र मन्तव्यम् ॥ मू. (१०२) नो कप्पइ निग्गंथाण वा निग्गंधीण वा सागारियसंतियं सेज्जासंथारयं आयाए Page #52 -------------------------------------------------------------------------- ________________ उद्देशकः ३, मूलं-१०२, [भा. ४६०९] अविकरणं कट्ट संपव्वइत्तए । [भा.४६१०] संथारगअहिगारो, अहवा पडिहारिगा उ सागारी। नीहारिमो अनीहारिमो यइति एस संबंधो। वृ-संस्तारकस्याधिकारोऽयमनुवर्तते, तत इदमपि संस्तारकसूत्रमारभ्यते । अथवा पूर्वसूत्रे प्रातिहारिकः संस्तारक उक्तः,अत्रतुसागारिकसत्कोऽभिधीयते।यद्वानि रिमोअनि रिमश्चेति द्विधा संस्तारकः । तत्र निर्हरणम्-अन्यत्र नयनं तेन निवृत्तो निर्दारिमः, अन्यत्र नीत्वा प्रत्यर्पणीय इत्यर्थः । तद्विपरीतोऽनिर्दारिमः। तत्र निर्हारिम उक्तः, इह पुनरनिर्हारिम उच्यते। एष सम्बन्धः। अथ सूत्रस्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा सागारिकः-शय्यातरस्तस्य सत्कं शय्यासंसतारकम् ‘आदाय' गृहीत्वा ‘अविकरणं कृत्वा' अविकरणं नाम-यत् साधुना करणं कृतम्-तृणानां प्रस्तरणं कम्बिकानां बन्धनं फलकस्य स्थापनम्, तद् अनपनीय ‘सम्प्रव्रजितुं' विहर्तुमिति सूत्रार्थ ः ॥अथ नियुक्त्या विस्तारयितुमाह[भा.४६११] सागारिसंति विकरण, परिसाडिय अपरिसाडिए चेव। तम्मि विसो चेव गमो, पच्छित्तुस्सग्ग-अववाए। वृ-सागारिकसत्कस्यसंस्तारकस्य विकरणं कृत्वा गन्तव्यम् । स च परिशाटी अपरिशाटी चेति द्विविधः । तत्रापि स एव प्रायश्चित्तोत्सर्गा-ऽपवादेषु गमो मन्तव्यः । अविकरणे चेमे दोषाः [भा.४६१२] किड्ड तुअट्टण बाले, नयने डहणे य होइ तह चेव । विकरण पासुद्धं वा, फलग तणेसुंतु साहरणं॥ वृ-बालानां-कल्पस्थकानां क्रीडने त्वग्वरत्तनेऽन्यत्र नयने दहने च दोषास्तथैव भवन्ति ततो विकरणं कर्त्तव्यम् । कथम्? इत्याह-फलकस्य पार्वतः स्थापनमूर्द्धकरणंवा, तृणेषुतु 'संहरणम्' एकत्र मीलनम्, तुशब्दात् कम्बिकासु बन्धनच्छोटनम्, एतद् विकरणम् । इदमेव व्याख्याति[भा.४६१३] पुंजे वा पासे वा, उवरिं पुंजेसु विकरण तणेसु। फलगंजत्तो गहियं, वाघाए विकरणं कुजा ॥ वृ-यानि तृणानि पुत्राद् गृहीतानि तानि पुओष्वेव निक्षेपणीयानि, यानि पार्श्वतस्तानि पार्वे स्थापनीयानि, एवं तृणेषु विकरणं भवति । फलकं यतो गृहीतं तत्रैव नीत्वा यदि पार्वतः स्थापितमासीत् तदा पार्वे, अथोर्ध्व स्थापितमासीत् तत ऊर्ध्वं स्थाप्यते । कम्बिका अपि यतो गृहीतास्तत्र बन्धान् छोटयित्वा निक्षेपणीयाः । अथ व्याघातेन तत्र नेतुं न पार्यन्ते तदा तत्रैव स्थापयित्वा नियमाद् विकरणं कुर्यात्॥ . [भा.४६१४] बितियमहसंथडे वा, देसुट्ठाणादिसूव कजेसु । एएहि कारणेहिं, सुद्धो अविकरणकरणे वि ।। वृ-द्वितीयपदे यथासंस्तृते विकरणं न कुर्यात् न च प्रायश्चित्तमाप्नुयात् । यथसंस्तृतं नामनिष्प्रकम्पं चम्पकपट्टादि । 'देशोत्थानादिषु वा' पूर्वसूत्रोक्तेषु कार्येषु विकरणं न कुर्यात् । एतैः कारैरविकरणकरणेऽपि शुद्धः॥ मू. (१०३) इह खलु निग्गंथाणवा निग्गंथीण वापाडिहारिए वा सागारियसंतिएवा सेज्जासंथारए (2014 Page #53 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/१०३ विप्पणसिजा से य अनुगवेसियव्वे, सिया से अ अनुगवेस्समाणे लभेजा तस्सेव पडिदायव्वे, सिया से अ अनुगवेस्समाणे नो लभिजा एवं से कप्पइ दोचं पि उग्गहं अनुनवित्ता परिहारं परिहरित्तए। [भा.४६१५] दोण्हेगयरं नटुं, गवेसियं पुव्वसामिणो देंति। अपमादट्ठा अहिए, हिए य सुत्तस्स आरंभो ॥ वृ-'द्वयोः' प्रातिहारिक-सागारिकसत्कयोः परिशाट्यपरिशाटिनोर्वा संस्तारकयोरेकतरं संस्तारकं नष्टं गवेषयित्वा पूर्वस्वामिनः प्रयच्छन्ति, अतः 'अहते' अनष्टेऽप्रमादार्थ हृते च गवेषणादिसामाचारीप्रदर्शनार्थमस्य सूत्रस्यारम्भः क्रियते॥अनेन सम्बन्धेनायातस्यास्य व्याख्या'इह' अस्मिन् मौनीन्द्रे प्रवचने स्थितानां 'खलुः' वाक्यालङ्कारे निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिको वा सागारिकसत्को वा शय्यासंस्तारकः 'विप्रणश्येत्' विविधैः प्रकारैः प्रकर्षण रक्ष्यमाणोऽपि नश्येत्, स च 'अनुगवेषयितव्यः' विप्रणाशानन्तरं पृष्ठत एव गवेषयितव्यः । 'स्याद् भवेत्स चानुगवेष्यमाणो लभ्येत तस्यैव संस्तारकस्वामिनः 'प्रतिदातव्यः' प्रत्यर्पणीयः। स्यात् स चानुगवेष्यमाणो नो लभ्येत तत एवं "से" तस्य कल्पते 'द्वितीयमप्यवग्रहमनुज्ञाप्य' एकं तावत् प्रथमं यदा गृहीतस्तदाऽनुज्ञापितः, ततो विप्रनष्टः सन् गवेष्यमाणोऽपि यदा न लब्धस्तदा संस्तारकस्वामिनः कथिते सति यदसावन्यं संस्तारकं ददाति, यद्वा स एव संस्तारकस्वामिना मृग्यमाणो लब्धः ततस्तद्विषयं द्वितीयमवग्रहमनुज्ञाप्य 'परिहारं' धारणापरिभोगलक्षणं 'परिहत्तुं धातूनामनेकार्थत्वात् कर्तुमिति सूत्रार्थः ॥अथ नियुक्तिविस्तरः[भा.४६१६] संथारो नासिहिती, वसहीपालस्स मग्गणा होति । सुनाई उ विभासा, जहेव हेट्ठा तहेव इहं॥ वृ-शून्यायां वसती कृतायां संस्तारको नङ्ग्यतीति मत्वा प्रथमत एव वसतिरशून्या कर्तव्या येनासौन नश्यति, अत एवात्र वसतिपालस्य मार्गणा भवति। कथम्? इत्याह-“सुन्नाई इत्यादि, यथैव अधस्तात्' पीठिकायां शय्याकल्पिकद्वारे "सुन्ने बाल गिलाणे" इत्यादिका विभाषा कृता तथैवेहापि मन्तव्या॥स्थानाशून्यार्थं पुनरिदमाह[भा.४६१७] पढमम्मिय चउलहुग, सेसेसुं मासियं तु नाणत्तं । दोहि गुरू एक्केणं, चउथपदे दोहि वी लहुगा॥ वृ-'प्रथमे स्थाने' वसतेः शून्यताकरणलक्षणे चतुर्लघुकाः ‘द्वाभ्यां तपः-कालाभ्यां गुरुकाः। 'शेषेषु' बाल-ग्लाना-ऽव्यक्तस्थापनलक्षणेषुत्रिषु लघुमासिकम्।तच्च बालस्थापनेतपसागुरुकम्, ग्लानस्थापने कालेन गुरुकम्, 'चतुर्थपदे' अव्यक्तस्थापनात्मके 'द्वाभ्यामपि' तपः-कालाभ्यां लघुकम् ॥अत्र दोषानुपदर्शयति[भा.४६१८] मिच्छत्त-बडुग-चारण-भडाण मरणं तिरिक्ख-मनुयाणं । आएस बाल निक्केयणे य सुन्ने भवे दोसा॥ [भा.४६१९] बलि धम्मकहा किड्डा, पमज्जणाऽऽवरिसणा य पाहुडिया। खंधार अगनि भंगे, मालवतेना य नाई य॥ वृ-गाथाद्वयं पीठिकायां सविस्तरं व्याख्यातम् । यत एते दोषाअतो वसतिशून्या न कर्तव्या, .. .. Page #54 -------------------------------------------------------------------------- ________________ ५१ उद्देशकः३, मूलं-१०३, [भा.४६१९] न वा बालो ग्लानोऽव्यक्तो वा वसतिपालः स्थापनीयः॥ [भा.४६२०] संथारविप्पनासो, एवं खुन विज्जतीति चोएति। सुत्तं होइ य अफलं, अह सफलं उभयहा दोसा॥ वृ-'नोदयति' परः प्रेरयति-एवं 'खुः' अवधारणे सुरक्षिते क्रियमाणे संस्तारकस्य विप्रणाशो न विद्यते, तथा च "सेज्जासंथारए विप्पणसिज्जा" इत्यादिलक्षणं सूत्रमफलं भवति; अथ सूत्रं सफलं मनध्वेततः ‘बालादिदोषरहितो वसतिपालः स्थापनीयः' इति यदुक्तं तदफलं प्राप्नोति; एवमुभयथाऽपि दोषा भवन्ति ।। सूरिराह-यथा द्वयमपि सफलं भवति तथाऽभिधीयते[भा.४६२१] निजंताऽऽनिज्जंता, आयावणनीणितो व हीरेज्जा । तेन-ऽगनि-उदगसंभम, बोहिकभयरट्ठउट्ठाणे॥ वृ-प्रत्यर्पणार्थं नीयमानः संस्तारको राजपुरुषैरन्तरा हियेत, “आनिजंतो"त्ति गृहपतिगृहादानीयमानो वा राजपुरुषैर्बलादपहियेत, आतापनम्-आतपे संस्तारकस्य प्रदानं तदर्थं वा बहिर्निष्काशितः केनापिहियेत, स्तेना-ऽग्न्युदकसम्भ्रमेषुवा बोधिकभयेवा राष्ट्रस्य-देशस्य यद उत्थानम्-उद्वसीभवनं तत्र ह्रियेत॥ [भा.४६२२] पडिसेहेन व लद्धो, पडिलेहणमादिविरहिते गहणं। अनुसठ्ठी धम्मकहा, वल्लभो वा निमित्तेणं॥ वृ-प्रतिषेधो नाम-संस्तारको माठमाणस्तेन स्वामिना 'नाहं प्रयच्छामि' इति प्रतिषिद्धः; ततः सकेनचिद् भद्रकेणानुशिष्टः-किंन प्रयच्छसि? इति;सपाह-विप्रणाशभयात; इतरोब्रवीतिनामीषां हस्ताद् विप्रणश्यति; एवंविधेन प्रतिषेधेन वा लब्धः स प्रयलेन रक्ष्यमाणोऽपि प्रत्युपेक्षणानिमित्तं बहिर्नीतः, साधुश्च विस्मृतरजोहरणार्थं मध्ये प्रविष्टः, स च 'उत्कृष्टोऽयम्' इति कृत्वा विरहितं मत्वा केनापि गृहीतः, आदिग्रहणाद् उपाश्रयस्यान्तरपि राजवल्लभेन दृष्ट्वा बलामोटिकया ग्रहणं कृतम् । एवं विप्रणष्टे सति येन हृतस्तस्य पार्वाद् मार्गयितव्यः । अथ मार्गितोऽपि न ददाति ततोऽनुशिष्टि क्रियते।तथाप्यप्रयच्छतिधर्मकथा कर्तव्या। एवमप्यददाने यो द्रमकस्तस्यम भापनं क्रियते । यस्तु राजवल्लभः स निमित्तेनावर्तनीयः॥ कथं पुनरनुशिष्टि क्रियते? इत्युच्यते[भा.४६२३] दिनो भवव्विहेनेव एस नारिहसि ने न दाउंजे। अन्ने वि ताव देयो, दे जाणमजाणयाऽऽनीयं ॥ वृ-य एष भवता संस्तारको गृहीतः स भवद्विधेनैव विशिष्टपुरुषेण दत्तः, ततः “ने" असमाकं न नार्हसि दातुम्, अन्योऽपि तावद्भवता संस्तारको देयः, किं पुनर्योऽन्यदत्तः?, ततो जानताऽजानता वा आनीतमममस्माकं प्रयच्छ ॥ एवमनुशिष्टया यदि न प्रयच्छति ततोऽयं विधिः[भा.४६२४] मंत निमित्तं पुन रायवल्लभे दमग भेसणमदेंते। धम्मकहा पुन दोसु वि, जति अवराहो दुहा वऽधिओ॥ वृ-राजवल्लभेऽददतिमन्त्री निमित्तं वा प्रयोक्तव्यम् ।द्रमकस्य तुभेषणं कर्त्तव्यम् । धर्मकथा पुनर्द्वयोरपि द्रमक राजवल्लभयोः प्रयुज्यते, यथा-यतयः-साधवस्तेषामुपरणापहारादिरपराधः 'द्विधाऽपि' इहलोके परलोके चाहितो भवति ॥ इदमेव व्यनक्ति Page #55 -------------------------------------------------------------------------- ________________ ५२ बृहत्कल्प-छेदसूत्रम् - ३-३/१०३ [ भा. ४६२५ ] अन्नं पि ताव तेनं, इह परलोकेऽपहारिणामहियं । परओ जायितलद्धं किं पुन मन्नुप्पहरणेसु ॥ वृ- 'अन्यदपि' प्राकृतजनविषयमपि यत् स्तैन्यं तत् तावदिह परलोके चाऽपहारिणामहितं भवति, किं पुनः परतो याचितं यद् लब्धं तदपहियमाणं 'मन्युप्रहरणेषु' साधुषु ? किमुक्तं भवति ? - मन्यु- क्रोधस्तप्रहरणाः तदायुधा एव ऋषयः, ततस्तेषां हियमाणमिह - परलोकयोः सुतरामहितं भवति ॥ एवमप्युक्तो यदि न दद्यात् ततः [ भा. ४६२६] खंते व भूणए वा, भोइग-जामाउगे असइ साहे । सिट्ठम्मि जं कुणइ सो, मग्गण दानं च ववहारे ॥ वृ- " खंते "त्ति पिता तेन गृहीते पुत्रस्य निवेद्यते । भ्रूणकः पुत्रस्तेन गृहीते पिता प्रज्ञाप्यते । यद्वा या तस्य 'भोजिका' भार्या यो वा जामाता ताभ्यामसौ भाणयितव्यः । “असइ साहे "त्ति सर्वथाऽपि यदि न ददाति तदा महत्तरादीनां निवेद्यते । तस्य 'शिष्टे' कथिते यदसौ महत्तरादि करोति तत् प्रमाणम् । एवं प्रणष्टस्य संस्तारकस्य मार्गणम् । एवमप्यलभ्यमाने प्रान्तस्य संस्तारकस्वामिनः "दानं" ति वेतनं दीयते, व्यवहारो वा करणं प्रविश्य कर्त्तव्य इति सङ्ग्रहगाथासमासार्थः । अथैनामेव विवृणोति [भा. ४६२७] भूणगगहिए खंतं, भणाइ खंतगहिते य से पुत्तं । असति त्ति न देमाणे, कुणति दवावेति व न वा उ वृ- भ्रूणकेन गृहीतं 'खन्तं' पितरं 'भणति' प्रज्ञापति । खन्तेन तु गृहीते "से" तस्य पुत्रं भणति । उपलक्षणमिदम्, तेन भोजिकादिनाऽपि भाणयति । " असइ "त्ति एतद् ग्रहणपदम् अतो व्याचष्टे - "न देमाणें "त्ति एवमप्यददाने भोजिकादेर्निवेद्यते । ततो यदसौ बन्धनरोधनादि करोति दापयति वा न वा तत् प्रमाणम् ॥ [भा. ४६२८] भोइय उत्तरउत्तर, नेयव्वं जाव पच्छिमो राया । दानं विसजणं वा, दिट्ठमदिट्ठे इमं होइ ॥ वृ- प्रथमं भोगिकस्य निवेद्यते । यद्यसौ न दापयति ततो यस्तत्र देशारक्षकः स ज्ञाप्यते । एवमुत्तरोत्तरं तावद् नेतव्यम् यावदपश्चिमो राजा । ततो “दानं" ति भोजिकादयश्चौरसकाशाद् गृहीत्वा साधूनां संस्तारकं दद्युः । “विसज्जणं व"त्ति यद्वा ते भोगिकादयो भणेयुः गच्छत यूयम्, वयं संस्तारकं संस्तारकस्वामिनः समर्पयिष्याम इति । एष विधिर्दृष्टे संस्तारकस्तेनके मन्तव्यः । अष्टे 'इदं' वक्ष्यमाणं भवति ॥ अथैनामेव गाथां व्याचष्टे [भा. ४६२९] खंताइसिट्ठऽ दिंते, महतर किच्चकर भोइए वा वि । देसारक्खियऽमच्चे, करणनिवे मा गुरू दंडो ॥ वृ- “खंत ''त्ति पिता तदादीनामनन्तरोक्तनीत्या शिष्टे कथितेऽप्यददाने 'महत्तरस्य' ग्रामप्रधानपुरुषस्य कथयन्ति । 'कृत्यकरः ' ग्रामकृत्ये नियुक्तः 'भोगिकः' ग्रामस्वामी तयोर्वा कथयन्ति । 'देशारक्षकः' महाबलाधिकृतः 'अमात्यः' राजमन्त्री तयोर्वा यथाक्रमं निवेद्यते । तथाऽप्यददाने करणेऽपि निवेदयन्ति । नृपस्य तु न निवेद्यते, 'गुरु' गरीयान् सर्वस्वहरणादिको दण्डो भवेदिति कृत्वा ॥ Page #56 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं- १०३, [भा. ४६३०] [भा. ४६३०] एए उ दवावेंती, अहव भणेज्जा स कस्स दायव्वो । अमुगस्स त्तिय भणिए, वच्चह तस्सऽप्पिणिस्सामो ॥ वृ- 'एते' भोगिकादयो यदि दापयन्ति ततो लष्टम् । अथवा ते भणेयुः स संस्तारकः कस्य दातव्यः ? इति; ततः साधुभिः 'अमस्य' इति भणिते ते ब्रुवते - वरजत यूयम्, वयमेव तस्यार्पयिष्याम इति ॥ ५३ [भा. ४६३१] जति सिं कज्जसमत्ती, वयंति इहरा उ घेत्तु संथारं । दिट्ठे नाते चेवं, अदिट्ठऽनाए इमा जयणा ॥ वृ- यदि “सिं" तेषां साधूनां तेन संस्तारकेण कार्यसमाप्तिः सञ्जाता मासकल्पश्च पूर्णस्ततो भोगिकादिभिर्विसर्जिता व्रजन्ति, 'इतरथा' संस्तारककार्येऽसमाप्तेऽपूर्णे मासकल्पे तं वाऽन्यं वा संस्तारकं गृहीत्वा परिभुञ्जते । एवं दृष्टे संस्तारके ज्ञाते वा स्तेने विधिरुक्तः । अदृष्टेऽज्ञाते चेयं यतना भवति ॥ [भा. ४६३२] विजादीहि गवेसण, अद्दिट्ठे भोइयस्स व कधेति । जो भद्दओ गवेसति, पंते अनुसट्ठिमाईणि ॥ वृ-विद्यादिभिः संस्तारकस्तेनस्य गवेषणा कर्त्तव्या । अथ न सन्ति विद्यादयस्ततोऽदृष्टेऽज्ञाते स्तेने भोगिकस्य कथयन्ति । ततो यो भद्रको भवति स स्वयमेव गवेषयति, यस्तु प्रान्तः स स्वयं न गवेषयति, ततस्तत्रानुशिष्ट्यादीनि पदानि प्रयोक्तव्यानि एषा । पुरातन गाथा, अत एनां व्याख्यानयति [भा. ४६३३ ] आभोगिनीय पसिणेन देवयाए निमित्ततो वा वि । एवं नाए जयणा, सच्चिय खंतादि जा राया ।। वृ- आभोगिनी नाम विद्या सा भण्यते या परिजपिता सती मानसं परिच्छेदमुत्पादयति, सा यद्यस्ति ततस्तया यन संस्तारको गृहीतः स आभोग्यते । एवं 'प्रश्नेन' अङ्गुष्ठ- स्वप्नप्रश्नादिना, देवतया वा क्षपकपृष्टया निमित्तेन वा अविसंवादिना तं स्तेनं जानन्ति । एवं ज्ञाते सति सैव यतना कर्त्तव्या या खन्तादिगृहीते संस्तारके भणिता यावदपश्चिमो राजा । एतेषामभावे विधिमाह[भा. ४६३४ ] विजादऽ सई भोयादिकहण केन गहिओ न जाणऽम्हे । हो दुरायहत्थो, भद्दी आमं ति मग्गति य ॥ वृ-विद्यादीनामभावे न ज्ञायते केनापि गृहीत इति ततो भोगिकादीनां कथयन्ति-संस्तारकोऽस्माकं नष्टो वर्त्तते, यूयं तं गवेषयत । भोगिकः प्राह- केन गृहीतः ? । साधवो ब्रुवते न जानीमो वयम् । भोगिकः प्राह-अज्ञायमानं कथं गवेषयामि ? । साधुभिर्वक्तव्यम् दीर्घो हि राजहस्तो भवति, तेन हि गंवेष्यमाणः सुखेनैव स्तेनः प्राप्येत । ततो यो भद्रको भवत सः 'आमं' सत्यमिदम् इति भणित्वा मार्गयति ।। प्रान्तः पुनरिदमाह [ भा. ४६३५ ] जाणह जेन हडो सो, कत्थ विमग्गामि णं अजाणंतो । इति पंते अनुसट्ठी धम्म-निमित्ताइ तह चेव ॥ वृ-यः प्रान्तः स ब्रूयात्- 'जानीत यूयं येनासौ संस्तारको हृतः, अजानानस्तु कुत्राहं मार्गयामि अदेशकवद् अन्धवद्वा ?' इति प्रान्ते ब्रुवाणेऽनुशिष्टि धर्मकथा-निमित्तादि तथैव प्रयोक्तव्यम् । - Page #57 -------------------------------------------------------------------------- ________________ ५४ बृहत्कल्प-छेदसूत्रम् -३-३/१०३ [भा.४६३६] असतीय भेसणं वा, भीया वा भोइयस्स व भएणं। साहित्य दारमूले, पडिनीय इमेसु विछुभेज्जा ।। वृ-अथ नास्ति तत्र भोगिकोऽस्तिवापरंन दापयति तदा साधवोभेषणं कुर्वन्ति।ततोभीता वा भोगिकस्य वा भयेन द्वारमूले 'संहरन्ति' संस्तारकं स्थापयन्तीत्यर्थः । यस्तु प्रत्यनीकः सः "एतेष्वपि' पृथिव्यादिषुकायेषु प्रक्षिपेत्, यद्यस्माकंनजातस्ततएतेषामपिमा भूत् इति कृत्वा। एष पुरातनगाथासमासार्थः।। अथैनामेव व्याख्याति[भा.४६३७] भोइयमादीनऽसती, अदवावेंते व बिंति जनपुरओं। मुज्झीहामो सकज्जे, किह लोगमयाइं जाणंता॥ वृ-भोगिकादीनामभावे तेषु वा संस्तारकमदापयत्सु साधवो बहुजनस्य पुरतो ब्रुवते-वयं लोकमतानिजानन्तः स्वकार्ये कथं मुह्यामहे?, येहि लोकस्य नष्टं विनष्टं विस्मृतं वा जानीमस्ते कथमात्मीयं न ज्ञास्यामः? इति भावः, अतो यद्यस्माकं संस्तारकं नार्पयथततो वयंजनपुरतस्तं हस्ते गृहीत्वा दापयिष्यामः ।।अथ-यूयं न प्रतीथ ततः पश्यथ[भा.४६३८] पेहुणतंदुल पच्चय, भीया साहंति भोइगस्सेते। साहत्थि साहरंति व, दोण्ह विमा होउ पडिणीए॥ वृ-तन्दुला द्विविधाः क्रियन्ते-एकेपेहुणमिश्रिताअपरे केवलाएवापेहुणं नाम-मयूराङ्गगिरः। तत एकः साधुः साधूनां मध्यादपसरति गृहस्थांश्च भणति-युष्माकं मध्यादेकः किमप्युपकरणं गृह्णातु । ततो गृहीते सति स साधुरागत्य भणति-पङ्क्त्या सर्वेऽपि तिष्ठत । स्थितेषु च स नैमित्तिकसाधुरुदकं तेषामञ्जली ददाति, ततो नैमित्तिकसाधुस्तानि पेहुणानि दृष्ट्वा भणतिअनेन गृहीतमिति।एवंप्रत्ययेउत्पन्ने भीताश्चिन्तयन्ति-नूनमेतेएवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति, राजानं वा प्रत्याययिष्यन्ति। एवं विचिन्त्य-नूनमेते एवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति, राजानं वा प्रत्याययिष्यन्ति। एवं विचिन्त्य स्वहस्तेन प्रतिश्रयद्वारमूले संस्तारकंस्थापयन्ति । प्रत्यनीका वा 'द्वयोरपि वर्गयोः' अस्माकममीषांच मा भूदिति बुध्या एतेषु गत्वा संहरन्ति॥ [भा.४६३९] पुढवी आउक्काए, अगड वणस्सइ-तसेसुसाहरइ। चित्तूण यदायव्वो, अदिट्ठ दड्डे यदोच्चं पि॥ वृ-कश्चित्प्रत्यनीकः साधुसामाचारीकोविदः सचित्तपृथिव्यकाय-त्रसेषुप्रक्षिप्तंन ग्रहीष्यन्ति' इति बुध्या तेषु 'अगडे वा' गर्तायां प्रक्षिपति । यद्यप्येतेषु प्रक्षिप्तस्तथापि ततो गृहीत्वा संस्तारकस्वामिनो दातव्यः। अथ प्रयत्नेन गवेषितोऽपिन कुत्रापि दृष्टः, यद्वा स प्रत्यनीकतया तेन दग्धः ततः "दोच्चं पि"ति द्वितीयमपि वारमवग्रहमनुज्ञापयेत्॥ परः प्राह-यथाऽहं भणामि तथा द्वितीयावग्रहोऽनुज्ञापनीयः । कथम् ? इति चेद् उच्यते-स संस्तारकस्वामी न ज्ञाप्यते, यथा-नष्टः संस्तारकः, किन्तु गत्वा भणितव्यम्- देहि तं संस्तारकं निर्देजमिदानीम्, एष द्वितीयावग्रह उच्यते । गुरुराह[भा.४६४०] दिटुंत पडिहणेत्ता, जयणाए भद्दतो विसजेती। ___ मग्गंते जयणाए, उवहिग्गहणे ततो विवाओ। वृदृष्टान्तो नाम-नोदकेन स्वमत्या योऽभिप्रायो दृष्टः तं 'प्रतिहन्य(त्य)' निराकृत्य Page #58 -------------------------------------------------------------------------- ________________ उद्देशक : ६:३, मूलं-१०३, [भा. ४६४० ] ५५ संस्तारकस्वामिनो यतनया सद्भावः कथनीयः । कथिते च भद्रको विसर्जयति-गच्छत नाहं किञ्चिदपि भणामि । यः प्रान्तः स संस्तारकं मार्गयति तत्रानुशिष्टि कर्त्तव्या । अथ नेच्छति तदा यतनया प्रान्तोपधिर्दातव्यः । अथ बलादेव सारोपधेर्ग्रहणं करति ततो राजकुले विवादः कार्यः । अमुमेवार्थं व्याख्याति[ भा. ४६४१] परवयणाऽऽउट्टेउं, संथारं देहि तं तु गुरु एवं । आनेह भणति पंतो, तो नं दाहं न दाहं वा ॥ वृ- परः - प्रेरकस्तस्य वचनमत्र भवति - "आउट्टेउं " ति धर्मकथया संस्तारकस्वामी आवर्त्य याच्यते-तं संस्तारकं निर्देजं प्रयच्छ । गुरुराह एवं मायया याचमानस्य चतुर्गुरुकम्, भद्रकप्रान्तकृताश्च दोषा भवन्ति । प्रान्तो भणति - आनयत तं संस्तारकं ततो दास्यामि वा नवा ।। किञ्च[भा. ४६४२] दिजंतो वि न गहिओ, किं सुहसेज्जो इयाणि सो जाओ । हिय नट्ठो वा नूनं, अथक्कजायाइ सूएमो ॥ वृ- दीयमानोऽपि तदा निर्देजो न गृहीतः, किमसौ संस्तारकः इदानीं सुखशय्यः सञ्जातः ? । अनया ‘अथक्कयाच्ञया’ अकालप्रार्थनया 'सूचयामः' सूचां कुर्म स नूनं हृतो वा नष्टो वा ॥ [ भा. ४६४३ ] भद्दो पुन अग्गहणं, जाणंतो वा वि विप्परिणमेज्जा । किं फुडमेव न सीसइ, इमे हु अन्ने वि संथारा ॥ वृ- यः पुनर्भद्रकः स साधुषु 'अग्रहणम्' अनादरं कुर्यात्, यो वा जानाति 'संस्तारको हृतो नष्टो वा' इति स सम्यग्दर्शन-प्रव्रज्याद्यभिमुखो विपरिणमेत् - अहो ! मायाविनोऽमी । विपरिणतश्च ब्रूयात्- किं स्फुटमेवास्माकं 'न शिष्यते' न कथ्यते यथा संस्तारको नष्टः ?, किमेवं मायया याच्यते ?, इमे 'हु:' इति प्रत्यक्षमुपलभ्यमाना अन्येऽपि संस्तारकाः सन्ति ॥ [ भा. ४६४४ ] इइ चोयगदितं, पडिहंतुं सिस्सते से सब्भावो । भद्दो सो मम नट्टो, मग्गामि न तो पुनो दाहं ॥ वृ- 'इति' उपप्रदर्शने । एवं भद्रक-प्रान्तदोषोपदर्शनेन 'नोदकदृष्टान्तं' पराभिप्रायं प्रतिहत्य तत्त्वमुच्यते- 'तस्य' संस्तारकस्वामिनः सद्भावः 'शिष्यते' निवेद्यते । निवेदिते च भद्रको भणतिस संस्तारतो मम नष्टो न युष्माकम्, अद्य प्रभृति नाहं मार्गयामि, लब्धं तु तं पुनरपि युष्मभ्यं दास्यामि || 1 [भा. ४६४५ ] तुब्भे वि ताव मग्गह, अहं पि झोसेमि मग्गह व अन्नं । वि भट्टा, वदंति पंतेऽनुसट्ठादी ।। वृ-यूयमपि तावत् तं संस्तारकं मार्गयत, अहमपि तं "झोसेमि" त्ति गवेषयामि, अथ युष्माकं त्वरितं संस्तारकेण प्रयोजनं तदा यावदसौ लभ्यते तावदन्यं मार्गयत । यस्तु प्रान्तः स सद्भावे कथिते भणति-नष्टेऽपि संस्तारके यूयं मम न नष्टाः, यतो जानीथ ततः संस्तारकमानयत मूल्यं वा प्रयच्छत । एवं प्रान्ते ‘वदति ब्रुवाणेऽनुशिष्टि-धर्मकथा-विद्या-मन्त्रादि तथैव प्रयोक्तव्यम् ॥ तथाऽप्यतिष्ठति विद्यादीनामभावे वा मूल्यं मार्गयत इयं यतना [ भा. ४६४६ ] मोल्लं नत्थऽ हिरन्ना, उवधिं मे देह पंतदायणया । अन्नं व देंति फलगं, जयणाए मग्गिउं तस्स ।। Page #59 -------------------------------------------------------------------------- ________________ ५६ बृहत्कल्प-छेदसूत्रम् - ३-३/१०३ वृ- अहिरण्या वयम्, नास्ति मूल्यम् । स ब्रूयात्-उपधिं प्रयच्छत। ततो येन साधुना स संस्तारक आनीतः तस्य सत्कमन्तप्रान्तमुपकरणं दर्शनीयम् । अन्यं वा फलकं यतनया मार्गयित्वा ददति । तच्च प्रथमतः शुद्धम्, तदभावे पञ्चकपरिहाण्या, राजकुले वा गत्वा व्यवहारः क्रियते- दत्त्वा दानमनीश्वर० ।। इति । एतेन "मग्ग दानं च ववहारे" त्ति पदं व्याख्यातम् ॥ [भा. ४६४७] सव्वे वि तत्थ रुंभृति, भद्दो मुल्लेण जाव अवरहे । एगं ठवे गमनं, सो वि य जावऽट्ठमं काउं ॥ वृ- कोऽपि राजवल्लभादिः सर्वानपि साधूंस्तत्र निरुणद्धि ततो यदि कश्चिद् यथाभद्रको मूल्येन मोचयति स न प्रतिषेद्धव्यः । अथ प्रतिषेधं कुर्वन्ति तदा चतुर्गुरु । अथ नास्ति मोचयिता ततोऽपराह्णं यावत् सर्वेऽपि सबाल-वृद्धास्तिष्ठन्ति । यदि न मुञ्चति तत एकं क्षपकादिकं स्थापयित्वा शेषाः सर्वेऽपि गच्छन्ति । सोऽपीशः स्थाप्यते योऽष्टमं कर्तुं समर्थो भवति । असमर्थस्थापने चतुर्गुरु । ततोऽसावष्टमं कृत्वा पलायते ।। [भा. ४६४८] लद्धे तीरियकज्जा, तस्सेवऽ प्पेति जहव भुंजंति । भुद्धे व समत्ते, दोच्चोग्गह तस्स मूलाओ ॥ वृ- लब्धे संस्तारके यदि 'तीरितकार्याः' समाप्तप्रयोजनास्ततः 'तस्यैव' संस्तारकस्वामिनो अर्पयन्ति । अथ कार्यमसमाप्तं ततो भुञ्जते । अथ प्रभुणा-संस्तारकस्वामिना लब्धः साधूनां च कार्यमद्याप्यसमाप्तं ततस्तस्य मूलाद् यद् द्वितीयं वारमवग्रहोऽनुज्ञाप्यते एष सूत्रोक्तो द्वितीयावग्रहः ।। अथ द्वितीयपदमाह [ मा. ४६४९ ] बितियं पभुनिव्विसए, नडुट्ठिय सुत्र मयमणप्पज्झे । असहू य रायदुट्टे, बोहिकभय सत्थ सीसे वा ॥ वृ- द्वितीयपदमत्र भवति - संस्तारकेण कार्यं समाप्तम्, योऽपि संस्तारकस्य प्रभुः स राज्ञा निर्विषय आज्ञप्तः, देशभङ्गे वा नष्टः, दुर्भिक्षे वा 'उत्थितः उद्वसितः, “सुन्ने” त्ति सपुत्र- दारः कुत्रायामन्त्रितः सन् गतो गृहं शून्यं सञ्जातम्, 'मृतो वा' कालगतः; एतानि गृहस्थकारणानि । अमूनि तु संयतकारणानि स साधुरसहिष्णुर्न शक्नोति गवेषयितुम्, राजद्विष्टे बोधिकभये वा अध्वशीर्षके वा सार्थवशगः । एतैः कारणैर्विप्रणष्टं संस्तारकं न गवेषयेत्, नच प्रायश्चित्तमाप्नुयात्। मू. (१०४) जद्दिवसं समणा निग्गंथा सिज्जा-संधारयं विप्पजहंति तद्दिवसं अवरे समणा निग्गंथा हव्वमागच्छिज्जा स च्चेव उग्गहस्स पुव्वाणुत्रवणा चिट्ठइ अहालंदमवि उग्गहे ।। वृ- अस्य सूत्रस्य कः सम्बन्धः ? इत्याह [ भा. ४६५० ] उग्गह एव उ पगतो, सागारियउग्गहाउ साहम्मी । रहितं व होइ खित्तं, केवतिकालेस संबंधो ॥ वृ- पूर्वसूत्रे तावदवग्रह एव 'प्रकृतः ' प्रस्तुतो वर्त्ते, "दोघं पि उग्गहं अनुन्नवित्ता" इति वचनात्, इदमपि प्रकृतसूत्रमवग्रहविषयम् । यद्वा पूर्वसूत्रद्वये सागारिकावग्रह उक्तः, इह तु सागारिकावग्रहादनन्तरं साधर्मिकावग्रहः प्रतिपाद्यते । अथवा पूर्वसूत्रेषु संस्तारकं प्रत्यर्प्य विहारः कर्तव्य इत्युक्तम्, अत्र तु विहारे कृते तैः साधुभिर्विरहितमपि तत् क्षेत्रं कियन्तं कालमवग्रहयुक्तं भवति ? इति निरूप्यते । एष सम्बन्धः ॥ Page #60 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं १०४, [ भा. ४६५० ] ५७ अनेनायातस्यास्य व्याख्या- "जद्दिवसं”ति प्राकृतत्वात् सप्तम्यर्थे द्वितीया, ततो यस्मिन् दिवसे श्रमणा निर्ग्रन्थाः शय्या च वसति संस्तारकश्च - तृण- फलकात्मकः शय्या-संस्तारकम् । अत्र शय्याग्रहणेन ऋतुबद्धकालः सूचितः संस्तारकग्रहणेन तु वर्षाकालः, अथवा कारणजाते ऋतुबद्धेऽपि संस्तारको गृह्यते इति कृत्वा संस्तारकग्रहणेन द्वावपि गृहीतौ; ततो मासकल्पे वर्षावासे वा पूर्णे शय्यां संस्तारकं वा यस्मिन् दिवसे पूर्वस्थिताः साधवः 'विप्रजहति' परित्यजन्ति तद्दिवस एवापरे श्रमणा निर्ग्रन्थास्तत्र क्षेत्रे "हव्वं” शीघ्रमागच्छेयुः ततः सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति । किमुक्तं भवति ? - य एव ततः क्षेत्राद् निर्गतास्तेषामेवावग्रहे तत् क्षेत्रम्, ये तु तद्दिवसमन्ये आगतास्ते क्षेत्रोपसम्पन्ना इति कृत्वा यत् त्र सचित्तादिकं तत् पूर्वस्थितानामाभाव्यम् । कियन्तं कालं यावद् ? इत्याह-‘“अहालंदमवि उग्गहे" इह यस्यां वेलायां ते साधवो निर्गतास्तावतीं वेलां यावद् द्वितीयेऽप्यह्नि तेषामेवावग्रहो भवतीति वक्ष्यते, ततः यथालन्दम् इहाष्टपौरुषीप्रमाणं मध्यमं गृह्यते एतावन्तमपि कालं तदीय एवावग्रहे तत क्षेत्रम्, अतो यद्यागन्तुकास्तत्र सचित्तादिग्रहणं कुर्वन्ति तदा साधर्मिकस्तैन्यप्रत्ययं प्रायश्चित्तमापद्यन्ते । अत्र तु सचित्तेनाधिकार इति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः, तत्र सचित्तावग्रहः शैक्षविषय इति कृत्वा प्रथमतस्तदुत्पत्तिं दर्शयति[ भा. ४६५१] सुत्त - Sत्थ - तदुभयविसारए य खमए य धम्मकहि वाई । कालदुअम्मि वसंते, उवसंतो स - अन्नगामजनो ।। वृ- 'कालद्वये' ऋतुबद्ध-वर्षावासलक्षणे कचित् क्षेत्रे वसतां स्वग्रामजनः सक्रोशयोजनाभ्यन्तरवर्त्ती अन्यग्रामजनश्च ‘उपशान्तः' प्रतिबुद्धः । कथम् ? इत्याह-सूत्रार्थतदुभयविशारद आचार्य सातिशयं प्रवचनव्याख्यानं करोति, क्षपको मासक्षपणादि तपस्तप्यते, धर्मकथी क्षीराश्रवादिलब्धिसम्पन्नतया वैराग्यजननीं धर्मकथां विदधाति, वादी परवादिनं निरुत्तरीकरोति । एवमादिभिः प्रभावकैः स्वग्रामीणोऽन्यग्रामीणश्च भूयान् जनः प्रव्रज्यायां परिणतः कृतः ॥ [ भा. ४६५२ ] नीरोगेण सिवेण य, वासावासासु निग्गया साहू । अन्ने वि य विहरंता, तं चेव य आगया खित्तं ॥ वृ-‘नीरोगेण' ग्लान्याभावेन ‘शिवेन च' राजदौस्थ्याद्युपप्लवाभावेन वर्षावासं कृत्वा ते साधवो निर्गताः । इह ‘वर्षावासे भूयान् काल एकत्र स्थीयते, ततः प्रभूतलोकस्योपशमो भवति' इत्यभिप्रायेण वर्षावासग्रहणं कृतम्, अन्यथा ऋतुबद्धेऽपि मासकल्पानन्तरमेव विहारः सम्भवति । एवं ते ततः क्षेत्राद् निर्गता अन्ये च साधवो विहरन्तस्तदेव क्षेत्रमागताः ।। तत्रावग्रहचिन्तां चिकीर्षुराह[ भा. ४६५३] खित्तोग्गहप्पमाणं, तद्दिवसं केति केतऽहोरत्तं । जं वेल निग्गयाणं, तं वेलं अन्नदिवसम्मि ।। वृ- इह केचिदाचार्याः क्षेत्रावग्रहस्य कालप्रमाणं ब्रुवते यस्मिन् दिवसे ते निर्गतास्तमेवैकं दिवसमवग्रहः, तत ऊर्ध्वं रात्राववग्रहो व्यवच्छिद्यते । केचित्तु भणन्ति- अहोरात्रमवग्रहः, द्वितीयेऽह्नि सूर्योदयेऽवग्रहो व्यवच्छिद्यत इति भावः । सूरिराह द्वावप्येतावनादेशौ, अयं पुनरादेशः यस्यां वेलायां निर्गतास्तामेव वेलां यावदन्यस्मिन् दिवसेऽवग्रहो भवति, ततः परं व्यवच्छिद्यते । इत्थं कालतः प्रमाणमुक्तम् । क्षेत्रतस्तु सर्वतः सक्रोशं योजनमवग्रहः, तत ऊर्ध्वमनवग्रह इति ॥ [भा. ४६५४] खेत्तम्मिय वसहीय य, उग्गहो तहिं सहमग्गणा होइ । Page #61 -------------------------------------------------------------------------- ________________ ५८ बृहत्कल्प-छेदसूत्रम् -३-३/१०४ ते विय पुरिसा दुविहा, रूवंजाणं अजाणं च ॥ वृ-इहावग्रहः क्षेत्रे वा भवेद् वसतौ वा । यद् इन्द्रकीलादिवर्जितं ग्राम-नगरादि तदिह क्षेत्रं मन्तव्यम्, तत्रावग्रहं प्रतीत्य शैक्षमार्गणा कर्तव्या, कस्या ऽऽभवति ? कस्य वा न ? इति विचारयितव्यमित्यर्थः। यत् पुनरिन्द्रकीलादियुक्तंतदवग्रहयोग्य क्षेत्रंनभवतीत्यक्षेत्रमभिधीयते, तत्र वसतिविषया शैक्षमार्गणा भवति, सा चोपरिष्टात् करिष्यते।क्षेत्रविषयंतावत् करोति-"ते वि य" इत्यादि, ये पुरुषास्तत्र क्षेत्रे प्रव्रज्यां ग्रहीतुमायातास्ते द्विविधाः-एके रूपं जानन्तोऽपरेऽजानन्तः ॥ इदमेव व्यक्तीकरोति[भा.४६५५] जाणंतमजाणंता, चउबिहा तत्थ होति जाणंता। उभयं रूवं सई, चउत्थओ होइ जसकित्तिं॥ वृ-जानन्तोऽजानन्तश्चेति शैक्षा द्विविधाः । तत्र जानन्तस्तावत् चतुर्विधाः, तद्यथा-एकः शैक्षो विवक्षितक्षेत्रस्थितस्याचायदिः 'उभयं' रूपंशब्दंचजानाति, धर्मकथाश्रवणार्थं समागतो रूपेण स्वरेण च तमुपलक्षयतीत्यर्थः । द्वितीयो रूपंजानाति न शब्दम्, तृतीयः शब्दं न रूपम्, चतुर्थकः पुनर्यशःकीर्तिं जानाति । यशः-सर्वदिग्गामिनी प्रसिद्धि, सैवैकदिग्गामिनी कीर्तिः, यशउपलक्षिता कीर्तिः यशःकीर्तिरिति समासः।यस्तु रूप-शब्द-यशःकीर्तीनामेकमपिनजानाति सोऽजानान उच्यते ॥अथ द्वितीयभङ्गमादौ कृत्वा यथाक्रमममूनेव भङ्गान् व्याचष्टे[भा.४६५६] उच्चार-चेइगातिसु, पासति रूवं विनिग्गयस्सेगो। रत्तिं उविंत शिंतो, कासगमादी सुणति सदं ।। वृ-उच्चारभूमि-चैत्यवन्दनादिषुकार्येषुविनिर्गतस्याचायदिरूपम् एकः' द्वितीयः शैक्षः पश्यति न पुनः स्वरेण जानीते, उपाश्रये तस्यानागमनात् । तृतीयस्तु शैक्षः 'कर्षकादि' कर्षकःकृषीवलस्तप्रभृतिकः सकलमपि दिवसं क्षेत्रादौ स्थित्वा रात्रौ' प्रदोषे गृहमुपागच्छन् प्रभातेच भूयोऽपि निर्गच्छन् धर्मकथायाः परिवर्तनाया वा शब्दं शृणोति न तु रूपमवलोकते॥ [भा.४६५७] चउथो पुन जसकित्तिं, सुणेइ सग्गाम-वसभवासी वा । उभयं रूवं सई, कित्ति वन जाणते चरिमो॥ वृ-चतुर्थस्तु शैक्षः स्वग्रामवासी प्रतिवृषभग्रामवासी वा दूरस्थः सन् न रूपं पश्यति न च धर्मकथादिशब्दंशृणोति, किन्तुलोकमुखेनतेषामाचार्यादीनां यशःकीर्तिशृणोति।यस्तु चरमः' अजानानः शैक्षः स रूप-शब्दात्मकमुभयं कीर्तिं च न जानाति, परं गृहवासनिर्वित्रतया प्रव्रज्यां ग्रहीतुमायातः । एवं वास्तव्यशैक्षः पञ्चविध उक्तः॥ [भा.४६५८] वायाहडो वि एवं, पंचविहो होइ आनुपुवीए। एएसिं सेहाणं, पत्तेयं मग्गणा इणमो॥ वृ-'वाताहृतो नाम' आगन्तुकशैक्षः सोऽपि एवमेव' वास्तव्यशैक्षवत्पञ्चविधः 'आनुपूर्व्या' यथोक्तपरिपाट्या वक्तव्यः । अथैतेषां दशानामपिशैक्षाणां प्रत्येकं पृथक्पृथग् ‘इयम् एतेषु द्वारेषु ‘मार्गणा' विचारणा भवति ॥ तान्येव द्वाराण्यभिधित्सुः श्लोकचतुष्टयमाह[भा.४६५९] अव्वाघाए पुनो दाई, जावज्जीव पराजिए। पढम-बिइयदिवसेसुं, कहं कप्पो उ जाणते॥ Page #62 -------------------------------------------------------------------------- ________________ आसपा उद्देशक : ३, मूलं-१०४, [भा. ४६५९] वृ-न विद्यते व्याघातः-प्रव्रज्याविघ्नो यस्य सोऽव्याघातः शैक्षः, पूर्वसाधुषु क्षेत्रान्निर्गतेष्वपि प्रव्रज्यां गृह्णाति न पुन कालक्षेपंकरोतीति भावः । “पुनो दाइं" ति 'पुनः' 'भूयोऽपि यदा किल ते साधवः समायास्यन्ति तदा प्रव्रजिष्यामि' इति कश्चित् शैक्षोब्रूयात् । “जावजीवपराजिए"त्ति 'यदा यदाऽहं प्रव्रजितुमभिलषामितदातदा नवैर्नवैर्विघ्नैरुत्तिष्ठमानैर्यावजीमहं पराजितः, अत एव मे साम्प्रतमपि व्याघात उत्थितो येवं साधवो विहारं कृतवन्तः' इति कश्चिद् ब्रूयात् । एषां शैक्षाणामेकतरे प्रथम-द्वितीयदिवसयोः प्रव्रजितुमुपस्थिते 'ज्ञायके रूपशब्दादिज्ञे 'कथं' केन प्रकारेण 'कल्पः' पूर्वसाधुसमीपप्रेषणादिको विधिर्विधीयते? ॥ [भा.४६६०] जाणाविए कहं कप्पो, वत्थब्वे वाताहडे ति य । उज्जू अनुञ्जए या वि, कहं कप्पोऽभिधारणे॥ वृ-तथा वास्तव्ये वा वाताहते वा त्वमस्माकंनाभवसि इति ज्ञापिते कथं कल्पो भवेत् ? । ऋजुर्नाम-य आचार्यादिरेतान्शैक्षान् पूर्वसाधुसमीपे प्रहिणोति, तद्विपरीतोऽनृजुः, एतयोश्चिन्ता कर्तव्या ।अभिधारणम्-एकमनेकान् वासाधूनमनस्याधाय शैक्षस्य गमनम्, तत्र कथमाभाव्याऽनाभाव्यतायाः कल्पः क्रियते? ॥ [भा.४६६१] एगग्गामे अतिच्छंते, कहं कप्पो विहिज्जते । दुविहामग्गणा सीसे, एगविहा य पडिच्छए॥ वृ. “एगग्गामे"त्ति यत्र ग्रामे क्षेत्रिकाः स्थितास्तत्रैव केनापि धर्मकथिना कोऽपि मित्यादृष्टिरुपशमितः स कस्याऽऽभवति? । “अइच्छंते"त्ति कमप्याचार्यमभिधार्यातिक्रामति विवक्षितक्षेत्रमतीत्याग्रतो गच्छति शैक्षे कथं कल्पो विधीयते ? । तथा 'शिष्ये' शिष्यविषया 'द्विविधा' सज्ञातका-ऽसज्ञातकशैक्षभेदाद् द्विप्रकारामार्गणा भवति। प्रतीच्छके च 'एकविधा' केवलसंज्ञातकविषया मार्गणा ॥ [भा.४६६२] पडिसेहियवच्चंते, कहं कप्पो विहिज्जइ। संगारादिन्नते यावि, कहं कप्पो विहिज्जइ ।। वृ-“पडिसेहियवच्चंते"त्ति भगवताप्रतिषिद्धम्-ग्लानप्रतिचरणाव्यापृतैः शैक्षोनप्रव्राजनीयः, ये तु तं प्रव्राज्यान्यत्र प्रेषयन्ति तैः प्रेषिते तस्मिन् गच्छान्तरं व्रजति कथं कल्पो विधीयते ?। सङ्गारः-सङ्केतः स दत्तो यस्य शैक्षस्य स सङ्गारदत्तः, आहिताग्न्यादेराकृतिगणत्वात् क्तान्तस्य परनिपातः, तस्मिन्नपि कथं कल्पो विधीयते ? इति । एतत् सर्वं निरूपणीयमिति द्वारश्लोकचतुष्टयसमासार्थः ।। अथ विस्तरार्थं बिभणिषुः प्रथमतो ये पूर्वमभयज्ञादयः पुरुषा उक्तास्तद्विषयकवक्ष्यमाणप्रेषणभेदसङ्गहायाह[भा.४६६३] चत्तारि नवग जाणंतगम्मि जाणाविए वि चत्तारि। - अभिधारणम्मि एए, खित्तम्मि विपरिणया वा वि॥ वृ- यः पूर्वमुभयज्ञ-रूपज्ञादिभेदात् चतुर्धा ज्ञायक उक्तः तत्र प्रत्येकं चत्वारः 'नवकाः' प्रेषणविषया नवप्रकाररूपा भवन्ति । तथा योऽजानानः सन् साधुभिः 'त्वमस्माकं नाभवसि किन्तु पूर्वसाधूनाम्' इत्येवं ज्ञापितस्तत्रापि चत्वारो नवकाः । अभिधारणं नाम-मनसिकरणम्, ततः क्षेत्रिकं मनसिकृत्य यदि ‘एते' अव्याघातदय आगतास्तदा विपरिणता अपि क्षेत्रस्वामिन Page #63 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/१०४ एवाभाव्या इति सङ्ग्रहगाथासमासार्थः ॥अथैनामेव विवरीषुरव्याघातद्वारमङ्गीकृत्य तावदाह[भा.४६६४] पियमप्पियं से भावं, दटुं पुच्छित्तु तस्स साहति। कत्थ गता ते भगवं, पुट्ठा व भणंति किं तेहिं॥ वृ-क्षेत्रिकेषु निर्गतषुयोऽसावुभयज्ञःशैक्षःसः प्रव्रजामि' इत्यभिप्रायेणागतोयावदागन्तुकान् साधून पश्यतिततस्ते साधवस्तस्य प्रियमप्रियं वा भावंप्रहसितमुखतया दीनमुखतया वा दृष्ट्वा पृच्छन्ति-किमेवं प्रहृष्टवदनश्चिन्तापरो वा श्यसे? । एवं पृष्ट्वा तेन स्वस्वरूपे कथिते सति “साहंति" सद्भावं कथयन्ति, यथा-गतास्तेऽन्यत्र विहारेणेति । यद्वा स स्वयमेव पृच्छेत्-कुत्र गतास्ते भगवन्तः? । एवं पृष्टाः सन्तो भणन्ति-किं तैर्भवतः प्रयोजनम् ? ॥स प्राह[भा.४६६५] पव्वइहं ति य भणिते, अमुगत्थ गया वयं ति दिक्खेउं । तेसि समीवं नेमो, न य वाहणते तयं सोय॥ वृ-'प्रव्रजिष्याम्यहम्' इति तेन भणिते साधवो वदन्ति-ते क्षेत्रिका अमुकत्र ग्रामादौ गताः, वयं भवन्तं 'दीक्षयित्वा' प्रव्राज्य तेषां समीपे नयामः, सच 'तकम् अनन्तरोक्तं वचनं 'नच' नैव व्याहन्ति, न विकुट्टयति-तथेति प्रतिपद्यते इत्यर्थ, एषोऽव्याघात उच्यते॥ [भा.४६६६] संघाडग एगेणं, पंथुवएसे व मुंडिए तिन्नि। इइतरुण मज्झ थेरे, एकेके तिनि नव एते॥ वृ-ततः साधवस्तं प्रव्राज्य सङ्घाटकेन सह क्षेत्रिकाणामन्तिके प्रेषयन्ति १, अथ सङ्घाटकोन पूर्यते तत एकं साधुं सहायं दत्त्वा मुत्कलयन्ति २, तस्याप्यभावे एकाकिनमपि विसर्जयन्ति परं पन्थानमुपदिशेयुः ३, एते तरुणस्य त्रयः प्रकाराः, मध्यम-स्थविरयोरप्येवमेव प्रत्येकंत्रयः, एते नव भवन्ति । एष प्रथमो नवकः॥ [भा.४६६७] पढमदिने सग्गामे, एगो नवगो वितिजए बितिओ। एमेव परग्गामे, पढमे बितिए यवे नवगा॥ वृ- एषः “एकः' प्रथमो नवकः प्रथमदिने स्वग्रामे प्रव्राज्य प्रेषयतां मन्तव्यः द्वितीये दिवसे एवमेव द्वितीयो नवकः, एवं स्वग्रामे द्वौ नवकावुक्तौ । परग्रामेऽपि “एवमेव' प्रथमद्वितीयदिवसयौौ नवकौ । एवमेते चत्वारो नवका मुण्डितं प्रेषयतां भवन्ति॥ [भा.४६६८] एमेव अमुंडिस्स वि, चउरो नवगा हवंति कायव्वा। एमेव य इत्थीण वि, नवगाण चउक्कगा दुनि॥ कृएवमेवामुण्डितस्यांपिप्रेष्यमाणस्य चत्वारोनवकाः कर्त्तव्या भवन्ति। एवमेतेवेनवकचतुष्टये पुरुषाणामुक्ते । स्त्रीणामप्येवमेव द्वौ नवकानां चतुष्कौ सङ्घाटका-ऽऽत्मद्वितीयादिभि प्रकारैः कर्तव्यौ ।अथक्षेत्रिकाणामन्तिके न प्रेषयन्ति किन्तु स्वयमेव स्वीकुर्वन्तिततश्चत्वारोगुरुकाः॥ अथ किमर्थममुण्डितं प्रेषयन्ति? इति उच्यते[भा.४६६९] सागारियसंकाए, निच्छति घिच्छंति वा सयंमा मे । तेव अदटुं पुनरवि, पच्चेहममुंडितो एवं ॥ वृ-सागारिकाः-सज्ञातकास्तेषां सङ्कया-'माममी उप्रव्राजयेयुः' इति बुध्या स्वग्रामे नेच्छति स शैक्षः प्रव्रजितुम् । यद्वा अमी साधवः प्रव्राज्य मा मां ग्रहीष्यन्ति, यदि च तान् साधून न Page #64 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१०४, [भा. ४६६९] द्रक्ष्यामिततः पुनरप्यत्रैव प्रत्येष्यामि प्रत्यागमनं करिष्ये इतिबुध्या नागन्तुकैरात्मानंमुण्डापयति, एवममुण्डितं प्रेषयन्ति॥ एवं तावदुभयज्ञविषयो विधिरुक्तः, अथ रूपज्ञादिविषयं तमेवादिदिशनाह, [भा.४६७०] एसेव य नवगकमो, सई रूवं व होइ जाणंते। जो पुन कित्तिं जाणति, न ते वयं सिस्सते तस्स ।। वृ-एष एव नवकक्रमः शब्दं रूपंच जानति शैक्षे वक्तव्यः, शब्दज्ञे रूपज्ञे चेत्यर्थः । यः पुनः शैक्षः कीर्तिमेव जानाति न रूपं न वा शब्दं तस्य 'शिष्यते' निवेद्यते-ते वयं न भवामो येषां सकाशे भवान् प्रव्रजितुमायात इति । ततो ब्रूयात्[भा.४६७१] किं वन कप्पइ तुब्भं, दिक्खेउ तेसितंन अम्हं ति। तत्थ वि सोचेव गमो, नवगाणंजो पुरा भणितो ।। वृ-किं वा युष्माकं दीक्षयितुं न कल्पते ? । ततः साधुभिर्वक्तव्यम्-तेषामेव त्वमाभवसि नास्माकम् । एवमुक्ते यद्यसौ भणति-यद्येवंतर्हि मां प्रव्राज्य तत्रप्रेषयत अमुण्डितंवा विसर्जयत; ततस्तत्रापि स एव 'गमः' प्रकारो यः सङ्घाटका-ऽऽत्मद्वितीयादिभिर्भदौर्निष्पन्नानां नवकानां पुरा भणितः ॥अथ “पुनो दाइं" ति द्वारमाह[भा.४६७२] विप्परिणया वि जति ते अम्हे तुझं भणंतऽलं तेहिं । तह वियन विते तेसिं अव्वाहयमादिया होति ।। वृ-ये अव्याघातादयो वाताहृतान्ता शैक्षा अत्र प्रस्तुतास्ते क्षेत्रिकमभिधार्य प्रथमागता अपि कुताऽपिहेतोस्तंप्रति विपरिणताःसन्तोयद्यागन्तुकान्भणन्ति-वयंयुष्माकंसकाशेप्रवजिष्यामः 'अलं' पर्याप्तं 'तैः' पूर्व साधुभिरितिः 'तथाऽपि' एवं ब्रुवाणा अपि 'ते' अव्याहतादयः तेषाम् आगन्तुकानांनभवन्तिकिन्तु क्षैत्रिकस्यैवेतिः गतम् व्याघात शरम्।अथ "पुणोदाई"तिद्वारमाह[भा.४६७३] एहिंति पुनो दाई, पुढे सिटुंसि ईय भणमाणा। बहुदोसे माणुस्से, अनुसासण नवग तह चेव ।। वृ-आगन्तुकसाधूनां समीपे 'कुत्र गताः?' इति पृष्टे ततस्तैः "शिष्टे' 'अमुकत्र गताः' इति कथिते स शैक्षो ब्रूयात्-“एहिति पुनो दाइं" ति यदा ते पुनरत्रागमिष्यन्ति तदा प्रव्रजिष्यामि "ईय" एवं भणन्सवक्तव्यः-सौम्य! 'बहुदोषे बह्वन्तराये मानुष्येमाप्रमादं कृथाः । एवमनुशासनं कृत्वा 'तथैव' नवकगमेन प्रेषणं कर्त्तव्यम् । अनुशासनमेव विशेषत उपदर्शयति[भा.४६७४] जंकल्ले कायव्वं, नरेण अजेवतं वरं काउं। मच्चू अकलुणहिअओ, नहु दीसइ आवयंतो वि ।। वृ- 'यद्' दीक्षाग्रहणादि कार्यं 'कल्ये' द्वितीयदिने नरेण कर्तव्यं तदद्यैव कर्तुं 'वरं' प्रशस्यम्, यतो मृत्यु 'अकरुणहृदयः' स्वभावादेव कठोराशयः तथा कथमप्यापतति यथा आपतन्नपि न दृश्यते । उक्तंच श्वःकार्यमद्य कुर्वीत, पूर्वाह्ने चापराह्निकम् । ___ को हि तद् वेत्ति कस्याद्य, मृत्युसेनाऽऽपतिष्यति? [भा.४६७५] तूरह धम्मं काउं, मा हुपमायं खणं पि कुवित्था । Page #65 -------------------------------------------------------------------------- ________________ ६२ बृहत्कल्प - छेदसूत्रम् - ३-३/१०४ बहुविग्घो हु मुहुत्तो, मा अवरहं पडिच्छाहि ॥ वृ- भो भव्याः ! त्वरध्वं धर्मं कर्तुम्, मा क्षणमपि प्रमादं कुरुध्वम् । कुतः ? इत्याह-बहव:शूल-विष-विसूचिका-शस्त्रघाता-ऽग्निदाहादिभेदादनेके विघ्नाः - जीवितान्तराया यत्रासौ बहुविघ्नः, हुशब्दो यस्मादर्थे, अपिशब्दस्य चानुक्तस्यापि गम्यमानत्वाद् यस्माद् मुहूर्त्तोऽपि बहुविघ्नः, आस्तां प्रहर-दिवसादि अतो महाभाग ! मा प्रव्रज्याग्रहणेऽपराह्नमपि प्रतीक्षिष्ठाः । एवमनुशासनं कृत्वा चतुर्भिर्नवकैस्तथैव प्रेषणीयम् । गतं "पणो दाई” ति द्वारम् । अथ यावज्जीवपराजितद्वारमाह[भा. ४६७६ ] बहुसो उवट्ठियस्सा, विग्घा उट्ठिति जज्ञ्जिय जितो मि । अनुसासन पत्थवणं, नवगा य भवे समुंडियरे ॥ वृ- क्षेत्रिकाणां गमनवृत्तान्तं ज्ञात्वा कोऽपि शैक्षो ब्रूयात्- 'बहुशः' अनेकशः प्रव्रज्याग्रहणायोपस्थितोऽहम्, परं वारंवारं विघ्ना नवनवा उत्तिष्ठन्ते, अतो “जज्जियं" यावज्जीवमहं विघ्नैर्जितोऽस्मि, यदेवं ते साधवो विहृतवन्तः, अतः परं तेषु समागतेषु प्रव्रजिष्यामि । एवं ब्रुवाणस्यानुशासनं कर्त्तव्यम् भद्र ! साम्प्रतं तव चारित्रावारककर्मणानुदयो वर्तते, अतो मा प्रमादीः, को जानाति भूयोऽपि तेषामुदयो भवेत् ? ; आवश्यकामिहितश्च कूर्मचर्मध्टान्तस्तत्पुरतः प्ररूपणीयः । एवमनुशिष्य प्रस्थापनं कर्त्तव्यम् । तत्र च तथैव मुण्डितेतरयोः प्रत्येकं चत्वारो नवका भवन्ति । एवं प्रथमद्वितीयदिवसयोरव्याहतानां कल्पो विधीयते ॥ अथ "ज्ञापिते कथं कल्पो वास्तव्ये वाताहृतेऽपि च' इति द्वारमाह [भा. ४६७७] वाताहडे वि नवगा, तहेव जाणाविए य इयरे य । एमेव य वत्थव्वे, नवगाण गमो अजाणते ।। वृ- वाताहतो द्विधा - ज्ञापित इतरश्च । यः क्षेत्रिकाणां यशःकीर्त्तिमपि न जानाति स आगन्तुकसाधुभि 'त्वमस्माकं नाभवसि ये गतास्तेषामेवाभवसि' इति सद्भावावगमं कारितो ज्ञापित उच्यते, इतरो नाम-यशः कीर्त्तिज्ञः । तत्र ज्ञापिते 'इतरस्मिंश्च' वाताहते प्रव्रजितुमायाते तथैव चत्वारो नवका भवन्ति । वास्तव्योऽपि शैक्षो यः क्षेत्रिकाणां यशः कीर्त्तिमपि न जानाति तत्रापि नवकानां गम एवमेव मन्तव्यः ।। अथ वास्तव्यो वाताहृतो वा यशः कीर्त्तिमपि न जानाति स कीशो भवेत् ? उच्यते [भा. ४६७८ ] वत्थव्वे वायाहड, सेवग परतित्थि वणिय सेहे य । सव्वेते उज्जुगो अप्पिणाइ मेलाइ वा जत्थ ।। 9 वृ- वास्तव्यो वा वाताहृतो वा यो रजकुलसेवको यो वा परतीर्थिको यश्च वणिग् एते असन्निहितत्वेन यश-कीर्त्तिमपि गुरूणां न जानीयुः परं प्रथमद्वितीयदिवसयोः प्रव्रजितुमायातास्तेऽपि क्षेत्रिकाणामाभाव्याः । अथ ऋजु अनृजुद्वारचिन्ता क्रियते य आचार्य ऋजुर्भवति स सर्वानप्येतान् क्षेत्रिकाणामर्पयति, यत्र वा क्षेत्रिका भवन्ति तत्र सङ्घाटकादिभि प्रकारैः प्रेषयित्वा तैः सह मीलयति ॥ [भा. ४६७९ ] माइले बारसगं, जाग जाणाविए य चत्तारि । वत्थव्वे वायाहड, न लभति चउरो अनुग्धाया ॥ वृ-यस्तु 'मायावी' अनृजुः स न प्रेषयति, तत्र च प्रकाराणां द्वादशकं भवति, तच्चाग्रे वक्ष्यते । Page #66 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-१०४, [भा. ४६७९] ६३ तथा ज्ञायके ज्ञापिते चसमुदिताश्चत्वारः प्रकारा भवन्ति, तद्यथा-ज्ञायकंप्रथमदिवसे न प्रेषयति १, द्वितीये तमेव न प्रेषयति, २, एवं ज्ञापितस्यापि द्वौ प्रकारौ । एतैर्वक्ष्यमाणैश्च प्रकारैर्वास्तव्यं वाताहृतंवाऽप्रेषयतश्चत्वारोऽनुद्धातामासाः, नच तान् शिष्यान् लभते, कुलस्थविरादिभिर्बलात् क्षेत्रिकाणां दाप्यते इत्यर्थः ।।अथात्रैव प्रायश्चित्तवृद्धिमाह[भा.४६८०] सत्तरत्तं तवो होती, ततो छेदो पहावई । छेदेन छिनपरियाए, तओ मूलं तओ दुगं ।। वृ-प्रागिव द्रष्टव्यम् ॥ प्रकारद्वादशकमाह[भा.४६८१] तरुणे मज्झिम थेरे, तद्दिन बितिए य छक्कगं इक्कं । . एमेव परग्गामे, छक्कं एमेव इत्थीसु॥ वृ-तरुण-मध्यम-स्थविरान्प्रत्येकंतद्दिवसे द्वितीयदिने वाऽप्रेषयत एकंप्रकारषट्कंभवति, एतच्च स्वग्रामविषयम्, परग्रामेऽपि एवमेव प्रकारषट्कम्; सर्वेऽप्येते द्वादश प्रकाराः पुरुषेषु भणिताः । एवमेव च स्त्रीष्वपि प्रकारद्वादशकं भवति। [भा.४६८२] पुरिसित्थिगाण एते, दो बारसगा उ मुंडिए होति । एमेव य ससिहम्मिय, जाणग जाणाविए भयणा ॥ वृ- एते द्वे द्वादशके पुरुष-स्त्रीणां मुण्डितविषये भवतः । एवमेव च सशिखाकेऽपि शैक्षे द्वादशकद्वयम् । तदेवं ज्ञायके ज्ञापिते च प्रत्येकं "भयण"त्ति भङ्गकर्विकल्पास्तेषां चत्वारि द्वादशकानि भवन्ति ।। अथवा[भा.४६८३] अव्वाहए पुनो दाति, जावजीवपरादिए। तद्दिन बीयदिने या, सग्गामियरे य बारसहा ॥ वृ-अव्याहतः पुनरागतप्रव्रजितोयावज्जीवपराजितश्चेतित्रयः शैक्षाः। एतान्तद्दिनेद्वितीयदिने वाऽप्रेषयतः प्रकारषट्कम् । एतच्च स्वग्रामे 'इतरस्मिंश्च परग्रामे भवतीति कृत्वा द्वाभ्यां गुणितं द्वादशधा भवति ॥अथ ऋजु-अनृजुलक्षणमाह[भा.४६८४] जाणंतमजाणंते, नेइ व पेसेइ वा अमाइल्लो । सो चेव उज्जुओ खलु, अनुज्जुतो जो न अप्पेति ॥ वृ-जानतो अजानतो वा शैक्षान् योऽमायावी सक्षेत्रिकाणांसमीपे स्वयं नयति वा परहस्तेन वाप्रेषयति स एव ऋजुक उच्यते। अनृजुस्तु सोऽभिधीयते यो नार्पयति न वा प्रेषयति ।।अर्थते वास्तव्या वाताहृता जानन्तोऽजानन्तो वाऽनृजुभिः प्रव्राजिताः कथं पश्चात् परिज्ञायन्ते? उच्यतेस्नाना-ऽनुयानादिषुयत्र मिलितास्तत्र क्षेत्रिकैः कश्चिदनृजुप्रव्रजितो वाताहृतः पृष्टः-कथं भवान् प्रव्रजितः?,स भणति[भा.४६८५] तुब्म च्चिय नीसाए, मि आगतो दिक्खितो बला नेहिं । अम्हे किमपव्वइया, पुट्ठा व न ते परिकहेंसु॥ वृ- युष्माकमेव निश्रया अहमागतः अमीभिश्च बलाद् दीक्षितः, मया भृशममी पृष्टास्तत एभिराख्यातम्-वयं किं प्रव्रजिता न भवामोयदेवंतान्मार्गयसि? यद्वानतेपृष्टाः सन्तःकिमप्याख्यातवन्तः । एवं रूप-शब्द-यशः कीर्तिज्ञो वक्ति । यस्त कीर्तिमपि न जानाति स ब्रूयात् Page #67 -------------------------------------------------------------------------- ________________ ६४ बृहत्कल्प-छेदसूत्रम् -३-३/१०४ [भा.४६८६] वायाहडोतु पुट्ठो, भणाइ अमुगदिन अमुगकालम्मि। एतेहि दिक्खितोऽहं, तुम्हे विसुणामि तत्थाऽऽसी। वृ-तुशब्दस्य विशेषणार्थतया यो वाताहतो यश-कीर्तेरप्यज्ञायकः सपृष्टो भणति-'अमुकदिने' प्रतिपदादौ अमुष्मिन् काले-मार्गशीर्षादौ मासे दीक्षितोऽहमेतैः, दीक्षानन्तरं च शृणोमि, यथायूयमपि तत्रासीरनिति॥ [भा.४६८७] एमेव य जसकित्तिं, जाणंतो जो यतं न जाणाति । तस्स वितहेव पुच्छा, पावयणी वा जदा जातो॥ वृ-एवमेव वास्तव्योऽपि यो यश-कीर्तिं जानाति यश्चतांन जानाति तस्यापि तथैव स्नानादौ यदा पृच्छा कृता भवति तदा ज्ञायते । यदा वाऽसौ 'प्रावचनिकः' बहुश्रुतो जातः तदा स्वयमेव जानाति-नाहममीषामाभाव्यः॥ एवं तावत् सचित्तविषयो विधिरुक्तः । अथाचित्तादिविषयं तमेवातिदिशन्नाह[भा.४६८८] एमेव य अचित्ते, दुविहे उवधिम्मि मीसते चेव । पुच्छा अपुव्वमुवहिं, दटूण अनुजुभूयाणं॥ वृ-एवमेवाचित्ते द्विविधे' ओधोपग्रहोपधिभेदा द्विप्रकारे उपधौ ‘मिश्रकेच' सोपधिकशैक्षे विधिमन्तव्यः । कथं पुनरसावाभाव्योऽनाभाव्यो वा ज्ञायते? इत्याह-'अपूर्वं' सारतरमुपधिं दृष्टवा अनृजुभूतानां तेषामन्तिके पृच्छा भवति, क्षेत्रिकैरथं कदा कुत्र वा गृहीतः ?' इत्येवं ते प्रष्टव्या इति भावः॥ [भा.४६८९] एवं वासावासे, उडुबद्धे पंथे जत्थ वा ठाति। सव्वत्थ होति उग्गहो, केसिंचि पतीवदिद्रुतो॥ वृ- एवं वर्षावासे ऋतुबद्धे वा विधिर्मन्तव्यः । एतच्च सचित्तमङ्गीकृत्योक्तम् । अचित्ते तु वर्षावासे वा ऋतुबद्धे वा मासद्वयं दिवसपञ्चकं च पूर्वावग्रह इति, पथि वा व्रजतां यत्र काप्याचार्यस्तिष्ठतितत्रसर्वतः सक्रोशंयोजनमवग्रहो भवति, तत्राप्येवमेव सचित्तादीनामाभाव्याऽनाभाव्यविधिरवसातव्यः। केषाञ्चिदाचार्याणामयमभिप्रायः-मार्गंगच्छतां पृष्ठतोवा नास्त्यवग्रहः; अयं चानादेशः । कुतः ? इत्याह-प्रदीपदृष्टान्तोऽत्र भवति । यथा हि प्रदीपः सर्वतः प्रकाशयति नैकामपि दशं प्रकाशशून्यां करोति, एवमवग्रहोऽपि सर्वतो भवति, न कुत्रचिन्न भवत्यपीति ॥ एवं तावत् क्षेत्रे सचित्तादिविषयो विधिरुक्तः । अथाक्षेत्रे तमेवातिदिशति[भा.४६९०] अक्खित्ते वसधीए, जाणग जाणाविए विएमेव । उज्जुगमनुज्जुगे या, सो चेव गमो हवइ तत्थ ॥ वृ- 'अक्षेत्रे' इन्द्रकीलादियुक्ते नगरादौ सक्रोशं योजनमवग्रहो न भवति, किन्तु तत्र यस्यां वसतौ यः पूर्वं स्थितस्तस्यां सचित्तादिकं यदुपतिष्ठते तत् तस्य आभवति, न पश्चादागतानाम् । तत्रापि य एव क्षेत्रे गम उक्तः स एव सर्वोऽपि ज्ञायके ज्ञापितेच ऋजुकेऽनृजुकेच वक्तव्य इति। अथ “कथं कल्पोऽभिधारणे" इति निर्वचन्नाह[भा.४६९१] अनिदिट्ठ सन्नऽसन्नी, गहिता-गहिए य ओह सच्छंदो। निद्दिढ लिंगसहितो, सन्नी तस्सेव नऽनस्स ॥ Page #68 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - १०४, [ भा. ४६९१] ६५ वृ- 'अभिधारणं' प्रव्रज्यार्थमाचायदिर्मनसा सङ्कल्पनम्, तच्च द्विधा अनिर्दिष्टं निर्दिष्टं च । अनिर्दिष्टं नाम - अभधारयन् कमप्याचार्यं विशेषतो न निर्दिशति । स चाभिधारको द्विधा- संज्ञी असंज्ञी च । पुनरेकैको द्विधा-गृहीतलिङ्गोऽगृहीतलिङ्गश्च । एष सर्वोऽप्योघतः-सामान्येनाचार्यविशेषमनिर्दिश्य व्रजन् स्वच्छन्द आभाव्यो भवति, यस्यान्तिके प्रव्रजति तस्यैवासौ शिष्य इत्यर्थः । निर्दिष्टं पुनः-अभिधारणं तदुच्यते यत्र 'अमुकस्याचार्यस्य समीपे प्रव्रजिष्यामि' इति निर्देशं करोति । एषोऽपि द्विधा -संज्ञी असंज्ञी च । भूय एकैको द्विधा-लिङ्गसहितो लिङ्गरहितश्च । तत्र लिङ्गसहितः संज्ञी यमाचार्यमभिधार्य गच्छति विपरिणतोऽपि तस्यैवासौ भवति, नान्यस्य ॥ [भा. ४६९२] निद्दिट्ठे अस्सन्त्री, गहिया ऽगहिए य अगहिए सन्नी । तस्सेव अविपरिणते, विपरिणते जस्स से इच्छा ।। वृ-योऽसंज्ञी स गृहीतलिङ्गो अगृहीतलिङ्गो वा भवतु, यस्तु 'संज्ञी' श्रावकः सोऽगृहीतलिङ्गः; एते त्रयोऽप्यविपरिणते भावे यं निर्दिष्टमाचार्यमभिधार्य गच्छन्ति तस्यैवाभवन्ति । अथ तं प्रति भावो विपरिणतस्ततो यस्य सकाशे तेषां प्रव्रजितुमिच्छा तस्यैव ते शिष्याः ॥ अथ किं कारणं लिङ्गसहितो व्रजति ? इत्याह [ भा. ४६९३] चारिय-समुदाणट्ठा, तेनग गिहिपंत धम्मसड्डा वा । एएहि लिंगसहितो, सन्नी व सिया असन्नी वा ॥ वृ-चारिक:- हेरिकस्तद्विषया शङ्का मा भूदिति बुध्या लिङ्गं गृहीत्वा व्रजति, तथा समुदानं भैक्षं तदर्थं लिङ्गं गृह्णाति, गृहीतलिङ्गो हि सुखेनैव भिक्षामाप्नोति । स्तेना वाऽपान्तराले गृहिप्रान्ता धर्मश्रद्धालवो वा तिष्ठन्ति । एतैः कारणैः संज्ञी वा असंज्ञी वा साधुसामाचारीनिपुनो लिङ्गसहितः स्यादिति । इह यो निर्दिश्य व्रजति स एकमनेकान् वा निर्दिशेत् । तत्र यो अनेकान् निर्दिशति स एवं सङ्कल्पयति- 'यो मे प्रतिभासिष्यते तस्य सकाशे प्रव्रजिष्यामि' तद्विषयं विधिमाह - नेगा उद्दिस गतो, लिंगेणऽप्फालितो तु एक्केणं । [भा. ४६९४] दवं च अचक्खुस्सं, निद्दिदृऽन्नं गतो तस्स ॥ वृ- अनेकानाचार्यानुद्दिश्य लिङ्गेन सहितो बहूनां निर्दिष्टानामन्तिके गतः । तत्र चैकेन ‘आस्फालितः’ सादरमाभाषितो यदि तमभ्युपगतस्तदा तस्यैवासौ शिष्यः । अथाभाषितोऽपि तम् ‘अचक्षुष्यम्' अनिर्दिष्टं दृष्ट्वा निर्दिष्टमेवान्यं कमप्यभ्युपगतस्तदा तस्याभवति ॥ इदमेव सविशेषमाह [भा.४६९५] निद्दिट्ठमनिद्दिवं, अब्भुवगय लिंगि नो लभइ अन्नो । लिंगी व अलिंगी वा सच्छंदेण अनिद्दिट्ठो ॥ वृ- निर्दिष्टमनिर्दिष्टं वा आचार्यमभिधार्य गच्छन् 'लिङ्गी' लिङ्गसहितः शैक्षो यमाचार्यमभ्युगतस्तस्यैवाभवति, 'नो' नैवान्यस्तं लभते । यस्तु 'अनिर्दिष्ट' नाद्यापि कमप्यभ्युपगतः स लिङ्गी वा भवतु अलिङ्गी वा सः 'छन्देन' यमभिरोचयति तस्याभवति ॥ [भा. ४६९६ ] एमेव असिहसन्नी, निद्दिट्ठस्सुवगतो न अन्नस्स । अब्भुवगतो विससिहो, जस्सिच्छति दो व अस्सन्नी ॥ 205 Page #69 -------------------------------------------------------------------------- ________________ ६६ बृहत्कल्प-छेदसूत्रम् -३-३/१०४ वृ- यथा लिङ्गसहितः संज्ञी निर्दिष्टानां बहूनां मध्ये यमेवाभ्युपगतस्तस्यैवाभवति, एवमेवाशिस्वाकोऽपि संज्ञी बहून् निर्दिश्यागतो यस्यैव निर्दिष्टस्यान्तिके 'उपगतः' प्रव्रजितं परिणतस्तस्यैवासौ शिष्यौ भवति नान्यस्य । यस्तु सशिखाकः संज्ञी स कमप्यभ्युपगतोऽपि यदि पश्चाद् विपरिणतस्तदा यस्यान्तिके प्रव्रजितुमिच्छति तस्याभवति । “दो व अस्सन्नि त्ति 'द्वौ वा ' अशिखाक-सशिखाकलक्षणौ यौ असंज्ञिनौ तावपि पूर्वं कञ्चनाभ्युपगतौ पश्चाद् विपरिणतौ स्वच्छन्देन यदुपकण्ठे प्रव्रजतस्तस्याभाव्यौ । अस्यैवार्थस्य सुखावबोधाय भङ्गकानाह[भा. ४६९७] निट्ठि सन्नि अब्भुवगतेतरे अट्ठ लिंगिणो भंगा। एवमसिहे विससिहे, वि अट्ठ सव्वे वि चउवीसं ॥ वृ- कमप्याचार्यं निर्दिश्य गछन् निर्दिष्टः, 'संज्ञी' श्रावकः, 'अभ्युपगतः' प्रव्रजितुं परिणतः; एतैस्त्रिभिः पदैः “इयरे' त्तिप्रतिपक्षपदसहितैरष्टौ भङ्गाः 'लिङ्गिनः' लिङ्गसहितस्य गच्छतो भवन्ति । तथाहि-निर्दिष्टः संज्ञी अभ्युपगतः १ निर्दिष्टः संज्ञी अनभ्युपगतः २ निर्दिष्टोऽसंज्ञी अभ्युपगतः ३ निर्दिष्टोऽसंज्ञी अनभ्युपगतः ४, अनिर्दिष्टपदेनाप्येवमेव चत्वारो भङ्गा लभ्यन्ते, एते अष्टौ भङ्गा लिङ्गिन उक्ताः । अशिस्वाके सशिस्वाकेऽपि चैवमेव प्रत्येकमष्टौ भङ्गा भवन्ति । सर्वेऽप्येते मीलिताश्चतुर्विंशतिरुपजायन्ते ।। एतेषु विधिमाह [भा. ४६९८ ] पढम- बिति-ततिय-पंचम - सत्तम- नव-तेरसेसु भंगेसु । विष्परिणतो वि तस्सेव होइ सेसेसु सच्छंदो ॥ वृ-प्रथम- द्वितीय तृतीय - पञ्चम-सप्तम नवम त्रयोदशेषु भङ्गेषु विपरिणतोऽपि यं निर्दिश्यागतो यं वा अभ्युपगतस्तस्यैवाभवति । 'शेषेषु' चतुर्थ षष्ठाऽष्टम- दशमैकादश-द्वादश- चतुर्दशादिषु चतुर्विशान्तेषु सप्तदशसु भङ्गेषु 'स्वच्छन्दः' स्वेच्छा, यः प्रतिभाति तस्यैवाभवतीत्यर्थः ॥ इदमेव व्यक्तीकुर्वन्नाह [ भा. ४६९९] सव्वो लिंगी असिहो, य सावतो जस्स अब्भुवगतो सो । निद्दिसन्निलिंगी, तस्सेवाणब्भुवगतो वि ॥ - सर्वो लिङ्गी अशिखाकश्च श्रावको यस्यान्तिकेऽभ्युपगतः स एव तं लभते । किमुक्तं भवति ? -यो लिङ्गसहितोऽभ्युपगतः स निर्दिष्टोऽनिर्दिष्टो वा संज्ञी वा भवतु, यश्चाशिखाकः श्रावकोऽभ्युपगतः सोऽपि निर्दिष्टोऽनिर्दिष्टो वा भवतु, एष सर्वोऽपि यमेवाभ्युपगतो विपरिणतोऽपि तस्यैवाभवति। एतेन प्रथम- तृतीय- पञ्चम- सप्तम नवम त्रयोदशभङ्गाः सूचिताः । तथा यो लिङ्गी निर्दिष्टः संज्ञी च स यद्यप्यनभ्युपगतस्तथापि यमेव निर्दिश्यागतः तस्यैवाभवति, न पुनर्विपरिणतोऽप्यन्यस्य, अनेन द्वितीयो भङ्गो गृहीतः । शेषेषु तु सप्तदशस्वपि भङ्गेषु यत्राभ्युपगतस्तत्राविपरिणतस्तस्यैव, विपरिणतस्तु स्वेच्छया; यत्र तु नाभ्युपगतस्तत्र विपरिणतोऽविपरिमतो वा यथास्वच्छन्दमाभाव्य इति ॥ गतं "कथं कल्पोऽभिधारणे" इति द्वारम् । अथैकग्रामे इति द्वारमाह [भा. ४७००] अस्सन्नी उवसमितो, अप्पणो इच्छाइ अन्नहिं तस्स । दवणं च परिणए, उवसामिते जस्स वा खित्तं ।। वृ- केनचिद् धर्मकथिना कश्चिद् 'असंज्ञी' मिथ्यादृष्टि 'उपशमितः' प्रव्रज्याभिमुखीकृतः स Page #70 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-१०४, [भा. ४७००] यावद् नाद्यापि सम्यक्त्वं प्रतिप्यते तावत् प्रव्रजन क्षेत्रिकस्याभवति । अथ सम्यक्त्वं प्रतिपन्नः तच्च क्षेत्रमन्यस्याचार्यस्य सत्कं ततोऽसावात्मन इच्छया आभवति; यदि क्षेत्रिकस्योपतिष्ठते ततस्तस्यैव, अथोपशमयत उपस्थितस्तत उपशामयत एव, एतौ द्वौ मुक्त्वाऽन्यस्य नाभवति। “अन्नहिं" ति अथ 'अन्यत्र' क्षेत्राद् बहिरुपशमितस्तदा तस्योपशमकस्याभवति । अथ धर्मकथिनाऽपि नोपशामितः उपशमिन आभवति, मूर्त्तिदर्शनद्वारेणोपशमनकारिण इत्यर्थः । अथ क्षेत्रान्तरुपशान्तस्ततो यस्य सत्कं क्षेत्रंतसयाभाव्यः ।अमुमेवार्थं सविशेषमाह[भा.४७०१] पखित्ते वसमाणो, अइक्कमंतो व न लभति असन्निं । छंदेण पुव्वसन्निं, गाहितसम्माति सो लभति॥ वृ-परक्षेत्रे मासकल्पेन वर्षावासेन वा वसन् ‘अतिक्रामन् वा परक्षेत्रमग्रतो गन्तुमनास्तत्रावस्थितः 'असंज्ञिनम्' अप्रतिपन्नसम्यक्त्वं स्वयमुपशमितमपि न लभते । अथ कञ्चिन्मिथ्याष्टिं सम्यक्त्वम्आदिशब्दादणुव्रतानि वा ग्राहयित्वा क्षेत्रान्तरंगतः भूयोऽप्यन्यदातदेव क्षेत्रमायातः, सच प्रागुपशामित इदानीं पूर्वसंज्ञी लभ्यते, ततस्तं पूर्वसंज्ञिनं सम्यक्त्वादिग्राहितं सः' उपशमकश्छन्देन लभते । किमुक्तं भवति?-उपशमिकं क्षेत्रिकं वा यमसावभिरोचयति तस्याभवति। एवंत्रयाणांवर्षाणामारतो मन्तव्यः, त्रिषुवर्षेषुपूर्णेषुसपूर्वसंज्ञी क्षेत्रिकस्यैवाभाव्यः, नोपशामयतः। आह च चूर्णिकृत्-“तिसु वरिसेसु पुनेसु खेत्तियस्सेवाभवति, न उवसामिंतस्स" ति॥ गतमेकग्रामद्वारम् । अथ 'अतिक्रामन्' द्वारमाह[भा.४७०२] मग्गंतो अनखित्ते, अभिधारंतो उ भावतो तस्स। खित्तम्मि खित्तियस्सा, बाहिं वा परिणतो तस्स ।। वृ-शैक्षः कश्चिदाचार्य मार्गयन्व्रजति, तस्य च 'अन्यक्षेत्रे' परकीयक्षेत्राभ्यन्तरेपथि गच्छतः कश्चिद् धर्मकथी मिलितः, स यद्याकर्षणहेतोस्तस्य धर्म कथयति तदा यमाचार्यमभिधारयन् व्रजति तस्याभवति, न कथयतः । अथ "भावतः' स्वभावादेव कथयति ततस्तस्य धर्मकथिकस्याभवति।तुशब्दोविशेषणे, सचैतद्विशिनष्टि-यदि क्षेत्राभ्यन्तरेस्वभावतः कथयति ततः क्षेत्रिकस्याभाव्यः,अथक्षेत्राबहिस्ततोधर्मकथिनः।अथान्तराऽन्तरातस्य भावः परिणमते निवर्त्तते चततः क्षेत्रे परिणतः' प्रव्रज्याभिमुखीभूतः क्षेत्रिकस्याभवति, बहिस्तुपरिणतः 'तस्य' कथयत आभाव्य इति ॥ इदमेव व्याचष्टे[भा.४७०३] अभिधारितो वच्चति, पुच्छित्ता साह वच्चतो तस्स।. __ परिसागतो व कहई, कड्दणहेउंन तंलभति॥ वृ-कञ्चिदाचार्यमभिधारयन् शैक्षो व्रजति, तस्य कोऽपि साधुः पथि गच्छन् मिलितः, तेन च पृष्टः-अमुकआचार्य कुत्राऽऽस्ते?; साधुराह-किं तेन भवतः प्रयोजनम् ?; सप्राह-तस्यान्तिके प्रव्रजितुकामोऽहम्; एवं पृष्टवा तस्य व्रजत एवाकर्षणहेतोः “साह"त्ति धर्मं कथयति । यद्वा ग्रामे कापि पर्षदन्तर्गतस्य धर्मं कथयत उपस्थितस्ततो वन्दित्वा तथैव स्वाभिप्राये कथिते स आकर्षणहेतोर्विशेषतो धर्म कथयति, कथिते च यद्यसौ प्रव्रजितुमभिलषति ततो न तं शैक्षं लभते, अभिधारिताचार्यस्यैव स आभवति । [मा.४७०४] उज्जु कहए परिणतं, अंतो खित्तस्स खित्तिओ लभइ । Page #71 -------------------------------------------------------------------------- ________________ ६८ बृहत्कल्प-छेदसूत्रम् - ३-३/१०४ खित्तबहिं तु परिणयं लभतुज्जु कही न खलु मादी ॥ वृ- अथासौ ‘कथकः' धर्मकथी ऋजुकः सद्भावतः कथयति नाकर्षणहेतोः, स च प्रव्रज्यायां परिणतः ततः क्षेत्रान्तः परिणतं क्षेत्रिको लभते, क्षेत्रबहिः परिणतं तु ऋजुतो धर्मकथी लभते न खलु 'मायी' मायावान् ॥ [ भा. ४७०५ ] परिणमइ अंतरा अंतरा य भावो नियत्तति ततो से । खित्तम्मि खेत्तियस्सा, बाहिं तु परिणतो तस्स ।। वृ- अथान्तराऽन्तरा तस्य भावः प्रव्रज्यां प्रति परिणमते निवर्त्तते वा ततः क्षेत्रे परिणतः क्षेत्रकस्याभवति बहिस्तु परिणतः 'तस्य' धर्मकथिन आभवतीति ।। गतम् 'अतिक्रामन्' द्वारम् । अथ "द्विविधा मार्गणा शिष्ये एकविधा च प्रतीच्छके" इति यदुक्तं तत्र प्रतीच्छकविषयां तावदेकविधां केवलसज्ञातकविषयां मार्गणामाह [भा. ४७०६ ] माया पिया व भाया, भगिनी पुत्तो तहेव धूता य । छप्पेते नालबद्धा, सेसे पभवंति आयरिया ।। वृ- माता पिता भ्राता भगिनी पुत्रस्तथैव दुहिता च, षडप्येतेऽनन्तरवल्लीमधिकृत्य नालबद्धा मन्तव्याः । एते चाभिधारयन्तः प्रतीच्छकस्याभवन्ति । उपलक्षणमिदम्, तेन परम्परावल्लीबद्धा अपि वक्ष्यमाणाः षोडश जना अभिधारयन्तस्तस्यैवाभवन्ति । शेषास्तु-ये नालबद्धा न भवन्ति तेषु आचार्या प्रभवन्ति, न प्रतीच्छकः । इदमेव व्यक्तीकुर्वन् परम्परावल्लीं प्रतिपादयति[ भा. ४७०७ ] माउम्माया य पिया, भाया भगिनी य एव पिउणो वि । भातादिपुत्त-धूता, सोलसगं छच्च बावीसं ॥ [भा. ४७०८] बावीस लभति एए, पडिच्छओ जति य तमभिधारंती । अभिधारमनभिधारे, नायमनातेतरे न लभे ॥ वृ-मातुः सम्बन्धिनो माता पिता भ्राता भगिनी चेति चत्वारो जनाः ४, पितुः सम्बन्धिनोऽप्येवमेव चत्वारो जनाः ८, “भायाइपुत्त-धूय "त्ति भ्रातुः सम्बन्धी पुत्रो दुहिता चेति जनद्वयम् १०, आदिशब्दाद् भगिन्या अप्यपत्यं भागिनेयो भागिनेयी चेति द्वयम् १२, पुत्रस्यापत्यं पौत्रः पौत्री चेति द्वयम् १४, दुहितुरपत्यं दौहित्रो दौहित्री चेति द्वयम् १६, सर्वसङ्घयया षोडशकं भवति । षट् चाऽनन्तरवल्लीजना अत्र प्रक्षिप्यन्ते, ततो द्वाविंशतिर्भवति ।। द्वाविंशतिमप्येतान् जनान् प्रतीच्छको लभते यदि च 'तं' प्रतीच्छकम् 'अभिधारयन्ति' मनसि कुर्वन्ति, अनभिधारयन्तस्तु तेऽप्याचार्यस्यैवाभाव्या इति भावः । इतरे-उक्तव्यतिरिक्तास्तानभिधारयतो वा अनभिधारयतो वा ज्ञातकान् वाऽज्ञातकान् वा प्रतीच्छंको न लभते ॥ अथ शिष्यविषयां द्विविधां मार्गणामाह[ भा. ४७०९ ] नायगमनायगा पुन, सीसे अभिधारमनभिधारे य । दोक्खर - खरदिट्ठता, सव्वे वि भवंति आयरिए ।।. वृ- द्विविधा मार्गणा नाम-ये शिष्यस्य 'ज्ञातकाः' स्वजना ये च 'अज्ञातकाः' अस्वजनास्ते तमभिधारयन्तो वाऽनभिधारयन्तो वा सर्वेऽप्याचार्यस्याभवन्ति न शिष्यस्य । कुतः ? इत्याह'द्व्यक्षर- खरध्ष्टान्तात्' “दासेन मे खरो कीओ, दासो वि मे खरो वि मे।" इति निदर्शनात् ॥ अथ "पडिसेहिय वच्चंते कहं कप्पो विहिज्जइ" इति द्वारं निरूपयन्नाह Page #72 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१०४, [भा. ४७१०] [भा.४७१०] पुव्वुप्पन्नगिलाणे, असंथरंते य चउगुरू छण्हं । वयमाण एगे संघाडए य छप्पेते न लभंति॥ वृ-एकत्र ग्रामे गच्छः स्थितः, तेषां च ग्लान उत्पन्नः, तातिचरणे साधवो व्यापृताः सन्तः सर्वेऽपि भिक्षामटितुं न प्रभवन्ति, ततश्चासंस्तरणं सातम् । एवं ग्लाने पूर्वोत्पन्ने असंस्तरतां शैक्ष उपस्थितः,तेचग्लानकार्यव्यापृततया शैक्षवर्तापयितुंनपारयन्ति, अतो भगवद्भिप्रतिषिद्धम्नतैः शैक्षो दीक्षणीयः, यदिदीक्षयन्ति ततश्चतुर्गुरुकाः। अथ लोभदोषेणामीषांषन्त्रांप्रकाराणामन्यतरेणप्रेषयन्ति-“वयमाण" इत्यादि, तंशैक्षं मुण्डयित्वा 'व्रजत्वमेकाक्येवामुकाचार्यसन्निधौ' इति वदन्तो विसर्जयन्ति, यद्वा तस्यैकं कमपि सहायं सङ्घाटकं वा समर्पयन्ति, एते त्रयः प्रकारा मुण्डितस्य भवन्ति; अमुण्डितस्याप्येत एव त्रयः; एते षडपितं शैक्षं न लभन्ते, षड्भिः प्रकारैः प्रेषयन्त इत्यर्थः । येषां समीपे प्रेषयन्ति तेषामेवासौ शिष्यः॥ अथात्मसमीपे स्थापयन्ति तत इमे दोषाः[भा.४७११]आयरिय-गिलाणे गुरुगा, सेहस्सा अकरणम्मिं चउलहुगा । परितावणणिफन्नं, दुहतो भंगे य मूलं तु॥ वृ-शैक्षं प्रव्राज्य तद्वैयावृत्यव्याकुलाः सन्तो यद्याचार्याणां ग्लानस्य वा वैयावृत्यं न कुर्वन्ति चतुर्गुरुकाः ।अथ शैक्षस्यन कुर्वन्तिचतुर्लघुकाः।अथ ग्लानादीनामनागाढमागाढं वा परितापना भवति ततस्तनिष्पन्नम् । “दुहतो भंगे य"त्ति शैक्षस्य यदुनिष्क्रमणं ग्लानस्य यद् मरणम् एष द्विधा भङ्ग उच्यते तत्र मूलं भवति ॥अथ द्वितीयपदमाह[भा.४७१८] संथरमाणे पच्छा, जायं गहिते व पच्छ गेलन्नं । अपव्वइए पव्वइए, संघाडेगे व वयमाणे॥ वृ- इह गच्छे ग्लानो विद्यते परं नागाढं ग्लानत्वम्, ततः संस्तरति तैः शैक्षमपि वर्तापयितुमाचार्याणामपिकर्तुमेवं प्रवाजितःशैक्षः, पश्चाच्च ग्लानत्वमागाढंसमजनि, तत्रोद्वर्तनपरिवर्तनादिव्यापृताएकेताव भिक्षांन हिण्डन्ते, येऽपिहिण्डन्तेतेऽपिन शक्नुवन्ति सर्वेषामपि पर्याप्तमानेतुम्, एवमसंस्तरणं जातम्; यद्वा मूलत एव ग्लानत्वं पूर्वं नासीत् किन्तु पश्चाच्छैक्षे 'गृहीते' प्रव्राजितेसतिग्लानत्वमुत्पत्रंततोऽसौ षड्भिः प्रकारैःप्रेषणीयः। तद्यथा-'अप्रव्रजितः' मुण्डितः, ‘प्रव्रजितः' मुण्डितः । एष द्विविधोऽपि त्रिधा-सङ्घाटकेन एकसाधुना “वयमाणे" त्ति एकाकी व्रजेति ब्रुवाणैः, एकाकित्वेनेत्यर्थः॥ अथ “संथरमाणे पच्छा जाय" ति पदं विशेषतो व्याचष्टे[भा.४७१३] नागाढं पउणिस्सइ, अचिरेणं तं च जायमागाढं। सेहं वट्टावेउं, न तरंति गिलाणकिच्चं च ।। . वृ- पूर्वमनागाढं ग्लानत्वं भवेत्, ततः शैक्षे उपस्थिते चिन्तितम्-अचिरेणैवायं ग्लानः प्रगुणीभविष्यति; ततःशैक्षे प्रव्राजितेतद् ग्लानत्वमागाढंजातम्, ततस्ते शैक्षंवर्तापयितुंग्लानकृत्यं च कर्तु समकमेव “न तरंति" न शक्नुवन्ति, अतोऽन्येषां समीपे प्रेषयन्तः शुद्धाः ।। [भा.४७१४] अपडिच्छनेतरेसिं, जं सेहवियावडा उ पावंति। ___ तंचेव पुव्वभणियं, परितावण-सेहभंगाइ॥ Page #73 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् - ३-३/१०४ वृ- इतरे नाम- येषां समीपे प्रेष्यते यदि ते न प्रतीच्छन्ति तदा चतुर्गुरुकाः, यच्च ते शैक्षव्यापृताः प्राप्नुवन्ति तन्निष्पन्नं तेषामप्रतीच्छतां प्रायश्चित्तम् । किं पुनस्तद् यत् ते प्राप्नुवन्ति ? इत्याहतदेव पूर्वभणितं परितापन - शैक्षभङ्गादिकमंत्र दोषजातं मन्तव्यम् । किमुक्तं भवति ? - ग्लानोऽप्रतिचर्यमाणः परिताप्येत, शैक्षो वैयावृत्येऽ विधीयमाने प्रतिभज्येत, आदिशब्दाद् ग्लानस्य मरणं वा भवेत् ॥ [भा. ४७१५] ७० संखडिए वा अट्ठा, अमुंडियं मुंडियं व पेसंती । वयमाणे एग संघाए य छप्पेए न लभंति ॥ वृ-सङ्घडि-प्रकरणं तस्या वाऽर्थाय मनोज्ञाहारलम्पटतया क्वापि ग्रामे व्रजन्तः सागारिकमिति कृत्वा शैक्षममुण्डितं मुण्डितं वा प्रेषयन्ति । तत्रापि "वयमाणि" त्ति एकाकितया प्रेषणेन एकसाधुना सङ्घाकेन च षट् प्रकारा भवन्ति । एतैः षड्भिरपि प्रेषयन्तो न लभन्ते ॥ इदमेव व्याख्याति[भा. ४७१६] होहिंति नवग्गाई, आवाह-विवाह - पव्वयमहादी । सेहस्स य सागरियं, विद्दाहिति मा व पेसिंति ॥ वृ- इह शैक्षः केषाञ्चिदुपस्थितः, तत्र च आवाह-विवाह पर्वतमहादीनि प्रकरणानि 'नवाग्राणि' प्रत्यासन्नानि भविष्यन्ति । आवाहः वध्वा वरगृहानयनम्, विवाहः- पाणिग्रहणम्, पर्वतमहः प्रतीतः, आदिशब्दात् तडाग-नदीमहादिपरिग्रहः । शैक्षस्य च तत्र 'सागारिकम्' उठप्रव्राजनभयम्, यद्वा यद्येष शैक्षोऽत्र स्थास्यति तदा सङ्घडिभोजनगृद्धः 'मा विद्रास्यति' मा विनङ्क्षयति, यदि च वयमनेनैव सह गच्छामस्ततः सङ्घः स्फिटामः अत एनमन्यत्र प्रेषयाम इति विचिन्त्य षड्भिः प्रकारैस्तं प्रेषयन्ति न च लभन्ते येषामन्तिके प्रेषयन्ति तेषामेवासावाभवतीति ।। गतं 'प्रतिषिद्धे व्रजति कथं कल्पो विधीयते ?' इति द्वारम् । सम्प्रति 'सङ्गारदत्ते कथं कल्पो विधीयते ?' इति द्वारमाह[भा. ४७१७]. गिहियाणं संगारो, संगारं संजते करेमाणे । अनुमोयति सो हिंसं, पव्वावितो जेन तस्सेव ॥ वृ-गृहिणां सम्बन्धी यः ‘सङ्गारः ' 'युष्मदन्तिकेऽस्माभिरियतः कालादूर्द्धव प्रव्रज्या ग्रहीतव्या' इति सङ्केतस्तं प्रतीच्छन् संयतः स्वयं च तैः सार्द्ध 'सङ्गारं ' ' अहममुष्मिन् दिने युष्मान् प्रव्राजयिष्यामि' इति लक्षणं कुर्वन् 'हिंसा' यावदसौ न प्रव्रजति तावन्तं कालं षट्कायविराधनालक्षणामनुमोदयति । स च शैक्षस्तं प्रति विपरिणतो येन प्रव्राजितस्तस्यैवाभवति न सङ्केतदायिन इति । किञ्च[भा. ४७१८] विप्परिणमइ सयं वा, परओ ओसन्न अन्नतित्थी वा । मोत्तुं वासावासं, न होइ संगारतो इहरा ॥ वृ- सङ्केतकरणानन्तरं स शैक्षः स्वयं वा विपरिणमति, 'परतो वा' परेण स्वजनादिना स विपरिणाम्येत, अवसन्नविहारिषु वा प्रव्रजेत्, अन्यतीर्थिको वा भवेत्; अतो वर्षावासं मुक्त्वा 'इतरथा' पुष्टालम्बनं विना सङ्गारो न प्रतीच्छनीयो न वा कर्तव्यः ॥ किमर्थं पुनः सङ्गारमसौ करोति ? इत्याह[भा. ४७१९] संखडि सन्नाया वा, खित्तं मोत्तव्वयं व मा होज्जा । एएहिं कारणेहिं, संगार करेंते चउगुरुगा ॥ वृ- सङ्घडिस्तत्र ग्रामे उपस्थितानां परिहर्तुं न शक्नोति, सज्ञातका वा तस्य तत्र Page #74 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- १०४, [भा. ४७१९] भूयांसस्तेषामाग्रहात् तदानीं न शक्नोति गन्तुम्, क्षेत्रं वा तदतीवस्निग्ध-मधुराहारादिलाभसम्पन्नं शैक्षस्य च तत्र सागारिकम् अतस्तद् मोक्तव्यम् मा भूत्, 'एतैः' एवमादिभि कारणैः शैक्षस्य सङ्गारं यः करोति तस्य चतुर्गुरु ।। अथ गृहस्था किमर्थं सङ्गारं कुर्वन्ति ? इत्याह[भा. ४७२०] रिण वाहिं मोक्खेउं, कुडुंबवित्तिं वऽतिच्छिते गिम्हे । एमादिअनाउत्ते, करिति गिहिणो उ संगारं ।। वृ ऋणं वा व्याधिं वा 'मोक्षयितुम्' अपनेतुम्, कुटुम्बस्य वा पश्चान्निर्वहणयोग्यां वृत्तिं सम्पादयितुम्, यद्वा ग्रीष्मस्तदानीमतिक्रान्तो वर्षावास आयातः, एवमादिभि कारणैः अनायुक्तेअक्षणिकतायां गृहिणः सङ्गारं कुर्वन्ति ॥ अथ द्वितीयपदेन सङ्गारे प्रतीष्यमाणे आभाव्यविधिमाह[भा. ४७२१] अगविट्ठो मि त्ति अहं, लब्भति असढेहि विप्परिणतो वि । चोयंतऽ प्पार्हति व ते वि य नं अंतरा गंतुं ॥ वृ-सङ्गारे कृते यदि 'अशठै: ' ग्लानादिकार्यव्यापृतैः स शैक्षो न गवेषितस्तदाऽसौ 'अगवेषितः’ 'नैकमपि वारमहममीभिर्गवेषितः' इति बुध्या विपरिणतोऽपि लभ्यते, तेषामेवाभवतीत्यर्थ; परं तेऽपि साधवस्तमन्तराऽन्तरा गत्वा 'नोदयन्ति' सङ्केतस्मारणापुरस्सरं शिक्षयन्ति, अथ स्वयं गन्तुं न प्रभवन्ति ततः " अप्पाहेंति" सन्देशं तस्य प्रेषयन्ति ।। [भा. ४७२२] एवं खलु अच्छिन्ने, छिन्ने वेला तहेव दिवसेहिं । वेला पुत्रमपुत्रे, वाघाए होइ चउभंगो ॥ वृ- एवं तावद् 'अच्छिन्ने' अनियते सङ्गारे विधिरुक्तः, यस्तु छिन्नः सङ्गारस्तत्र विधिरभिधीयतेछिन्नो नाम क्षेत्रतः कालतश्च प्रतिनियतः । क्षेत्रतो ग्राम - वनखण्डादौ प्रव्रज्यादानार्थं भवद्भिः समागन्तव्यम्, कालतो वेलया दिवसैर्मासैश्च प्रतिनियतैः । तत्र च "वेला पुन्नमपुन्ने” त्ति वेलया उपलक्षणत्वाद् दिवसैश्च पूर्णेऽपूर्णे वा सङ्गारकाले व्याघातो भवेत्, तत्र चेयं चतुर्भङ्गी-कालः पूर्णो निव्यार्घातं च प्राप्ताः कालः पूर्ण परं व्याघातः सञ्जातः, कालोऽद्याप्यपूर्ण परं निव्यार्घातं तत्र प्राप्ताः, कालोऽप्यपूर्णो व्याघातोऽपि जात इति ४ । अथवा अन्यथा चतुर्भङ्गी-संयतस्य व्याघातो न गृहस्थस्य, गृहस्थस्य व्याघातो न संयतस्य, द्वयोरपि व्याघातः, द्वयोरपि न व्याघातः ॥ तत्र संयतस्य व्याघाते विधिमाह " [भा. ४७२३] मंदट्ठिगा ते तहियं च पत्तो, जति मन्नते ते य सढा न होंति । सोभती अन्नगतो वि ताहे, दप्पट्ठिया जे न उ ते लभंती ॥ ७१ वृ- यत्र ग्रामादौ सङ्केतः कृत आसीत् तत्र स शैक्षः प्राप्तः साधवस्तु न प्राप्ताः, ततो यद्येवं मन्यते-‘मन्दार्थिनस्ते मद्विषये, मन्दप्रयोजना अत एव नायाताः' इति बुध्या विपरिणतः, ते च साधवो यदि 'शठाः' व्रजिकादिप्रतिबन्धयुक्ता न भवन्ति, ग्लानादिकार्यव्यापृततया नायाता इति भावः; ततः स शैक्षः 'अन्यगतोऽपि ' अन्यमाचार्यमभ्युपगतोऽपि तैः साधुभिर्लभ्यते । ये तु दर्पतः स्थितास्ते नैव तं लभन्ते, येन प्रव्राजितस्तस्यैवासौ शिष्य इति ॥ [भा. ४७२४] पंथे धम्मक हिस्सा, उवसंतो अंतरा उ अन्नस्स । अभिधारितो तस्स उ, इयरं पुन जो उ पव्वावे ॥ वृ यद्यसौ येन साधुना सङ्केतो दत्तस्तदभिमुखं प्रस्थितः पथि गच्छन् अन्तराऽन्यस्य धर्मकथिनः Page #75 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/१०४ समीपे धर्मकथामाकण्योर्पशान्तः,सच यद्यभिधारयन्गच्छतितदा तस्यैव' अभिधारितस्याभवति। इतरः पुनः-अनभिधारयिता तं यो धर्मकथी प्रव्राजयति तस्याभवति ॥ इदमेव व्याचष्टे[भा.४७२५] पुन्नेहिं पि दिनेहिं, उवसंतो अंतरा उ अन्नस्स। अभिधारितो तस्स उ, इयरं पुन जो उ पव्वावे ॥ वृ-पूर्णेः अपिशब्दादपूर्णैरपि दिवसैः ‘अन्तरा' पथि वर्तमानोऽन्यस्य सकाशेउपशान्तः सन्। यद्यभिधारयति 'प्रव्रजामि तावदहममीषां समीपे, परं पूर्वेषामेवाहं शिष्यः' एवमभिधारयन् तस्यैव पूर्वाचार्यस्याभवति ।इतरोनाम-यः पूर्वेषां विपरिणतस्तंयःप्रव्राजयतितस्यैवस शिष्यः।। नियमप्रदर्शनार्तमिदमाह[भा.४७२६] ण्हाणादिसमोसरणे, दह्ण वितं तु परिणतो अन्नं । तस्सेव सो न पुरिमे, एमेव पहम्मि वचंते॥ वृ-स्नानादौ समवसरणे 'तं' पूर्वाचार्यं दृष्ट्वाऽपियद्यन्यमेव परिणतः' प्रतिपन्नस्तदा तस्यैवासौ शिष्योनपूर्वस्य । एवमेवपथि व्रजतामप्याभाव्या-ऽनाभाव्यविधिरवगन्तव्यः॥अथ कः संयतस्य गृहस्थस्य वा व्याघातो भवति? इत्याह[भा.४७२७] गेलन तेनग नदी, सावय पडिनीय वाल महि वासं। इइ समणे वाघातो, महिगावज्जो उ सेहस्स। वृ-ग्लानत्वंतस्य साधोरुत्पन्नम्, स्तेनका वाअन्तराले द्विविधाः, नदी वा पूर्णा, श्वापदावा' व्याघ्रादयः पथि तिष्ठन्ति, प्रत्यनीको वातं प्रतिचरन्त्रास्ते, 'व्यालाः' सपस्तेिवा पथि गच्छन्तंजनं दशन्ति, महिका वा वर्ष वा पतितुमारब्धम्, "इय" एवं श्रमणे वयाघातः सम्भवति।शैक्षस्यापि महिकावर्ज सर्वोऽप्येष एव व्याघातो वक्तव्यः॥ पूर्वं स्वयं विपरिणतमाश्रित्य विधिरुक्तः, अथान्येन विपरिणामितस्य विधिमाह[भा.४७३८] विप्परिणामियभावो, न लब्भते तंच नो वियाणामो। विप्परिणामियकहणा, तम्हा खलु होति कायव्वा ।। वृ-विपरिणामितः-विवक्षिताचार्यादुत्तारितो भावो यस्य स विपरिणामितभावः, एवंविधः शैक्षो न लभ्यते, विपरिणामकस्य नाभवतीति भावः । शिष्यः प्राह-'तमेव' विपरिणामनं तावद् वयं न विजानीमः । सूरिराह-यत एवं भवतो जिज्ञासा तस्माद् विपरिणामनं विपरिणामितं तस्य कथना-प्ररूपणा कर्तव्या भवति॥तामेवाह- [भा.४७३९] दिट्ठमदिट्ठ विदेसत्थ गिलाणे मंदधम्म अप्पसुते। निष्फत्ति नत्थि तस्सा, तिविहं गरहं व से जणति ॥ वृ-शैक्षः कमप्याचार्यमभिधार्य गच्छन् मार्गे कमपि साधुं ध्ष्ट्वा पृच्छति-अमुके आचार्या भवद्भिः कदाचिद् दृष्टाः? उताहो न दृष्टाः ?; एवं पृष्टे स साधुर्विपरिणामनबुध्या भणति-किं तैः करिष्यसि ?; शैक्षः प्राह-प्रव्रजितुकामोऽहं तेषां समीपे; एवं श्रुत्वा साधुईष्टानपि तान् ‘न मया दृष्टाः' इति, अथवा स्वदेशस्थानपि भणति 'विदेशस्थास्ते' । एवमग्लानानपि ग्लानोऽसौ, व्रजत्वमपितस्य द्वितीयः'; अथवाब्रवीति-यस्तस्य पार्श्वे प्रव्रजति सोऽवश्यंग्लानो ग्लानवैयावृत्ये वा नित्यं व्यापृतो भवति । अथवा मन्दधर्माणस्ते, ततः किं तव मन्दधर्मता रोचते ? । Page #76 -------------------------------------------------------------------------- ________________ उद्देशक : : ३, मूलं १०४, [भा. ४७२९] ७३ यद्वाऽसावल्पश्रुतः, त्वं च ग्रहण-धारणासमर्थस्तस्य पार्श्वे गतः किं करिष्यसि ?, त्वमेव वा तं पाठयिष्यसीति । अथवा तस्य शिष्याणां निष्पत्तिरेव नास्ति, यं प्रव्राजयति स सर्वोऽपि प्रतिभज्यते म्रियते वेति । 'त्रिविधां वा' मनो-वाक्- कायभेदाद् ज्ञान-दर्शन- चारित्रभेदाद् वा त्रिप्रकारां गह वक्ष्यमाणरीत्या यदसौ करोति सा विपरिणामना मन्तव्या । एनां कुर्वतश्च तुर्गुरुकम्, न च तं शैक्षं लभते, अतो नैवं कथनीयम्, किन्तु दृष्टादिपदेषु सद्भावः कथनीयः । कथम् ? इत्याह[भा. ४७३०] जइ पुन तेन न दिट्ठा, नेव सुया पुच्छितो भणति अन्ने । जति वा गया विदेसं, तो साहइ जत्थ ते विसए ॥ वृ- योऽसौ शैक्षेण पृष्टस्तेन यदि ते सूरयो न दृष्टाः नैव श्रुतास्ततः पृष्टः सन् भणति अहं न जानामि, ‘अन्यान्’ अपरान् साधून् पृच्छ । अथ जानाति ततो यथावत् कथनीयम्। यदि विदेशं 'गतास्ततो यत्र 'विषये' देशे ते वर्त्तन्ते तं कथयति । अथ नाख्याति हीनाधिकं वाऽऽ ख्याति ततो विपरिणामना भवति ॥ [ भा. ४७३१] सेसेसु उ सब्भावं, नातिक्खति मंदधम्मवज्जेसु । ते सावं, विप्परिणति हीनकहणे वा ॥ वृ- 'शेषेषु' ग्लानादिषु पदेषु मन्दधर्मवर्जेषु सद्भावं नाख्याति, यद्यप्यसौ ग्लानोऽल्पश्रुतो वा शिष्यनिष्पत्तिर्वा तस्य नास्ति तथापि तन्न कथनीयम् । यस्तु मन्दधर्मा पार्श्वस्थादिस्तत्र सद्भावः कथनीयः, मा संसारपारगन्तुकामः सुतरां संसारे पतिष्यतीति कृत्वा । यस्तु ज्ञा-दर्शन-चारित्रतपः सम्पन्नो वादी धर्मकथी सङ्ग्रहोपग्रहकारी तद्विषयं सद्भावं यदि 'गूहयति' अपलपति हीनकथनं वा करोति, अधिकमप्यन्याचार्येभ्यो हीनं कृत्वा कथयतीत्यर्थ, एषा विपरिणामना मन्तव्या ॥ अथ त्रिविधां गर्हां व्याचिख्यासुस्तत्स्वरूपं तावदाह [भा. ४७३२] सीसोकंपण गरिहा, हत्थ विलंबिय अहो य हक्कारे । वेला कन्नाय दिसा, अच्छतु नामं न घेत्तव्वं ॥ वृ- गर्हा नाम शैक्षेण पृष्टः सन् शीर्षावकम्पनं करोति, हस्तौ वा धुनीते, विलम्बितानि वा करोति- हस्तौ वौष्ठौ वा विलम्बयतीत्यर्थः, यद्वा ब्रवीति - अहो ! प्रव्रज्या अहो ! प्रव्रज्या, हाकारं वा करोति-हा ! हा ! कष्टं यदेवं नष्टो लोकः, "वेल "त्ति नामापि तस्य न वर्त्ततेऽस्यां वेलायां ग्रहीतुमिति, कर्णौ वा तदीयनामग्रहणे स्थगयति, यस्यां वा दिशि स तिष्ठति तस्यां न स्थातव्यमिति ब्रवीति, उपलक्षणत्वाद् अक्षिणी वा निमीलयति, यद्वा नामापि तस्य निरन्नैर्य ग्रहीतव्यम्, अत आस्तामेतद्विषयं पृच्छादिकमिति ॥ [भा. ४७३३] नाणे दंसण चरणे, सुत्ते अत्थे य तदुभए चेव । अह होति तिहा गरहा, कायो वाया मणो वा वि ॥ वृ-ज्ञाने दर्शने चारित्रे चेति त्रिविधा गर्हा भवति तत्र ज्ञानगर्हा नाम नटपठितेनेव किं तदीयेन ज्ञानेन ?, दर्शनगर्हा तु मिथ्याष्टिर्नास्तिकप्रायोऽसौ, चारित्रगर्हा सातिचारचारित्रोऽचारित्री वाऽसौ । अथवा सूत्रेऽर्थे तदुभये चेति त्रिविधा गर्हा-तत्र सूत्रं तस्य शङ्कित स्खलितम् अर्थं पुनरवबुध्यते १ यद्वाऽर्थं नावबुध्यते सूत्रं पुनरागच्छति २, उभयमपि वा तस्याविशुद्धं न जानाति वा किमपीति ३ । अथवा काय वाङ्-मनोभेदात् त्रिधा गर्हा-तत्र कायगर्हा तेषामाचार्याणां " Page #77 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-३/१०४ शरीरं हुण्डादिसंस्थानं विरूपं वा, वाग्गर्हा मन्मनं काहलं वा ते जल्पन्ति, मनोगर्हा न तेषां तथाविधमूहा-ऽपोहपाटवं न वा ग्रहण-धारणासामर्थ्यमिति । 'अथ' एषा त्रिविधा गर्हा भवति ।। प्रकारान्तरेण गमेवाह ७४ [ भा. ४७३४ ] पव्वयसि आम कस्, त्ति सगासे अमुगस्स निद्दिट्ठे । आयपराधिगसंसी, उवहणति परं इमेहिं तु ॥ वृ- कोऽपि शैक्षः केनापि साधुना पृष्टः प्रव्रजसि त्वम्; स प्राह-आमम्; 'कस्य सकाशे ?' इति पृष्टः सन् भूयोऽप्याह-अमुकस्याचार्यस्य समीपे, एवं 'निर्दिष्टे' उक्ते स साधुरात्मानं परस्मादधिकं शंसितुम्-आख्यातुं शीलमस्येत्यात्मपराधिकशंसी परममीभिर्वचनैरुपहन्ति ।। तद्यथा[भा. ४७३५ ] अबहुस्सुताऽविसुद्धं, अधछंदा तेसु वा वि संसगिंग । ओसन्ना संसग्गी, व तेसु एक्केक्कए दुन्नि ।। वृ- अहं बहुश्रुतः सोऽबहुश्रुतः, अहं विशुद्धपाठकः स पुनरविशुद्धपाठी, यद्वा यथाच्छन्दास्ते आचार्या 'तैर्वा' यथाच्छन्दैः सह ते गाढतरं संसर्गिणः, गाथायां तृतीयार्थे सप्तमी, अवसन्ना वा ते तैः सार्धं संसर्गिणो वा, एवं पार्श्वस्थादावपि एकैकस्मिन् भेदे द्वौ द्वौ दोषावेवमेव वक्तव्यौ ॥ अथ काय वाङ्मनोगहमेव प्रकारान्तरेणाह [भा. ४७३६ ] सीसोकंपण हत्थे, कन्न दिसा अच्छि कायिगी गरिहा । वेला अहो यह त्तिय, नामं ति य वायिगी गरहा ।। वृ- शीर्षावकम्पनं हस्तविलम्बनं कर्णस्थगनम् अन्यस्यां दिशि स्थानम् अक्षिनीमीलनम् अनिमेषलोचनस्य वा क्षणमवस्थानम् एषा सर्वाऽपि कायिकी गर्हा । यत्तु अस्यां वेलायां नाम न ग्रहीतव्यम् अहो ! कष्टम् हाहाकारकरणम् नाम च तस्य कदाऽपि न ग्रहीतव्यमित्यादिभाषणं सा वाचिकी गर्हा ॥ [भा. ४७३७] अह मानसिगी गरहा, सूतिजति नित्त-वत्तरोगेहिं । धीरत्तणेण य पुनो, अभिनंदइ नेय तं वयणं ॥ वृ- 'अथ' अनन्तरं मानसिकी गर्हा मनसि तमाचार्यं जुगुप्सते । कथमेद् ज्ञायते ? इत्याहनेत्र-वक्रयोः सम्बन्धिनो ये रागाः - मुकुलन- विच्छायीभवनादयो विकारास्तैः सूच्यते मानसिकी गर्हेति । यद्वा 'प्रव्रजामि' इति भणिते 'साध्विदम्, कृत्यमेतद् भव्यानाम्' इत्यादिवचोभिर्नैव तदीयं वचनमभिनन्दते, धीरतया वा तूष्णीक आस्ते । एवमन्यतरस्मिन् गर्हापरकारे कृते तस्य शङ्का भवति - अवश्यमकार्यकारी स आचार्यादि सम्भाव्यते, न चामी साधवोऽलीकं भाषन्ते, अहमपि तत्र गत आत्मानं नाशयिष्यामीति ।। [भा. ४७३८] एतानि य अन्नानि य, विष्परिणामणपदाणि सेहस्स । उवहि-नियडिप्पहाणा, कुव्वंति अनुजुया केई || वृ- 'एतानि च ' अनन्तरोक्तानि 'अन्यानि च ' द्रव्य-क्षेत्र - कालभावैः शैक्षस्य विपरिणामनपदानि भवन्ति-तत्र द्रव्यतो मनोज्ञाहारादि ददाति, क्षेत्रतः प्रवात-निवाते मनोऽनुकूले प्रदेशे तं सथापयति, कालतो वेलायामेव भोजयति, भावतस्तस्याकर्षणार्थं हित-मधुरमुपदेशं ददाति । एवं केचिद् 'अनृजुकाः' शठा उपधि-परवञ्चनाभिप्रायो निकृति - कैतवार्थप्रयुक्तवचना ऽऽकाराच्छादनं ते Page #78 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- १०४, [ भा. ४७३८] प्रधाने येषां ते तथाविधा विपरिणामनपदानि कुर्वन्ति ।। उपसंहरन्नाहएएसामन्नयरं, कप्पं जो अतिचरेज्ज लोभेन । थेरे कुल गण संघे, चाउम्मासा भवे गुरुगा ।। [भा. ४७३९] वृ- 'एतेषाम्' अव्याहतादिद्वारकलापप्रतिपादितानां कल्पानामन्यतरं 'कल्पं' विधिं 'यः' आचार्यादिर्लोभदोषेण 'अतिचरेत्' अतिक्रामेत् तं सम्यग् ज्ञात्वा कुल-गण- सङ्घस्थविरैः कुलादिसमवायेन वा तस्य पार्श्वत् तं शैक्षमाकृष्य चत्वारो मासा गुरुकास्तस्य प्रायश्चित्तं दातव्यम् । अथ स्थविरैः समवायेन वा भणितोऽपि तं शैक्षं न समर्पयति ततः कुल-गण-सङ्घबाह्यः क्रियते ॥ मू. (१०५) अत्थि या इत्थ केइ उवस्सयपरियावन्नए अचित्ते परिहरणारिहे सच्चेव उग्गहस्स पुव्वाणुत्रवणा चिट्ठइ अहालंदमवि उग्गहे ॥ वृ- अस्य सम्बन्धमाह [भा. ४७४० ] असहीणेसु वि साहम्मितेसु इति एस उग्गहो वृत्तो । अयमपरो आरंभो, गिहिविजढे उग्गहे होई ॥ ७५ वृ- 'अस्वाधीनेष्वपि' क्षेत्रान्तरं गतेषु साधर्मिकेषु इत्येषोऽवग्रहः प्रोक्तः । अयं पुनरपरः प्रकृतसूत्रस्यारम्भो गृहिभिर्विजढः - परित्यक्तो यः प्रतिश्रयस्तद्विषयेऽवग्रहे भवति । अनेन सम्बन्धेनायातस्यास्य व्याख्या - अस्ति च 'अत्र' अनन्तरसूत्रप्रस्तुते प्रतिश्रये, किम् ? 'किञ्चिद्’ आहारा ऽर्थजातादिकं गृहस्थसत्कं उपाश्रये पर्यापन्नं विस्मृतं परित्यक्तं वा उपाश्रयपर्यापन्नम्, ‘अचित्तं’ प्राशुकम्, ‘परिहरणार्हं' साधूनां परिभोक्तुं योग्यम्, तत्र सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति, तत्रोपाश्रये तिष्ठद्भिः पूर्वमेव 'अनुजानीत प्रायोग्यम्' इत्येवं यदवग्रहोऽनुज्ञापितः सैवानुज्ञापना पश्चादुपाश्रयपर्यापन्नग्रहणे व्यवतिष्ठते न पुनरभिनवमनुज्ञापनं कर्त्तव्यमिति भावः । कियन्तं कालम् ? इत्याह- 'यथालन्दमपि' मध्यमलन्दमात्रमपि कालं यावदवग्रह इति सूत्रार्थः ॥ अथामेव सूत्रार्थं भाष्यकृत् प्रतिपादयति [भा. ४७४१ ] आहारो उवही वा, आहारो भुंजणारिहो कोयी । दुविहपरिहार अरिहो, उवही वि य कोयि न वि कोयि ॥ वृ- इह सूत्रे किञ्चिद्ग्रहणेन आहार उपधिर्वा गहीतः, परिहरमार्हग्रहणेन तु स एव परिभोगाईः । तत्राहारः कश्चिद् भोजनार्हो भवति कश्चिच्च न भवतीति, उपधिरपि कश्चिद् द्विविधपरिहारस्यधारणा - परिभोगरूपस्यार्हो भवति कश्चिच्च न भवति ।। तथाहि [भा. ४७४२ ] संसत्ताऽऽसव पिसियं, आहारो अनुवभोज इच्चादी । झुसिरतिण वच्चगादी, परिहारे अणरिहो उवही ।। वृ- 'संसक्तं ' द्वीन्द्रियादिजन्तुमिश्रं भक्त - पानं 'आसवः' मद्यं पिशितं ' पुद्गलम् इत्यादिक आहारः 'अनुपभोज्यः' साधूनामुपभोक्तुमयोग्यः, शुषिरतृण-वल्ककादिक उपधिरपि 'परिहारस्य' परिभोगस्यानर्हो मन्तव्यः, अर्थादापन्नं ओदनादिक आहारो वस्त्रादिकश्चोपधि परिभोगाई इति ।। [भा. ४७४३ ] ठायंते अनुन्नवणा, पातोग्गे होइ तप्पढमयाए । सो व उग्गहो खलु, चिट्ठइ कालो उ लंदक्खा ।। वृ- साधुभिः प्रतिश्रये तिष्ठद्भिस्तत्प्रथमतया या प्रायोग्यस्यानुज्ञापना कृता भवति स Page #79 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-३/१०५ एवोपाश्रयपर्यापन्नस्यापि ग्रहणेऽवग्रहस्तिष्ठति, न पुनर्भूयोऽनुज्ञाप्यते । या तु सूत्रे 'लन्दाख्या' लन्द इत्यभिधानं स कालः प्रतिप्तव्य इति ।। कृता सूत्रव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तरः[भा. ४७४४ ] पुव्विं वसहा दुविहे, दव्वे आहार जाव अवरण्हे । उवहिस्स ततियदिवसे, इतरे गहियम्मि गिण्हंति ॥ ७६ वृ- 'पूर्वं ' प्रथमं तिष्ठन्त एव वृषभाः समन्तादुपाश्रयमवलोकयन्तो द्विविधे द्रव्ये उपयोगं प्रयच्छन्ति । द्विविधं द्रव्यं नाम- आहार उपधिश्च । तत् प्राधूर्णकादयो गृहिणो विस्मृत्य परित्यज्य वा गता भवेयुः तेषु गतेषु यावदपराह्णो न भवति तावदाहारं न गृह्णन्ति, परतस्तु गृह्णन्ति । उपधेस्तु तृतीये दिवसे गते ग्रहणं कुर्वन्ति । 'इतरद् नाम' अर्थजातं तत् कदाचिदगारिणां विस्मृतं भवेत् तदेकान्ते निक्षेपणीयम् । “गहियम्मि गिण्हंति "त्ति यदि धनिकादिभि गृहीतः - प्रारब्धः प्रातिवेश्मिको नष्टो भवेत् तदा तत्रापि यत् तेषां विस्मृतं तद् यथोक्तविधिना गृह्णन्ति । एष नियुक्तिगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति [भा. ४७४५] पायं सायं मज्झतिए व वसभा उवस्सय समंता । पेहंति अपेहाए, लहुगो दोसा इमे तत्थ ॥ वृ- ‘प्रातः' प्रभाते ‘सायं' सन्ध्यायां 'मध्यान्ते वा' मध्याह्नसमये वृषभा उपाश्रयं समन्तात् प्रत्युपेक्षन्ते । अप्रत्युपेक्षमाणानां लघुको मासः, दोषाश्चेमे 'तत्र' अप्रत्युपेक्षणे भवन्ति ॥ [भा. ४७४६] साहम्मि अन्नधम्मिय, गारत्थिणि खिवण वोसिरण रज्जू । गिण्हण- कड्डूण-ववहार- पच्छकडुड्डाह-निव्विसए ।। वृ- 'साधर्मिणी' संयती 'अन्यधर्मिणी' परतीर्थिका 'अगारस्था' अविरतिका, एताः प्रद्विष्टाः सत्यः साधुप्रतिश्रयसमीपेऽर्थजातस्य निक्षेपणं कुर्यु, यद्वा बालकं व्युत्सृज्य गच्छेयुः, परीषहपराजितो वा कोऽपि संयतो रज्जूदन्धनेन म्रियेत, तत्र राजपुरुषैर्ज्ञाते सति ग्रहणा ऽऽकर्षण-व्यवहारपश्चात्कृतोड्डाह-निर्विषयाज्ञापनादयो दोषा भवन्ति । इदमेव भावयति [भा. ४७४७] चोदनकुविय सहम्मिणि, परउत्थिणिगी उ दिट्ठिरागेण । अनुकंप जदिच्छावा, छुभिज बालं अगारी वा ॥ - साधर्मिणी काचित् खण्डितशीला गर्भवती 'उड्डाहोऽयम्' इति मन्यमानैः साधुभिर्गाढं निर्भर्त्सय रजोहरणादिलिङ्गबहिकृता भवेत्, ततः सा 'मदीयं लिङ्गमपह्वतम्' इति मन्यमाना तया नोदनया कुपिता सती स्वमपत्यजातं तदाश्रयसमीपे परित्यजेत् । परतीर्थिनी तु 'दृष्टिरागेण' 'माऽस्माकमपयशःप्रवादो भविष्यति' इति कृत्वा संयतानामुपाश्रयसन्निधौ बालकं व्युत्सृजेत; वरं लोकश्चिन्तयिष्यति - एतैरेवैतद् जनितमिति । अथवा अगारी काचिदनुकम्पया यच्छया वा बालकं तत्र प्रक्षिपेत् । तत्र 'अनुकम्पया नाम' दुष्कालादौ काचिद् दुःस्थयोषिद् जीवनाय स्वापत्यं तदाश्रयान्तिके त्यजति-वरमेतेऽनुकम्पापरायणा अमुं बालकं शय्यातरस्यापरस्य वा ईश्वरस्य गृहे निक्षेप्स्यन्तीति । यच्छया' अभिसन्धिमन्तरेणैवमेव व्युत्सृजति ॥ [भा. ४७४८] हाउं व जरेउं वा, अचदंता तेनाति वत्थादी । एएहिं चिय जनियं, तहिं च दोसा उ जनदिट्टे ॥ Page #80 -------------------------------------------------------------------------- ________________ ७७ उद्देशकः ३, मूलं-१०५, [भा. ४७४८] वृ-स्तेनकादयो वस्त्रादिकं हातुं वाजरीतुंव अचयन्तः' अशक्नुवन्तः साधूनांप्रतिश्रयसन्निधौ परित्यजेयुः। उपलक्षणमिदम्, तेनान्यतीर्थिकादयः प्रत्यनीकतया हिरण्य-सुवर्णादिकमपहृत्य तत्रनिक्षिपेयुः ततोयदि वृषभास्त्रिसन्ध्यं वसतिन प्रत्युपेक्षन्तेतदालोकोब्रूयात्-एतैरेवैतदपत्यमाण्डं जनितम्, सुवर्णादिकंवाअपहृतम् । एतत्रजनध्टेसति ‘दोषाः' ग्रहणा-ऽऽकर्षणादयो भवेयुः।। [भा.४७४९] अहवा छुभेज्ज कोयी, उब्भामग वेरियं व हंतूणं । वेहानस इत्थी वा, परीसहपराजितो वा वि॥ वृ-अथवा कश्चिद् ‘उद्भ्रामकं पारदारिकं वैरिणं वा हत्वा प्रत्यनीकतया तत्र प्रक्षिपेत्, स्त्री वा काचिदत्यन्तदुःस्थिता वैहायसमरणमुपाश्रयसमीपे कुर्यात्, परीषहपराजितो वा संयत एव कोऽपिरतद्वन्धनेन म्रियेत, 'वरं प्रवेष्टुंज्वलितंहुताशनं, नचापि भग्नं चिरसञ्चितं व्रतम्।' इति कृत्वा॥ - [भा.४७५०] दवियट्ठऽसंखडे वा, पुरिसित्थी मेहुणे विसेसो वि। एमेव य समणम्मि वि, संकाए गिण्हणादीणि ।। वृ-कोऽपिकश्चित् पुरुषं 'द्रव्यार्थम्' अर्थजातनिमित्तं यद्वा असङ्खडं-कलहो वैरमित्यर्थः तेन वा कञ्चिद् व्यपरोप्य संयतोपाश्रयसमीपे परित्यजेत् । एवं स्त्रयमपि कश्चिद् विनाश्य प्रक्षिपेत्, नवरं मैथुने विशेषः । किमुक्तं भवति ?-सपत् काचिदपरां सपली चतुर्थसेवाविघ्नकारिणी मत्वा व्यपरोप्य च तत्र व्युत्सृजेत्, 'अमीषामपयशो भूयात्' इति कृत्वा । एवमेव श्रमणेऽपि मन्तव्यम्, तमपि कश्चिदुपकरण-द्रव्यार्थं वैरेण वा मारयेदित्यर्थः, तत्र साधवः शङ्कयेरन्, ततो ग्रहणा-ऽऽकर्षणादीनि पदानि प्राप्नुवन्ति ॥यत एवमतः[भा.४७५१] कालम्मि पहुप्पंते, चच्चरमादी ठवित्तु पडियरणं । रक्खंति साणमादी छन्ने जा दिट्ठमन्नेहिं ।। वृ-त्रिसन्ध्यं वृषभैः समन्ततो वसति प्रत्युपेक्षणीया, प्रत्युपेक्षितायां च यदि किञ्चित् कल्पस्थकादिकं पश्यन्ति कालश्च पूर्यते ततश्चत्वरादिषु स्थापयित्वा प्रतिचरणं कुर्वाणाः प्रच्छन्नावकाशे स्थिताः श्वान-मार्जारादिना विनाश्यमानं तावद् रक्षन्ति यावत् कल्पस्थकादिकमन्यैईष्टमिति॥ [भा.४७५२] बोलं पभायकाले, करिति जनजाननट्ठया वसमा। पडियरणा पुन देहे, परोग्गहे नेव उज्झंति॥ वृ-यत् तत्र हिरणय-सुवर्णादि केनचित् परित्यक्तंभवति तत्प्रभातकाले एव प्रत्युपेक्षमाणाः सम्यगनिरीक्ष्य वृषभा जनज्ञापनार्थबोलं कुर्वन्ति, यथा-केनचित्पापेनेदं हिरण्यादिकमस्मदपयशः प्रदानार्थमंत्रप्रक्षिप्तमिति।यस्तु देहः-द्रव्या-ऽर्थ-वैरादिकारणव्यपरोपितस्यपुरुषादेः शरीरमित्यर्थः तत्रप्रतिचरणा कर्तव्या, सम्यक्प्रतिचर्य यदि कोऽपि न पश्यति तदा परिष्ठापनीयमिति हृदयम्। तच्च 'परावग्रहे' परकीयनिवेशनादौ नैव ‘उज्झन्ति' परित्यजन्ति, किन्तु परैरपरिगृहीते भूभागे इति॥ [भा.४७५३] अप्पडिचर-पडिचरणे, दोसाय गुणा य वन्निया एए। एतेन सुत्त न कतं, सुत्तनिवातो इमो तत्थ ॥ Page #81 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् - ३-३/१०५ वृ-‘अप्रतिचरण-प्रतिचरणयोः प्रतिश्रयस्याप्रत्युपेक्षण-प्रत्युपेक्षणयोर्यथाक्रममेते दोषा गुणाश्च वर्णिताः, परमेतेनार्थेन सूत्रं 'न कृतं ' न विहितम्, किन्तु सामाचारीप्रकाशनार्थं सर्वमेतद् व्याख्यातमिति । सूत्रनिपातः पुनरयं 'तत्रेति' सूत्रनिपातस्यैवोपदर्शनार्थः ॥ [भा. ४७५४] आगंतारठियाणं, कज्जे आदेसमादिणो केई । वसिउं विस्समिउं वा, छड्डित्तु गया अनाभोगा ॥ वृ- इह यत्रागारिण आगत्यागत्य तिष्ठन्ति तद् आगन्तुकागारं तत्र 'कार्ये' कारणविशेषतः स्थितानां प्रकृतसूत्रमवतरति । कथम् ? इत्याह-आदेशः - प्राधूर्णकस्तदादयः केचित् पथिका आगन्तुकागारे रजन्यां वासमुपगता दिवा वा भोजनार्थं विश्रामं कृतवन्तः, तत उषित्वा विश्रम्य वा किञ्चिद् द्रव्यजातमनाभोगात् परित्यज्य गताः । किं पुनस्तत् ? इत्याह [ भा. ४७५५ ] समिई- सत्तुग-गोरस - सिणेह-गुल- लोणमादि आहारे । ओहे उवग्गहम्मिय, होउवही अट्ठजातं वा ॥ वृ- इहाहार उपधिश्चेति द्विविधं द्रव्यं भवति । तत्राहारः 'समिति-सक्तु-गोरस-स्नेह- गुडलवणादिकः' समिति - कणिक्का, शेषं प्रतीतम् । उपधिस्तु द्विधा भवति ओधे उपधि उपग्रहे वा, ओधोपधिरुपग्रहोपधिश्चेत्यर्थः । 'अर्थजातं' द्रव्यं तद् वा परित्यक्तं भवेत् ॥ तत्राहारोपधिविषयं तावद् द्विविधमाह ७८ [भा. ४७५६] काऊणमसागरिए, पडियरणाऽऽहार जाव अवरहे । एमेव य उवहिस्स वि, असुन्न सेधाइ दूरे य ॥ वृ- आहारमसागारिके प्रदेशे कृत्वा तावत् प्रतिचरणं कुर्वते यावदपराह्नः सञ्जायते । एवमेवोपधेरपि प्रतिचरणं कर्त्तव्यम्, नवरमशून्ये भूभागे संस्थापनीयः । शैक्षादयश्च द्विविधस्यापि द्रव्यस्य दूरे कर्त्तव्याः ॥ किं कारममाहारमपराद्धं यावत् प्रतिचरन्ति ? इत्युच्यतेवोच्छिज्जई ममत्तं परेण तेसिं च तेन जति कञ्जं । [भा. ४७५७] गिता वि विसुद्धा, जति वि न वोच्छिज्जती भावो ॥ वृ- अपराह्णात् परतस्तेषां पथिकानामाहारे ममत्वं व्यवच्छिद्यते, 'तेषांच' साधूनां यदि 'तेन' आहारेण कार्यं भवति ततो गृह्णन्तोऽपि विशुद्धाः, यद्यपि च भावस्तेषां तदुपरि न व्यवच्छिद्यते तथाप्यपराह्णादूर्ध्वं गृह्णतां न कश्चिद् दोषः । उपधिं तु तृतीयदिवसे पूर्णे गृह्णन्ति, एतावता तद्विषयममत्वस्य व्यवच्छेदात् ॥ [भा. ४७५८ ] अव्वोच्छिन्ने भावे, चिरागयाणं पि तं पयंसिंति । पन्नवणमनिच्छंते, कप्पं तु करेंति परिभुत्ते ॥ वृ- अथ तेषामद्यापि भावो न व्यवच्छिद्यते। ततोऽव्यवच्छिन्ने भावे तेषां स्ववस्त्राणि गवेषयतां चिरादायातानामपि 'तम्' उपधिं दर्शयन्ति, एवं च तेषां प्रज्ञापनां कुर्वन्ति - अस्माभिरेतानि वस्त्राणि स्वीकृतानि, ततोऽनुग्रहं मन्यमानाः साधूनामनुजानीथ । एवमुक्ते यद्यनुजानते ततः सुन्दरम्, अथ नेच्छन्त्यनुज्ञातुं तानि च वस्त्राणि परिभुक्तानि ततोऽप्कायवधरक्षणार्थं कल्पं कुर्वन्ति ॥ अथार्थजातविषयं विधिमाह [भा. ४७५९] पञ्च्चोनियत्तपुट्ठा, करादि दाएंति एत्थ न पेधे । Page #82 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-१०५, [भा. ४७५९] दरिसिंति अपिच्छंते, को पुच्छति केन ठवियं च ॥ वृ-इहोपाश्रये यद्यर्थजातं पतितमुपलभ्यते तदा तदप्यल्पसागारिके स्थाप्यते, शैक्षादयश्च दूरे कर्तव्याः, प्रत्यवनिवृत्तैश्च-भूयस्तत्रैव समायातैहिभिः पृष्टाः- 'कुत्रास्माक तदर्थजातं तिष्ठति?' ततः ‘करादिना' हस्ताङ्गुल्यादिसंज्ञया दर्शयन्ति-अत्र प्रदेशे "न" एनं प्रेक्षध्वम् । अथ ते न पश्यन्ति ततः स्वयमेव तदर्थजातं दर्शयन्ति । यदि ते पृच्छेयुः-केनेदमत्र स्थापितम् ?; ततो वक्तव्यम्-कः पृच्छति? केन स्थापितंच? इति॥एवं तावदुपाश्रयपर्यापन्नेआहारादौ विधिरुक्तः। अथ शय्यातरादिगृहपर्यापन्ने विधिमाह[भा.४७६०] भडमाइभया नट्टे, गहिया-ऽगहिएसु तेसु सज्झादी। गिण्हंति असंचइयं, संचइयं वा असंथरणे ॥ वृ- भटाः-राजपुरुषास्तदादिभयाद् नष्टे शय्यातरादौ अथवा सज्झिकाः-प्रातिवेश्मिकास्ते गृहीतृभि-धनिकैः आगृहीताः-ऋणं दापयितुमारब्धास्ततस्तेषु सज्झिकादिषु नष्टेषु तत्र य आहारोऽसञ्चयिकः-दधि-घृतादिस्तंगृह्णन्ति। अथासंस्तरणंततः 'सञ्चयिकमपि' अवगाहिमादिकं गृह्णन्ति ॥ [भा.४७६१] साविक्खेतर नढे, एमेवय होइ उवहिगहणं पि। पञ्चागएसु गहणं, भुंजति दिन्नेवमढे वि ।। वृ-प्रातिवेश्मिकादिः सापेक्षो वा नष्टो भवेद् ‘इतरो वा' निरपेक्षः । सापेक्षो नामभूयस्तत्रैवागन्तुकामः, तद्विपीतो निरपेक्षः । तत्रोभयस्मिन्नपि नष्टे ‘एवमेव' आहारवदुपधेरपि ग्रहणं कुर्वन्ति। सापेक्षनष्टेषु च प्रत्यागतेषु कथयन्ति, कथितेच दत्तमनुज्ञातं सत् परिभुञ्जते। ये तु निरपेक्षनष्टास्तेषु निर्विवादमेव परिभुञ्जते। एवं “अढे वि" त्त अर्थजातेऽपि ग्रहणं मन्तव्यम्। अत्रैवाक्षेप-परिहारावाह[भा.४७६२] पाउग्गमणुनवियं, जति मनसि एवमतिपसंगोत्ति। आउरमेसजुवमा, तह संजमसाहगंजंतु॥ वृ- यद्येवं मन्यसे-'प्रायोग्यं' साधूनामुचितं यत् तदेव साधुभि पूर्वमनुज्ञापितम् न पुनः 'अप्रायोग्यम्' अर्थजातादि,तत एवमनुज्ञापितमप्यर्थजातंगृह्णतामतिप्रसङ्गो भवति। तत्राभिधीयतेनैकान्तेनार्थजातमप्रायोग्यम्, यतआतुरः-रोगीतस्य भेषजोपमाकर्तव्या-यथाऽऽतुरस्याभिनवोदीर्णे ज्वरादौ यदौषधं प्रतिषिध्यते तदेवान्यस्यामवस्थायां तस्यैवानुज्ञायते, एवमर्थजातमपि पुष्टकारणाभावे प्रतिषिद्धम्, यत्तु दुर्भिक्षादौ संयमस्य साधकं तदनुज्ञातमेव ।। .मू. (१०६) से वत्थूसुअव्वावडेसुअव्वोगडेसुअपरपरिग्गहिएसुअमरपरिग्गहिएसु सचेव उग्गहस्स पुव्वाणुनवणा चिट्ठइ अहालंदमवि उग्गहे ॥ [भा.४७६३] गिहिउग्गहसामिजढे, इति एसो उग्गहो समक्खातो। सामिजढे अजढे वा, अयमन्त्रो होइआरंभो॥ वृ-स्वामिनाजढः-परित्यक्तो योगृहिणां सम्बन्धी अवग्रहस्तद्विषय इत्येषः 'अवग्रहः' ग्रहणविधिः समाख्यातः।अयं पुनः ‘अन्यः' परस्तुतसूत्रस्यारम्भः स्वामिना त्यक्तेऽत्यक्ते वाअवग्रहे भवति।अनेनसम्बन्धेनायातस्यास्य व्याख्या-"से" तस्य निर्ग्रन्थस्य वास्तुषु' गृहेषु। कथम्भूतेषु? Page #83 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-३/१०६ 'अव्यापृतेषु' शटित पतिततया व्यापारविरहितेषु 'अव्याकृतेषु' दायादादिभिरविभक्तेषु, अथवाऽतीतकाले केनाप्यनुज्ञातमिति न ज्ञायते यत् तदव्याकृतं तेषु तथा 'अपरपरिगृहीतेषु' परैः - अन्यैरनधिष्ठितेषु 'अमरपरिगृहीतेषु' देवैः स्वीकृतेषुः सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमप्यवग्रहे । किमुक्तं भवति ? - यावन्तं कालं तानि वास्तूनि तेषां पूर्वस्वामिनामवग्रहे वर्त्तन्ते तावन्तं कालं सैव पूर्वानुज्ञा तिष्ठति, न पुनर्भूयोऽप्यवग्रहोऽनुज्ञापनीय इति सूत्रार्थः ॥ सम्प्रति निर्युक्तिविस्तरः ८० [ भा. ४७६४ ] खित्तं वत्युं सेतुं, केतुं साहारणं च पत्तेयं । अव्वावडमव्वो अडमपरममरपरिग्गहे चेव ॥ वृ- इह वास्तु सामान्यतो द्विधा क्षेत्रं 'वास्तुच' गृहंचेत्यर्थ । क्षेत्रं द्विधा-सेतु केतु च । यदरहट्टजलेन सिच्यते तत् सेतु, वृष्टिजलेन तु यन्निष्पाद्यते तत् केतु । गृहं पुनः खातोच्छ्रितोमयभेदात् त्रिधा वक्ष्यते । क्षेत्रं गृहं चोभयमपि द्विधा-साधारणं प्रत्येकं च । साधारणं-बहूनां सामान्यम्, प्रत्येकम्एकस्वामिकम् । सूत्रपदानि पश्चार्थेन सङ्ग्रहीतुमाह- अव्यापृतमव्याकृतमपरपरिगृहीतममरपरिगृहीतं चेति ॥ अथ साधारणपदं विवृणोति[ भा. ४७६५ ] दाईय-गण-गोट्ठीणं, सेणी साहारणं व दुगमादी । वत्थुम्मिएत्थ पगयं, ऊसित खाते तदुभए य ॥ वृ- दायाद - गण-गोष्ठीनां श्रेणीनां वा "दुगमाइ "त्ति द्वि- त्रिप्रभृतिसङ्ख्याकानां द्वित्र्यादिजनप्रतिबद्धानां वा यत् क्षेत्रं वास्तु वा सामान्यं तत् साधारणमुच्यते । अत्र तु वास्तुनाऽविकारः, न क्षेत्रेण । तच्च वास्तु त्रिधा उच्छ्रितं खातं तदुभयं च । 'उच्छ्रितं' प्रासादः, 'खातं' भूमिगृहम्, 'तदुभयम्' अधोभूमिगृहयुक्तः प्रासादः ॥ अव्यापृतादिपदानि व्याचष्टे [भा. ४७६६ ] सडिय-पडियं न कीरइ, जहिगं अव्वावडं तयं वत्युं । अव्बोगडमविभत्तं, अनद्दिट्ठियमन्नपक्खेणं ।। वृ-यत् शटित - पतितं यत्र च व्यापारः कोऽपि न क्रियते तद् वास्तु अव्यापृतमुच्यते । अव्याकृतं नाम यद् दायादैरविभक्तम् । अपरपरिगृहीतं नाम यद् 'अन्यपक्षेण' अन्यदीयवंशेन नाधिष्ठितंनान्यैः परिगृहीतम्, स्वाम्येव तस्य शय्यातर इति भावः ।। इदमेव भावयति [भा. ४७६७ ] अवरो सु च्चिय सामी, जेन विदिन्नं तु तप्पढमताए । अमरपरिग्गहियं पुन, देउलिया रुक्खमादी वा ॥ वृ- 'अपरो नाम' येन तत्प्रथमतया साधूनां तद् दत्तं स एव तस्य स्वामी नान्यः कश्चिद्, न परोऽपर इति समासाश्रयणात्। अमरपरिगृहीतं पुनर्देवकुलिका वा वृक्षादिकं वा वानमन्तराधिष्ठितं मन्तव्यम् ।। अथाव्याकृतादिषु दृष्टान्तानुपदर्शयति [भा. ४७६८ ] अव्वावडे कुटुंबी, काणिऽव्वोगडे य रायगिहे । अपरपरे सो चेव उ, अमरे रुक्खे पिसायघरे ।। वृ- अव्यापृते गृहे कुटुम्बी दृष्टान्तः । अव्याकृते तु राजगृहे नगरे “काणिट्ट" त्ति पाषाणमय्यः पक्वेष्टका वा बलिका महत्यश्च काणिका उच्यन्ते, तन्मयगृहकारापको वणिग् ध्ष्टान्तः । अपरपरिगृहीतेऽपि स एव दृष्टान्तः । अमरपरिगृहीते वृक्षः पिशाचगृहं वा निदर्शनं भवतीति Page #84 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - १०६, [भा. ४७६८ ] निर्युक्तिगाथासमासार्थः ।। अथैनामेव विवरीषुः कुटुम्बिध्ष्टान्तमाह [भा. ४७६९ ] निम्मवणं पासाए, संखडि जक्ख सुमिणे य कंटीय । अन्नं वा वावारं न कुणति अव्वावडं तेनं ॥ वृ- एगेणं कुटुंबिएणं सुंदरं घरं कारियं । समत्ते तम्मि संखडिं काउं 'कल्ले पविसामि त्ति चिंतेइ । नवरं वाणमंतरेणं रत्तिं भन्नति - जि पविसिहिसि तो ते कुलं उच्छाएमि । तेन कंटियाहिं फलहिऊण मुक्कं, वावारं च से न करेइ । अन्नया साहूहिं आगएहिं सो कुडुम्बी अनुनविओ । तेन भन्नइ - देवयाए परिग्गहियं ततो भे अवाओ भविस्सइ । साहूहिं भणितो - अनुजाणसुतुमं, लभिस्सामो वयं देवयाए । तओ तेन अनुन्नाए तेहिं काउस्सग्गेण जक्खो आकंपिओ भणइ उवरिल्लभूमियं मोत्तुं बीसत्था अच्छह । ते ट्ठिया । तेसु गतेसु जे अन्ने साहुणो इंति ते तत्थेव ठायंति, सच्चेव उग्गहस्स पुव्वाणुन्नवणा ।। अथ गाथाक्षरार्थः-कुटुम्बिना प्रासादस्य निर्मापणं कृतम् । ततः सङ्घडि कर्त्तुमारब्धा । यक्षेण च स्वप्ने निवेदितं-यदि प्रासादं प्रवेक्ष्यसि ततः सकुटुम्बं भवन्तं व्यपरोपयिष्यामीति । तेन कण्टिकाभिः परिक्षिप्तं तद्गृहम्, अन्यमपिच व्यापारं तत्र न करोति, तेनाव्यापृतमुच्यते ।। अव्याकृते दृष्टान्तमाह[भा. ४७७०] इड्डित्तणे आसि घरं महल्लं, कालेण तं खीणधनं च जायं । ते उम्मरीयस्स भया कुडीए, दाउं ठिया पासि घरं जईणं ॥ ८१ वृ- एगेणं इड्डिमंतेनं वाणिएणं रायगिहे नयरे सजालमालाचोप्पालं पक्विट्टगाहिं गिहं कारियं । सो यतम्मि निम्मविए पंचत्तीहूओ । पुत्ता से फेल्ला जाया, क्षीणविभवा इत्यर्थः । तत्थ य उंबरीओ करो घिप्पइ । ते तं दाउं अचयंता एगपासे कुडियं काउं ठिया । तं च तेहिं संजयाण दिन्नं ॥ अथाक्षरगमनिका-‘ऋद्धिमत्त्वे' महर्द्धिकतायां कस्यापि वणिजो गृहं 'महल्लं' महाजनाकुलमासीत् । कालेन तत् क्षीणधनं चशब्दादल्पमानुषं च सञ्जातम् । ते च तदीयाः पुत्राः 'उम्बरीयस्य' 'प्रत्युदुम्बरं रूपको दातव्यः' इत्येवंलक्षणस्य करस्य भयादेकस्मिन् पार्श्वे कुटीं कृत्वा मौलं च गृहं यतीनां दत्त्वा कुटीरके स्वयं स्थिताः, एतदव्याकृतमुच्यते ॥ अथ पूर्वानुज्ञापनापदं व्याख्याति[भा. ४७७१] पुव्वट्ठियऽणुन्नवियं, ठायंतऽन्ने वि तत्थ ते य गता । एवं सुन्नमसुन्ने, सोच्व य उग्गहो होइ ।। वृ- अव्यापृतेऽव्याकृते वा पूर्वं साधवोऽनुज्ञाप्य स्थिताः, तेषां मासकल्पे वर्षावासे वा पूर्णे शून्यीभूते 'तत्र' प्रतिश्रयेऽ पूर्णे वा कल्पेऽशून्य एवोपाश्रयेऽन्ये साधवस्तिष्ठन्ति, 'तेच' पूर्वसाधवः कल्पं समाप्यान्यत्र गताः; एवं शून्ये अशून्ये वा तत्र तिष्ठतां तेषां स एवावग्रहो भवति, न पुनर्भूयोऽनुज्ञापयन्ति । अपरपरिगृहीतं व्याचष्टे [भा.४७७२] अपरपरिग्गहितं पुन, अपरे अपरे जती जइ उवेंति । अव्वोकडं पितं चिय, दोन्नि वि अत्था अपरसद्दे ॥ वृ- पुनः शब्दो विशेषणार्थ, स चैतद्विशिनष्टि-अपरपरिगृहीतं नाम येन साधूनां तद् दत्तं स एव स्वामी नान्य इति तावदपरपरिगृहीतस्यैकोऽर्थ प्रागुक्तः; यद्वा यदि अपरेऽपरे यतयस्तत्रोपयन्ति तदपरपरिगृहीतम् । अव्याकृतमपि तदेव मन्तव्यम्, सर्वेषामपि साधूनां साधारणमिति कृत्वा । 2016 Page #85 -------------------------------------------------------------------------- ________________ ८२ बृहत्कल्प-छेदसूत्रम् - ३-३/१०६ तदेवं द्वावप्यर्थावपरशब्दे भवतः, एकः न परोऽपरस्तेन परिगृहीतमपरपरिगृहीतम्, द्वितीयःअपरैः साधुभिः परिगृहीतमपरपरिगृहीतमिति । अमरपरिगृहीतं तु वृक्षो वृक्षस्याधस्ताद्वा गृहं मन्तव्यम्, तत्र गृहे यदि पूर्वं साधवोऽनुज्ञाप्य स्थितास्तदा शेषाणां स एवावग्रहो भवति । अथ वृक्षविषयं विधिमाह[भा. ४७७३] भूयाइपरिग्गहिते, दुमम्मि तमणुन्नवित्तु सज्झायं । एगेन अनुन्नविएष सो चेव य उग्गहो सेसे ॥ वृ- भूतादिना - व्यन्तरेण परिगृहीतो यो द्रुमस्तत्र स्वाध्यार्थं कदाचिद् मन्तव्यं भवति, तं च व्यन्तरमनुज्ञाप्य स्वाध्यायं करोति । एवमेकेनापि तस्मिन्ननुज्ञापिते शेषाणां साधूनां स एवावग्रहो भवति ।। अथासौ वृक्षः परपरिगृहीतोऽप्यस्ति ततः [भा. ४७७४] सामी अनुन्नविज्जइ, दुमस्स जस्सोग्गहो व्व असहीणे । कूरसुरपरिग्गहिते, दुमम्मि काणिट्ठगाण गमो ॥ वृ- यस्तस्य द्रुमस्यस्वामी सोऽनुज्ञाप्यते । अथासी न स्वाधीनस्ततो अस्वाधीने तस्मिन 'वस्वायमवग्रहः सोऽनुजानीताम्' इति वक्तव्यम् । अथासौ द्रुमः क्रूरसुरपरिगृहीतस्ततो येपामगारिणां सस्कस्तेषामागन्तुमसौ न ददाति तत्र काणेष्टकागृहगमो मन्तव्यः, तं सुरं कायोत्सर्गेणाकम्प्य स्वाध्यायादि कुर्वन्तीति भावः ॥ तत्र चायं विधिः [भा. ४७७५ ] नेच्छंतेन व अन्ने, ईसालुसुरेण जं अनुन्नायं । तत्थ वि सो चेव गमो, सगारिपिंडम्मि मग्गणता ॥ वृ- ईष्यालुसुरेण 'अन्यान्' गृहिणोऽनिच्छता 'यद्' वृक्षमूलादिकं साधूनामनुज्ञातं तत्रापि ' स एव गमः' पूर्वानुज्ञापनावस्थानलक्षणो विज्ञेयः । नवरं तत्र स्थितानां सागारिकपिण्डस्य मार्गणा कर्त्तव्या ॥ तामेवाह [भा. ४७७६ ] जक्खो च्चिय होइ तरो, बलिमादीगिण्हणे भवे दोसा । सुविणे ओयरिए वा, संखडिकारावणमभिक्खं ॥ वृ- येन यक्षेण स द्रुमः परिगृहीतः स एव तत्र स्थितानां 'तरः' शय्यातरो भवति । ततो यत् तस्य बलिकूरादि निवेद्यते स शय्यातरपिण्ड इति कृत्वा तस्य ग्रहणे 'दोषाः' आज्ञाभङ्गादयो भवन्ति । यद्वा यक्षो वृक्षस्वामिनः स्वप्ने रात्रावतीर्ण कथयेत्-मामुद्दिश्य भूयोभूयः प्रकरणं विधेयं ततोऽहं न किमपि भणिष्यामि । एवमभीक्ष्णसङ्घडिकारापणे यत् तत्र भक्तं पानकं वा स शय्यातरपिण्ड इति कृत्वा परिहियते ॥ मू. (१०७) से वत्थूसु वावडेसु वोडेसु परपरिग्गहिएसु भिक्खुभावस्स अट्ठाएं दोघं पि उग्गहे अनुन्नवेयव्वे सिया अहालंदमवि उग्गहे ॥ [भा. ४७७७] सागारिगी उग्गहमग्गणेयं, स केच्चिरं वाकड मो कहं वा । इदान उग्गहमग्गणा उ, केणं विदिन्नो स कया कहं वा ।। वृ- 'सागारिकी' सागारिकसत्का तावदियमवग्रहमार्गणा प्रकृता । 'सच' सागारिकावग्रहः कियन्तं कालं कथं वा भवति ? इत्येतत् पूर्वसूत्रे 'व्याकृतं' व्याख्यातम्, “मो” इति पादपूरणे, इदानीं तु राजावग्रहस्य उपलक्षणत्वाद् देवेन्द्रावग्रहस्य च मार्गणा क्रियते, यथा-केन कदा कथं Page #86 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं - १०७, [भा. ४७७७ ]. ८३ वाऽसौ 'वितीर्ण' अनुज्ञातः ? इति । अनेन सम्बन्धेनायातस्यास्य व्याख्या- "से" तस्य निर्ग्रन्थस्य 'वास्तुषु' गृहेषु 'व्यापृतेषु' व्यापारयुक्तेषु वहमानकेष्वित्यर्थ 'व्याकृतेषु' दायादादिभिर्विभक्तेषु 'परपरिगृहीतेषु' अन्यवंशीयैरधिष्ठितेषु 'भिक्षुभावस्यार्थाय' भिक्षुभावो नाम ज्ञान-दर्शन- चारित्राणि तृतीयव्रतादिकं वा, तत्रैव भिक्षुशब्दस्य परमार्थत्वेन रूढत्वात्, स भिक्षुभावः परिपूर्णो भूयादित्येवमर्थं ये साधवः पश्चादागच्छन्ति तैर्द्वितीयमपि वारमवग्रहोऽनुज्ञापयितव्यः स्याद् 'यथालन्दमपि' जघन्यलन्दमात्रमपि कालमवग्रहे तत्रावस्थान इति सूत्रार्थ ॥ अथ भाष्यविस्तरः [भा. ४७७८ ] अणवट्ठिया तहिं होंति उग्गहा रायमादिणो चउरो । पासाणमिव लेहा, जा तित्थं ताव सक्कस्स ।। वृ- इह देवेन्द्रावग्रहादयः पञ्चावग्रहाः, 'तत्र' तेषां पञ्चानां मध्ये 'राजादयः' राजगृहपतिसागारिक-साधर्मिकसम्बन्धिनश्चत्वारोऽवग्रहा अनवस्थिता भवन्ति, भूयोभूयः परावर्तन्त इत्यर्थः । शक्रस्य पुनरवग्रहः पाषाण इव रेखा यावत् तीर्थं तावदेकवारमनुज्ञापितः सन्नुनुवर्त्तते । अथ यदुक्तम् “इदानि राउग्गहमग्गणा उ, केणं विदिनो स कया कहंव" त्ति तदेतन्निर्वाहयितुमाह[भा. ४७७९] सोऊण भरहराया, सव्विड्डी आगतो जिनसगासं । वंदिय नमंसिया नं, भत्तेण निमंतणं कुणइ ॥ वृ- अष्टापदे समवसृतं श्रीऋषभस्वामिनं श्रुत्वा भरतराजः साधूनामर्थाय पञ्च शकटशतानि भक्त - पनभृतानि गहीत्वा सर्वर्धया जिनसकाशमागतः । ततो भगवन्तं 'वन्दित्वा' स्तुत्वा 'नमस्कृत्य' शरसा प्रणम्य भक्तेन साधूनां निमन्त्रणं करोति ॥ भगवानाह - [भा. ४७८०] पीलाकरं वताणं, एवं अम्हं न कप्पए घेत्तुं । अणवज्जं निरुवहयं, भुंजंति य साहुणो भिक्खं ॥ वृ-अ -आधाकर्मा-ऽभ्याहृत-राजपिण्डदोषदुष्टतया व्रतानां पीडाकरमेतदस्माकम्, अतोन कल्पते ग्रहीतुम् । यतः 'अनवद्यां' प्राशुकां 'निरुपहताम्' एषणीयां साधवो भिक्षां भुञ्जते, नाप्राशुकामनेषणीयां वा ॥ [भा. ४७८१] तं वयणं सोऊणं, महता दुक्खेण अद्दितो भरहो । समणा अनुग्गहं मे, न करिंति अहो ! अहं चत्तो ॥ वृ- 'तद्' अनन्तरोक्तं वचनं श्रुत्वा भरतो महता मानसिकेन दुःखेनार्दितः सञ्जज्ञे । कथम् ? इत्याह- अमी श्रमणाः 'मे' ममानुग्रहं न कुर्वन्ति, अहो ! अहमेभिस्त्यक्त इति ॥ नाऊण तस्स भावं, देवेंदो तस्स जाणणट्ठाए । [भा. ४७८२ ] वंदिय नमंसया नं, पंचविहं उग्गहं पुच्छे || वृ-ज्ञात्वा 'तस्य' भरतस्य 'भावं' विषादात्मकं तस्यैव चावग्रहस्वरूपज्ञापनार्थं भगवन्तं वन्दित्वा नमस्कृत्य च नमिति वाक्यालङ्गारे पञ्चविधमवग्रहं पृच्छति ॥ ततश्च [भा. ४७८३] अट्ठावयम्मि सेले, आदिकरो केवली अमियनाणी । सक्करस य भरहस्स य, उग्गहपुच्छं परिकहेइ ॥ वृ- अष्टापदे शैले आदिकरः केवली अमितज्ञानी शक्रस्य च भरतस्य च पुरतोऽवग्रहपृच्छां परिकथयति ।। तद्यथा Page #87 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/१०७ [भा.४७८४] देविंद-रायउग्गह, गहवति सागारिए य साहम्मी। पंचविहम्मि परूविते, नायव्वं जंजहिं कमइ । वृ-देवेन्द्रावग्रहो राजावग्रहोगृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्चेति पञ्चधाऽवग्रहः । एतस्मिन् पञ्चविधे प्ररूपिते ज्ञातव्यं यद् 'यत्र' देवेन्द्रावग्रहादौ मनसा वचसा वा अवग्रहानुज्ञापनं 'क्रमते' अवतरतीति सङ्ग्रहगाथासमासार्थः। विस्तरार्थस्तुयथा पीठिकायां "हिहिल्ला उवरिल्लेहि बाहिया न तु लभंति पाहन्नं।" इत्यादिगाथाभिरभिहितस्तथैवात्रापि वक्तव्य इति ॥ [भा.४७८५] तंवयणं सोऊणं,देविंदो वंदिऊण तित्थयरं । वितरति अप्पणगे उग्गहम्मिजं साहुपाउग्गं॥ वृ-'तद्' अवग्रहप्रतिपादकं भगवतो वचनं श्रुत्वा देवेन्द्रस्तीर्थकरं वन्दित्वा यदात्मीयेऽवग्रहे साधूनां प्रायोग्यं सचित्तमचित्तं मिश्रं वा तत् तदानीं सर्वमपि वितरति, अनुजानातीत्यर्थः ॥ [भा.४७८६] सोउं तुट्ठो भरहो, लद्धो मए एत्तिओ इमो लाभो । वितरति जं पाउग्गं, केवलकप्पम्मि भरहम्मि। वृ-भरतोऽपि भगवतो वचनं श्रुत्वा 'तुष्टः' प्रमुदितः 'अहो! मयैतावान् लाभो लब्धः' इति परिभाव्य 'केवलकल्पे' सम्पूर्णेऽपि भरते यत् 'प्रायोग्य' साधूनामुचितं सचित्तादिकं तत् सर्वं वितरति ॥ [भा.४७८७] पंचविहम्मि परूविते, स उग्गहो जाणएण घेत्तव्यो। अन्नाणेणोग्गहिए, पायच्छित्तं भवे तिविहं । वृ-पञ्चविधेयऽवग्रहे प्ररूपिते सति सम्प्रति तात्पर्यमुच्यते-सस्वल्ववग्रहोजानता ग्रहीतव्यः। अथाज्ञानेनागृह्णाति अजानन्नित्यर्थ ततस्त्रविधं प्रायश्चित्तं भवति॥ [भा.४७८८] इक्कड-कढिणे मासो, चाउम्मासा य पीढ-फलएसु। कट्ठ-कलिंचे पनगं, छारे तह मल्लगाईसु॥ वृ-तद्यथा-इक्कडमये कठिनमये च संस्तारके लघुमासः, पीठ-फलकेषु चत्वारो मासा लघवः, काडे कलिच्चे वारे माल्लकादिषु च पञ्चकम् ॥ मू. (१०८) ते अनुकुड्डेसु वा अनुभित्तीसु वा अनुचरियासु अनुफरिहासु वा अनुपंथेसु वा अनुमेरासु वा सच्चेव उग्गहस्स पुव्वानुन्नवणा चिट्ठइ अहालंदमवि उग्गहे ॥ [भा.४७८९] जे चेव दोन्नि पगता, सागारिय-रायउग्गहा होति। तेसिं इह परिमाणं, निवोग्गहम्मी विसेसेणं ॥ वृ-यावेव द्वौ सागारिक-राजावग्रही पूर्वसूत्रयोः प्रकृतौतयोरेवेह सूत्रे परिमाणमुच्यते। तत्रापि नृपावग्रहेपरिमणं विशेषेणाभिधीयते॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-"से" तस्य निर्ग्रन्थस्य 'अनुकुडयेषुवा' कुड्यसमीवर्तिषु वा प्रदेशेषु, एवमनुभित्तिषुवाअनुचरिकासुवाअनुपस्विासु वाअनुपथेषुवा अनुमर्यादासुवा ।अत्र चरिका-नगर-प्राकारयोरपान्तराले हस्ताष्टक्रमाणोमार्ग, परिखाखातिका,मर्यादा-सीमा, शेषंप्रतीतम्। एतेषु सैवावग्रहस्यपूर्वानुज्ञापनातिष्ठति यथालन्दमपि कालमवग्रह इति सूत्रार्थ ॥अथ नियुक्तिविस्तरः [भा.४७९०] अनुकुड्डे भित्तीसुं, चरिया-पागापंथ-परिहासु । ww Page #88 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१०८, [भा. ४७९०] ___ अनुमेरा सीमाए, नायव्वं जंजहिं कमति॥ वृ-अनुशब्दः प्रत्येकमभिसम्बध्यते, अनुकुड्या-ऽनुभित्त्योरनुचरिका-प्राकारपथ-परिखासु च, “अनुमेरा सीमाए"त्ति मर्यादा-सीमा, ततो अनुमर्यादायामनुसीमायामित्येकोऽर्थः । एतेषु ज्ञातव्यं यद् यत्र सागारिक-राजाद्यवग्रहानुज्ञापनं क्रमते ॥ एनां नियुक्तिगाथां व्याख्यानयति[भा.४७९१] अनुकुथु उवकुटुं, कुड्डसमीवं व होइ एगटुं। एमेव सेसएसुवि, तेसि पमाणं इमं होइ । वृ-अनुशब्दस्य समीपार्थद्योतकस्वादनुकुड्यमुपकुड्यं कुड्यसमीपमिति वैकार्थम्। एवमेव 'शेषेष्वपि' अनुभितत्यादिषु पदेषुमन्तव्यम् । तेषाम्' अनुकुड्यादीनामवग्रहविषयमिदंप्रमाणं भवति ॥ [भा.४७९२] वति-भित्ति-कडगकुड्डे, पंथे मेराय उग्गहो रयणी। अनुपरियाए अड्डज उ, चउरो रयणीउ परिहाए । वृ-वृती-बबूलादिपरिक्षेपरूपायांभित्तौ-इष्टकादिनिर्मितायां कटकमयेच कुड्ये मथिमर्यादायां च 'रयणि'त्ति एकहस्तमानोऽवग्रहो भवति । अनुचरिकायामष्टौ हस्ताः । परिखायां चत्वारो रत्नयः । इदमेव भावयति[भा.४७९३] वतिसामिणो वतीतो, हत्थो सेसोग्गहो नरवतिस्स। तस्स तहिं ममकारो, जति विय निम्माणिजा भूमी॥ वृ-यो गृहपतिर्विवक्षिताया वृतेः स्वामी तस्य वृतेः परतो हस्तमात्रमवग्रहो भवति, शेषस्तु सर्वोऽपि नरपतेरवग्रहो मन्तव्यः ।अथ किं कारणं वृतिस्वामिनोवृतेः परतोऽप्यववग्रहो भवति? इत्याह-'तस्य' गृहपतेः 'तत्र' वृतेः परतो हस्तप्रमाणे भूभागे ममकारो भवति, अतो यद्यपि “निम्माणि"त्ति मूलपादानेव यावद् विवक्षितगृहसत्का भूमिस्तथापि वृतेः परतो हस्तमेकं तस्यावग्रहः। एवं भित्ति-कुड्यादिष्वपि भावनीयम् ॥ [भा.४७९४] हत्यं हत्थं मोत्तुं, कुड्डादीणं तु मज्झिमो रन्नो। जत्थ न पूर हत्थो, मज्झे तिभागो तहिं रनो। वृ-तेषामेव कुड्यादीनां हस्तं हस्तमुभयोरपि गृहयोर्मुक्त्वा मध्यमः सर्वोऽपि राज्ञोऽवग्रहः। यत्र तु गृहद्वयापान्तरालस्यातिस्तोकतया हस्तो न पूर्यते तत्र मध्यमस्त्रभागो राज्ञः, शेषौ द्वौ गृहस्वामिनोः; एतदवग्रहपरिमाणमुक्तम् । अत्र चोच्चारादीनि स्थान-निषदनादीनि वा कुर्वन् यदि कुड्यादीनांहस्ताभ्यन्तरेकरोतिततो गृहपत्यवग्रहोमनसि क्रियते, हस्ताबहिश्चरिकाप्राकारपरिखादिषु च राजावग्रहोऽनुज्ञाप्यते, अटव्यामपि यद्यसौ राजा प्रभवति तदा तस्यैवावग्रहः स्मर्यते, अथासौ तत्र न प्रभवति ततो देवेन्द्रावग्रहो मनसि क्रियते॥ मू. (१०९) से गामस्स वाजावरायहाणीए वा बहिया सेणं सन्निविट्ठ पेहाए कप्पइ निग्गंथाण वा निग्गंधीण वा तद्दिवसं भिक्खायरियाए गंतुं पडिएत्तए । नो से कप्पइ तं रयणिं तत्थेव उवाइणावित्तए । जो खलु निग्गंथो वा निग्गंथी वा तं रयणिं तत्येव उवाइणाइ, उवातिनंतं वा साइज्जति, से दुहतो विअइक्कममाणे आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥ वृ-अस्य सम्बन्धमाह Page #89 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/१०९ [भा.४७९५] उवरोहभया कीरइ, सप्परिखो पुरवरस्स पागारो। तेनर सेणासुत्तं, अनुअत्तइ उग्गहो जंच॥ वृ-पूर्वसूत्रे प्राकारः प्राकारपरिखा चोक्ता । स च प्राकारः सपरिखोऽपि पुरवरस्योपरोधःपरचक्रेण वेष्टनं तद्भयात् क्रियते । तेन कारणेन "र" इति पादपूरणे सेनासूत्रमिदमारभ्यते । यच्चावग्रहः पूर्वसूत्रेभ्यः अनुवर्तते, अव्यवच्छिन्न एवागच्छन्नस्तीति भावः, अतो यथा रोधके राजावग्रहमनुज्ञाप्य बहिर्निर्गम्यते प्रविश्यते वा तथाऽभिधीयते॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-सेशब्दोऽथशब्दार्थे । अथ ग्रामस्य वा यावद् राजधान्या वा, यावत्करणाद् नगरस्य वा खेटस्य वा इत्यादिपरिग्रहः, एतेषामन्यतरस्य बहि ‘सेनां राज्ञः स्कन्धावारंरोधकं कृत्वा सन्निविष्टं 'प्रेक्ष्य' दृष्ट्वा कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तद्दिवसं भिक्षाचर्यायां गत्वा प्रत्यागन्तुम् । "नो" नैव "से" तस्य विवक्षितस्य भिक्षोः कल्पते तां रजनीं 'तत्रैव' सेनायाम् ‘उपादातुम्' अतिक्रामयितुम् । यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा तां रजनीं तत्रैवोपाददाति उपाददतं वा स्वादयति सः 'द्विधाऽप्यतिक्रामन्’ जिनसीमानं राजसीमानं च विलुम्पन् आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकमिति सूत्रार्थः ॥अथ भाष्यविस्तरः[भा.४७९६] सेनादी गम्मिहिई, खित्तुप्पायं इमं वियाणित्ता। ___असिवे ओमोयरिए, भय-चक्काऽमिग्गमे गुरुगा॥ वृ. क्वचित् मासकल्पक्षेत्र स्थितैतिम्-सेना-परचक्रमत्र समायास्यति, आदिशब्दाद् अशिवमवमौदर्य म्लेच्छादिभयं वा भविष्यति । एवमादौ कारणे पश्चादपि गमिष्यत इति कृत्वा अनागतमेव ततः क्षेत्राद् निर्गन्तव्यम् । कथं पुनरनागतं तद् ज्ञायते ? इत्याह-क्षेत्रस्योत्पातः क्षेत्रोत्पातः-परचक्राद्युपद्रवसूचकानि लिङ्गानीत्यर्थः, तानि च दिक्चक्रवालं धूमायते, अकाले तरूणांपुष्प-फलानि जायन्ते, महताशब्देन भूमि कम्पते, समन्ततःक्रन्दित-कूजितशब्दाः श्रूयन्ते इत्यादीनि मन्तव्यानि । एवं क्षेत्रोत्पातममुं विज्ञाय निर्गन्तव्यम् । अथ न निर्गच्छन्ति ततः अशिवे अवमौदर्ये बोधिकभये परचक्रागमने ज्ञातेऽपि निर्गमनकुर्वतां चतुर्गुरुकाः ।। [भा.४७९७] आणाइणो य दोसा, विराधना होइ संजमा-ऽऽयाए। असिवादिम्मि परुविते, अधिकारो होति सेनाए॥ वृ- आज्ञादयश्च दोषाः विराधना च संयमा-ऽऽत्मविषया भवति । संयमविराधना शुद्ध भक्तपानेऽलभ्यमानेऽनेषणीयं गृह्णीयादित्यादिका, आत्मविराधना, परिताप-महादुःखादिका। यदा चाशिवादिकं प्रतिपदं प्ररूपितं भवति तदाअत्र सेनायाअधिकारः कर्तव्यः । अशिवादिकं च प्रथमोद्देशकेऽध्वसूत्रे सप्रपञ्चं प्ररूपितमिति नेह भूयः प्ररूप्यते ॥ तच परचक्रागमनं यथा ज्ञायते तथा दर्शयति[भा.४७९८] अतिसेस-देवत-निमित्तमादि अतिवह पविति सोतूणं। निग्गमन होइ पुव्वं, अमागते रुद्ध वोच्छिन्ने । वृ-अवधिज्ञानाधतिशयेन स्वयमेव ज्ञातम्, अपरेण वा अतिशयज्ञानिना पृष्टेन कथितम्, देवतया वा कयाचिदाख्यातम्, अविसंवादिना वा निमित्तेनावगतम्, आदिग्रहणेन विद्यामन्त्रादिपरिग्रहः, अथवा प्रवृत्ति-वार्ता तामवितां श्रुत्वा, ततः क्षेत्रात् पूर्वमेव निर्गमनं कर्तव्यं भवति। Page #90 -------------------------------------------------------------------------- ________________ उद्देशक ः३, मूलं-१०९, [भा. ४७९८] अथानागतं न ज्ञातम् सहसैव तन्नगरं रुद्धं पन्थानो व्यवच्छिन्नास्ततो न निर्गच्छेयुरपि॥ अथवा अमीभि कारणैतिऽपि न निर्गता भवेयुः- [भा.४७९९] गेलन रोगि असिवे, रायडुढे तहेव ओमम्मि। उवही-सरीरतेनग, नाते वि न होति निग्गमनं ।। वृ-'ग्लानः' ज्वरादिपीडितः कश्चिदस्तितत्प्रतिबन्धेन गन्तुंन शक्यते, “रोगि"त्तिदुष्टरोगेण कुष्ठादिना कश्चिदत्यन्तमभिभूतः स परित्युक्तं न पार्यते, बहिर्वा अशिवं राजद्विष्टमवमौदर्यं च विद्यते, उपधिस्तेनाः शरीरस्तेना वा बहिर्गच्छत उपद्रवन्ति, एतैः कारणैतेिऽपिपरचक्रागमने निर्गमनं न भवति॥ [भा.४८००] एएहि य अन्नेहि य, न निग्गया कारणेहि बहुएहिं । ___ अच्छंति होइ जयणा, संवट्टे नगररोधे य॥ वृ- एतैरन्यैश्च बहुभिः कारणैर्न निर्गता भवेयुः ततस्तत्रैव सन्तिष्ठतां संवर्ते नगररोधके च यतना वक्तव्या । संवतॊ नाम-परचक्रागमनं श्रुत्वा यत् पर्वत-जल-दुर्गादिषु बहूनां ग्रामाणां जनः संवर्तीभूयैकत्र तिष्ठति । नगररोधकः प्रतीतः । तत्र संवर्ते यतनामाह[भा.४८०१] संवट्टम्मि तु जयणा, भिक्खे भत्तट्ठणाए वसहीए। तम्मि भये संपत्ते, अवाउडा एक्कओ ठंति।। वृ-संवर्ते तिष्ठतां 'भैक्षे' भक्तार्थनायां वसतौ च यतना कर्त्तव्या । तस्मिंश्च' परचक्रलक्षणे भये सम्प्राप्तेऽपावृता एकतस्तिष्ठन्तीति नियुक्तिगाथासमासार्थ ।। साम्प्रतमेनामेव विवृणोति[भा.४८०२] वईयासु व पल्लीसु व, भिक्खं काउं वसंति संवट्टे। सव्वम्मि रज्जखोभे, तत्थेव य जाणि थंडिल्ले ॥ वृ-संवर्तेऽभिनवसन्निविष्टतया सचित्तः पृथिवीकायो भवतीति कृत्वा भइक्षां न हिण्डन्ते किन्तु पूर्वस्थितासु व्रजिकासु वा पल्लीषु वा भिक्षां कृत्वा तत्रैव स्थण्डिले भुक्त्वा रात्रौ संवर्ते समागत्य वसन्ति । अथ सर्वस्यापि राज्यस्य क्षोभः ततो वजिकादिकमपि नास्ति तदा 'तत्रैव' संवर्ते यानि कुलानि स्थण्डिले स्थितानि तेषु भिक्षां हिण्डन्ते ॥ अथ न सन्ति स्थण्डिले स्थितानि तत इयं यतना[भा.४८०३] पूवलिय-सत्तु-ओदनगहणं पडलोवरिं पगासमुहे। सुक्खादीण अलंभे, अजविंता वा विलक्खेति ।। वृ-जगारि-तक्र-तीमनादौ आर्दै प्रपतति पृथिवीकायविराधना भवेदिति मत्वा याः पूपलिका ये च सक्तवो यश्च शुष्कौदन एवमादिकं शुष्कद्रव्यं पटलोपरिस्थिते प्रकाशमुखे भाजने गृह्णन्ति। अथ.शुष्कादीना लाभो न भवति आदिशब्दः स्वगतानेकमेदसूचकः, न वा तैरात्मानं यापयन्ति तत आर्द्रण गृह्यमाणेन यत्र पटलकादौ खरण्टको लग्नस्तं सम्यग् लक्षयन्ति ।। गतं भिक्षाद्वारम् । अथ भक्तार्थनाद्वारमाह[भा.४८०४] पच्छन्नासति बहिया, अह सभयं तेन चिलिमिणी अंतो। असतीय व सभयम्मि व, धरंति अद्धेयरे भुंजे ॥ [भा.४८०४] पच्छन्नासति बहिया, अह सभयं तेन चिलिमिणी अंतो। Page #91 -------------------------------------------------------------------------- ________________ ८८ बृहत्कल्प-छेदसूत्रम् - ३-३/१०९ असतीय व सभयम्मि व, धरंति अद्धेयरे भुंजे । वृ- संवर्त्तस्यान्तः प्रच्छन्ने प्रदेश भक्तार्थनं कर्त्तव्यम् । अथान्तः प्रच्छन्नं नास्ति ततः संवर्तस्य बहिर्गत्वा समुद्देष्टव्यम् । अथ बहि सभयं ततः 'अन्तः' संवर्त्तस्याभ्यन्तर एव चिलिमिलिकां दत्त्वा भोक्तव्यम् । अथ नास्ति चिलिमलिका समये वा सा न प्रकटीक्रियते ततो अर्द्ध साधवो भाजनानि धारयन्ति, 'इतरे' द्वितीया अर्द्ध कमठकेषु भुञ्जते ॥ [भा. ४८०५ ] काले अपहुचंते, भए व सत्ये व गंतुकामम्मि । कप्पुवरि भायणाई, काउं इक्को उ परिवेसे ॥ वृ- अथ वारकेण भुञ्जानानां कालो न पूर्यते, भये वा त्वरितं भोक्तव्यम्, यो वा संवर्ते सार्थः स गन्तुकामस्ततः कल्पस्योपरि भाजनानि 'कृत्वा' स्थापयित्वा सर्वेऽपि कमठकादिषु भुञ्जते एकश्च तेषां सर्वेवामपि परिवेषयेत् ॥ । [भा. ४८०६ ] पत्तेग बहुगासति, सज्झिलगादेक्कओ गुरू वीसुं । ओमेन कप्पकरणं, अन्नो गुरुनेक्कतो वा वि ॥ वृ- प्रत्येकं यदि सर्वेषां 'वड्डुकानि' कमठकानि न सन्ति ततो ये 'सज्झिल्लकाः ' परस्परं सहोदरा भ्रातरः, आदिशब्दाद् अन्येऽपि ये प्रीतिवशेनैकत्र मिलन्ति ते एकतः समुद्दिशन्ति, गुरवः 'विष्वक्' पृथग् भुञ्जते । यदा सर्वेऽपि भुक्तास्तदा यस्तत्र 'अयमः' लघुस्तेन कमठकानां कल्पकरणं विधेयम्, गुरूणां सत्कं कमढकं तैः सह न मील्यते । अन्यस्तस्य कल्पं प्रयच्छति । अपूर्यमाणेषु च साधूनां गुरोश्च कमढकान्येकतोऽपि कल्पयन्ति ॥ [ भा. ४८०७ ] भाणस्स कप्पकरणं, दहिल्लग मुत्ति कडुयरुक्खे य । तेसऽसति कमढकप्पर, काउमजीवे पदेसे य ।। वृ- भाजनस्य कल्पकरणं दग्धभूमिकायां गोमूत्रभाविते वा भूभागे कटुकवृक्षस्याधस्ताद्वा कर्त्तव्यम् । ‘तेषां’ दग्धादिस्थण्डिलानामभावे कमढकेषु घटादिकपरे वा भाजनस्य कल्पं कृत्वा तत् कल्पपानकमन्यत्र नीत्वा स्थण्डिले परिष्ठापयन्ति, गते वा संवर्त्ते पश्चात् परिमलितजीवप्रदेशेषु परिष्ठाप्यम् । समये वा त्वरमाणाः स्थण्डिलस्य वा अभावे 'धर्माऽधर्मास्तिकायसम्बन्धिषु अजीवप्रदेशेषु परिष्ठापयामः' इति बुद्धिं विधाय अस्थण्डिले परिष्ठापयन्ति ।। गतं भक्तार्थनद्वारम् । वसतिद्वारमाह [भा. ४८०८] गोणादीवाघाते, अलब्भमाणे व बाहि वसमाणा । वातदिसि सावयभए, अवाउडा तेन जग्गणता ॥ वृ- संवर्त्तस्यान्तो निराबाधे परिमलिते प्रदेशे वसन्ति । अथ तत्र गवादिभिरितस्ततस्तडफडायमानैव्यार्घातो यद्वा तत्र प्राशुकप्रदेशो न लभ्यते ततो बहिर्वसन्तो यतो घाटिभयं तं भूभागं वर्जयित्वा वसन्ति । अथ तत्र श्वापदभयं ततो यस्यां दिशि वातस्तां वर्जयन्ति । येन च परचक्रमयेन तत्र संवर्त्ते प्रविष्टद्यस्तस्मिन् प्राप्ते सर्वमुपकरणं गुपिले प्रदेशे स्थापयित्वा स्वयमेकतोऽन्यत्र प्रदेशेऽपावृताः कायोत्सर्गेण तिष्ठन्ति स्तेरक्षणार्थं च वारकेण रजनीं सकलामपि जायते ॥ अथ कस्मादपावृतास्तिष्ठन्ति ? इत्याह [भा. ४८०९] जिनलिंगमप्पडिहयं, अवाउडे वा वि दिस्स वज्रंति । Page #92 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं - १०९, [ भा. ४८०९] ८९ थं भणि-मोहनिकरणं, कडजोगे वा भवे करणं ॥ वृ- अचेलतालक्षणं जिनलिङ्गमप्रतिहतम्, एवंस्थितानां न कोऽप्युपद्रवं करोतीति भावः । अथवा ते स्तेना अपावृतान् दृष्टवा स्वयमेव एवंस्थितानां न कोऽप्युपद्रवं करोतीति वा तेषां स्तम्भन - मोहने कुर्वन्ति । यो वा 'कृतयोगः' सहप्रयोती तेन तादृशे आकम्पे गच्छसंरक्षणार्थं ‘करणं' शिक्षणं तेषां विधेयम् ॥ गतं संवर्त्तद्वारम् । अथ नगररोधकद्वारमाहसंवट्टनिग्गयाणं, नियट्टणा अट्ठ रोह जयणाए । वसही - भत्तट्ठणया, थंडिल्लविगिंचणा भिक्खे || [भा. ४८१० ] " वृ- ये मासकल्पप्रायोग्यात् क्षेत्रान्निर्गत्य संवर्त्ते स्थितास्ते संवर्त्तनिर्गता उच्यन्ते तेषां तत्र स्थितानामवस्कन्दादिभयेन भूयोऽपि संवर्त्ताद् नगरं प्रति निवर्तना भवति । यद्वा ग्लानादिभिः कारणैः प्रथममेव नगरान्न निर्गतास्ततो नगरे वसतामष्टौ मासान् रोधके यतनया वस्तव्यं भवति । सा च यतना वसति भक्तार्थन स्थण्डिलविवेचन - भैक्षविषया कर्त्तव्या ॥ तत्र वसतियतनां तावदाह[ भा. ४८११] हानी जावेट्ठा, दो दारा कडग चिलिमिणी वसभा । तं चैव एगदारे, मत्तग सुवणं च जयणाए । वृ-रोधके तिष्ठद्भिरष्टौ वसतयः प्रत्युपेक्षणीयाः, तासु प्रत्येकमृतुबद्धे मासं मासमासितव्यम् । अष्टानामलाभे सप्त, एवं हान्या तावद् वक्तव्यं यावत् संयतानां संयतीनां च "एगट्ठ "त्ति एकैव वसतिर्भवति । तत्रैकस्यां वसतौ स्थितानां द्वे द्वारे भवतः, अपान्तराले कटकं चिलिमिलिकां वा वृषभाः कुर्वन्ति । अथ द्वारद्वयं न भवति तत एकद्वारेऽपि तमेव विधिं कुर्वन्ति । कायिकाभूमेश्चाभावे मात्रकेण यतन्ते, यतनया च स्वपनं कुर्वन्तीति नियुक्तिगाथासमासार्थः ॥ अथ भाष्यकार एनामेव विवृणोति [भा. ४८१२] रोहेउ अट्ठ मासे, वासासु सभूमि तो निवा जंति । परबलरुद्धे वि पुरे, हाविंति न मासकप्पं तु ॥ वृ- अष्टौ ऋतुबद्धिकान् मासान् 'रोधयित्वा' रोधं कृत्वा तोत वर्षासु नृपाः 'खभूमिम्' आत्मीयराज्यभुवं गच्छन्ति । साधवश्च रोधके वसन्तः परबलरुद्धेऽपि पुरे मासकल्पं न हापयन्ति किन्तु तत्र प्रथमत एवाष्टौ वसतयोऽष्टौ भिक्षाचर्या प्रत्युपेक्षणीयाः ।। अथाष्टौ न प्राप्यन्ते ततः[भा. ४८१३] भिक्खस्स व वसहीय, व असती सत्तेव चउरो आवेक्का । भाभे एक्केक गस्स नेगा उ संजोगा ।। वृ- भैक्षस्य वा वसतेर्वा असति सप्त प्रत्युपेक्षणीयाः । तदप्राप्तौ षडादिपरिहाण्या चतस्रो यावदेकाऽपि प्रत्युपेक्षणीया । किमुक्तं भवति ? - वसतयो भिक्षाचर्याश्च यद्यष्टौ न प्राप्यन्ते तत एकैकपरिहाण्या यावदेका वसतिरेका भिक्षाचर्या । अत्र चैकैकस्या लाभेऽलाभे चानेके संयोगा भवन्ति । तथाहि - अष्टौ वसतयो अष्टौ भिक्षाचर्या १, अष्टौ वसतयः सप्त भिक्षाचर्या २, अष्टौ वसतयः षड् भिक्षाचर्या ३, एवं यावदष्टौ वसतय एका भिक्षाचर्या, एवमष्टौ भङ्गा भवन्ति, एते च वसतेरष्टकममुञ्चता लब्धाः, सप्तकादिभिरप्येककपर्यन्तैरेवमेवाष्टावष्टौ भङ्गा लभ्यन्ते, सर्वसङ्ख्यया भङ्गकानां चतुःषष्टिरुत्तिष्ठते । चतुःषष्टितमश्च भङ्गक एका वसतिरेका भिक्षाचर्येतिलक्षणः । सा Page #93 -------------------------------------------------------------------------- ________________ ९० बृहत्कल्प - छेदसूत्रम् - ३-३/१०९ चैका वसति संयतानां संयतीनां संयतीनां च पृथग् भवति । अथोभयेषामपि योग्या वसति प्रत्येकं नावाप्यते तत एकत्रापि वस्तव्यम्, तत्र यतनामाह [भा. ४८१४] एगत्य वसंताणं, पिहद्दुवाराऽसतीय सयकरणं । मज्झेण कडग चिलिमिणि, तेसुभयो थेर खुड्डीतो ॥ वृ- संयतानां संयतीनां च एकत्र वसतौ वसतामियं यतना-यदि चतुःशलादिकं पृथग्द्वारं तद् गृहं तदा तत्रान्तरे कटकं चिलिमिलीं वा दत्त्वा तिष्ठन्ति । पृथग्द्वारस्याभावे “सयकरणं" ति स्वयमेव कुड्यं छित्त्वा द्वितीयं द्वारं कर्त्तव्यम् । गृहमध्ये च कुड्याभावे कटश्चिलिमिलिका वा दातव्या । 'तयोश्च' कटस्य चिलिमिलिकाया वा आसन्नयोरुभयोः पार्श्वयोर्मध्यादेकस्मिन् स्थविराः साधवो द्वितीये च क्षुल्लिकाः संयत्यो भवन्ति । एतच्चाग्रे व्यक्तीकरिष्यते ॥ अथ "तं चेव एगदारे" त्ति पदं व्याख्याति [भा. ४८१५] दारदुयस्स तु असती, मज्झे दारस्स कडग पुत्ती वा । निक्खम पवेसवेला, ससद्द पिंडेण सज्झातो ॥ वृ-यदि द्वारद्वयं न भवति स्वयं च पृथग् द्वारं कर्तुं न लभ्यते ततस्तस्यैकद्वारस्य मध्ये कटकं 'पोतिकां वा' चिलिमिलीं दत्त्वा द्विधा विभजनं विधेयम् । तत्रार्द्धेन साधवो निर्गच्छन्ति अर्द्धेन संयत्य इति । अथ सङ्कीर्णा सा वसतिर्न वा विभक्तुं लभ्यते ततः परस्परं निर्गमप्रवेशवेलां वर्जयन्ति, यस्यां वेलायां संयता निर्गच्छन्ति तस्या न संयत्य इति । निर्गच्छन्तश्च शब्दं कुर्वन्ति, पिण्डेन च स्वाध्यायं कुर्वन्ति, शृङ्गारकथां न कुर्वन्ति, न वा पठन्ति ॥ अथ "स्वपनं च यतनया" इति पदं व्याचष्टे [ भा. ४८१६] अंतम्मि व मज्झम्मि व, तरुणी तरुणा य सव्वबाहिरतो । मज्झे मज्झिम थेरी, खुड्डी खुड्डा य थेरा य ।। वृ- यास्तरुण्यस्ता अन्ते वा मध्ये वा भवन्ति, तरुणास्तु सर्वबाह्यतः कर्त्तव्याः, ततो मध्ये मध्यमाः स्थविराः क्षुल्लिकाश्च साध्व्यः, ततः क्षुल्लकाः स्थविराः चशब्दाद् मध्यमास्तरुणाश्च भवन्तीत्यक्षरार्थः । भावार्थस्तु वृद्धविवरणादवगन्तव्यः । तच्चेदम्-तरुणीओ अंते वा ठविनंति मझे वा । तत्थ अंते ताव भन्नइ - एगम्मि अंते तरुणीओ ठविनंति, तासिं आरतो मज्झिमातो, तासिं आरतो थेरीओ, तासिं आरतो खुड्डीतो, खुड्डीणं आरतो थेरा, थेराणं आरतो खुड्डा, तेसिं बाहिं मज्झिमा, तेसिं परिखेवेण तरुणा, एसा रत्तिं वसंताणं जयण त्ति ॥ अथ मात्रकपदं व्याख्याति[भा. ४८१७] पत्तेय समण दिक्खिय, पुरिसा इत्थी य सव्वे एकत्था । पच्छन्न कडग चिलिमिणि, मज्झे वसभा य मत्तेणं ॥ वृ- यत्रोपाश्रयाणामल्पतया राजकीय आदेशो भवेत् ये केचित् पाखण्डिनस्ते सर्वेऽप्येकत्रावतिष्ठन्तामिति । तत्र यदि 'प्रत्येकाः ' स्त्रवर्जिताः 'श्रमणाः' निर्ग्रन्थ- शाक्यादयो दीक्षितपुरुषाः सर्वेऽप्येकस्यां वसतौ स्थिताः याश्च पाखण्डिन्यः स्त्रयस्ता अपि सर्वा एकत्र स्थितास्तत इयं यतना-यः प्रच्छन्नः प्रदेशस्तत्र साधुभिः साध्वीभिश्च स्थातव्यम्, प्रच्छन्नस्याभावे मध्ये कटकं चिलिमिलिकां वा वृषभाः कुर्वन्ति, कायिकाभूमेरभावे दिवा रात्रौ च मात्रकेण वृषभा यतन्ते ॥ [भा. ४८१८] पच्छन्न असति निण्हग, बोडिय भिच्छय असोय सोया य । Page #94 -------------------------------------------------------------------------- ________________ उद्देशकः ३, मूलं-१०९, [भा. ४८१८] पउरदव वडगादी, गरहा यसअंतरं एक्को । वृ-प्रच्छन्नस्य कटक-चिलिमिलिकयोश्चाभावेनिह्नवेषु तिष्ठन्ति, तदभावे बोटिकेषु, तदप्राप्ती भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु, ततः शौचवादिषु ।शौचवादिषुच स्थिता आचमनादिषु क्रियासुप्रचुरद्रवेण कार्यं कुर्वन्ति, वड्डकम्-कमढकं तत्र भुञ्जते, आदिशब्दाद् अपरेणापि येन ते शौचवादिनो जुगुप्सां न कुर्वन्ति तस्य परिग्रहः । एवं प्रवचस्य गर्हा परिहता भवति । सान्तरं चोपविष्टा भुञ्जते । “एगो" त्ति एकः क्षुल्लकादि कमढकानां कल्पं करोति ॥ अथ “पत्तेय समण दिक्खिय" ति पदं व्याख्याति[भा.४८१९] पासंडीपुरिसाणं, पासंडित्थीण वा विपत्तेगे। पासंडित्थि-पुमाणं, व एक्कतो होतिमा जयणा ।। वृ-पाषण्डिपुरुषाणांपाषण्डिस्त्रीणांवाप्रत्येकं स्थितानांपाषण्डिस्त्री-पुरुषाणामेकतः स्थितानां वा इयं यतना भवति ॥ [भा.४८२०] जेजह असोयवादी, साधम्मी वा वि जत्थ तहि वासो। निहुया य जुद्धकाले, न बुग्गहो नेव सज्झाओ ।। वृ-ये यथा अशौचवादिनो ये च जीवादिपदार्थास्तिक्यवादित्वेन कारुणिकत्वेन च साधूनां साधर्मिकाः ‘तेषु तेषां मध्ये साधुभिर्वासः कर्तव्यः । यदा च तत्र द्वयोरपि सैन्ययोर्युद्धकालो भवति तदा 'निभृताः' निव्यापारा भवन्ति । इदमेव व्याचष्टे-'न विग्रहः' स्वपक्षेण परपक्षण वा सह कलहोन कर्त्तव्यः, नैवच तदानीं स्वाध्यायोविधेयः।।गता वसतियतना। भक्तार्थनयतनाऽपि “पउरदव वडगाई" इत्यादिना अत्रैवौक्ता । अथ स्थण्डिलयतनामाह[भा.४८२१] तंचेव पुव्वभणितं, पत्तेयं दिससमाणे कुरुया य । थंडिल्ल सुक्ख हरिए, पवायपासे पदेसेसु॥ वृ-स्थण्डिलं तदेवपूर्वभणितं “अनावायमसंलोए" इत्यादिना यथा पीठिकायामुक्तंतथैवात्रापि मन्तव्यम्। प्रथमस्थण्डिलालाभेशेषेषुगच्छतांप्रत्येकंमात्रकग्रहणं भवति, सागारिकेणच दृश्यमाने कुरुकुचा कर्त्तव्या । एवं बहि स्थण्डिले लभ्यमाने यतना । अथ बहिर्न लभ्यते निर्गन्तुं ततो यद् नगराभ्यन्तरे स्थण्डिलमनुज्ञातंतत्र यानि तृणानि शुष्काणि तेषुव्युत्सृजति, तेषामभावेदरमलितेषु मिश्रेषु, तदप्राप्तौ हरितेषु सचित्तेष्वपिव्युत्सृजति ।अत्रच प्रत्येका-ऽनन्त-स्थिरा-ऽस्थिरादियतना सर्वाऽपि कर्तव्या यथा ओघनियुक्तौ भणिता । अथ प्रपाते गर्तायां नदीतटे प्रकारोपरि वा राज्ञाऽनुज्ञातं तत एतेषां पार्वे व्युत्सृजति । यदि सर्वथैव स्थण्डिलं न लभ्यते अधशच भूमिं न पश्यति ततो धर्म-ऽधर्मादिप्रदेशेष्वपि व्युतसृजन् शुद्धः ।। अथ “पत्तेयं दिस्समाणे कुरुया य"ति पदं व्याख्याति[भा.४८२२] पढमासइ अमणुन्नेतराण गिहियाणे वा वि आलोगं । पत्तेयमत्त कुरुकुय, दवं च पउरं गिहत्थेसुं॥ [भा.४८२३] तेन परं पुरिसाणं, असोयवादीण वच्च आवातं । इत्थी-नपुंसकेसु वि, परम्मुहो कुरुकुया सेव ।। वृ-गाथाद्वयमपि पीठिकायां व्याख्यातम् ॥ Page #95 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-३/१०९ एषा उच्चारयतना भणिता। अथ शरीरविवेचनयतनामाह[भा.४८२४] पच्छन्न पुव्वभणियं, विदिन्न थंडिल्ल सुक्ख हरिए य। ___अगड वरंडग दीहिय, जलणे पासे पदेसेसु॥ वृ- यद्यसौ कालगतः साधुस्तत्र केनापि न ज्ञातस्ततोऽन्तर्मुहूर्तप्रमाणे उपयोगकालेऽतीतेऽन्यलिङ्गं कृत्वा 'प्रच्छन्नम्' अल्पसागारिकंस्थण्डिलेपरिष्ठाप्यते।अथज्ञातस्तदा "पुव्वभणिय"त्ति यदि नगराद् निर्गमो न लभ्यते प्रत्यपायो वा निर्गतानां भवति ततो नगराभ्यन्तरे पूर्वम्-इहैव मासकल्पप्रकृते पारिष्ठापनिकानिर्युक्तौ वा यो भणितो विधिस्तेनोपाश्रयादपरदक्षिणस्यां दिशि परिष्ठापयन्ति।अथ तस्यां न लभ्येततो राज्ञा 'वितीर्णम्' अनुज्ञातंयत्स्थण्डिलंतत्र परिष्ठापयन्ति। अथस्थण्डिले हरितानि भवन्तिततः शुष्कतृणेषु, तदभावेमिश्रेषु, तदप्राप्तौहरितेष्वपि परिष्ठापयन्ति। अथ राज्ञाऽभिहितम्-सर्वैरपि पाखण्डिभि 'अगडे' गर्तायां शबंपरित्यक्तव्यम्, प्राकारवरण्डके वा दीर्धिकायांवा नद्यां वा वहन्त्यां ज्वलने वा ज्वलति प्रक्षेप्तव्यं तत एतेषां पाइँपरिष्ठापयन्ति। अथ न लभ्यते पार्श्वतः परित्यक्तुंततः 'धर्मास्तकायादिप्रदेशेषु परिष्ठापयामि' इति बुद्धिं कृत्वा तत्रैव प्रक्षिपन्ति॥ अथ राज्ञा वितीर्णे स्थण्डिले परिष्ठापयतां विधिमाह[भा.४८२५] अन्नाए परलिंग, उवओगद्धं तुलेत्तु मा मिच्छं। . नाते उड्डाहो वा, अयसो पत्यारदोसो वा॥ - वृ-यद्यसौ तत्राज्ञातस्तदा परलिङ्गं क्रियते, तच्च उपयोगाद्धाम् अन्तर्मुहूर्तलक्षणां तोलयित्वा' प्रतीक्ष्य कर्तव्यम्, मा मिथ्यात्वं गमिष्यतीति कृत्वा । यो जनज्ञातस्तत्र परलिङ्गं न क्रियते, मा उड्डाहो भवेत् । उड्डाहो नाम-एते मायावन्तः पापाचाराः परोपघातकारिणश्चेति । इत्थं तेषामुड्डाहे जायमानेप्रवचनस्याप्ययशः प्रवादोभवति प्रस्तारदोषश्च कुल-गण-सङ्घविनाशलक्षणउपजायते। एतद्दोषपरिहरणार्थं स्वलिङ्गेनैव परिष्ठाप्यते ॥अथ भिक्षाद्वारमाह[भा.४८२६] न वि को वि कंचि पुच्छति, नितमनितंव अंतो बाहिं वा। आसंकिते पडिसेहो, निकारण कारणे जतणा॥ वृ-यत्र रोधके 'अन्तः' नगराभ्यन्तराद् बहिर्निर्गच्छन्तंबहि-कटकाद्वा नगरान्तः प्रविशन्तंन कोऽपि कञ्चित् पृच्छति तत्र स्वेच्छया बहिरन्तर्वा भिक्षामटन्ति । यत्र पुनराशङ्कितं-क एषः? कुतो वा आगतः ? मैष बहिर्गतः सन् किमपि कथयिष्यति किमर्थं वा निर्गच्छति ? ईशे आशङ्किते निष्कारणे 'प्रतिषेधः' न गन्तव्यम् । कारणेतुयतना वक्ष्यमाणा भवति । इदमेव भावयति[भा.४७२७] पउरन्न-पानगमने, चउरोमासा हवंतऽनुग्घाया। सो त इयरे य वत्ता, कुल गण संघे यपत्थारो॥ वृ-प्रचुरान्न-पानेलभ्यमाने यदिबहिर्गच्छति तदाचत्वारोमासा अनुद्धाता भवन्तिआज्ञादयश्च दोषाः । तेन साधुना 'सः' स्वकीयआत्मा इतरेच' अभ्यन्तरवर्तिनः साधवः परित्यक्ता भवन्ति। तत्र स बहि सैन्ये गतः सन् पृच्छयमानोऽपि यदा किमपि नाख्याति तदा 'चारिकोऽयम्' इति मत्वा गृह्यते, अभ्यन्तरवर्तिनस्तु अमीषांप्रव्रजितो निर्गतस्तेन भेदः प्रदत्तः' इति कृत्वा गृह्यन्ते। Page #96 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१०९, [भा. ४८२७] एवं च कुल-गण-सङ्घप्रस्तारोऽपि राज्ञा क्रियेत ततो निष्कारणे न गन्तव्यम् ॥ [भा.४८२८] अंतो अलब्ममाणे, एसणमाईसु होति जइतव्वं । जावंतिए विसोधी, अमच्चमादी अलाभे वा॥ वृ-'अन्तः' मध्ये प्राशुकैषणीयेऽलभ्यमाने पञ्चकपरिहाणिक्रमेणैषणादिषु दोषेषुनगराभ्यन्तर एव यतितव्यम्, यावद् यावन्तिकादिरूपेषु विशोधिकोटिदोषेषु यतमानश्चतुर्लघुप्राप्तो भवति । तथाप्यलम्भेऽमात्यं आदिशब्दाद् दानश्राद्धादीन् वा प्रज्ञापयन्ति । ते यद्यविशोधिकोटिदोषैर्दुष्टं प्रयच्छन्ति तदा तदपि गृह्यते, न पुनर्बहिर्गन्तव्यम् ॥अथ तथापि न लभ्यते ततः[भा.४८२९] आपुच्छित आरक्खित, सेट्ठी सेनावती अमञ्च रायाणं। निग्गमन दिगुरूवे, भासा य तहिं असावज्जा ॥ वृ-'आरक्षिकः' कोट्टपालस्तमापृच्छन्त-वयमत्रनसंस्तरामः ततोबहिर्निर्गच्छतांद्वारंप्रयच्छत। यद्यसौ ब्रूयात्-मा निर्गच्छत अहं भवतां पर्याप्तं दास्यामि ततो गृह्यते । अथ ब्रूयात्-नास्ति मे किञ्चिद् भक्तं दातव्यम्, युष्मांश्च विसर्जयन् राज्ञो बिभेमि, ततः श्रेष्ठिनं पृच्छत । ततः श्रेष्ठिनमापृच्छन्ति, एवं सेनापतिममात्यं राजानंवाऽऽपृच्छन्ति । ततोयदि राज्ञाऽपिविसर्जितास्तदा निर्गमनं कुर्वन्ति।द्वारपालानांचसाधवो दर्श्यन्ते, यथा-एतान्दृष्टरूपान् कुरुत, भिक्षाग्रहणार्थमेते निर्गमिष्यन्ति प्रवेक्ष्यन्ति वा, न किञ्चिद् भवद्भिर्वक्तव्यम् । तत्र च बहिर्गतैरसावद्या भाषा भाषितव्या ।। अमुमेवार्थं स्पष्टयति[भा.४८३०] मा वच्चह दाहामि, संकाए वा न देंति निग्गंतुं। दानम्मि होइ गहणं, अनुसट्ठादीणि पडिसेधे। वृ-आरक्षिकादयः पृष्टाः सन्तो भणन्ति-मा व्रजत, वयं भक्तं दास्यामाहे । ते च भेदशङ्कया साधूनां निर्गन्तुं न ददति ततो यद्यविशुद्धमपि ते प्रयच्छन्ति तदा तस्य ग्रहणं कर्त्तव्यम् । अथ “पडिसेहे"त्ति न भक्तं न च निर्गन्तुं ददति ततोऽनुशिष्टि-धर्मकथादीनि प्रयुज्यन्ते ॥ [भा.४८३१] बहिया वि गमेतूणं, आरक्खितमादिणो तहिं निति। हित-नट्ठ-चारिगादी, एवं दोसा जढा होति॥ वृ-बहिरपि गता एवमेवारक्षिक-श्रेष्ठिप्रभृतीन् ‘गमयित्वा' प्रज्ञाप्य तत्र भिक्षामटन्ति । एवं कुर्वद्भिर्हत-चारिकादयो दोषाः परिहृता भवन्ति ॥ ये साधवो बहि प्रस्थाप्यन्ते तेऽमीभिर्गुणैर्युक्ता भवन्ति[भा.४८३२] पियधम्मे दढधम्मे, संबंधऽविकारिणो करणदक्खे । पडिवत्तीसुय कुसले, तब्भूमे पेसए बहिता ॥ वृ-प्रियधर्मणो दृढधर्मणश्च प्रतीतान्, “संबंध" त्ति येषांअन्तर्बहिश्च स्वजनसम्बन्धो भवति 'अविकारिणो नाम' नोद्भटवेषान वानक्दर्पशीलास्तान्, 'करणदक्षान्' भिक्षाग्रहणादिक्रियासु परिच्छेदवतः, प्रतिपत्ति-प्रतिवचनप्रदानं तत्र कुशलान्, “तब्भूमि"त्ति यो बहि स्कन्धावार आगतस्तस्य भूमौ जात-वर्धितान्, एवंविधान् साधून् बहि प्रेषयेत्॥ "भासा यतहिं असावज्ज" त्ति पदं व्याचिख्यासुराह [भा.४८३३] केवतिय आस हत्थी, जोधा धन्नं व कित्तियं नगरे। Page #97 -------------------------------------------------------------------------- ________________ ९४ बृहत्कल्प-छेदसूत्रम् -३-३/१०९ परितंतमपरितंता, नागर सेना वन वि जाणे॥ वृ-बाह्यस्कन्धावारसत्काः पृच्छेयुः-नगराभ्यन्तरे कियन्तऽश्वा हस्तिनो योधा वा सज्जिताः सन्ति? धान्यं वा कियन्नगरेऽस्ति? 'नागराः' पौराः सेना वा परितान्ताः' रोधकेणोद्विग्ना उत 'अपरितान्ताः' अनुद्विग्नाः? । एवं पृष्टे वक्तव्यम्-न जानेऽहं॥ ते ब्रवीरन्-तत्रैव वसन्तः कथं न जानीथ ? । साधवो ब्रुवते[भा.४८३४] सुणमाणा विन सुणिमो, सज्झाय-ज्झाण निच्चमाउत्ता। सावजं सोऊण विन हुलब्भाऽऽइक्खिउं जतिणो॥ वृ-वयं स्वाध्याय-ध्यानयोर्नित्यमायुक्ताः सन्तः शृण्वन्तोऽपि वार्तान्तरं न शृणुमः, अपि चसावा श्रुत्वाऽपियतीनामन्यस्याख्यातुं न लभ्यते' नयुज्यते।अन्तःप्रविष्टस्य तु यदि कोऽपि पृच्छति तदा वक्तव्यम्-भिक्षाधुपयोगेन न ज्ञातम् । अन्तर्बहिश्च साधारणमिदमुत्तरम् शृणोति बहु कर्णाभ्यामक्षिभ्यां बहु पश्यति। न च दृष्टं श्रुतं सर्वं, भिक्षुराख्यातुमर्हति ॥ एवं भिक्षामटित्वा पर्याप्त सआते सति किं कर्तव्यम् ? इत्याह[भा.४८३५] भत्तट्टणमालोए, मोत्तूणं संकिताई ठाणाई। सच्चित्ते पडिसेधो, अतिगमनं दिट्ठरूवाणं॥ भक्तार्थनं भोजनं आलोके प्रकाशेभवति।यानि 'शङ्कितानि'चारिकादिशङ्काविषयभूतानि गुपिलानि स्थानानि तानि मुक्त्वा, तेषु न विधेयमित्यर्थः । यश्च सचित्तः प्रव्रजितुमुपतिष्ठते तत्र 'प्रतिषेधः' स न प्रव्राजयितव्यः किन्तु ये पूर्व द्वारपालेन दृष्टरूपाः कृतास्तेषामेव 'अतिगमनं' भूयः प्रवेशो भवति ॥ एषा बर्थसङ्घाहिका नियुक्तिगाथा, अत एनांभाष्यकृद् विवृणोति[भा.४८३६] सावग-सन्निट्ठाणे, ओतवितेकतर इतर भत्तहुँ । तेसऽसती आलोए, वडग-कुरुयादि सच्चेव ॥ वृ-यत्रश्रावकः श्राविकाचोभयमपिओयवितं-साधुसामाचारीकुशलं तत्रस्थाने भक्तार्थयन्ति। तदलाभे यत्रैकतरं साधुसामाचारीचतुरंतत्रसमुद्देष्टव्यम् । एकतरस्यापिखेदज्ञस्याभावे 'इतरेषु' अखेदज्ञेष्वपि श्रावकेषुयथाभद्रकेवा भक्तार्थयितव्यम्।तेषामभावेऽटव्याम् 'आलोके अशङ्कनीये सप्रकाशे प्रदेशे समुद्दिशन्ति । वड्डग-कुरुकुचादिका तु सैव यतना कर्तव्या । शैक्षस्तु यदि कोऽप्युपतिष्ठते तदान प्रव्राजनीयः ।अथकोऽपि स्वयमेव लिङ्गं कृत्वा प्रविशति ततो वक्तव्यम्वयं गणिता नामाङ्किता एव द्वारेण निर्गताः, ततः त्वं तत्र गतः सन् गृहीत्वा विनाशयिष्यसे । एवमुक्तेऽपि यद्यसावागच्छति तदा द्वारं प्राप्ता द्वारपालं भणन्ति-न जानीमो वयं कमप्येनम्, अस्मानेतान् दृष्टरूपान् कुरुत॥ [भा.४८३७] भत्तट्ठिय बाहाडा, पुनरवि घेत्तु अतिंति पज्जत्तं । अनुसट्टी दारट्टे, अन्नो वऽसतीय जं अंतं॥ वृ-एवं भक्त-पानं पर्याप्तं गृहीत्वा 'भक्तार्थिताः' कृतभोजनाः 'बाहाडिताः' तद्भुक्तन्यूनभाजनाः पुनरपि नगरं 'अतियन्ति' प्रविशन्ति । यदि ‘द्वारस्थः' द्वारपालो मार्गयति-पौद्गलिकं मे प्रच्छत; ततोऽनुशिष्टि कर्तव्या। अन्यो वा यदि कोऽप्यनुकम्पया ददाति तदा न वारणीयः। Page #98 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१०९, [भा. ४८३७] तस्य 'असति' अभावे यद् ‘अन्तम् प्रान्तं तद् दीयते॥ [भा.४८३८] रुद्ध वोच्छिन्ने वा, दारढे दो विकारणं दीवे। इहरा चारियसंका, अकालओखंदमादीसु॥ वृ-अथ निर्गतानां द्वारं रुद्धं-स्थगितं गमागमो वा व्यवच्छिन्नस्ततः 'द्वयेऽपि' आभ्यन्तरा बाह्याश्च साधवो द्वारस्थस्याग्रे कारणं दीपयन्ति।आभ्यन्तराब्रुवते-अस्माकंसाधवो बहिर्निर्गताः बहिश्च रुद्धाः; बाह्या ब्रुवते-वयं कारणे भिक्षायां बहिर्निर्गता परं द्वाराणि निरुद्धानि । 'इतरथा' यदि न कथयन्ति ततः अकाले-रात्रौ वा विकाले वा यद्यवस्कन्दः-धाटी तदादीनि भवन्ति तदा चारिकशङ्का भवेत्-ये साधवो निर्गतास्ते भूयोन प्रविष्टाः, नूनं चारिकास्तेआगता आसीरनिति। [भा.४८३९] बाहिं तु वसिउकामं, अतिनेंती पेल्लणा अनेच्छंते । गुरुगा पराजय जये, बितियं रुद्ध व वोच्छिन्ने । वृ-बहिर्निर्गतानां कोऽप्येकश्चिन्तयेत्-मुक्तोऽस्मितावत् चारकवासात्, न भूयः प्रविशामि; अत्र सूत्रमवतरति । एवं बहिर्वसन्तं प्रज्ञापयन्ति-आर्य ! सूत्रे प्रतिषिद्धम्, न वर्तते बहिर्वस्तुम्, द्वयोर्जिन-राजाज्ञयोरतिक्रमः कृतो भवति । एवं प्रज्ञाप्य नगरं प्रवेशयन्ति । अथ नेच्छति प्रवेष्टुं ततः “पेल्लण"त्तिबलामोटिकया शेषैः स प्रवेशनीयः । यदि न प्रवेशयन्ति ततश्चत्वारो गुरुकाः। कदाचिदाभ्यन्तराणांपराजयोऽपरेषांचजयोभवेत्ततः एभिर्भेदः प्रदत्तः' इति शङ्कयाप्रस्तारदोषा भवेयुः । द्वितीयपदमत्रभवति-बहिर्निर्गतस्यसर्वतोऽपिनगरं निरुद्धम्, गमागमः सर्वथैव व्यवच्छिन्न इति कृत्वा तत्रापि वसन् शुद्धः॥ मू. (११०) से गामंसि वा जाव सन्निवेसंसि वा कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ संमंता सकोसंजोयणं उग्गहं ओगिण्हित्ताण चिट्टित्तए। वृ-अस्य सम्बन्धमाह- . [भा.४८४०] . गामाइयाण तेसिं, उग्गहपरिमाणजाणणासुत्तं । कालस्स व परिमाणं, वुत्तं इहइंतु खेत्तस्स ॥ वृ. तेषाम्' अनन्तरसूत्रोक्तानां ग्रामादीनां कियानवग्रहो भवति ? इति शङ्कायामवग्रहपरिमाणज्ञापनार्थमिदंसूत्रमारभ्यते ।यद्वापूर्वसूत्रेषु "अहालंदमविउग्गहे" इत्यादिभणताऽव=ग्रहविषयं कालस्य परिमाणमुक्तम्, इह तु क्षेत्रस्य तदेवोच्यते ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ ग्रामे वा नगरे वा यावत् सन्निवेशे वा कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा ‘सर्वतः' सर्वासुदिक्षु 'समन्तात्' चतसृष्वपि विदिक्षु सक्रोशंयोजनमवग्रहमवगृह्य स्थातुमिति सूत्रार्थः॥ अथ भाष्यविस्तरः[भा.४८४१] उड्वमहे तिरियं पिय, सकोसगं होइ सव्वतो खेत्तं । इंदपदमाइएसुं, छद्दिसि सेसेसु चउ पंच॥ वृ-ऊर्ध्वदिय् अधोदिक् "द्वितियं पिय" ति तिर्यक्-पूर्व-दक्षिणाऽपरोत्तरा लक्षणाश्चतस्रो दिशः, एतासुषट्सु दिक्षु गिरिमार्गे स्थितायां सर्वतः सकोशांयोजनं क्षेत्रं भवति, तच्चइन्द्रपदादिषु सम्भवति । इन्द्रपदो नाम-गजाग्रपदगिरिः, तत्र ह्युपरिष्टाद् ग्रामो विद्यते अधोऽपि ग्रामो मध्यमश्रेण्यामपिग्रामः। तस्याश्चमध्यमश्रेण्याश्चतसृष्वपि दिक्षुग्रामाः सन्ति, ततो मध्यमश्रेणिग्रामे Page #99 -------------------------------------------------------------------------- ________________ ९६ बृहत्कल्प-छेदसूत्रम् -३-३/११० स्थितानांषट्सु दिक्षु क्षेत्रं भवति।आदिशब्दाद अन्योऽपि य ईशः पर्वतस्तस्य परिग्रहः । शेषेषु पर्वतेषु चतसृषु पव्वसु वा दिक्षु सकोशं योजनं क्षेत्रं भवति। समभूमिकायां व्याघाताभावे दिक्चतुष्टये क्षेत्रम्, व्याघातं प्रतीत्य पुनरित्थम्[भा.४८४२] एगं व दो व तिन्नि व, दिसा अकोसंतु सव्वतो वा वि। . . सव्वत्तो तुअकोसे, अगुजाणाओ जाखेत्तं॥ वृ-एकदिग्भाविना पर्वतादिव्याघातेन किञ्चिद् ग्रामादिकमेकस्यां दिशि अक्रोशं भवति, सकोशयोजनावग्रहरहितमित्यर्थः। एवंदिग्द्वयभाविवाव्याघातेन द्वयोर्दिशोस्क्रोशम्, त्रिदिग्भाविना तिसृषु दिक्षु, दिक्चतुष्टयभाविना तु सर्वतोऽप्यक्रोशं भवति । तत्र च सर्वतोऽक्रोशे ग्रामादौ अग्रोद्यानं यावत् क्षेत्रम्, ततः परमक्षेत्रमिति॥ किञ्च[भा.४८४३] संजम-आयविराधन, जत्थ भवे देह-उवहितेना वा। तंखलु न होइ खेतं, उग्घेयव्वंच किं तत्थ ॥ वृ-यत्र ग्रामादौ प्राप्तानां संयमा-ऽऽत्मविराधना भवति, यत्र च देहोपधिस्तेषा भवन्ति तत् खलु क्षेत्रंन भवति । किं वा तत्रावग्रहीतव्यं येन क्षेत्रमुच्येत? ॥अथ किं पुनः क्षेत्रम् ? इत्याह[भा.४८४४] खेत्तं चलमचलं वा, इंदमनिंदं सकोसमक्कोसं। वाघातम्मि अकोसं, अडविजले सावए तेने॥ वृ-यत्रावग्रहो विचारयितुमुपक्रान्तस्तात् क्षेत्रंचलमचलं वा भवेत् । चलं व्रजिकादि, अचलं ग्रामादि।पुनरेकैकं द्विधा- एन्द्रम्' इन्द्कीलादियुक्तम् 'अनिन्दंवा' तद्विपरीतम्।तत्रयदचलमनिन्दं च तत् सक्रोशमक्रोशं वा । पश्चानुपूर्व्या अमूनेव भेदान् व्याचिख्यासुरिदमाह-“वाघायम्मि" इत्यादि, यत्र यस्यां दिशि व्याघातस्तत् तस्यामक्रोशं भवति । कः पुनव्या_तः? इति चेद् अत आह-अटवी तस्यां दिशि वर्तते, “जलं"ति समुतो नदी वा तत्राऽऽस्ते, 'श्वापदा वा' सिंहव्याघ्रादयः तत्र सन्ति, 'स्तेना वा' उपधि-शरीरहरा विद्यन्ते । एतैः कारणैः सा दिग् निरुद्धा, ग्राम-गोकुलाद्यभावादवग्रहीतव्यं किमपि तत्र नास्ति ॥अथ सक्रोशमाह[भा.४८४५] सेसे सकोस मंडल, मूलनिबंधं अनुम्मुयंताणं। . पुबुट्टिताण उग्गहो, सममंतरपल्लिगा दोण्हं।। वृ-शेषनाम-यद् अनन्तरोक्तव्याघातरहितंतत्र मूलनिबन्धंमाण्डलममुञ्चतां सार्वतः सक्रोशं योजनमवग्रहो भवति। कथम्? इति चेद् उच्यक्ते-मूलग्रामादेकैकस्यां दिशियोजनार्दमर्द्धक्रोशेन सधिकं तावदवग्रहो भवति, स च पूर्वा-ऽपराभ्यां दक्षिणोत्तराभ्यां वा कृत्वा सक्रोशं योजनं भवति, यद्वा गति-प्रत्यागतिभ्यामेकस्यामपि दिशि (सक्रोशं) योजनं मन्तव्यम् । तत्र सक्रोशे अक्रोशे वा येपूर्वस्थितास्तेषामवग्रहो भवति । यत्र समकमनुज्ञापितं तत् क्षेत्रं साधारणम् । अथ सम्बद्धेषु क्षेत्रेषु समकमेवानुज्ञापितं तोत यदि द्वेअन्तरपल्लिकेतत एकेषामेका अपरेषामप्येका। अथैकैवान्तरपल्लिका ततो द्वयोरपि साधारणा॥ .. अथ बह्वयस्तत्रान्तरपल्लिकास्ततः को विधिः? इत्याह[भा.४८४६] खेत्तस्संतो दूरे, आसन्नं वा ठिताण समगंतु। अद्धं अद्धद्धं वा, दुगाइसाहारणं होइ॥ Page #100 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ११०, [भा. ४८४६] ९७ वृद्वित्रप्रभृतिषु सम्बद्धेषु क्षेत्रेषु समकमनुज्ञाप्य स्थितानां काश्चिदन्तरपल्लिकाः 'क्षेत्रान्तः' क्षेत्रस्याभ्यन्तरे भवति, “दूरे "त्ति काश्चित्तु दूरे याभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिक्रान्तं भवतीति कृत्वा प्रथमालिकायां तद् निर्वाह्यते, “आसन्ने” त्ति काश्चित् पुनरासन्ने याभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिकान्तं न भवति । ततो यावन्त्यस्ता अन्तरपल्लिकास्तासां सर्वासामप्यर्द्ध वा, अर्द्धर्द्ध वा चतुर्थभागइत्यर्थः, वाशब्दात् त्रिभागादिकं वा द्विकादीनां द्वित्रिप्रभृतीनां गच्छानां साधारणं भवति ॥ अथात्रैवाभाव्या-ऽनाभाव्यविधिमाह [ भा. ४८४७ ] तण- डगल-छार- मल्लग - संथारग-भत्त- पानमादीणं । सति लंभे अस्सामी, खेत्तिय ते मोत्तऽणुन्नवणा ।। वृ-तृण-डगल-क्षार-मल्लक-संस्तारक-भक्त- पानादीनां 'सति' विद्यमाने प्राचुर्येण लाभे क्षेत्रिका अस्वामिनः, अक्षेत्रिकाणामप्येतान्याभवन्तीत्यर्थ । "ते मोत्तऽणुन्नवण "त्ति येषां तृणादीनां क्षेत्रिकैरनुज्ञापना कृता तानि मुक्त्वा, तान्यक्षेत्रिकाणां नाभवन्तीति भावः ॥ किं पुनः क्षेत्रिकाणामाभवति ? इत्युच्यते [भा. ४८४८] ओहो उवग्गहो वि य, सच्चित्तं वा वि खेत्तियस्सेते । मोत्तूण पाडिहारि, असंथरंते वऽणुन्नवणा ।। वृ- ओघोपधिरुपग्रहोपधिश्च 'सचित्तं वा' शैक्षादिकम्, एतानि क्षेत्रिकस्याभवन्ति । यद्यक्षेत्रिका तेषामेकतरं गृह्णन्ति तदा प्रायश्चित्तम्, परं मुक्त्वा प्रातिहारिकं द्विविधमप्युपधिम्, तं गृहस्थेभ्यो मार्गयन्तो न प्रायश्चित्तभाज इति हृदयम् । यः पुनरप्रातिहारिकस्तं न लभन्ते । अथ शीतादिना परिताप्यन्ते तत एवमसंस्तरद्भिर्वस्त्रादेरनुज्ञापना कर्तव्या । क्षेत्रिकैरपि संस्तरणे तेषामनुज्ञातव्यम् ॥ [ भा. ४८४९] जइ पुन संथरमाणा, न दिंति इतरे व तेसि गिण्हंति । तिविधं आदेसो वा तेन विना जा य परिहानी ॥ वृ- यदि पुनः संस्तरन्तः क्षेत्रिका असंस्तरतामत्रक्षेत्रिकाणां वस्त्रदिकं न प्रयच्छन्ति, 'इतरे वा' अक्षेत्रिकाः संस्तरन्तोऽपि 'तेषां ' क्षेत्रिकाणामनापृच्छया बलामोटिकया वा गृह्णन्ति ततः ‘त्रिविधं’ जघन्य-मध्यमोत्कृष्टनिष्पन्नं पञ्चक-मासलघु-चतुर्लघुलक्षणं प्रायश्चित्तम्, सूत्रस्यादेशाद्वा नवमम् । 'तेन च' वस्त्रदिना विना या परिहानि तन्निष्पन्नमपि तेषां प्रायश्चित्तम् ॥ इदमेव व्यक्तीकरोति [भा. ४८५० ] जे खेत्तिया मोत्ति न देंति ठागं, लंभे वि जाऽऽ गंतुवयंते हानी । पेल्लंति वाऽऽगंतु असंथरम्मि, चिरं व दोण्हं पि विराधना उ । वृ-ये 'क्षेत्रिका वयम्' इति कृत्वा भक्त-पानादेः प्राचुर्येण लाभेऽपि अन्येषां "ठागं' अवकाशं न प्रयच्छन्ति तत आगन्तुकानां व्रजतां या परिहाणिस्तन्निष्पन्नं तेषां प्रायश्चित्तम् । अथ क्षेत्रिकाणामसंस्तरणेऽप्यागन्तुकाः 'प्रेरयन्ति' प्रेर्य तिष्ठन्ति ते चागन्तुका अदेशिकाः प्राघुणकाश्च ततः 'चिरं वा' प्रभूतं कालं वाशब्दाद् अल्पं वा कालमसंस्तरणं तेषां भवेत् ततः 'द्वयेषामपि ' आगन्तुकानां वास्तव्यानां च या विराधना तन्निष्पन्नं प्रायश्चित्तम् ।। यत एवमतः [ भा. ४८५१] अत्थि हुवसभग्गामा, कुदेसणगरोवमा सुहविहारा। 20 7 Page #101 -------------------------------------------------------------------------- ________________ ९८ बृहत्कल्प-छेदसूत्रम् - ३-३/११० बहुगच्छुवग्गहकरा, सीमच्छेदेण वसियव्वं ॥ वृ- 'सन्ति' विद्यन्ते वृषभग्रामाः । इहाचार्य आत्मद्वितीयो गणावच्छेदिक आत्मतृतीय एष पञ्चको गच्छो भवति, ईशास्त्रयो गच्छाः पञ्चदश जनाः, एते यत्र ऋतुबद्धे निर्वहन्ति; वर्षासु पुनः सप्तको गच्छः, तद्यथा - आचार्य आत्मतृतीयो गणावच्छेदिक आत्मचतुर्थः, ईशास्त्रयो गच्छा एकविंशतिर्जना भवन्ति, एते यत्र वर्षावासे जघन्येन निर्वहन्ति ते वृषभग्रामा उच्यन्ते । ते च कीशाः ? इत्याह- कुदेशस्य यन्नगरं तेनोपमा येषां ते कुदेशनगरोपमाः, ते च 'सुखविहाराः ' सुलभभक्त-पाना निरुपद्रवाश्च, अत एव बहूनामन्तरोक्तप्रमाणनां त्रिप्रभृतीनांगच्छानामुपग्रहकराः, ततस्तेषु सीमाच्छेदेन बहुभिरपि गच्छैर्वस्तव्यम्, न कोऽपि परस्परं मत्सरो विधेय इति भावः । सीमाच्छेदो नाम - साहिका ग्रामार्ध-वाटकादिविभजनम् । यथा - अस्यां साहिकायां भवद्भिः पर्यटनीयम् अस्या पुनरस्माभिरित्यादि । यद्वा ये तत्र क्षेत्रे समकं प्राप्तास्तैः सीमाच्छेदेन वस्तव्यम् । यथा- युष्माकं सचित्तमस्माकमचित्तम्, अथवा युष्माकमन्तः अस्माकं बहि, युष्माकं स्त्रियः अस्माकं पुरुषाः, युष्माकं श्राद्धाः अस्माकमश्राद्धाः, अथवा यो यद् लप्स्यते तस्यैव तद् आभाव्यम् ॥ इदमेव व्याख्यानयति [भा. ४८५२ ] एक्कवीस जहन्त्रेणं, पुव्वट्ठितै उग्गहो इतरे भत्तं । पल्ली पडिवसमेवा, सीमाए अंतरा गामो ॥ वृ-पूर्वोक्तनीत्या वर्षासु एकविंशतिर्जनाः उपलक्षणत्वाद् ऋतुबद्धे पञ्चदश जना यत्र जघन्येन संस्तरन्ति स वृषभग्राम उच्यते, उत्कर्षतस्तु द्वयोरपि कालयोर्द्वात्रिंशत्सहस्रसङ्ख्याको गच्छो यत्र संस्तरति स वृषभग्रामः, तत्र ये पूर्वस्थितास्तेषामवग्रहः, इतरे भक्त - पानमात्रसंतुष्यस्तिष्ठन्ति, तत्र च सीमाच्छेदो विधात्यः । कथम् ? इत्याह- "पल्ली" इत्यादि, युष्माभिरन्तरप्ल्यां पर्यटनीयम्, अस्माभि प्रतिवृषभग्रामे । प्रतिवृषभग्रामो नाम मूलग्रामादर्घयोजने महान् ग्रामः । अथवा अन्तरपल्लयाः प्रतिवऋषभस्य वा अर्धं युष्माकमर्धमस्माम् । एवं सीमायां मूलग्रामस्य प्रतिवृषभग्रामस्य वाऽन्तरा यो ग्रामस्तस्याप्यर्धं युष्माकमधर्मस्माकम् । एतदचलमनिन्द्रं च क्षेत्रं यन्तव्यम् ॥ अथाचलयैन्द्रं क्षेत्रमाह [भा. ४८५३ ] इंदक्खीलमनोग्गहो, जत्थ य राया जहिं च पंच इमे । सेट्ठि अमच्च पुरोहिय, सेनावत्ति सत्थवाहे य ॥ वृ- इन्द्रकीलको नाम- इन्द्रस्थूणा सा यजोत्तिष्ठते इन्द्रमातृका वा तत्र 'अववग्रहः' अवग्रहो न भवति । अनिन्द्रकीलकेऽपि यत्र राजा मूर्धाभिषिक्तः परिवसति । राजरहितेऽपि यत्रेमे पञ्च वसन्ति श्रेष्टी अमात्यः पुरोहितः सेनापति सार्थवाहश्चेति ॥ [भा. ४८५४] अद्धाणसीसए वा, समोसरणे वा वि ण्हाण अनुयाणे । एतेसु नत्थि उग्गहो, वसहीए मग्गण अखेत्ते ॥ वृ- अध्वशीर्षकं नाम यतः परं समुदायेन यन्तव्यं सम्यग् मार्गावहनात् तत्र मिलितानाम्, समवसरणं नाम - कुलसमवायो गणसमवायः सङ्घसमवायो वा (तत्र मिलितानाम्, ] स्नानम्अर्हव्यतिमास्नपनं तन्नियित्तमेकत्र मिलितानाम्, अनुयानं रथयात्रा तत्र वा मिलितानाम्, एतेषु नास्त्यवग्रहः । अथ एवाक्षेत्रतया एतेषु वसताववग्रहस्य मार्गणा कर्त्तव्या ॥ Page #102 -------------------------------------------------------------------------- ________________ ९९ उद्देशकः ३, मूलं-११०, [भा. ४८५४] अथ किमर्थमेतेष्ववग्रहो न भवति? इत्युच्यते[भा.४८५५] बहुजनसमागमो तेसु होत्ति बहुगच्छसत्रिवातोय। वा पुव्वं तु तदट्ठा, पेल्लेज अकोचिया खेत्तं॥ वृ-'तेषु' इन्द्रकीलकादिषु बहोः-प्रभूतस्य जनस्य समागतो भवति, अध्वशीर्षकादिषु च बहूनांगच्छानां सन्निपातः-मीलकोभवति, अतः केचिदकोविदाः तदर्थं क्षेत्रमिदमस्माकमेवाभाव्यं भवतु' इति कृत्वा पूर्वम्' अन्येभ्यःप्रथमंसमागत्यमा क्षेत्रं प्रेरयेयुः इत्येतेषुनावग्रहोऽधिक्रियते।। इदमेव भावयति[भा.४८५६] सड्ढा दलंता उवहिं निसिद्धा, सिढे रहस्सम्मि करेज मन्नु। पभावयंते य न मच्छरेणं, तित्यं सलद्धी दुहतो वि हानी॥ वृ-तत्रेन्द्रकीलादौ श्राद्धाः केषाञ्चिदाचार्याणां 'उपधिम् वस्त्राद्युपकरणं दातुं लग्नाः, तैश्च 'नवर्ततेऽस्माकमिदं ग्रहीतुम्' इति भणित्वा तेनिषिद्धाः; ततः श्राद्धाः पृच्छेयुः-एषमीयान्यप्यमूनि वस्त्राणि किमिति न कल्पन्ते ?; ततो रहस्यम्-'नास्माकममूनि आभवन्ति' इतिलक्षणं तेषां पुरतः कथयितव्यम्, तत्र च 'शिष्टं' कथिते सति ते श्राद्धाः ‘मन्युम्' अप्रीतिकं कुर्वीरन् । येच 'सलब्धयः' धर्मकथादिलब्धिसम्पन्नास्ते मत्सरेण 'वयं किमपि तावद् न लप्स्यामहे अतः किमर्थमेवमेव प्रयासं कुर्मः?' इत्यनुशयेन तीर्थं धर्मकथादिनान प्रभावयन्ति। ततः “दुहतो वि हाणि"त्तिद्वयोरपि-सचित्ता-ऽचित्तलाभयोः परिहाणिर्भवति।तत्र सचित्तहानि कोऽपिदेशविरतिं सर्वविरतिवान प्रतिपद्यते, अचित्तहानिराहार-वस्त्रादि तथाविधंन प्राप्यते।अतएतेषुनावग्रहो भवति । वसतिं प्रतीत्य पुनरेतेष्वपि भवति ॥ कथम् ? इत्याह[भा.४८५७] एगालयट्ठियाणं, तु मग्गणा दूरे मग्गणा नत्थि। आसने तुठियाणं, तत्थ इमा मग्गणा होइ॥ वृ-'एकालये' एकस्यां वसतौ स्थितानामवग्रहस्य मार्गणा भवति । तत्रयः पूर्वं तस्यां वसतौ स्थितः तस्य सचित्तमचित्तं वा आभवति । अथ समकं द्वौ बहवो वा स्थितास्तदा साधारणा सा वसतिः । ये तु तस्या वसतेदूर स्थिताः तेषासवग्रहस्य मार्गणा नास्ति । ये पुनरात्तन्ने स्थितास्तेषामियमवग्रहस्य मार्गणा भवति॥ .. [भा.४८५८] तज्झाय काल काइय, निल्लेवण अच्छणे असति जंतो। वसहिगमो पेलंते, वसही पुन जा समापुना ॥ वृ-'अन्तः' प्रतिश्रयस्याभ्यन्तरे यदि स्वाध्यभूमेः कायिकाभूमेः पात्रविलेपनभूमेः आसनम्ध्यानादिनिमित्तमुपवेशनं तद्भूमेश्चाभावस्ततोया बहिस्वाध्यायभूमिप्रभृतयस्ताः समकमनुज्ञापिताः साधारणाः । अथैके पूर्व स्थिता अपरे च पश्चात् ततः पूर्वस्थितानामवग्रहः, पश्चादागतास्तु पूर्वस्थिताननुज्ञापयन्ति । यदि ते पूर्यमाणेऽवकाशे नानुजानन्ति इतरे वा तमपूर्यमाणं प्रेरयन्ति ततो वसतिविषयोऽपि स एव प्रायश्चित्तादिर्गमो भवति यः पूर्वं क्षेत्रं प्रेरयताम् उपलक्षणत्वाद् अननुज्ञापयतांचोक्तः । वसतिपुनरिह या समापूर्णा' श्रमणैराकुला तस्याःप्रेरणेदोषामन्तव्याः।। उक्तमचलक्षेत्रम् । अथ चलमाह [भा.४८५९] वइगा सत्थो सेना, संवट्टो चउविहं चलं खेत्तं । ति ॥ Page #103 -------------------------------------------------------------------------- ________________ १०० बृहत्कल्प-छेदसूत्रम् -३-३/११० एतेसिं नाणत्तं वोच्छामि अहानुपुव्वीए ॥ वृ- व्रजिका सार्थ सेना संवर्त्त इति चतुर्विधं चलं क्षेत्रम् । एतेषां चतुर्णामपि नानात्वं वक्ष्यामि यथाऽऽनुपूर्व्या । प्रतिज्ञातमेव करोति [ भा. ४८६० ] जेनोग्गहिता वइगा, पमाण तूह दुह भंडि परिभोगे । समवइग पुव्व उग्गह, साहारण जं च नीसाए ॥ वृ- येन साधुना सा व्रजिका पूर्वमवगृहीता स व्रजिकावग्रहस्य स्वामी भवति । तस्य च व्रजिकावग्रहस्य किं प्रमाणम् ? इति चिन्तायां चरितुं व्रजन्ति तावान् व्रजिकाया अवग्रहः; अपरो ब्रवीति - "तू" ति तीर्थं जलपानस्थानमित्येकोऽर्थः, तत्र जलपानार्थं गावो यावद् गच्छन्ति; अन्यः प्राह - "दुह "त्ति यत्रोपस्थाने गावो दुह्यन्ते । आचार्य प्राह त्रयोऽप्येते ऽनादेशाः, अयं तु समीचीन आदेशः-“भंडजि परिभोगे"त्ति यावति भूभागे 'भण्डिकाः ' गन्त्रयस्तिष्ठन्ति यावच्च व्रजिकायाः समीपे गोभि परिभुक्तम्, एवाद् व्रजिकावग्रहस्य प्रमाणं मन्तव्यम् । तत्र च यदि समकं द्वौ साधुवर्गावेकस्यां व्रजिकायां स्थितौ तदा साधारणा सा व्रजिका । अथैकः पूर्वं स्थितो द्वितीयस्तु ब्रजिकान्तरेण समं पश्चादायातस्ततः पूर्वस्यावग्रहो भवति । अथ परस्परनिश्रया स्थितास्ततः साधारणं तत् क्षेत्रम् । यस्याश्च व्रजिकाया निश्रया द्वितीया व्रजिका स्थिता तस्यां ये साधवस्तेषामवग्रह आभवतीति सङ्ग्रहगाथासमासार्थः । अथैनामेव विवरीषुरनादेशत्रयं निरस्याचार्यमतं तावद विभावयति [ भा. ४८६१] न गोयरो नेव य गोणिपानं, नोवट्ठ दुज्झंति व जत्थ गावो । अब्भत्थ गोणादिसु जत्थ खुन्नं, स उग्गहो सेसमनुग्गहो तु ॥ वृ- न '‘गोचरः' गवां चारिस्थानं नैव च गवां यत्र पानं न वा यत्रोपस्थाने गावो दुह्यन्ते किन्तु व्रजिकाया अभ्यासे गवादिभिर्यत्र क्षुन्नं आदिशब्दाद् गन्त्रीभिश्च यावदाक्रान्तं तावानवग्रहः 'शेषं तु' गोचरादिस्थानं सर्वमप्यनवग्रहः ॥ [ भा. ४८६२] जइ समगं दो वइगा, ठिता तु साधारणं ततो खेत्तं । अन्नवइगाए सहिता, तत्थेवऽन्ने ठिता अपभू ॥ वृ- यदि समकमेकस्यां व्रजिकायां द्वौ गच्छौ स्थितौ ततः साधारणं तत् क्षेत्रम् । अथ काचिद् व्रजिका पूर्वं साधुभिरवगृहीता तत्रान्ये साधवो अन्यया व्रजिकया सहिताः पश्चादागताः तत्रैव व्रजिकायां स्थितास्तदा ते पश्चादागता अप्रभवः, पूर्वस्थिता एव स्वामिन इति ।। [भा. ४८६३] अन्नोन्नं नीसाए, ठिताण साहारणं तु दोन्हं पि । नीसट्ठिताए अपभू, तत्थ व अन्नत्थ व वसंता ॥ वृ- अथ पूर्वस्थिताः पश्चादागताश्च 'अन्योन्यं' परस्परं निश्रया स्थितास्ततस्तेषां द्वयेषामपि साधारणं क्षेत्रम् । अथ पूर्वस्या व्रजिकाया निश्रया स्थितायामागन्तुकव्रजिकायां ये साधवो वर्तन्ते ते तत्र वाऽन्यत्र वा वसन्तोऽवग्रहस्य 'अप्रभवः' न स्वामिनः ॥ अथ किमर्थमन्यस्या व्रजिकाया निश्रां सा व्रजिका प्रतिपद्यते ? उच्यते[भा. ४८६४] दुग्गट्ठिए वीरइहिट्ठिए वा, कते निवाणे व ठिएहि पुव्वं । भएण तोयस्स व कारणेणं, ठायंतगाणं खलु होइ निस्सा ॥ Page #104 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं - ११०, [भा. ४८६४] १०१ वृ- 'दुर्गे स्थिताः' स्तेन- परचक्राद्यगम्ये स्थाने स्थिता साऽन्या व्रजिका, यद्वा वीरेण स्वामिना सा अधिष्ठिता, अथवा तैः 'पूर्वं स्थितैः' प्रथमव्रजिकासम्बन्धिभिर्गोकुलिकैस्तत्र 'निपानं' जलपानस्थानं कृतमस्ति, ततो भयेन तोयस्य वा कारणेन तस्यां व्रजिकायां तिष्ठतामपरेषां गोकुलिकानां निश्रा भवति । एवमागन्तुका व्रजिका येन कारणेन पूर्वस्या निश्रां प्रतिपद्यते तदभिहितम् । अथागन्तुकाया निश्रां यथा पर्वा प्रतिपद्यते तथा दर्शयति [भा. ४८६५ ] भयसा उट्ठेतुमना, वइगा अन्ना य तत्थ जइ एज्जा । पच्छापत्ते निस्सा, जे पुव्वठिया न ते पभुणो ॥ वृ- काचिद् व्रजिका भयेन 'उत्थातुमनाः' प्रचलितुकामा, 'अन्या च' नवा व्रजिका यदि तत्रागच्छेत्, सा च बलवता परिगृहीता, ततः पश्चात्प्राप्ताया अपि तस्या निश्रां पूर्वा प्रतिपद्यते, ततो ये पूर्वस्थिताः साधवस्तेऽवग्रहस्य न प्रभवः किन्तु पश्चात्प्राप्ता इति ।। अथ व्रजिकाया एव प्रकारान्तरमाह [भा. ४८६६ ] इगाए उट्टियाए, अच्छंते अहव होज्ज गेलनं । अन्ने तत्थ पविट्ठा, तम्मि व अन्नम्मि वा तूहे ॥ वृ- यस्यां व्रजिकायां साधवः स्थिता सा उत्थिता अन्या च तत्रागन्तुकामा तैः श्रुता तत उत्थितायामपि व्रजिकायां तिष्ठताम् अथवा ग्लानत्वं कस्यापि साधोर्भवेत् ततस्तत्रैव स्थितानामन्ये गोकुलिकाः साधुभिः सहिताः 'तत्र' प्राचीनव्रजिकास्थाने प्रविष्टास्ते च तत्र वा 'तूहे” तीर्थे गाः पानीयं पाययेयुः अन्यत्र वा ततोऽत्रावग्रहमार्गणा क्रियते ॥ [भा. ४८६७ ] जइ वा कुडी-पडालिसु, पुव्विल्लकतासु ते ठिता संता । अन्नमिवि पता, तूहे अस्सामिणो होंति ।। वृ- वाशब्दः प्रकारान्तरद्योतकः । यदि 'ते' आगन्तुका गोकुलिका पूर्वगोकुलिककृतासु कुटीपडालिकासु स्थितास्ततोऽन्यस्मिन्नपि तीर्थे गाः पाययन्तोऽस्वामिनो भवन्ति । ततो यदि ते पूर्वस्थिताः साधवो निष्कारणिका तदा न प्रभवः । अथ ग्लानादिकारणेन स्थितास्तदा ते स्वामिनः, नागन्तुकाः तत्रावग्रहस्य प्रभवः ॥ [भा. ४८६८] अन्नत्थ वा वि ठाउं, पाइंति कइल्लए जइ निवाणे । खलु न होंति पहुणो, सभावतूहे पहू हुंति ॥ वृ- यद्वा पूर्वकृताः कुटी - पडालिका वर्जयित्वाऽन्यत्र स्थाने स्थित्वा आगन्तुका गोकुलिका यदि पूर्वे कृते निपाने गाः पाययन्ति तदा 'ते खलु' आगन्तुकाः साधवो न प्रभवो भवन्ति । यदि तु ‘स्वभावतीर्थे' स्वाभाविके निपाने पाययन्ति तदा आगन्तुकाः साधवः प्रभव इति ।। [भा. ४८६९ ] एमेव मासकप्पे, अतीरिए उट्ठियाए पत्तियरा । पुव्विल्ला हुंति पहू, पुत्रे हट्ठा य न लहंति ॥ वृ- एवमेव 'अतीरिते' असम्पूर्णे मासकल्पे उत्थितायां पूर्वव्रजिकायाम् इतरा व्रजिका तंत्र प्राप्ता ततः पूर्वसाधव एव प्रभवः । अथ मासकल्पः पूर्णस्ते च 'हृष्टाः' अग्लाना अपि तत्रैव स्थितास्ततो नावग्रहं लभन्ते, पश्चाव्याप्ता एव तत्र प्रभव इति ॥ [भा. ४८७० ] फासुग गोयरभूमी, उच्चारे चेव छन्न वसही य । Page #105 -------------------------------------------------------------------------- ________________ १०२ बृहत्कल्प-छेदसूत्रम् -३-३/११० हट्ठा विलभंतेवं, तदभावे पच्छ जे पत्ता । वृ-अथ तत्र प्राशुका गोचरभूमिरुच्चारभूमिश्च विद्यते, वसतिश्च छन्ना प्राप्यते, अन्यत्र च तथाविधा नास्ति ततो हृष्टा अपि 'एवम्' अनन्तरोक्तयुक्त्या लभन्ते । तदभावे' अनन्तरोक्तकारणाभावे ये पश्चात् प्राप्तास्त एव लभन्ते ॥ गतं व्रजिकाद्वारम् । अथ सार्थद्वारमाह[भा.४८७१] जेनोग्गहिओ सत्थो, जेन य सत्थाहो समग दोण्हं पि। जावइया पडिसत्था, पुव्वठिय साहारणंजंच॥ वृ-'येन साधुनासार्थः पूर्वमवगृहीतोयन वा सार्थवाहः पूर्वमनुज्ञापितस्तस्यावग्रह आभवति। अथ समकमनुज्ञापितस्ततो द्वयोरप्यवग्रहः । यावन्तश्च 'प्रतिसार्था' मौलसार्थाद् लघुतरास्तत्र समागत्य मिलन्ति तेषु ये साधवस्ते पूर्वस्थितानामुपसम्पन्ना भवन्ति । यत्र परस्परं निश्रया द्वौ सार्थौ तिष्ठतस्तत्र साधारणं मन्तव्यमिति ॥ एतदेव स्पष्टयति[मा.४८७२] सत्ये अहप्पधाणा, एकनेक्केन सत्थवाहोउ। आपुच्छिया विदिन्ने, दोण्ह वि मिलिया व एगट्ठा । वृ-सार्थे ये केचिद् यथाप्रधानाः पुरुषास्ते एकेनानुज्ञापिताः, एकेन तु साधुना सार्थवाह आपृष्टः, ताभ्यां चोभयोरपि वितीर्णम्-अनुज्ञापितं ततो येन कृतं नातिक्रम्यते तेन यस्मै प्रदत्तं तस्यावग्रहः । अथ द्वावप्यनतिक्रमणीथौ ततो द्वयोरपि साधारणं क्षेत्रम् । अथ द्वावप्येकत्र मिलितावनुज्ञापितौ ततो येन पूर्वमनुज्ञापितस्तस्यावग्रह इति ॥ [भा.४८७३] इत्थं महल्लसत्थं, डहरागो पडिच्छए न ते पभुणो। तुरियं वा आधावति, भएण एमेव अस्सामी॥ वृ- महल्लं-बृहत्तरं कमपि सार्थमागच्छन्तं 'डहरकः' लघुतरः सार्थ प्रतीक्षते ततो ये लघुतरसार्थवासिनः साधवस्ते नावग्रहस्य प्रभवः । यो वा सार्थो भयेन त्वरितं बृहत्तरसार्थमिलनायाधावति तत्रापिये साधवस्ते ‘एवमेव' अस्वामिनः, बृहत्तरसार्थवासिन एवावग्रहस्य स्वामिन इति भावः॥ [भा.४८७४] अडवीमज्झम्मि नदी, दुग्गंवा एत्थ दो विवसिऊणं। वोलेहामो पभाए, निस्सा साधारणं कुणइ ।। वृ-द्वौ सार्थावकत्र मिलितौ परस्परमित्थं निश्रां कुरुतः, यथा-यदिदमटवीमध्ये नदी दुर्गंवा विद्यते अत्र द्वयेऽपि जना रात्रावुषित्वा प्रभाते 'वोलयिष्यामः' पुरतो गमिष्यामः इति परस्परसाधारणां निश्रां यत्र कुरुतस्तत्र सचित्तादिकं सर्वमपि साधारणम् ॥ .. गतं सार्थद्वारम् । अथ सेनाद्वारमाह[मा.४८७५] सेनाए जत्थ राया, अणोग्गहो जत्थ वा पविट्ठो सो। सेसम्मि उग्गहो जो, गमो उ वइगाए सो इहइं॥ वृ-'यत्र' यस्यां सेनायां राजा भवति तत्रावग्रहो न भवति । 'यत्र वा ग्रामादौ क्षेत्रे ‘सः' राजा प्रविष्टस्तत्र यद्यप्यन्ये साधवः पूर्वस्थिताः सन्ति तथापि यावन्तं कालं स तत्रास्ते तावन्नावग्रहः । शेषं नाम-यत्र ग्रामादौ राजा न प्रविष्टो या वा मुण्डसेना अराजका इत्यर्थ तत्रावग्रहो भवति परं तत्र यो व्रजिकायां गम उक्तः स इहापि मन्तव्यः॥गतं सेनाद्वारम् । अथ संवर्तद्वारमाह Page #106 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- ११०, [भा. ४८७५ ] [मा. ४८७६ ] नागरगो संवट्टो, अनोग्गहो जत्थ वा पविट्ठो सो । सेसम्म उग्गहो जो, गमो उ सत्यम्मि सो इहई || वृ- 'नागरकः' नगरसम्बन्धी संवत्त' 'अनवग्रहः' नतत्रावग्रहो भवति । 'यत्र वा' ग्रामादौ स नागरकः संवर्त्तः प्रविष्टस्तत्रापि नावग्रहः । शेषः- ग्रामेयकसंवर्त्तस्तत्रावग्रहो भवति परं य एव सार्थे गम उक्तः स एवेह द्रष्टव्यः ॥ चूर्णीवचोभिः फलकैः सुयोजितैर्गुरुप्रतिष्ठानयुतैः ससूत्रकैः । तृतीयकोद्देशकवारिधिं सतां, तरी तरीतुं विवृतिः कृता मया ॥ उद्देशकः-३ समाप्तः १०३ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता वृहत्कल्पसूत्रे तृतीय उद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्तियुक्तं ) संघदास गणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता । उद्देशक:-४ व्याख्यातस्तृतीय उद्देशकः, सम्प्रति चतुर्थ आरभ्यते । तस्य चेदमादिसूत्रम्मू. (999) तओ अनुग्घाइया पन्नत्ता, तं जहा - हत्थकम्मं करेमाणे, मेहुणं पडिसेवमाणे, राईभोयणं भुंजमाणे ॥ वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इति चिन्तायां सम्बन्धविधिमेव तावदुपदर्शयति[भा. ४८७७] सुत्ते सुत्तं बज्झति, अंतिमपुष्फे व बज्झती तंतू । इय सुत्तातो सुत्तं, गहंति अत्थातो सुत्तं वा ॥ वृ- इह सम्बन्धोऽनेकधा भवति यथा पुष्पेषु ग्रथ्यमानेषु यदा 'सूत्रम् ' तन्तुर्निष्ठितो भवति तदा तत्रैव सूत्रेऽपरं सूत्रं बध्यते, अन्तिमपुष्पे वा तन्तुर्बध्यते, बद्धवा च पुष्पाणि ग्रथ्यन्ते; एवं यस्मिन्नन्तिमसूत्रे उद्देशको निष्ठितो भवति ततः सूत्रादपरस्योद्देशकस्य यद् आद्यं सूत्रं तद् यदि सध्शाधिकारिकं भवति तदा सूत्रात् सूत्रं ग्रन्थन्तीत्युच्यते । क्वापि पुनरर्थादपरसूत्रं सम्बध्यते । वाशब्दोपादानात् क्वाप्यर्थादर्थस्य सम्बन्धः क्रियते । तत्रार्थात् सूत्रसम्बन्धं तावद् दर्शयति[भा. ४८७८ ] घोसो त्ति गोउलं ति य, एगठ्ठे तत्थ संवसं कोई । खीरादिविंधियतनू, मा कम्मं कुज्ज आरंभो ॥ वृ घोष इकति गोकुलमिति चैकार्थम् । तत्रतृतीयोद्देशकान्त्यसूत्राभिहितचल क्षेत्रद्वारावसरायाते गोकुले संवसन् कश्चित् साधुः 'क्षीरादिबृंहिततनुः' प्रचुरदुग्ध-दध्याद्युपचितशरीरो मोहोद्भवेन मा हस्तकर्म कुर्यात्, उपलक्षणमिदम्, तेने मा वा मैथुनं प्रतिसेवेत, अतस्तद्वारणार्थमादिसूत्रस्यारम्भः क्रियते ॥ अथ सूत्रात् सूत्रसम्बन्धमाह [भा. ४८७९] ट्ठाऽनंतरसुत्ते, वृत्तमनुग्घाइयं तु पच्छित्तं । तेन व सह संबंधो, एसो संदट्ठओ नामं ॥ वृ-तृतीयोद्देशके यदधस्तादन्त्यसूत्रं तस्य 'अन्तरसूत्रे' रोधकाख्ये यो बहिर्भिक्षाचर्यां गतस्तां रजनीं तत्रैव बहिरावसति तस्यानुद्धातिकं प्रायश्चित्तं साक्षादेवोक्तम्, अत्रापि देवानुद्धातिकं Page #107 -------------------------------------------------------------------------- ________________ १०४ बृहत्कल्प-छेदसूत्रम् -३-४/१११ साक्षादेव सूत्रेणाभिधीयते, एवं 'तेन वा' रोधकसूत्रेण समं ‘सन्दष्टको नाम' सध्शपूर्वापरसूत्रद्वयसन्दंशकगृहीत इव सम्बन्धो भवति ॥अथान्याचार्यपरिपाट्या सम्बन्धमेवाह[भा.४८८०] उवचियमंसा वतियानिवासिणो मा करेज्ज करकम्मं । इति सुत्ते आरंभो, आइल्लपदं च सूएइ॥ वृ-जिकानिवासिनः सन्तः साधव उपचितमांसाः साताः करकर्म मा कार्युरिति प्रस्तुतसूत्रविषय आरम्भः । अयं च सम्बन्धः “हत्थकम्मं करेमाणे" इतिलक्षणं अत्राद्यपदं . सूचयति॥ [भा.४८८१] तह वि य अठायमाणे, तिरिक्खमाईसु होइ मेहुन्न। निसिभत्तं गिरिजन्ने, अरुणम्मि व दुद्धमाईयं ॥ वृ-'तथापि' करकर्मणाऽप्यतिष्ठतिपरिणामेतिरश्चादिषुमैथुनप्रतिसेवनमपिकदाचिद्भवेद् इति द्वितीयपदसूचा । व्रजिकायां च गिरियज्ञादौ सायाह्नसङ्खड्यां निशिभक्तं प्रतिसेवेत अरुणोदयवेलायां वा दुग्धादिकं गृह्णीयादिति तृतीयपदसूचा॥ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'त्रयः' त्रिसङ्ख्याकाः ‘अनुद्धातिकाः' उद्धातो नाम"अद्धेण छिन्नसेसं" इत्यादिविधिना भागपातःसान्तरदानंवाउद्धातः,सविद्यते येषुतेउद्घातिकाः, तद्विपरीताअनुद्धातिकाः ‘प्रज्ञप्ताः' तीर्थकरादिभिःप्ररूपिताः। तद्यथा' इत्युपप्रदर्शनार्थी हन्ति हसति वा मुखमावृत्यानेनेति हस्तः-शरीरैकदेशो निक्षेपाऽऽदानादिसमर्थः, तेन यत् कर्म क्रियते तद् हस्तकर्म, तत् कुर्वन् । तथा स्त्री-पुंसयुग्मं मिथुनमुच्यते, तस्य भावः कर्म वा मैथुनम्, तत् प्रतिसेवमानः। तथा रात्रौ भोजनम्-अशनादिकंभुनानः । एष सूत्रार्थ ।। अथ नियुक्तिविस्तरमाह[भा.४८८२] एक्कस्स ऊ अभावे, कतो तिगं तेन एक्कगस्सेव। निक्खेवं काऊणं, निष्फत्ती होइ तिण्हं तु॥ वृ-इह त्रयाणां सङ्ख्या प्रथमतो वक्तव्या।तत्रैकस्याभावे कुतस्त्रिकंसम्भवति? तेन कारणेन प्रथमत एकस्यैव निक्षेपं कृत्वा ततस्त्रयाणां निक्षेपस्य निष्पत्ति कर्त्तव्या भवति॥ यथाप्रतिज्ञातमेव करोति[भा.४८८३] नामं ठवणा दविए, मातुगपद संगहेक्कए चेव । पज्जव भावे य तहा, सत्तेएक्केवगा होति॥ वृ-नामैककं स्थापनैककं द्रव्यैककंमातृकापदैककं सङ्गहैककंपर्यवेककंभावककम् । एतानि सप्तैककानि भवन्ति ॥ तत्र नाम-स्थापने क्षुण्णे।द्रव्यैककंपुनर्जशरीर-भव्यशरीरव्यतिरिक्तमाह[भा.४८८४] दव्वे तिविहं मादुकपदम्मि उप्पन्न-भूय-विगतादी। सालि त्ति व गामो त्ति व, संघो त्ति व संगहेकंतु॥ वृ-'द्रव्ये' द्रव्यविषयंएककंत्रिविधम्, तद्यथा-सचित्तमचित्तं मिश्रंच।सचित्तंपुनरपि द्विपदचतुष्पदा-ऽपदभेदात् त्रिधा । तत्र द्विपदैककं एकः पुरुषः, चतुष्पदैककं एकोऽश्व एको हस्ती, अपदैककं एको वृक्ष इत्यादि । अचित्तैककं एकः परमाणुः एकमाभरणम् । मिश्रककं सालङ्कार एकः पुरुषः । मातृकापदे तु चिन्त्यमाने एककं उत्पन्न-भूत-विगतादिकम्, “उप्पने इवा, विगते इवा, धुवे इवा'' इत्यस्य पदत्रयस्यैकतरमित्यर्थः । आदिशब्दाद् अकाराद्यक्षरात्मिकाया वा Page #108 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - १११, [भा. ४८८४] १०५ मातृकाया एकतरं पदम् । सङ्घहैककं बहुत्वेऽप्येकवचनाभिधेयम्, यथा-शालिरिति वा ग्राम इति वा सङ्घ इति वा ॥ अथ पर्यायैककादीनि दर्शयति [भा. ४८८५ ] दुविकप्पं पजाए, आदिट्ठे जन्न-देवदत्तो त्ति । अनादिट्ठे एक्को त्तिय, पसत्थमियरं च भावम्मि ।। वृ- पर्यायैककं 'द्विविकल्पं' द्विप्रकारम्, तद्यथा-आदिष्टमनादिष्टं च, विशेषरूपं सामान्यरूपं चेत्यर्थः । तत्रादिष्टं यज्ञदत्तो देवदत्त इत्यादि, अनादिष्टमेकः कोऽपि मनुष्य इत्यादि । अथवा पर्यायैककं वर्णादीनामन्यतम एकः पर्यायः । भावैककं द्विधा-आगमतो नोआगमतश्च । आगमती ज्ञाता उपयुक्तः । नोआगमतः प्रशस्तम् 'इतरच्च' अप्रशस्तमिति द्विधा । प्रशस्तमौपशमिकादीनामेकतरो भावः, अप्रशस्तमौदयिको भावः । अत्राप्रशस्तभावैककेनाधिकारः, हस्तकर्मादीनामप्रशस्तभावोदयादेव सम्भवात् ॥ अथ 'त्रिकस्य निक्षेपे कृते द्विकनिक्षेपः कृत एव भवति' इति मन्यमानस्त्रिरकनिक्षेपज्ञापनार्थमिदमाह [भा. ४८८६] नामं ठवणा दविए, खेत्ते काले य गणण भावे य । एसो उ खलु तिगस्सा, निक्खेवो होइ सत्तविहो । वृ-नामत्रिकं स्थापनात्रिकं द्रव्यत्रिकं क्षेत्रत्रिकं कालत्रिकं गणनात्रिकं भावत्रिकं चेति । एष खलु त्रिकस्य निक्षेपः सप्तविधो भवति ।। नाम-स्थापनात्रिके गतार्थे । द्रव्यत्रिकं ज्ञ भव्यशरीरव्यतिरिक्तं ज्ञापयति [भा. ४८८७ ] दव्वे सच्चित्तादी, सच्चित्तं तत्थ होइ तिविहं तु । दुपय चतुप्पद अपदं, परूवणा तस्स कायव्वा ॥ वृ- द्रव्यत्रिकं सचित्ता-चित्त-मिश्रभेदात् त्रिधा । तत्र सचित्तत्रिकं भूयस्त्रिविधं भवति । तद्यथा-द्विपदत्रिकं चतुष्पदत्रिकं अपदत्रिकम् । तस्य च सप्रभेदस्यापि परूपणा कर्त्तव्या । सा च यथा सचित्तैककस्य कृता तथैवावगन्तव्या ॥ [भा. ४८८८ ] परमाणुमादियं खलु, अच्चित्तं मीसगं च मालादी । तिपदेस तदोगाढं, तिन्निव लोगा उ खेत्तम्मि ॥ वृ- परमाणुत्रयम्, आदिशब्दाद् द्विप्रदेशिकत्रयं यावदनन्तप्रदेशिकत्रयम्, एतदचित्तत्रिकं द्रष्टव्यम्। मिश्रत्रिकं तु मालात्रयं मन्तव्यम्, तत्र हि पुष्पाणि सचित्तानि सूत्रमचित्तमिति कृत्वा । आदिग्रहणेन सालङ्कारपुरुषत्रयमित्यादि गृह्यते । क्षेत्रत्रयम्-त्रय आकाशप्रदेशाः, "तदोगाढं" ति तेषु वा त्रिषु आकाशप्रदेशेषु अवगाढं द्रव्यं क्षेत्रत्रयम्, त्रयो वा लोकाः' अधोलोकतिर्यग्लोकोर्ध्वलोकलक्षणाः क्षेत्रत्रयमुच्यते ॥ [भा. ४८८९] तिसमय तट्ठितिगं वा, कालतिगं तीयमातिणो चेव । भावे पसत्थमितरं, एक्क्कं तत्थ तिविहं तु ॥ वृ- कालत्रयं त्रयः समयाः, “तट्ठितिगं व” त्ति त्रिसमयस्थितिकं वा द्रव्यं कालत्रयम्, अथवा अतीता-ऽनागत-वर्तमानकाला एव कालत्रयम्। भावत्रयं प्रशस्तम् 'इतरद्' अप्रशस्तं चेति द्विधा । पुनरेकैकं त्रिविधम् । तत्र ज्ञानं दर्शनं चारित्रं चेति प्रशस्तम्, मिथ्यात्वमज्ञानमविरतिश्चेत्यप्रशस्तम् । अविरतिरपि हस्तकर्म-मैथुन-रात्रिभक्तप्रति सेवाभेदादिह प्रस्तावे त्रिविधा । अत्र चानयैवाधिकारः ॥ Page #109 -------------------------------------------------------------------------- ________________ १०६ व्याख्यातं त्रय इति पदम् । अथानुद्घातिकपदं व्याख्यातुमाहउग्घातमनुग्घाते, निक्खेवो छव्विहो उ कायव्वो नामं ठवणा दविए, खेत्ते काले य भावे य ॥ [भा. ४८९० ] बृहत्कल्प-छेदसूत्रम् - ३-४/१११ वृ - इह ह्रस्वत्वाद् दीर्घत्ववद् उद्घातिकादनुद्धातिकस्य प्रसिद्धिरिति कृत्वा द्वयोरप्युद्धातिकाऽनुद्धातिकयोः षड्विधो निक्षेपः कर्त्तव्यः । तद्यथा - नामनि स्थापनायां द्रव्ये क्षेत्रे काले भावे चेति ॥ तत्र नाम-स्थापने गतार्थे । द्रव्यादिविषयमुद्धातिकमनुद्धातिकं च दर्शयति[भा. ४८९१] उग्घायमनुग्धाया, दव्वम्मि हलिद्दराग-किमिरागा । खेत्तम्मि कण्हभूमी, पत्थरभूमी य हलमादी ॥ वृ- 'द्रव्ये' द्रव्यत उद्धातिको हरिद्रारागः, सुखेनैवापनेतु शक्यत्वात्; अनुद्धातिकः कृमिरागः, अपनेतुमशक्यत्वात् । क्षेत्रत उद्धातिकं कृष्णभूमम्, अनुद्धातिका प्रस्तरभूमि । कुतः ? इत्याह"हलमादि"त्ति हल- कुलिकादिभिः कृष्णभूममुद्धातयितुं क्षोदयितुं शक्यम्, प्रस्तरभूमिरशक्या ।। तथा [ भा. ४८९२ ] कालम्मि संतर निरंतरं तु समयो य होतऽनुग्घातो । भव्वस्स अट्ठ पयडी, उग्घातिम एतरा इयरे ॥ वृ- कालत उद्धातिकं सान्तरं प्रायश्चित्तस्य दानम्, अनुद्धातकं निरन्तरदानम् । तुशब्दाद् लघुमासादिकमुद्धातिकम्, गुरुमासादिकमनुद्धातिकम् । अथवा कालतः समयोऽनुद्धातिको भवति, खण्डशः कर्तुमशक्यत्वात्; आवलिकादय उद्धातिकाः, खण्डयितुं शक्यत्वात् । भावत उद्धातिका भव्यस्याष्टौ कर्मप्रकृतयः, उद्घातयितुं शक्यत्वात् । 'इतरस्य' अभव्यस्य सत्कास्ता एव 'इतराः' अनुद्धातिकाः ॥ कुतः ? इति चेद् उच्यते [भा. ४८९३] जेन खवणं करिस्सति, कम्माणं तारिसो अभव्वस्स । नय उप्पज्जइ भावो, ति भावो तस्सऽनुग्घातो ॥ वृ- 'येन' शुभाध्यवसायेन 'कर्ममां' ज्ञानावरणादीनां क्षपणमसौ करिष्यति स ता शो भावोऽभव्यस्य कदाचिदपि नोत्पद्यते इत्यतस्तस्य भावोऽनुद्धातः, कर्मणामुद्धातं कर्तुमसमर्थः, अत एव तस्य कर्माणि अनुद्धातिकानि भण्यन्ते । अत्र च प्रायश्चित्तानुद्धातिकेनाधिकारः ॥ तच्च कुत्र भवति ? इत्याह[ भा. ४८९४] हत्थे य कम्म मेहुण, रातीभत्ते य होतऽनुग्घाता । एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ॥ वृ-हस्तकर्मकरणे मैथुनसेवने रात्रिभक्ते, एतेषु त्रिषु सूत्रोक्तपदेषु ‘अनुद्धातिकानि' गुरुकाणि प्रायश्चित्तानि भवन्ति । तत्र हस्तकर्मणि मासगुरुकम्, मैथुन - रात्रिभक्तयोश्चतुर्गुरुकाः । एतच्च प्रायश्चित्तं यदा यत्र स्थाने भवति तत् पुरस्ताद् व्यक्तीकरिष्यते । अथ 'एतेषां ' हस्तकर्मादीनां त्रयाणामपि पदानां 'प्रत्येकं' पृथक् प्ररूपणां वक्ष्ये ॥ यथाप्रतिज्ञातमेव निर्वाहयितुकामो हस्तकर्मप्ररूपणां तावदाह[भा. ४८९५] नामं ठवणाहत्थो, दव्वहत्थो य भावहत्यो य । दुविहो य दव्वहत्थो, मूलगुणे उत्तरगुणे य ॥ Page #110 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - १११, [भा. ४८९५ ] वृ- नामहस्तः स्थापनाहस्तो द्रव्यहस्तो भावहस्तश्चेति चतुर्धा हस्तः । तत्र नाम-स्थापनाहस्तौ गतार्थौ । द्रव्यहस्तो ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्विविधो भवति, तद्यथा - मूलगुणनिर्वर्तित उत्तरगुणनिर्वर्तितश्च । तत्र यो जीवविप्रमुक्तस्य शरीरस्य हस्तः स मूलस्य जीवस्य गुणेन प्रयोगेण निर्वर्तित इति मूलगुणनिर्वर्तितः, यस्तु काष्ठ-चित्र-लेप्यकर्मादिषु हस्तः स उत्तरगुणनिर्वर्तित उच्यते ॥ अथ भावहस्तमाह १०७ [भा. ४८९६ ] जीवोउ भावहत्थो, नेयव्वो होइ कम्मसंजुत्तो । बितियो वि य आदेसो, जो तस्स विजाणओ पुरिसो ॥ वृ- “जीवो”त्ति विभक्तिव्यत्ययाद् यो जीवस्य हस्तः 'कर्मसंयुक्तः ' आदाननिक्षेपादक्रियायुक्तः सन नोआगमतो भावहस्त उच्यते । द्वितीयोऽपि चात्रादेशः समस्ति-यः 'तस्य' हस्तस्य 'विज्ञायकः' तदुपयुक्तः पुरुषः सोऽपि भावहस्तः, आगमत इत्यर्थः । अत्र नो आगमतो भावहस्तेनाधिकारः ॥ अथ कर्मपदं व्याचष्टे [भा. ४८९७] नामं ठवणाकम्मं दव्वकम्मं च भाव कम्मं च । दव्वम्मि तुण्णदसिता, अधिकारो भावकम्मेणं ॥ वृ- नामकर्म स्थापनाकर्म द्रव्यकर्म भावकर्म चेति चतुर्धा कर्मणो निक्षेपः । तत्र नाम-स्थापने क्षुन्ने द्रव्यकर्म ज्ञशरीर भव्यशरीरव्यतिरिक्तं तुन्नणं वा दशिकानां बन्धनं वा, उपलक्षणमिदम्, तेन कुम्भाकर - रथकारादिगतमपि द्रव्यकर्म मन्तव्यम् । यद्वा व्यतिरिक्तं द्रव्यकर्म द्विधा- कर्मद्रव्यं नोकर्मद्रव्यं च । कर्मद्रव्यं ज्ञानावरणादिकर्मपर्यायमनापन्नाः कर्मवर्गणापुद्गलाः, यद्वा यद् ज्ञानावरणादिकं कर्म बद्धं न तावदुदयमागच्छति तत् कर्मद्रव्यम् । नोकर्मद्रव्यं आकुञ्चन प्रसारणोत्क्षेपणा-ऽवक्षेपण-गमनभेदात् पञ्चधा । भावकर्मद्विधा-आगमतो नोआगमतश्च । आगमतः 1 कर्मपदार्थज्ञाता उपयुक्तः, नोआगमतोऽष्टविधो ज्ञानावरणादिकर्मणामुदयः । एषां मध्येऽत्र कतमेनाधिकारः ? इति चेद् अत आह-अधिकारोऽत्र 'भावकर्मणा' मोहोदयलक्षणेन । शेषास्तु शिष्यमतिव्युत्पादनार्थं प्ररूपिताः । ततो भावहस्तेनयत् कर्म क्रियते तद् हस्तकरम भण्यते इति प्रक्रमः ।। अथ भावकर्मैव व्याचिख्यासुराह [भा. ४८९८ ] दुविहं च भावकम्मं, असंकिलिट्टं च संकिलिट्ठे च । ठप्पं तु संकिलिडं, असंकिलिट्टं तु वोच्छामि ॥ वृ-द्विविधं च भावकर्म, तद्यथा-असंक्लिषं च संक्लिष्टं च । चशब्दो स्वगतानेकभेदसूचकौ । तत्र संक्लिष्टं 'स्थाप्यं' पश्चाद् वक्ष्यते । असंक्लिष्टं तु साम्प्रतमेव वक्ष्यामि ॥ यथाप्रतिज्ञातमेव प्रमाणयति[भा. ४८९९] छेदने भेदने चेव, घंसणे पीसणे तहा । अभिघाते सिने य, काये खारे त्ति यावरे ॥ - छेदनं भेदनं चैव घर्षण पेषणं तथा अभिघातः स्नेहश्च कायः क्षार इति चापरः । एवमसंक्लिष्टस्य कर्मणोऽष्टौ भेदा भवन्ति ॥ एतानि च छेदनादीनि शुषिरे वा कुर्यादशुषिरे वा । पुनरेकैकं शुषिरच्छेदनादि द्विधा । कथम् ? इति चेद् उच्यते [भा. ४९०० ] एक्क्कं तं दुविहं, अनंतर परंपरं च नायव्वं । Page #111 -------------------------------------------------------------------------- ________________ १०८ बृहत्कल्प-छेदसूत्रम् -३-४/१११ अट्ठाऽनट्ठा य पुनो, होति अनट्ठाय मासलहुँ। वृ-यदशुषिरस्य शुषिरस्य वाछेदनं तदेकैकंद्विविधम्-अनन्तरंपरम्परंचज्ञातव्यम्।पुनरेकैकं द्विधा-अर्थादनर्थाच्च, सार्थकं निरर्थकं चेत्यर्थः । अनर्थकं छेदनादिकं कुर्वतो मासलघु, असामाचारीनिष्पन्नमिति भावः॥ कथं पुनः छेदनमनन्तरं परम्परं वा सम्भवति? इत्याह[भा.४९०१] नह-दंतादि अनंतर, पिप्ल्लमादी परंपरे आणा। छप्पइगादि असंजमे, छेदे परितावणातीया॥ वृ. नखैर्दन्तैः आदिग्रहणात् पादेन वा यत् छिद्यते तदनन्तरं छेदनमुच्यते । पिष्पलकेन आदिग्रहणात् पाइल्लक-छुरिका-कुठारादिभिर्यत् छिद्यतेतत् परम्परच्छेदनम् । एवमनन्तरं परम्परं वा छिन्दता तीर्थकर-गणधराणामाज्ञाभङ्गः कृतो भवति । तं छिन्दन्तं दृष्ट्वाऽन्येऽपि छिन्दन्ति इत्यनवस्था। एते तिष्ठन्तरश्छेदनादिकं सिट्टरं कुर्वन्तिनस्वाध्यायम्' एवंशय्यातरादौचिन्तयति मिथ्यात्वम् । विराधना द्विविधा-संयमे आत्मनि च । तत्र वस्त्रादौ छिद्यमाने षट्पदिकादयो यद् विनाशमश्नुवते सोऽसंयमः, संयमविराधनेत्यर्थः । अथ छेदनं कुर्वतो हस्तस्य पादस्य वा छेदो भवतितत आत्मविराधना, तत्र च परिताप-महादुःखादिनिष्पन्नं पाराञ्चिकान्तं प्रायश्चित्तम् ।। अथ शुद्धं शुद्धेन प्रायश्चित्तमाह[भा.४९०२] अझुसिर झुसिरे लहुओ, लहुगा गुरुगो यहोति गुरुगाय। संघट्टण परतावण, लहु-गुरुगऽतिवायणे मूलं ॥ वृ-अशुषिरमनन्तरं छिनत्ति मासलघु, शुषिरमनन्तरंछिनत्तिचतुर्लघुकम् ।अशुषिरं परम्परं छिदन्तोगुरुकोमासः, शुषिरंपरम्परं छिन्दतश्चतुर्गुरुकाः भवन्ति।शुषिरेबहुतरदोषत्वाद्गुरुतरम्, परम्परे शस्त्रग्रहणे संक्लिष्टतरं चित्तमिति कृत्वा गुरुतमं प्रायश्चित्तम् । एवं शुद्धपदे षट्कायविराधनाभावे मन्तव्यम् । अशुद्धपदे पुनरिदमपरं प्रायश्चित्तम्-“संघट्टण" इत्यादि, छेदनादिकं कुर्वन् द्वीन्द्रियान् सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, उपद्रावयति षड्लघु; त्रीन्द्रियान् सङ्घट्टयति चतुर्गुरु, उपद्रावयति छेदः; पञ्चेन्द्रियान् सट्टयति षड्गुरु, परितापयति छेदः, पञ्चेन्द्रियमतिपातयति मूलम् । एवमिन्द्रियानुलोम्येन सविस्तरं यथा पीठिकायामुक्तं तथैवात्रापि मन्तव्यम् ॥अथवा द्वितीयोऽयमादेशः[भा.४९०३] अझुसिरऽनंतर लहुओ, गुरुगो अपरंपरे अझुसिरम्मि। झुसिरानंतरे लहुगा, गुरुगा तु परंपरे अहवा॥ वृ-अशुषिरेऽनन्तरे लघुको मासः, अशुषिरे परम्परे गुरुको मासः । शुषिरेऽनन्तरे चतुर्लघु, शुषिरे परम्परे चतुर्गुरुकाः । अथवेतिप्रायश्चित्तस्य प्रकारान्तरताद्योतकः॥एवं तावत् छेदनपदं व्याख्यातम् । अथ भेदनादीनि पदानि व्याख्यातुकाम इदमाह[भा.४९०४] एमेव सेसएसुवि, कर-पादादी अनंतरं होइ। जंतु परंपरकरणं, तस्स विहाणं इमं होति ॥ वृ-'एवमेव' छेदनवत् 'शेषेष्वपि' भेदनादिषुपदेषुप्रायश्चित्तंवक्तव्यम्।नवरंकर-पादाभ्याम् आदिशब्दाद् जानु-कूपरादिभिशरीरावयवैः क्रियमाणंभेदनादिकमनन्तरं भवति॥यत्तुभेदनादेः परम्पराकरणं तस्य विधानमिदं भवति । तद्यथा Page #112 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१११, [भा. ४९०५] १०९ [भा.४९०५] कुवणयमादी बेदो, घंसण मणिमादियाण कट्ठादी। पट्टावरादि पीसण, गोप्फण-घनुमादि अभिघातो॥ वृ."कुवणओ" लगुडस्तेन आदिशब्दाद् उपल-लेष्टुकाभिर्वा घटादेः ‘भेदः' भेदनम्, द्विधा त्रिधा वा च्छिद्रपातनमित्यर्थः, एतत् परम्पराभेदनमुच्यते । एवं घर्षणं मणिकादीनां मन्तव्यम्, यथामणिकारालकुटवेधान् कृत्वा मणिकान् घर्षन्ति ।आदिशब्दात् प्रवालादिपरिग्रहः । “कट्ठाइ" त्ति चन्दनकाष्ठं फलकादिकं वा यद् घर्षति तद्वा घर्षणम् । “पट्ट"त्ति गन्धपट्टकस्तत्र वराःपधानायेगन्धास्तदादीनांपेषणंमन्तव्यम् । गोफणा-चर्मदवरकमयी प्रसिद्धा, तयाधनु-प्रभृतिभिर्वा लेष्टुकमुपलं वा यत् प्रक्षिपति एषोऽभिघात उच्यते ।। अथवा[भा.४९०६] विहुवण-नंत-कुसादी, सिनेह उदगादिआवरिसणं तु । काओ तु बिंब सत्थे, खारो तु कलिंचमादीहिं॥ वृ-विधुवनं-वीजनकं नन्तकं-वस्त्र कुशः-दर्भस्तप्रभृतिभिर्वीजयन् यत् प्राणिनोऽभिहन्ति एष वा अभिघात उच्यते । स्नेहो नाम उदकेन आदिशब्दाद् घृतेन तैलेन वा आवर्षणं करोति । कायो नाम द्विपदादीनां "बिम्ब' प्रतिरूपमित्यर्थः तत् शस्त्रेण परम्पराकरणभूतेन पत्रच्छेद्यादिषु निर्वतयति। क्षारः' लवणं तमशुषिरे शुषिरे वा कलिञ्चादिभिः प्रक्षिपति । 'कलिञ्चः' वंशकर्परी। एषु दोषानाह[भा.४९०७] एक्केक्कातो पदातो, आणादीया य संजमे दोसा। एवं तुअणट्ठाए, कप्पइ अट्ठाए जयणाए । वृ-एकैकस्माद्भेदनादपदादाज्ञाभङ्गादयो दोषाः, संयमे आत्मनिच प्रागुक्तनीत्या विराधना, एवमेते दोषा अनर्थकं छेदनादिकं कुर्वतो भवन्ति । अथ अर्थः-प्रयोजनं तस्मिन् प्राप्ते यतनया छेदनादिकं करोति तदा कल्पते ॥ इदमेव द्वितीयपदं भावयति[भा.४९०८] असती अधाकडाणं, दसिगादिगछेदनं वजयणाए। गुलमादि लाउनाले, कप्परभेदादि एमेव ॥ कृ-यथाकृतानांवस्त्राणामभावेदशिकाश्छेतव्याः,आदिशब्दात्प्रमाणाधिकस्यवावस्त्रदेश्छेदनं 'यतनया' यथा संयमा-ऽऽत्मविराधना न भवति तथा कर्त्तव्यम् । भेदनद्वारे-गुडादिपिण्डस्य भेदं कुर्यात्, अलाबु-तुम्बकंतस्य वा नालमधिकरणभयान भिन्द्यात्, कपरं-कपालं तदादिना वा कार्यमुत्पन्नं ततो घटग्रीवादेर्भेदनम् "एवमेव यतनया कुर्यात् ।। [भा.४९०९] अक्खाण चंदने वा, विघंसणं पीसणं तुअगतादी। वग्घातीनऽभिघातो, अगतादि पताव सुणगादी। वृ-घर्षणद्वारे-अक्षाः-प्रसिद्धाः तेषां विषमाणां समीकरणार्थम्, चन्दनस्य वा ग्लानादेः परिदाहोपशमनार्थं घर्षणं कर्तव्यम् । पेषणद्वारे-ग्लानादिनिमित्तमेव अगदादेः पेषणं विधेयम्। अभिघातद्वारे-व्याघ्रादीनामभिभवतांगोफणयाधनुषा वाऽभिघातःकार्य, अगदादेर्वाप्रताप्यमानस्य शुनक-काकादयोऽभिण्तन्तो लेष्टुना भेषयितव्याः॥ [भा.४९१०] बितिय दवुज्झण जतणा, दाहे वा भूमि-देहसिंचनता। पडिनीगा-ऽसिवसमणी, पडिमा खारोतु सेल्लादी॥ Page #113 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-४/१११ वृ-स्नेहद्वारे - 'द्वितीयम्' अपवापदं प्रतीत्य स्नेहमुद्वरितं क्षारमध्ये प्रक्षिप्य परिष्ठापयेत् । द्रवंपानकं तस्योज्झनं यतनया विधेयम् । “दाहे "त्ति लूताया उष्णस्य वा गाढतरममितापे प्रतिश्रयभूमिकायामावर्षणं कुर्यात्, तृषाभिभूतं वा देहं सिञ्चेत्, ग्लानं भक्तप्रत्याख्यानिनं वा दाहाभिभूतं सिञ्चेत् । कायद्वारे - कश्चिद् गृहस्थः प्रत्यनीकस्तस्योपशमनीं प्रतिमां कृत्वा ततो यावदसावनुकूलो भवति तावद् मन्त्रं जपेत्, अशिवप्रशमनीं वा प्रतिमां विदध्यात् । क्षारद्वारेअनन्तरं परम्परं वा शुषिरेऽशुषिरे वा प्रसूतिशमनार्थं क्षारं प्रक्षिपेत् । तत्र शुषिरे दर्शयति- “खारो तु सिल्लादि ''त्ति सेल्लं-वालमयं सिन्दूरं तत्र क्षारः क्षेपणीयः, किं सञ्जातो न वा ? इति ॥ उपसंहरन्नाह[भा. ४९११] कम्मं असंकिलिट्टं, एवमियं वन्नियं समासेणं । कम्मं तु संकिलिडं, वोच्छामि अहानुपुवीए ॥ वृ- एवमिदमसंक्लिष्टं हस्तकर्म समासेन वर्णितम् । साम्प्रतं संक्लिष्टं हस्तकर्म यथानुपूर्व्या वक्ष्यामि ॥ तदेवाह[भा. ४९१२] ११० वसहीए दोसेणं, दङ्कं सरितुं व पुव्वभुत्ताइं । एतेहि संकिलिहूं, तमहं वोच्छं समासेणं ॥ वृ- वसतेर्दोषेण वा स्त्रीणां वाऽऽलिङ्गनादिकं विधीयमानं दृष्टवा ' पूर्वभुक्तानि वा' स्त्रीभिः साहसित क्रीडितादीनि स्मृत्वा एतैः कारणैः 'संक्लिष्टं' हस्तकर्म यथोत्पद्यते तदहं वक्ष्ये समासेन । तत्र वसतिदोषं तावदाह[भा. ४९१३] दुविहो वसहीदोसो, वित्थरदोसो य रूवदोसो य । दुविहो य रूवदोसो, इत्थिगत नपुंसतो चेव ॥ वृ- द्विविधो वसतिदोषो भवति, तद्यथा-विस्तरदोषश्च रूपदोषश्च । तत्र विस्तरदोषो घङ्खशालादिका विस्तीर्णा वसति, स पश्चाद् वक्ष्यते । रूपदोषो द्विधा स्त्रीरूपगतो नपुंसकरूपगतश्च। [ भा. ४९१४] एक्केक्को सो दुविहो, सच्चित्तो खलु तहेव अचित्तो । अचित्तो वि यदुविहो, तत्थगताऽऽगंतुओ चेव ।। वृ- 'सः' स्त्रीरूपगतो नपुंसकरूपगतश्च दोष एकैको द्विविधः सचित्तोऽचित्तश्च, जीवयुतविषयोऽजीवयुतविषयश्चेत्यर्थः । अचित्तः पुनरपि द्विविधः तत्रगत आगन्तुकश्च ॥ उभयमपि व्याचष्टे[भा. ४९१५] कट्ठे पुत्थे चित्ते, दंतोवल मट्टियं व तत्थगतं । एमेव य आगंतुं, पालित्तय बेट्टिया जवणे ॥ - याः काष्ठकर्मणि वा पुस्तकर्मणि वा चित्रकर्मणि वा निर्वर्तिता स्त्रीप्रतिमा यद्वा दन्तमयमुपलमयं मृत्तिकामयं वा स्त्ररूपं यस्यां वसतौ वसति तत् तस्यां तत्रगतं मन्तव्यम्, तद्विषयो दोषोऽप्युपचारात् तत्रगत उच्यते । एवमेव चागन्तुकमपि मन्तव्यम् । आगन्तुकं नामयद् अन्यत आगतम् । ततो यथा तत्रगताः स्त्रीप्रतिमा भवन्ति तथाऽऽगन्तुका अपि भवेयुः । तथा चात्र पादलिप्ताचार्यकृता ‘वेट्टिक "त्ति राजकन्यका दृष्टान्तः । स चायम् - पालित्तायरिएहिं रन्नो भगिनीसरिसिया जंतपडिमा कया। चंकमणुम्मेस-निमेसमयी तालविंटहत्था आयरियाणं पुरतो चिट्ठइ | राया वि अईव पालित्तगस्स सिनेहं करेइ । धिजाइएहिं पउट्ठेहिं रन्नो कहियं-भगिनी ते Page #114 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१११, [भा. ४९१५] १११ समणएणं अभिओगिया। रायानपत्तियति, भणिओअ-पेच्छ, दंसेमुते।रायाआगतो, पासित्ता पालित्तायरियाणं रुठ्ठो पच्चोसरिओ य । तओ सा आयरिएहिं चेड ति विगरणी कया । राया सुटुतरं आउट्टो ॥ एवमागन्तुका अपि स्त्रीप्रतिमा भवन्ति । “जवणे"त्ति यवनविषये ईशानि स्त्रीरूपाणि प्राचुर्येण क्रियन्ते॥व्याख्यातं द्विविधमप्यचित्तम् । अथ सचित्तं व्याख्यायते, तदपि द्विविधम्-तत्रगतमागन्तुकं च । एतदुभयमपि व्याख्यानयति[भा.४९१६] पडिवेसिग-एक्कघरे, सचित्तरूवं तु होति तत्थगयं । सुनमसुन्नघरे वा, एमेव य होति आगंतुं॥ वृ-प्रातिवेश्मिकगृहे एकगृहे वा-एकत्रैवोपाश्रये कारणतः स्थितानां यत् स्त्रिया रूपं दृश्यते तत् तत्रगतं सचित्तं रूपं भवति । अथवा शून्यगृहमशून्यगृहं वा प्रविष्टेन या तत्र स्थिता स्त्री विलोक्यते तदपि तत्रगतम् । एवमेव चागन्तुकमपि सचित्तं स्त्रीरूपं भवति, प्रतिश्रये या स्त्री समागच्छति तदागन्तुकमिति भावः ॥अत्र तिष्ठतां दोषानुपदर्शयति[भा.४९१७] आलिंगनादी पडिसेवणं वा, दटुं सचित्ताणमचेदने वा। सद्देहि स्वेहि य इंधितो तू, मोहग्गि संदिप्पति हीनसत्ते॥ वृ-तेषांतत्रगतानामागन्तुकानांवा सचित्तानांस्त्रीरूपाणामालिङ्गनादीनि प्रतिसेवनांवाकुर्वतो दृष्ट्वा, अचेतनानि वा स्त्रीरूपाणि विलोक्य, प्रतिसेव्यमानाया वा स्त्रियः शब्दान् श्रुत्वा, तैः शब्दै रूपैश्च इन्धितः प्रज्वालितः 'तुः' पुनरर्थे मोहाग्नि कस्यापि हीनसत्त्वस्य भुक्तभोगिनोऽभुक्तभोगिनो वा सन्दीप्यते, ततः स्मृतिकरण-कौतुकदोषा भवेयुः । कथम् ? इत्याह. [भा.४९१८] कोतूहलं च गमनं, सिंगारे कुड्डछिद्दकरणे य। दिढे परिणय करणे, भिक्खुणो मूलं दुवे इतरे ।। वृ-कुतूहलं तस्योत्पद्यते-आसन्ने गत्वा पश्यामि, शृणोमि वा शब्दम्,एवं कुतूहले उत्पन्ने तत्र गमनं कुर्यात् शृङ्गारं वा गायन्तीं श्रुत्वा गच्छेत्, कुड्यस्य वा छिद्रं कृत्वा प्रलोकयेत्, दृष्टे च सोऽपितद्भावपरिणतो भवेत्-अहमप्येवं करोमीति, एतद्भावपरिणतःकश्चित्तदेवालिङ्गनादिकं करणं कुर्यात् । एतेषु स्थानेषु भिक्षोर्मूलं यावत् प्रायश्चित्तम्, 'इतरयोः' उपाध्यायाऽऽचार्ययोर्यथाक्रमं द्वे' अनवस्थाप्य-पाराञ्चिके चरमपदे भवतः ॥ इदमेव व्याचष्टे[भा.४९१९] लहुतो लहुगा गुरुगा, छम्मासा छेद मूल दुगमेव । दिढे य गहणमादी, पुव्वुत्ता पच्छकम्मंच॥ वृ-तत्रगतः शृणोति मासलघु, कुतूहलं तस्योत्पद्यते मासगुरु, व्रजतश्चतुर्लघुकाः, शृङ्गारं शृण्वतश्चतुर्गुरुकाः, कुड्यस्य च्छिद्रकरणे षण्मासा लघवः, छिद्रेण पश्यन्नास्ते षड्गुरवः, तद्भावपरिणतेच्छेदः, आलिङ्गनादिकरणे मूलम्, एवं भिक्षोः प्रायश्चित्तमुक्तम् । उपाध्यायस्य मासगुरुकादारब्धमनवस्थाप्ये पर्यवस्यति । आचार्यस्य चतुर्लघुकादारब्धं पाराञ्चिके तिष्ठति अन्यच्च-आरक्षिकादिभिईष्टे सति ग्रहणा-ऽऽकर्षणादयः पूर्वोक्ता दोषाः । या वा प्रतिमा सा कदाचिदालिङ्गयमाना भज्येत ततः पश्चात्कर्मदोषः॥ एष वसतिविषयो रूपदोष उक्तः। अथ विस्तरदोषमाह[भा.४९२०] अप्पो य गच्छो महती य साला, निकारणे ते य तहिं ठिताउ । Page #115 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-४/१११ कज्जे ठिता वाजतनाए हीना, पावंति दोसंजतना इमा तू॥ वृ-अल्पश्चासौ गच्छो यस्तत्र प्रतिश्रये स्थितः,शाला चसा ‘महती' विस्तीर्णा घवशालेत्यर्थः, ते च साधवो निष्कारणे 'तत्र' उपाश्रये स्थिता वर्तन्ते, अथवा कार्ये स्थिताः परं 'यतनया वक्ष्यमाणलक्षणयाहीनाः, ततो वेश्याप्रभृतिषुस्त्रीषुसमागच्छन्तीषु दोषं कौतुकस्मृतिकरणादिकं प्राप्नुवन्ति ॥कारणे तु तत्र तिष्ठतामियं यतना[भा.४९२१] असिवादिकारणेहिं, अन्नाऽसति वित्थडाए ठायंति। ओतप्पोत करिती, संथारग-वत्थ-पादेहिं ।। वृ-अशिवादिभिःकारणैः क्षेत्रान्तरेऽतिष्ठन्तस्तत्रअन्यस्यावसतेरभावे विस्तृतायामपिवसती तिष्ठन्ति । तत्र च संस्तारकैर्वस्त्र-पात्रैश्च भूमिकां ओतप्रोतां कुर्वन्ति, मालयन्तीत्यर्थः । इदमेव व्यनक्ति[भा.४९२२] भूमीए संथारे, अड्डवियड्डे करेंति जह दटुं। ठातुमणा वि दिवसओ, न ठंति रत्तिं तिमा जतना॥ वृ-विस्तीर्णायां वसतौ तथा भूम्यां संस्तारकान् अर्दवितर्दान् कुर्वन्ति यथा तान् दृष्टवा स्थातुमनसोऽपि न तिष्ठन्ति । एषा दिवसतो यतना । रात्रौ पुनरियं यतना॥ [भा.४९२३] वेसत्थीआगमणे, अवारणे चउगुरुंच आणादी। अनुलोमन निग्गमणं, ठाणं अन्नत्थ रुक्खादी ।। वृ-वेश्यास्त्री यदि रात्रावागच्छति भणति च-'अहमप्यत्र वसामि' इति ततः सा वारणीया। अथ न वारयन्ति ततश्चतुर्गुरुकम् आज्ञादयश्च दोषाः । “अनुलोमणे"त्ति अनुकूलैर्वचनैः सा प्रतिषेद्धव्या नखरपरुषैः, ‘मा साधूनामभ्याख्यानं दद्याद्' इति कृत्वा । “निग्गमने"त्तियदि सा वेश्या निर्गन्तुं नेच्छति ततः साधुभिर्निर्गन्तव्यम्, 'अन्यस्मिन्' शून्यगृहादि स्थाने स्थातव्यम्, तदभावे वृक्षमूलादावपि स्थेयम्, न पुनस्तत्रेति ॥ इदमेव व्यक्तीकरोति[भा.४९२४]पुढवी ओस सजोती, हरिय तसा उवधितेन वासं वा। सावय सरीरतेनग, फरुसादी जाव ववहारो॥ वृ- यद्यपि बहि पृथिवीकायोऽवश्यायो वा, ‘सज्योतिर्वा' साग्निका वा अन्या वसति, हरितकायस्त्रसप्राणिनो वा तत्र सन्ति तथापि निर्गन्तव्यम् । अथ बहिरुपधिस्तेनभयं वर्षं वा वर्षति श्वापदाः शरीरस्तेनका वा तत्र सन्ति ततः परुषवचनैरपि सा वेश्या भणितव्यानिर्गच्छास्मदीयात् प्रतिश्रयात् । आदिशब्दात् तथाप्यनिर्गच्छन्त्यां बन्धनादिकमपि विधीयते, यावद् व्यवहारोऽपि करणे उपस्थितायाः कर्तव्यः ॥ इदमेव भावयति[भा.४९२५] अम्हेदानि विसहिमो, इड्डिमपुत्त बलवं असहणोऽयं । नीहि अनंते बंधन, निवकड्डण सिरिधराहरणं ॥ वृ-साधवो भणन्ति-वयं क्षमाशीला इदानीं विविधं विशिष्टं वा सहामहे, ततोयस्तत्राकारवान् साधुः सदयते-अयंतु 'ऋद्धिमत्पुत्रः' राजकुमारादि 'बलवान्' सहस्रयोधी ‘असहनः' कोपनो बलादपि भवतीं निष्काशयिष्यति ततः स्वयमेव निर्गच्छ । यदि निर्गच्छति ततो लष्टम्, अथ न निर्गच्छति तदा सर्वेऽपि साधव एको वा बलवान् तां बघ्नाति, ततः प्रभाते मुच्यते । मुक्ता च Page #116 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं - १११, [भा. ४९२५] ११३ यदि नृपस्यान्तिके साधूनाकर्षति तदा करणे गत्वा कारणिकादीनां व्यवहारो दीयते । तत्र च श्रीगृहोदाहरणं कर्तव्यम् । यथा-यदि राज्ञः श्रीगृहे रत्नापहारं कुर्वन् कश्चिच्चौरः प्राप्यते ततस्तस्य कं दण्डं प्रयच्छथ ? । कारणिकाः प्राहुः शिरस्तदीयं गृह्यते । साधवो भणन्ति - अस्माकमप्येषा रत्नापहारिणी अव्यापादिता मुधैव मुक्ता । ते प्राहुः कानि युष्माकं रत्नानि ? | साधवो भणन्तिज्ञानादीनि । कथं तेषामपहारः ? । अनाचारप्रतिसेवनादपध्यानगमनादिनेति ॥ अथ सस्त्रीकः पुरुषः समागच्छेत् सोऽपि वारणीयः । तथा चाह[भा. ४९२६] अहिकारो वारणम्मिं, जत्तिय अप्फुन्न तत्तिया वसही । अतिरग दोस भगिनी, रत्तिं आरद्धे निच्छुभणं ।। वृ- यत्र केवला पुरुषमिश्रिता वा स्त्री समागच्छति तत्र सर्वत्रापि वारणायामधिकारः, सा कर्तव्योति भावः । अत एव चोत्सर्गतो घङ्खशालायां न वस्तव्यं किन्तु यावद्भिः साधुभिः सा "अप्फुन्न "त्ति व्याप्ता भवति 'तावती' तावत्प्रमाणा वसतिरन्वेषणीया । अथातिरिक्तायां वसतौ वसन्ति ततः 'दोषाः' पूर्वोक्ता भवन्ति । कारणतस्तस्यामपि स्थितानां कश्चित् पुरुषः स्त्रीसहितः समागच्छति स चानुकूलैर्वचोभिर्वारणीयः, वार्यमाणश्च ब्रूयात्- 'एषा मे भगिनी संरक्षणीया, साधूनां समीपे चाशङ्कनीया' इति च्छद्मना भणित्वा स्थितऽसौ, रात्रौ च प्रारब्धस्तां प्रतिसेवितुं ततः साधुभिर्वक्तव्यः - अरे निर्लज्ज ! किमस्मानत्र स्थितान् न पश्यसि यदेवमकार्यं करोषि ? ; एवमुक्त्वा निष्काशनं तस्य कर्तव्यम् ॥ [ भा. ४९२७] आवरितो कम्मेहिं, सत्तू विव उट्ठितो थरथरंतो । मुंचति य भेंडितातो, एक्केकं भे निवादेमि ॥ वृ- अथासौ निष्काश्यमानो रुष्येद् रुष्टश्च 'कर्मभि' कषायमोहनीयादिभि 'आवृतः' आच्छादितः साधूनामुपरि शत्रुरिव रोषेण "थरथरंतो "त्ति भृशं कम्पमानः प्रहारं दातुमुत्थितः वाग्योगेन च 'भिण्डिकाः' त्राडीर्महता शब्देन मुञ्चति, यथा- “भे" युष्माकमेकैकं निपातयामि ।। [ भा. ४९२८ ] निग्गमनं तह चेवा, निद्दोस सदोसऽ निग्गमे जतणा । सज्झाए झाणे वा, आवरणे सद्दकरणे वा ॥ वृ- एवं तस्मिन् विरुद्धे सञ्जाते तस्या वसतेः सञ्जाते तस्या वसतेः साधुभिर्निर्गमनं 'तथैव' कर्तव्यं यथा पूर्वं वेश्यास्त्रियामुक्तं यदि बहिर्निर्दोषम् । अथ सदोषं ततः 'अनिर्गमे' अनिर्गच्छतामियं यतना- स्वाध्यायो महता शब्देन क्रियते ध्यानं वा ध्यायते । यस्य स्वाध्याये ध्याने वा लब्धिर्न भवति सः 'आवरण' कर्णयोः स्थगनं विदधाति ' शब्दकरणं वा' महता शब्देन बोलो विधीयते ॥ एवमपि यतमानस्य कस्यापि तत् प्रतिसेवनं दृष्ट्वा कर्मोदयो भवेत् । कथम् ? इति चेद् उच्यते[भा.४९२९] वडपादव उम्मूलण, तिक्खम्मि व विज्जलम्मि वच्च॑तो । कुमाणो विपत्तं, अवसो जह पावती पडणं । [भा. ४९३०] तह समणसुविहिताणं, सव्वपयत्तेण वी जतंताणं । कम्मोदयपइया, विराधना कासति हवेजा । वृ-यथा वटपादपस्यानेकमूलप्रतिबद्धस्यापि गिरिनदीसलिलवेगेनोन्मूलनं भवति, “तिक्खम्मि 20 8 Page #117 -------------------------------------------------------------------------- ________________ ११४ बृहत्कल्प-छेदसूत्रम् -३-४/१११ व' त्ति विभक्तिव्यत्ययाद् यथा वा तीक्ष्णेन नदीपूरेण कृतप्रयत्नोऽपि पुरुषो ह्रियते, 'विजले वा' कर्दमाकुले वा व्रजन् प्रयत्नं कुर्वाणोऽप्यवशः पतनं यथा प्राप्नोति, तथा श्रमणसुविहितानां सर्वप्रयत्नेनापि निर्विकृतिकविधान-वाचनाप्रदानादिना यतमानानां वसतिदोषेणानाचारदर्शनाद् मोहोदयः सञ्जायते । ततश्च 'कर्मोदयप्रत्ययिका' वेदमोहनीयकर्मोदयहेतुका कस्यचिदनगारस्य चारित्रविराधना भवेत् ।। एवमसावुदीर्णमोहो धृतिदुर्बलस्तमुदयमधिसोढुमशक्तो हस्तकर्म करोति तत्र प्रायश्चित्तमाह [भा. ४९३१] पढमाए पोरिसीए, बितिया ततियाए तह चउत्थीए । मूलं छेदो छम्मासमेव चत्तारि या गुरुगा ॥ वृ- प्रथमायां पौरुष्यां हस्तकर्म करोति मूलम्, द्वितीयायां छेदः, तृतीयायां षण्मासा गुरवः, चतुर्थ्यां चत्वारो मासा गुरवः ।। एनामेव निर्युक्तिगाथां व्याचष्टे [भा.४९३२] निसि पढमपोरिसुब्भव, अदढधिती सेवने भवे मूलं । पोरिसिपोरिसिसहने, एक्केकं ठाणगं हसइ ॥ वृ- 'निशि' रात्रौ प्रथमपौरुष्यां मोहोद्भवो जातः तस्यामेवाध्ढधृतिर्यदि हस्तकर्म सेवते तदा मूलम् । अथ प्रथमपौरुषीमधिसह्य द्वितीयायां सेवते छेदः । द्वे पौरुष्यावधिसह्य तृतीयायां सेवते षड्गुरवः । तिस्रः पौरुषीरधिसह्य चतुर्ध्या सेवमानस्य चतुर्गुरुकाः । एवं पौरुषीपौरुषीसहने एकैकं प्रायश्चित्तस्थानं हसति ॥ [भा.४९३३] बितियम्मि वि दिवसम्मिं, पडिसेवंतस्स मासियं गुरुअं । छट्ठे पच्चक्खाणं, सत्तमए होति तेगिच्छं । वृ एवं रात्री चतुरो यामानधिसह्य द्वितीये दिवसे प्रथमपौरुष्यां प्रतिसेवमानस्य मासगुरुकम्। ततः परं सर्वत्रापि मासगुरुकम् । लघूनि तु प्रायश्चित्तानि अत्र न भवन्ति, अत एवेदं हस्तकर्मसेवनमनुद्धातिकमुच्यते । एवमसौ प्रतिसेव्य सङ्घाटिकस्यान्यस्य वा कस्याप्यालोचयेत् । स च प्रागुक्तहस्तकर्मकारकसाधुपञ्चकापेक्षया षष्ठः साधुस्तं प्रति ब्रवीति यत् कृतं तदकृतं न भवति, सम्प्रति भक्तप्रत्याख्यानमङ्गीकुरु । सप्तमके चैकित्स्यं भवति । इयमत्र भावना- सप्तमो ब्रवीति-अस्य मोहोदयस्य निर्विकृतिका ऽवमौदरिकादिरूपा चिकित्सा कर्तव्या ॥ तथा[ मा. ४९३४] पडिलाभणऽट्ठमम्मिं, नवमे सही उवस्सए फासे । दसमम्मि पिता-पुत्ता, एक्कारसमम्मि आयरिए ॥ वृ- अष्टमे साधौ प्रतिलाभनाया उपदेशो भवति । नवमो ब्रूते - श्राद्धिका उपाश्रये समानीयते सा भवतः शरीरं स्पृशेत् । दशमे साधौ - पिता पुत्रौ युवां सज्ञातिकग्रामं गत्वा चिकित्सां कुरुतमित्युपदिशति । एकादशे सङ्घाटिकसाधौ आचार्या इत्युल्लेखेनोपदेशो भवति किमुक्तं भवति ? - एकादशो ब्रवीति-यदाचार्या आदिशन्ति तद् विधेहि । अयं शुद्धः ।। शेषेषु प्रायश्चित्तमाह [भा. ४९३५ ] छट्टो य सत्तमो या, अहसुद्धा तेसि मासियं लहुयं । उवरिल्ल जं भणंती, थेरस्स वि मासितं गुरुगं ॥ वृ षष्ठ- सप्तमी 'यथाशुद्धी' न दोषयुक्तमुपदेशं ददाते, यतश्च गुरूणामुपदेशमन्तरेम स्वेच्छया भणतस्ततो मासिकं लघुकं तयोः प्रायश्चित्तम् । 'उपरितनाः' अष्टम- नवम - दशमा यत् सदोषमुपदेशं Page #118 -------------------------------------------------------------------------- ________________ उद्देशक ः ४, मूलं-१११, [भा. ४९३५] ११५ भणन्ति तेन त्रयाणामपि मासगुरुकम् । स्थविरस्यापि पितुः पुत्रेण संह सज्ञातग्रामं गच्छतो मासगुरुकम् ॥अथामूनेव षष्ठादिसाधूनामुपदेशान् विवृणोति[भा.४९३६] संघाडगादिकहणे, जंकत तंकत इदानि पञ्चक्खा। अविसुद्धो दुट्ठवणो, न समति किरिया से कायव्वा ॥ वृ-सङ्घाटिकस्य आदिशब्दाद् अन्यस्य वा 'हस्तकर्म कृतं मया' इत्येवं कथने कृते सि स ब्रूयात्-यत् कृतं तत् कृतमेव, इदानीं भक्तं प्रतयाचक्ष्व?, किं ते भ्रष्टप्रतिज्ञस्य जीवितेन? इति। सप्तमः प्राह-'अविशुद्धो दुष्टव्रणः' रप्फकादिकः क्रियां विनान शाम्यति अतः क्रिया "से" तस्य कर्तव्या, एवं भवताऽप्यस्य मोहोदयव्रणस्य निर्विकृतिका-ऽवमौदरिकादिका क्रिया विधेया येनोपशमो भवति ।। [भा.४९३७] पडिलाभणा उसडी, कर सीसे वंद ऊरु दोच्चंगे। सूलादिरुयोमज्जण, ओअट्टण सडिमानेमो॥ वृ-अष्टमः प्राह-“सड्डी" श्राविका सा प्रतिलाभनां करोति, प्रतिलाभयन्त्यां चोर्वो पात्रके स्थिते यथाभावेनाभ्युपेत्य वा वालिते ऊरुमध्येन द्वितीयाङ्गादिकमवगलति, ततः सा श्राद्धिका करेण स्पृशति, “सीसे वंद"त्ति शीर्षेण वा वन्दमाना पादौ स्पृशेत, ततः स्त्रीस्पर्शेन बीजनिसर्गो भवेत् । नवमः प्राह-"सूलाइरुय"त्ति शूलम् आदिग्रहणात् गण्डमन्यतरद्वा तदनुरूपंरुग्जातमकस्मादुत्पाद्यते ततः श्राद्धिका आनीयते, सा तत् शूलादिकमपमार्जयति “ओअट्टण"त्ति गाढ़तरमुद्वर्त्तयति एवं बीजनिसर्गो भवेत् ततः श्राद्धिकामानयामः ।। [भा.४९३८] सन्दायपल्लि नेहिं (णं), मेहुणि खुड्डत निग्गमोवसमो। अविधितिगिच्छा एसा, आयरिकहणे विधिक्कारो॥ वृ-यस्य मोहोदयः समुत्पन्नस्तस्य पितरं प्रति दशमो भणति-सज्ञातकपल्लिं' सज्ञातकग्राम “णं" इति एनं आत्मीयं पुत्रं नय, तत्र मैथुनिका-मातुलदुहिता तया सह “खुटुंत"त्ति सोपहासवचनैर्मिनकथाभिपरस्परंहस्तसङ्घर्षेण चक्रीडतोबीजनिर्गमो भवेत्, ततश्चमोहोपशमो भवति । एषा सर्वाऽप्यविधिचिकित्सा भणिता । यस्तु ब्रवीति-आचार्याणामेतदालोचय, ततस्ते यां चिकित्सामुपदिशन्ति सा कर्तव्या । एतदेकादशस्य साधोर्विधिकथनमुच्यते ॥ अव प्रकारान्तरमाह[भा.४९३९] सारुवि गिहत्य (मिच्छे), परतित्थिनपुंसगे य सूयणया। चउरो य हुंति लहुगा, पच्छाकम्मम्मितेचेव॥ वृ-कश्चिद्भूयात्-'सारूपिकः सिद्ध पुत्रः तद्रूपोयो नपुंसकस्तेन हस्तकर्मकार्यताम्। द्वितीयः प्राह-गृहस्थपुराणनपुंसकेन । तृतीयो भणति-मिथ्याष्टिनपुंसकेन । चतुर्थो ब्रवीतिपरतीर्थिकनपुंसकेन । एतेषां चतुर्णामपि “सूयणय"त्ति हस्तकर्मकरणे सूचना प्रेरणांकुर्वाणानां चत्वारो लघवस्तपः-कालविशेषिता भवन्ति । तत्र प्रथम द्वाभ्यामपि लघवः, द्वितीये तपसा लघवः, तृतीये कालने लघवः, चतुर्थे द्वाभ्यामपि गुरव इति । अथ ते हस्तकर्म कृत्वा पश्चात्कर्म कुर्वन्ति, उदकेन हस्तौ धावन्तीत्यर्थः, तत्रापि 'त एव' चतुर्लघवः ।। [भा.४९४०] एसेव कमो नियमा, इत्थीसुवि होइ आनुपुवीए। Page #119 -------------------------------------------------------------------------- ________________ ११६ बृहत्कल्प-छेदसूत्रम् - ३-४/१११ चउरो य अनुग्धाया, पच्छाकम्मम्मि ते लहुगा ।। वृ-‘एष एव’ सारूपिकादिकः क्रमो नियमात् स्त्रीणामपि आनुपूर्व्या वक्तव्यो भवति । तद्यथाप्रथमो ब्रवीति - सिद्धपुत्रिकया हस्तकर्म कार्यताम्, एवं द्वितीयः - गृहस्थपुराणिकया, तृतीयःमिथ्याष्टिगृहस्थया, चतुर्थ-परतीर्थिक्या । चतुर्णामप्येवंभणतां स्त्रीस्पर्शकारापणप्रत्ययाश्चत्वारः 'अनुद्धाताः ' गुरुका मासास्तथैव तपः - कालविशेषिताः प्रायश्चित्तम् । पश्चात्कर्मणि तु 'त एव' चत्वारो मासा लघुकाः ॥ तदेवं गतं 'वसतेर्दोषेण' इति द्वारम् । दृष्ट्वा स्मृत्वा वा पूर्वभुक्तानि' इति द्वारद्वयं तु यथा निशीथे प्रथमोद्देशके प्रथमसूत्रे व्याख्यातं तथैवात्रापि मन्तव्यम् । तदेवमुक्तं हस्तकर्म । अथ मैथुनमभिधित्सुराह [ भा. ४९४१] मेहुन्नं पि य तिविहं, दिव्वं मानुस्सयं तिरिक्खं च । ठाणाई मोत्तूणं, पडिसेवणि सोधि स च्चेव ॥ वृ-मैथुनमपि त्रिविधम् । तद्यथा- दिव्यं मानुष्यं तैरश्चं च । अत्र च येषु स्तानेष्वेतानि दिव्यादीनि मैथुनानि सम्भवन्ति तानि मुक्त्वा स्थातव्यम् । यदि तेषु तिष्ठति तानि वा दिव्यदीनि प्रतिसेवते तदा तदेव स्थानप्रायश्चित्तं सैव च प्रतिसेवनायां शोधिर्या प्रथमोद्देशके सागारिकसूत्रेऽभिहिता अथ द्वितीयपदं सप्रायश्चित्तमुच्यते । तत्र परः प्रेरयति । [ भा. ४९४२ ] मूलुत्तरसेवासुं, अवरपदम्मिं निसिज्झती सोधी । मेहुने पुन तिविधे, सोधी अववायतो किन्नु । वृ- 'मूलगुणोत्तरगुणप्रतिसेवनासु' प्राणातिपात- पिण्डविशोधिप्रभृतिविषयासु 'अपरपदे' उत्सर्गापेक्षया अन्यस्मिन्नपवादाख्ये स्थाने 'शोधि' प्रायश्चित्तं तावन्निषिध्यते, न दीयत इत्यर्थः, मैथुने पुनस्त्रिविधेऽपि किमर्थमपवादतः प्रतिसेव्यमाने शोधिरभिधास्यते ? ।। सूरिराह-द्विविधा प्रतिसेवना- दर्पिका कल्पिका च अनयोः प्ररूपणार्थं तावदिदमाह [ भा. ४९४३ ] राग-द्दोसाणुगया, तु दप्पिया कप्पिया तु तदभावा । आराधना उ कप्पे, विराधना होति दप्पेणं ।। वृ-राग-द्वेषाभ्याम् अनुगता- सहिता या प्रतिसेवना स दर्पिका, या तु कल्पिका सा 'तदभावात् ' राग-द्वेषाभावाद् भवति । शिष्यः प्राह-दर्पेण कल्पेन वाऽऽसेविते किं भवति ? इति उच्यतेकल्पेनासेविते ज्ञानादीनामाराधना भवति, दर्पेण प्रतिसेविते तेषामेव विराधना भवति ।। आहयदि राग-द्वेषविरहिता कल्पिका भवति तर्हि मैथुने कल्पिकाया अभावः प्राप्नोति । उच्यतेप्राप्नोतु नाम, का नो हानि: ? । तथा चाह [भा.४९४४] कामं सव्वपदेसु वि, उस्सग्ग-ऽववादधम्मता जुत्ता मोत्तुं मेहुणभावं, न विना सो राग-दोसेहिं ।। वृ- 'कामम्' अनुमतमिदमस्माकम् 'सर्वेष्वपि पदेषु' मूलोत्तरगुणरूपेषु 'उत्सर्गा ऽपवादधर्मता युक्ता' उत्सर्ग-प्रतिषेधः अपवादः - अनुज्ञा तद्धर्मता तल्लक्षणता सर्वेष्वपि पदेषु युज्यते; तथापि मुक्त्वा 'मैथुनभावम्' अब्रह्मासेवनम्, तत्र उत्सर्गधर्मतैव घटते नापवादधर्मता । किमर्थम् ? इत्याह- असौ मैथुनभावो राग-द्वेषाभ्यां विना न भवति, अतो द्वितीयपदेऽपि न तत्राप्रायश्चित्तीति हृदयम् । अयं पुनरस्ति विशेषः Page #120 -------------------------------------------------------------------------- ________________ उद्देशक : : ४, मूलं- १११, भा. ४९४५ ] [भा. ४९४५ ] संजमजीवितहेउं, कुसलेनालंबनेन वऽनेणं । भयमाणे तु अकिच्चं, हानी वड्डी व पच्छित्ते ॥ वृ- 'संयमजीवितहेतोः' चिरकालं संयमजीवितेन जीविष्यामि' इति बुध्या 'कुशलेन वा' तीर्थाव्यवच्छित्त्यादिलक्षणेनान्येनाप्यालम्बनेन 'अकृत्यम्' अब्रह्म 'भजमानस्य' आसेवमानस्य प्रायश्चित्ते हानिर्वा वृद्धिर्वा वक्ष्यमाणनीत्या भवति ॥ आह-मैथुने कल्पिका सर्वथैव न भवति ? इति अत आह [ भा. ४९४६ ] गीयत्थो जतनाए, कडजोगी कारणम्मि निद्दोसो । एगेसिंगीत कडो, अरत्तदुट्ठो तु जतनाए ॥ वृ-गीतार्थ 'यतनया' अल्पतरापराधस्थानप्रतिसेवारूपया 'कृतयोगी' तपः कर्मणि कृताभ्यासः 'कारणे ' ज्ञानादौ सेवते, एष प्रथमो भङ्गः, अत्र च प्रतिसेवमानः कल्पिकप्रतिसेवावानिति कृत्वा निर्दोषः । गीतार्थो यतनया कृतयोगी निष्कारणे, एष द्वितीयो भङ्गः, अत्र सदोषः । एवं चतुर्णां पदानां षोडश भङ्गाः कर्तव्याः । एकेषां पुनराचार्याणामिह पञ्च पदानि भवन्ति - गीतार्थ कृतयोगी अरक्तो अद्विष्टो यतनया सेवते, एष प्रथमो भङ्गः; गीतार्थः कृतयोगी अरक्तोऽद्विष्टोऽयतनया, एष द्वितीयो भङ्गः; एवं पञ्चभिः पदैर्द्वात्रिंशद् भङ्गा भवन्ति । अत्रापि प्रथमभङ्गे कल्पिका प्रतिसेवा मन्तव्या न शेषेषु । आह-यदि तत्र कल्पिका तर्हि निर्दोष एवासौ, उच्यते [भा. ४९४७] जति सव्वसो अभावो, रागादीणं हविज्ज निद्दोसो । तणाजुतेसु तेसु तु, अप्पतरं होति पच्छित्तं ॥ वृ-यदि 'सर्वशः ' सर्वप्रकारेणैव रागादीनामभावो मैथुने भवेत् ततो भवेन्निर्दोषः, तच्च नास्ति, अतो न तत्र सर्वथा निर्दोषः, परं यतनायुतेषु 'तेषु' गीतार्थादिविशेषणविशिष्टेषु साधुष्वल्पतरं प्रायश्चित्तं भवति ।। अथ यदुक्तम्- "हानिर्वृद्धिर्वा प्रायश्चित्ते भवति" तत्र हानिं तावद् विवरीषुराह[भा. ४९४८] कुलवंसम्मि पहीणे, रज्जं अकुमारगं परे पेल्ले । तं कीरतु पक्खेवो, एत्थ य वुद्धीए पाधन्नं ॥ वृ- कश्चिद् नृपतिरनपत्यः स मन्त्रिणा प्रोक्तः यूयमपुत्रिणस्ततः कुलवंशे प्रक्षीणे राज्यमकुमारकं मत्वा परे राजानः प्रेरयेयुः ततः क्रियतामपरपुरुषप्रक्षेपः, स चोपायेन तथा कर्तव्यः यथा लोके अपयशः प्रवादो न समुच्छलति कुमारश्चोत्पद्यते, 'अत्र च ' उफायनिरूपणे बुद्धेः प्राधान्यम्, तयैवासौ सम्यक परिज्ञायते नान्यथेति भावः ॥ इदमेव सविशेषमाह - ११७ [भा.४९४९] सामत्थ निव अपुत्ते, सचिव मुनी धम्मलक्ख वेसनता । अणहबियतरुणरोधो, एगेसिं पडिमदायणता ॥ वृ- 'अपुत्रे' अपुत्रस्य नृपस्य सचिवेन सह “सामत्थणं” पर्यालोचनम्, यथा-कथं नाम कुमारः सम्भविता ? । ततो मन्त्रिणा भणितम्-यथा परक्षेत्रेऽपरेण बीजमुप्तं क्षेत्रस्वामिन आभाव्यं भवति एवं तवान्तःपुरक्षेत्रेऽन्येनापि बीजं निसृष्टं तवैव पुत्रो भवति । राज्ञा प्रतिपन्नं तद्वचनम्। भूयोऽप्यमात्यः प्राह-ये मुनयोऽयशःप्रवादाल्लज्जन्ते ते 'धर्मलक्ष्येण' धर्मकथाकारापणव्याजेन यद्वा “धम्मलक्खे”ति 'राजा सान्तःपुरः श्रावको गृहेऽर्हतांप्रतिमाः शुश्रूषते ताः साधवो वन्दितुमागच्छत' इत्येवं धर्मव्याजेन "वेसनय” त्ति प्रवेशनीयाः । एवममात्यवचनं प्रतिपद्य राज्ञा तथैव कृतम् । ततो राजगृहं प्रविष्टेषु Page #121 -------------------------------------------------------------------------- ________________ ११८ बृहत्कल्प-छेदसूत्रम् -३-४/१११ साधुषु ये तरुणाः अनघबीजाः - अविनष्टबीजास्तेषां लक्षणादिभिर्ज्ञात्वा रोधः - नियन्त्रणा कृता, शेषास्तु क्षुल्लक-स्थविरादयो विसर्जिताः । यद्वा “तरुण रोहे "त्ति पाठः, ते तरुणाः 'अवरोधे ' अन्तःपुरे तरुणस्त्रभि सार्धं बलाद् भोगान् भोजयितुमारेभिरे । राजपुरुषाश्च घोररूपधारिणो भणन्ति - यदि भोगान्न भोक्ष्यध्वे ततो वयं मारयिष्यामः । तत्रैकः साधुः "वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्यु सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥” इत्यादि परिभाव्य मर्तुमध्यवसितः, तस्यैवमनिच्छतो राजपुरुषैः शिरश्छिन्नम् । “एगेसिं पडिमदायणय'' त्ति 'एकेषाम्' आचार्याणामयमभिप्रायः, यथा मन्दरप्रकाशे प्रदेशे लेप्यप्रतिमाया लाक्षारसपूर्णायाः शीर्षं छित्त्वा दर्शितम्, ततः साधवो भणिताः यथैतस्य शिरश्छिन्नम् एवं भवतामपि शिरश्छेदो विधास्यते । इदमेव भावयति [भा. ४९५०] तरुणीण य पक्खेवो, भोगेहि निमंतणं च भिक्खुस्स । भोत्तुं अनिच्छमाणे, मरणं च तहिं ववसियस्स ।। वृ-तरुणीनां साधुभिः सहान्तःपुरे प्रक्षेपः कृतः, भोगैश्चैकस्य भिक्षोः प्रथमतो निमन्त्रणं कृतम्, तस्य च भोक्तुमनिच्छतो मरणं च तत्र व्यवसितस्य शिरश्छेदश्चक्रे ॥ [ भा. ४९५१] दवण तं विससणं, सहसा साभावियं कइतवं वा । विगुरुव्विया य ललना, हरिसा भयसा व रोमंचो ॥ वृ- 'तत्' तथाविधं 'विशसनं' व्यपरोपणं 'स्वाभाविकं' साधोरेव 'कैतविकं वा' प्रतिमायाः क्रियमाणं सहसा दृष्ट्वा 'विकुर्विताश्च' अलङ्कृत-विभूषिता ललना विलोक्य कस्यापि हर्षेण भयेन वा रोमाञ्च भवेत् । सकारोऽलाक्षणिकः ।। अत्रैव प्रायश्चित्तमाह [भा. ४९५२] सुद्धल्लसिते भीए, पच्चक्खाणे पडिच्छ गच्छ धेर विदू । मूलं छेदो छम्मास चउर गुरु-लहु लहुग मासो ॥ वृ-यस्तावद् मरणमध्यवसितः स शुद्धः । द्वितीयः - उल्लसितः - 'एतेनापि मिषेण स्त्रियं प्राप्स्यामः' इति बुध्या उद्घुषितरोमकूपः सञ्जातस्तस्य मूलम् । अपरः- यदि न प्रतिसेवे ततो मम शिरश्छिद्यते; एवं भीतस्य प्रतिसेवमानस्य च्छेदः । अपरश्चिन्तयति-अहमेवं मार्यमाणः समाधिं नासादयिष्यामि, असमाधिमरणेन च दुर्गतिङ्गमी, अतो भक्तप्रत्याख्यानं कृत्वा मरिष्ये; एवं सेवमानस्य षड्गुरवः । अपर इदमालम्बनं करोति- अहं जीवन् प्रतीच्छकानां वाचनां दास्यामि; तस्य षड्लघवः । अपर इदमालम्बनं करोति- अहं जीवन् प्रतीच्छकानां वाचनां दास्यामि; तस्य चतुर्लघुकम् । अपरः परिभावयति-विद्वांसः- आचार्यास्तेषां वैयावृत्यकर्ता कोऽपि न विद्यते तदर्थं प्रतिसेवे; तस्य मासलघुकम् ॥ इदमेव व्याख्याति [भा.४९५३] निरवहयजोणिथीणं, विउव्वणं हरिसमुल्लसिते मूलं । भय रोमंचे छेदो, परिन्न काहं ति छग्गुरुगा ।। वृ-पञ्चपञ्चाशतो वर्षाणामुपरिष्टादुपहतयोनिका स्त्री भवति, तेषामारतो अनुपहतयोनिका, गर्भं गृह्णातीत्यर्थः । एवं निरपहतयोनिकस्त्रीणां 'विकुर्वणं' मण्डनं दृष्टवा यस्य हर्ष समुल्लसति ततश्चाब्रह्म प्रतिसेवमानस्य तस्य मूलम् । यस्य तु भयेन रोमाञ्च उत्पद्यते तस्य च्छेदः । परिज्ञा Page #122 -------------------------------------------------------------------------- ________________ उद्देशक : : ४, मूलं- १११, [भा. ४९५३ ] ११९ भक्तप्रत्याख्यानं तां करिष्यामीति यः परिणतस्तस्य षड्गुरुकाः ॥ [भा. ४९५४] मासीदे पडिच्छा, गच्छो फिट्टेज थेर संघेच्छं । गुरु वेयावचं, काहं तिय सेवतो लहुओ ॥ वृ- 'मा प्रतीच्छकाः सीदेयुः' इति बुध्या यः सेवते तस्य षड्लघुकाः । यस्तु 'मां विना गच्छः स्फिटेत्' इत्यालम्बते तस्य चतुर्गुरु । 'स्थविरान् सङ्ग्रहीष्यामि' इति कृत्वा सेवमानस्य चतुर्लघु । 'गुरूणां वैयावृत्यं करिष्ये' इति हेतोः सेवमानस्य लघुमासः ।। उक्ता प्रायश्चित्तस्य हानिः । अथ वृद्धिमाह [भा. ४९५५] लहुओ उ होति मासो, दुब्भिक्खऽविसज्जणे य साहूणं । नेहानुरागत्तो, खुड्डो चिय नेच्छए गंतुं ॥ [भा. ४९५६ ] कालेनेसनसोधिं, पयहति परितावितो दिगिंछाए । अलभते चिय मरणं, असमाही तित्थवोच्छेदो ॥ वृ- 'इह दुर्भिक्षं भविष्यति' इति मत्वा सूरिभिरनागतमेव गच्छं गृहीत्वा निर्गन्तव्यम् । अथ स्वयं जङ्घाबलपरिक्षीणास्ततः साधवो विसर्जनीयाः । अथ न विसर्जयन्ति तत आचार्यस्यासामाचारी निष्पन्नो लघुको मासो भवति आज्ञादयश्च दोषाः । एते चापरे तत्र दोषा भवन्ति - स गच्छो दुर्भिक्षे भक्त - पानमलभमानः “दिगिंछाए "त्ति बुभुक्षया परितापितः सन् 'कालेन' कालक्रमेण एषणाशुद्धिमपि प्रजहाति, मरणमपि चासमाधिना भक्तमलभमानस्य भवेत्, तीर्थव्यवच्छेदश्च भवति, अतो विसर्जनीयः सर्वोऽपि गच्छः । तत्र च विसर्जिते किं भवति ? इति अत आह"नेहानुराग" इत्यादि पूर्वगाथायाः पश्चार्द्धम् । स्नेहानुरागरक्तः कश्चित् क्षुल्लको नेच्छति गन्तुं परमनिच्छन्नपि प्रेषितः । ततोऽसौ गुरुस्नेहानुरागपरवशो देशस्कन्धात् पलायित्वा प्रतिनिवृत्तः । सूरिभिरभिहितम् - दुष्ठु त्वया कृतं यदेवं भूयः प्रत्यागतः । आचार्याश्च स्वयं केषुचिन्निश्रागृहेषु यां भिक्षां लभन्ते तस्याः संविभागं क्षुल्लकस्य प्रयच्छन्ति । ततः क्षुल्लकश्चिन्तयति अहो ! मया गुरवोऽपि क्लेशिताः । ततः स पृथग् भिक्षां हिण्डितः । तत्रैका प्रोषितपतिका क्षुल्लकमुपसर्गयन्ती भणतियदि मया सार्धं तिष्ठसि ततो यथेष्टं ते भक्तं पूरयिष्यामीति ॥ एवं च [भा. ४९५७] भिक्खं पिय परिहायति, भोगेहिं निमंतणा य साहुस्स । गिण्हति एक्कंतरियं, लहुगा गुरुगा चउम्मासा ॥ वृ- भैक्षमपि दुर्भिक्षानुभावेन परिहीयते भोगैश्च निमन्त्रणा तस्य साधोः समजनि ततः स चिन्तयति-यद्येनां प्रतिसेवितुं नेच्छामि ततो भक्ताभावदसमाधिमरणेन म्रियै, अतः साम्प्रतं तावत् प्रतिसेवे, पश्चाद् दीर्घं कालं संयमं पालयिष्यामि सूत्रार्थी च ग्रहीष्यामि एतत्प्रत्ययं च प्रायश्चित्तं चरिष्यामि; एवं चिन्तयित्वा यतनां करोति । कथम् ? इत्याह - "गिण्हइ" इत्यादि, एकान्तरितं भक्तं गृह्णाति प्रतिसेवते च । तत्र प्रथमदिवसे प्रतिसेवमानस्य चत्वारो लघुमासाः । द्वितीये दिनेऽभक्तार्थेन स्थित्वा तृतीये दिने प्रतिसेवमानस्य चत्वारो गुरुमासाः ॥ [भा. ४९५८] पडिसेवंतस्स तहिं, छम्मासा छेदो होति मूलं च । अणवटुप्पो पारंचिओ य पुच्छा य तिविहम्मि ॥ वृ- एवमेकान्तरितं भक्तं गृह्णतस्तां च 'तत्र' ताशे दुर्भिक्षे प्रतिसेवमानस्य पञ्चम Page #123 -------------------------------------------------------------------------- ________________ १२० बृहत्कल्प-छेदसूत्रम् -३-४/१११ सप्तमयोर्दिनयोर्यथाक्रमं षण्मासा लघवो गुरवश्च भवन्ति, ततो नवमे दिने च्छेदः, तत एकादशे मूलम्, तदनन्तरंत्रयोदशे दिवसेऽनवस्थाप्यम्, ततः पञ्चदशे दिवसेप्रतिसेवमानस्य पाराञ्चिकम्। अथ निरन्तरं प्रतिसेवते तदा द्वितीयदिवस एव मूलम् । एषा वृद्धिरभिहिता । "पुच्छा य तिविहम्मि"तिशिष्यः पृच्छति-त्रिविधे' दिव्य-मानुष्य-तैरश्चलक्षणेमैथुनेकथमभिलाष उत्पद्यते?॥ सूरिराह[भा.४९५९] वसहीए दोसेणं, दटुं सरिउंव पुवभुत्ताई। तेगिच्छ सद्दमादी, असज्जणा तीसुवी जतणा॥ वृ-'वसतेर्दोषेण स्त्री-पशु-पण्डकसंसक्तिलक्षणेन, यद्वा स्त्रयम् आलिङ्गनादिकंवा दृष्टवा, गृहस्थकाले वा यानि स्त्रीभिसार्धं भुक्तानिवाहसितानिवाललितानि वा तानि स्मृत्वा मैथुनभाव उत्पद्यते । एवमुत्पन्ने किं कर्त्तव्यम् ? इत्याह-"तेगिच्छ" इत्यादि, चिकित्सा कर्तव्या, सा च निर्विकृतिकप्रभृतिका । तामतिक्रान्तस्यशब्दादिकावा यतना कर्तव्या।किमुक्तं भवति?- यत्र स्थाने स्त्रीशब्दरहस्यशब्दंवा शृणोतितत्र स्थविरसहितःस्थाप्यते, आदिशब्दाद् यत्रालिङ्गनादिकं पश्यति तत्रापि स्थाप्यते । “असज्जण"त्ति तस्यांशब्दश्रवणादिरूपायां चिकित्सायां सजन-सङ्गो गृद्धिरित यावत् सा तेन न कर्तव्या । एवं त्रिष्वपि' दिव्यादिषु मैथुनेषु यतना मन्तव्या॥ इदमेव सविशेषमाह[भा.४९६०] बिइयपदे तेगिंछं, निव्वीतियमादिगं अतिकते। सनिमित्तऽनिमित्तो पुन, उदयाऽऽहारे सरीरे य॥ वृ-द्वितीयपदे निर्विकृतिका-ऽवमौदरिका-निर्बलाहारोर्ध्वस्थाना-ऽऽचाम्ला-ऽभक्तार्थ-षष्ठाऽष्टमादिरूपां चिकित्सामतिक्रान्तस्य शब्दादिकाऽनन्तरोक्ता यतना भवति । एषा च सनिमित्तेऽनिमित्ते वा मैथुनाभिलाषे भवति । तत्र सनिमित्तो वसतिदोषादिनिमित्तसमुत्थः, अनिमित्तः पुनः कर्मोदयेन १ आहारतः २ शरीरपरिवृद्धितश्च ३ य उत्पद्यते । सर्वमेतद् यथा निशीथे प्रथमोद्देशके भणितं तथैव द्रष्टव्यम् ॥गतं मैथुनम् । अथ रात्रिभोजनमाह[भा.४९६१] रातो य भोयणम्मिं, चउरो मासा हवंतऽनुग्घाया। . आणादिणो य दोसा, आवजण संकणा जाव। वृ-रात्रौ भोजने क्रियमाणे चत्वारोमासाः ‘अनुद्धाताः' गुरवो भवन्ति आज्ञादयश्च दोषाः।ये चप्राणातिपातादिविषया आपत्ति-शङ्कादोषाः परिग्रहस्यापत्तिं शङ्कां च यावत् प्रथमोद्देशके "नो कप्पइ राओ वा वियाले वा असनं वा ४" इत्यादौ रात्रिभक्तसूत्रे इहैवाभिहितास्ते सर्वेऽपि द्रष्टव्याः ॥अथ द्वितीयपदमाह[भा.४९६२] निरुवद्दवं च खेमंच, होहिति रन्नो य कीरतू संती। अद्धाणनिग्गतादी, देवी पूयाय अज्झियगं॥ वृ-उपद्रवो नाम-अशिवं गलरोगादिकंवा, तस्याभावो निरुपद्रवम् । क्षेमं' परचक्राद्युपप्लवाभावः । ततः 'निरुपद्रवं च क्षेमं च मदीये देशे भविष्यति' इति परिभाव्य राजा शान्ति कर्तुकामस्तपखिनो रात्रौ भोजयेत् । यद्वा राजपुत्रो वा नागरा वा ‘राज्ञः शान्ति क्रियताम्' इति कृत्वा ये रात्रौ न भुञ्जते सुतपखिनश्च ते रात्रौ भोजनीयाः, एष तस्या विद्याया उपचार इति Page #124 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं- 999, [भा. ४९६२ ] परिभावयन्ति, ते च साधवोऽध्वनिर्गतादयस्तत्र सम्प्राप्तास्ततो वक्ष्यमाणो विधिर्विघातव्यः । यद्वा राज्ञः कस्यापि देवी वानमन्तरपूजां कृत्वा तपस्विनां रात्रिभोजनलक्षणम् “अज्झियकं” उपयाचितं मन्येत ।। कुतः ? इति चेद् उच्यते [भा.४९६३ ] अवधीरिया व पतिणा, सवत्तिनीए व पुत्तमाताए । गेलत्रेण व पुट्ठा, वुग्गहउप्पादसमणे वा ॥ वृ- ‘पतिना' भर्त्रा ‘अवधीरिता' अपमानिता सा देवी, यद्वा या तस्याः सपत्नी सा पुत्रमाता तया न सुष्ठु बहुमान्यते, ग्लानत्वेन वा सा गाढतरं स्पृष्टा, विग्रहो वा तस्याः केनामि सार्धमुत्पन्नस्ततो विग्रहोत्पादस्य शमनार्थं वानमन्तरपूजा कर्तव्या, स च वानमन्तरो रात्रौ साधुषु भोजितेषु परितोषमुद्वहति ।। ततः - [भा. ४९६४ ] १२१ एक्क्कं अतिउं, निमंतणा भोयणेन विपुलेणं । भोत्तुं अनिच्छमाणे, मरणं च तहिं ववसितस्स ।। वृ- एकैकं साधुं बलाभियोगेन राजभवने 'अतिनीय' प्रवेश्य रात्रौ विपुलेन भोजनेन निमन्त्रणा कृता, अभिहिताश्च साधवः यदि सम्प्रति न भोक्ष्यध्वे ततो वयं व्यपरोपयिष्यामः । एवमुक्ते तेषामेकस्य साधोस्तदानीं भोक्तुमनिच्छतो मरणं च तत्र व्यवसितस्य शिरश्छिन्नम्, द्वितीयो हर्षादुल्लसितः, तृतीयो भीत इत्यादि यथा मैथुने तथा मन्तव्यम् ॥ अत्र प्रायश्चित्तमाह[ भा. ४९६५ ] सुदुल्लसिते भीए, पच्चक्खाणे पडिच्छ गच्छ थेर विदू । मूलं छेदो छम्मास चउरो मासा गुरुग लहुओ ॥ वृ- गतार्था । अत्र यतनामाह[ भा. ४९६६ ] तत्थेव भोक्खामो, अनिच्छे भुंजामो अंधकारम्मि । कोणादी पक्खेवो, पोट्टल भाणे व जति नीता ॥ - रात्रौ भोज्यमानैः साधुभिरभिधातव्यम्-भाजनेषु गृहीत्वा ततः 'तत्रैव' स्वप्रतिश्रये भोक्ष्यामहे, न वर्तते गृहस्थानां पुरतो भोक्तुम्; एवमुक्त्वा ततोऽल्पसागारिकं नीत्वा परिष्ठापयन्ति । अथान्यत्र नेतुं न प्रयच्छन्ति भणन्ति च - अस्माकं पुरतो भोक्तव्यम्; ततो वक्तव्यम्-प्रदीपमपनयत, अन्धकारे भोजनं कुर्मः, ततस्तेषामपश्यतां कोणेषु आदिशब्दाद् अपरत्र वा एकान्ते कवलान् प्रक्षिपन्ति । अथवा वस्त्रेण पोट्टलकं बद्धा तत्र प्रक्षिपन्ति, भाजनेषु वा प्रक्षिपन्ति यदि निजकानि अलाबूनि भवन्ति ॥ अथ प्रदीपं नापनयन्ति तत इदं वक्तव्यम् [भा. ४९६७ ] गेलने व पुट्ठा, बाहाSS रुची व अंगुली वा वि । भुंजंता वि य असढा, सालंबाऽमुच्छिता सुद्धा ॥ वृ- यदि ते दुर्बलास्ततो भणन्ति ग्लानत्वेन स्पृष्टा वयम् एतच्चास्माकमपथ्यम्, यदि समुद्दिशामस्ततो म्रियामहे, तस्मान्मा ऋषिहत्यां कुरुत । अथवा भणितव्यम् अस्माभिर्गलकं यावद् भुक्तम्, बाहाडं च-प्रभूतं भुक्तानां कुतो रुचिरुपजायते ? । यद्येवं न प्रत्यर्पयन्ति ततो मातृस्थानेनाङ्गुलीं वदने प्रक्षिप्य वमनमुत्पादयन्ति । यदि तथापि न प्रतियन्ति ततः स्तोकं तन्मध्यादास्वादयन्ति । अथ तथापि न विसर्जयन्ति तत एवं सालम्बनाः 'अशठाः' राग-द्वेषरहिता अमूर्च्छिताः स्तोकं भुञ्जाना अपि शुद्धाः ।। उपसंहरन्नाह Page #125 -------------------------------------------------------------------------- ________________ १२२ बृहत्कल्प-छेदसूत्रम् -३-४/१११ [भा.४९६८] एत्थं पुन अधिकारो, अनुघाता जेसुजेसु ठाणेसु । उच्चारियसरिसाइं, सेसाई विकोवणट्ठाए। वृ-'अत्र पुनः' प्रस्तुतसूत्रे हस्तकर्म-मैथुन-रात्रिभक्तविषयैः स्थानः ‘अधिकारः प्रयोजनम्। कैः? इत्याह-येषुयेषु स्थानेषु 'अनुद्धातानि' गुरुकाणि प्रायश्चित्तानि भणितानि तैरेवाधिकारः। 'शेषाणि' लघुप्रायश्चित्तसहितानि स्थानानि पुनरुच्चारितार्थसहशानि शिष्याणां विकोपनार्थमुक्तानि॥ मू. (११२) तओ पारंचिया पन्नत्ता, तंजहा-दुट्टे पारंचिए, पमत्ते पारंचिए, अन्नमन्नं करेमाणे पारंचिए॥ वृ-अस्य सम्बन्धमाह[भा.४९६९] वुत्ता तवारिहा खलु, सोधी छेदारिहा अधइदानि । देसे सव्वे छेदो, सब्बे तिविहो तुमूलादी। वृ-तपोर्हा शोधिः खलु पूर्वसूत्रे प्रोक्ता, अथेदानीं छेदार्हाऽभिधीयते । स च च्छेदो द्विधादेशतःसर्वतश्चादेशच्छेदः पञ्चरात्रिन्दिवादिकः षण्मासान्तः।सर्वच्छेदः 'मूलादि' मूला-ऽनवस्थाप्यपाराञ्चिकभेदात् त्रिविधः । अत्र सर्वच्छेदः पाराञ्चिकलक्षणोऽधिक्रियते । आह यद्येवं तर्हि[भा.४९७०] छेओन होइ कम्हा, जति एवं तत्थ कारणं सुणसु। अनुघाता आरुवणा, कसिणा कसिणेस संबंधो॥ वृ-छेद एव सूत्रेऽपि कस्मान भवति ?, “ततो छेदारिहा पन्नत्ता, तं जहा-दुढे छेदारिहे" इत्यादिसूत्रं किमर्थं न पठितम् ? इति भावः । सूरिराह-यद्येवं भवदीया बुद्धिस्ततोऽत्र कारणं शृणु-या किलादिसूत्रेऽनन्तरोक्तेऽनुद्धाताख्याऽऽरोपणा भणिता सा कृत्स्ना' गुरुकेत्यर्थः, इयमपि पाराञ्चिकाख्याऽऽरोपणा कृत्स्नैव, अतः तृत्स्नाया आरोपणाया अनन्तरं कृत्स्नैवारोपणाऽभिधीयते। एषसम्बन्धः ॥अनेन सम्बन्धेनायतस्यास्यव्याख्या-त्रयःपाराञ्चिकाःप्रज्ञप्ताः। तद्यथा-दुष्टः पाराञ्चिकः, प्रमत्तः पाराञ्चिकः, 'अन्योन्यं परस्परं मुख-पायुप्रयोगतः प्रतिसेवनां कुर्वाणः पाराश्चिक इति सूत्रसमासार्थः॥अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह[भा.४९७१] अंचु गति-पूयणम्मि य, पारं पुनऽनुत्तरं बुधा बिंति। सोधीय पारमंचइ, न यावि तदपूतियं होति।। वृ. “अञ्च गति-पूजनयोः" इति वचनाद् अञ्चुर्धातुर्गतौ पूजने चात्र गृह्यते । तत्र गत्यर्थो यथा-पारं-तीरंगच्छति येन प्रायश्चित्तेनासेवितेन तत्पाराञ्चिकम्।अथ पारं किमुच्यते? इत्याह'पारंपुनः' संसारसमुद्रस्यतीरभूतम् ‘अनुत्तरं निर्वाणं 'बुधाः' तीर्थकृदादयो ब्रुवते,अनेनासेवितेन साधुर्मोक्षं गच्छतीति भावः । तद् यस्यापद्यते सोऽप्युपचारात् पाराश्चिक उच्यते । यद्वा शोधेः 'पारं' पर्यन्तमञ्चति यत् तत् पाराञ्चिकम्, अपश्चिमं प्रायश्चित्तमित्यर्थः । पूजार्थो यथा-'न चापि' नैव तत्' प्रायश्चित्तपारगमनमपूजितं किन्तु पूजितमेव, ततो येन तपसा पारंप्रापितेन अञ्चयतेश्रीश्रमणसङ्केन पूज्यते तत् पाराञ्चिकंपाराञ्चितं वाऽभिधीयते। तद्योगात् साधुरपि पाराञ्चिकः। अथ तमेव भेदतः प्ररूपयति [भा.४९७२] आसायण पडिसेवी, दुविहो पारंचितोसमासेणं। Page #126 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - ११२, [भा. ४९७२] १२३ एक्केकम्मिय भयणा, सचरित्ते चेव अचरित्ते ॥ वृ- पाराञ्चिकः समासेन द्विविधः, तद्यथा- आशातनापाराञ्चिकः प्रतिसेविपाराञ्चिकश्च । पुनरेकैकस्मिन् द्विविधा भजना कर्तव्या । कथम् ? इत्याह- द्वावप्येतौ सचारित्रिणो वा स्यातामचारित्रिणौ वा ।। कथं पुनरेषा भजना ? इत्याह [भा. ४९७३ ] सव्वचरितं भस्सति, केनति पडिसेवितेन तु पदेनं । कत्थति चिट्ठति देसो, परिणामऽवराहमासज्ज ।। वृ- केनचिदपराधपदेन पाञ्चिकापत्तियोग्येन प्रतिसेवितेन सर्वमपि चारित्रं भ्रश्यति, कुत्रापि पुनः चारित्रस्य देशोऽवतिष्ठते । कुतः ? इत्याह-'परिणामं' तीव्र-मन्दादिरूपम् 'अपराधं च' उत्कृष्ट-मध्यम-जघन्यरूपमासाद्य चारित्रं भवेद्वा न वा ।। इदमेव भावयति [भा. ४९७४] तुल्लम्मि वि अवराधे, परिणामवसेण होति नाणत्तं । कत्थति परिणामम्मि वि, तुल्ले अवराहनाणत्तं ॥ वृ-तुल्येऽप्यपराधे 'परिणामवशेन' तीव्र-मन्दाद्यध्यवसायवैचित्र्यबलात् चारित्रपरिभ्रंशादौ नानात्वं भवति, कुत्रचित् पुनः परिणामे तुल्येऽपि 'अपराधनानात्वं' प्रतिसेवनावैचित्र्यं भवति ।। अथाशातनापाराञ्चिकं व्याचिख्यासुराह [ भा. ४९७५ ] तित्थकर पवयण सुते, आयरिए गणहरे महिड्डीए । एते आसायंते, पच्छित्ते मग्गणा होइ ॥ वृ-तीर्थकरं प्रवचनं श्रुतमाचार्यान् गणधरान् महर्द्धिकांश्च, एतान् य आशातयति तस्य प्रायश्चित्ते वक्ष्यमाणलक्षणा मार्गणा भवति ।। तत्र तीर्थकरं यथाऽऽशातयति तथाऽभिधीयते [भा.४९७६ ] पाहुडियं अनुमन्नति, जाणतो किं व भुंजती भोगे । थीतित्थं पि य वुञ्चति, अतिकक्खडदेसणा यावि ।। वृ- 'प्राभृतिकां' सुरविरचितसमवसरण महाप्रातिहार्यादिपूजालक्षणामर्हन् यद् अनुमन्यते तन्न सुन्दरम् । ज्ञानत्रयप्रमाणेन च भवस्वरूपं जानन् विपाकदारुणान् भोगान् किमिति भुङ्क्ते ? मल्लिनाथादेश्च स्त्रिया अपि यत् तीर्थमुच्यते तद् अतीवासमीचीनम् । 'अतिकर्कशा' अतीवदुरनुचरा तीर्थकरैः सर्वोपायकुशलैरपि वा देशना कृता साऽप्ययुक्ता ॥ [भा. ४९७७] अन्नं व एवमादी, अवि पडिमासु वि तिलोगमहिताणं । पडिरूवमकुव्वंतो, पावति पारंचियं ठाणं ॥ वृ- अन्यमप्येवमादिकं तीर्थकृतामवर्णं यो भाषते, तथा 'अपी' त्यभ्युच्चये, 'त्रिलोकमहितानां' भगवतां याः प्रतिमास्तास्वपि यद्यवर्णं भाषते, यथा- 'किमेतासां पाषाणादिमयीनां माल्याsलङ्कारादिपूजा क्रियते ? ' एवं ब्रुवन्, 'प्रतिरूपं वा विनयं' चन्दन-स्तुति - स्तवादिकं तासामवज्ञाबुध्या अकुर्वन् पाराञ्चिकं स्थानं प्राप्नोति ।। अथ प्रवचनं सङ्घस्तस्याशातनामाह [ भा. ४९७८ ] अक्कोस - तज्जणादिसु, संघमहिक्खिवति संघपडिनीतो । अन्ने वि अत्थि संघा, सियाल - नंतिक्क ढंकाणं ॥ वृ-यः सङ्घप्रत्यनीकः सः “अक्कोस-तज्ज्रणाइसु”त्ति विभक्तिव्यत्ययाद् आक्रोश-तर्जनादिभिः सङ्घमधिक्षपति । यथा-सन्त्यन्येऽपि शृगाल- नान्तिक्क ढङ्कप्रभृतीनां सङ्घाः, याध्शास्ते ता: Page #127 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-४/११२ शोऽयमपीति भावः, एष आक्रोश उच्यते। तर्जना तु-'हुं हुं ज्ञातं भवदीयं सङ्घत्वम्' इत्यादिका ॥ अथ श्रुताशातनामाह [भा. ४९७९] १२४ काया वया य ते च्चिय, ते चेव पमायमप्पमादा य । मोक्खाहिकारियाणं, जोतिसविज्जासु किं च पुनो ॥ वृ-दशवैकालिकोत्तराध्ययनादौ यत् त एव, ट् कायास्तान्येव च व्रतानि तावेव प्रमादाऽप्रमादौ भूयोभूय उपवर्ण्यन्ते तद् अतीवायुक्तम् । मोक्षाधिकारिणां च साधूनां ज्योतिषविद्यासु पुनः किं नाम कार्यं येन श्रुते ताः प्रतिपाद्यन्ते ? ॥ अथाऽऽचार्याशातनामाह [भा. ४९८० ] इड्डि-रस- सातगुरुगा, परोवदेसुज्जया जहा मंखा । अत्तट्ठपोसणरया, पोसेंति दिया व अप्पाणं ।। वृ- आचार्याः स्वभावादेव ऋद्धि-रस- सातगुरुकाः, तथा मजा इव परोपदेशोद्यताः, लोकावर्जनप्रसक्ता इति भावः, 'आत्मार्थपोषणरताः' स्वोदरभरणैकचेतसः । इदमेव व्याचष्टेद्विजा इवाऽऽत्मानममी पोषयन्ति ॥ अथ गणधराशातनामाह [भा. ४९८१] अब्भुवज्जयं विहारं देसिंति परेसि सयमुदासीना । उवजीवंति य रिद्धिं, निस्संगा मो त्ति य भांति ॥ वृ- गणधरा गौतमादयो 'अभ्युद्यतं विहारं' जिनकल्पप्रभृतिकं परेषामुपदिशन्ति स्वयं पुनरुदासीनास्तं न प्रतिद्यन्ते, 'ऋद्धिं वा' अक्षीणमहानसिक-चारणादिकां लब्धिमुपजीवन्ति 'निस्सङ्गा वयम्' इति च भणन्ति ॥ अथ महर्द्धिकपदं व्याख्यानयति [ भा. ४९८२ ] गणधर एव महिड्डी, महातवस्सी व वादिमादी वा । तित्थगरपढमसिस्सा, आदिग्गहणेन गहिता वा ॥ वृ- इह गणधर एव सर्वलब्धिसम्पन्नतया महर्द्धिक उच्यते, यद्वा महर्द्धिको महातपस्वी वा वादि-विद्या-सिद्धप्रभृतिको वा भण्यते, तस्य यद् अवर्णवादादिकरणं सा महर्द्धिकाशातना । गणधरास्तु तीर्थकरप्रथमशिष्या उच्यन्ते, आदिग्रहणेन वा ते गृहीता मन्तव्याः ॥ अथैतेषामाशातनायां प्रायश्चित्तमार्गणामाह [भा.४९८३] पढम-बितिएसु चरिमं, सेसे एक्केक्क चउगुरू होंति । सव्वे आसादितो, पावति पारंचियं ठाणं ॥ वृ- " तित्थयर वयण सुयं" इति गाथाक्रमप्रमाण्यात् प्रथमः- तीर्थङ्करोद्वितीयः - सङ्घस्तयोर्देशतः सर्वतो वाऽऽशातनायां पाराञ्चिकम् । 'शेषेषु' श्रुतादिषु एकैकस्मिन् देशतः आशात्यमाने चतुर्गुरुकाः प्रायश्चित्तं भवन्ति । अथ सर्वतस्तान्याशातयति ततस्तेष्वपि पाराञ्चिकं स्थानं प्राप्नोति ॥ [भा. ४९८४] तित्थयरपढमसिस्सं, एक्कं पाऽऽसादयंतु पारंची । अत्थस्सेव जिणिंदो, पभवो सो जेन सुत्तस्स ॥ वृ- ‘तीर्थकरप्रथभशिष्यं' गणधरमेकमप्याशातयन् पाराञ्चिको भवति । कुतः ? इत्याह'जिनेन्द्रः' तीर्थकरः स केवलस्यैवार्थस्य 'प्रभवः' प्रथम उत्पत्तिहेतुः, सूत्रस्य पुनः स एव गणधरो येन कारणेन ‘प्रभवः' प्रथमतः प्रणेता, ततस्तमेकमप्याशातयतः पाराञ्चिकमुच्यते ॥ उक्त आशातनापाराञ्चिकः सम्प्रति प्रतिसेवनापाराञ्चिकमाह Page #128 -------------------------------------------------------------------------- ________________ १२५ उद्देशकः ४, मूलं-११२, [भा. ४९८५] [भा.४९८५] पडिसेवनपारंची, तिविधो सो होइ आनुपुब्बीए । दुढे य पमत्ते या, नेयव्वे अन्नमन्ने य॥ वृ-प्रतिसेवनापाराञ्चिकः ‘सः' इति पूर्वोपन्यस्तः 'त्रिविधः' त्रिप्रकारः ‘आनूपूर्व्या' सूत्रोक्तपरिपाट्या भवति । तद्यथा-दुष्टः पाराञ्चिकः, प्रमत्तः पाराञ्चिकः, अन्योन्यं च कुर्वाणः पाराञ्चिको ज्ञातव्यः॥ तत्र दुष्टं तावदाह[भा.४९८६] दुविधो य होइ दुट्ठो, कसायदुट्ठो य विसयदुट्ठो य । दुविहो कसायदुट्ठो, सपक्ख परपक्ख चउभंगो।। वृ-द्विविधश्च भवति दुष्ट-कषायदुष्टश्च विषयदुष्टश्च । तत्र कषायदुष्टो द्विविधः-खपक्षदुष्टः परपक्षदुष्टश्च।अत्र चतुर्भङ्गी, गाथायां पुंस्त्वं प्राकृतत्वात् । तद्यथा-स्वपक्षः स्वपक्षे दुष्टः १ स्वपक्षः परपक्षे दुष्टः २ परपक्षः स्वपक्षे दुष्टः ३ परपक्षः परपक्षे दुष्टः ४॥ तत्र प्रथमभङ्गं बिभावयिषुराह[भा.४९८७] सासवनाले मुहनंतए य उलुगच्छि सिहरिणी चेव । एसो सपक्खदुट्ठो, परपक्खे होति नेगविधो॥ वृ-“सासवनाले"त्ति सर्षपभर्जिका, “मुहणंतकं"मुखवस्त्रका, उलूकः-धूकस्तस्येवाक्षिणी यस्य स उलूकाक्षः, 'शिखरिणी' मर्जिता । एते चत्वारो दृष्टान्ताः । एष स्वपक्षकषायदुष्टो मन्तव्यः। परपक्षकषायदुष्टः पुनरनेकविधो भवतीति नियुक्तिगाथासमासार्थः ॥ अथैनामेव विवरीषुः सर्षपनालदृष्टान्तं तावदाह[भा.४९८८] सासवनाले छंदन, गुरु सव्वं भुंजे एतरे कोवो। . खामणमनुवसमंते, गणिं ठवेत्तऽन्नहि परिन्ना ।। [भा.४९८९] पुच्छंतमणक्खाए, सोच्चऽन्नतो गंतु कत्थ से सरीरं । - गुरु पुव्व कहितऽदातन, पडियरणं दंतमंजनता ॥ वृ-इह प्रथमं कथानकम्-एगेण साहुणा सासवभज्जिया सुसंभियालद्धा, तत्थ से अतीव गेही। आयरियस्स य आलोइयं । पडिदंसिए निमंतिए यआयरिएणंसव्वा विसमुद्दिडा । इतरोपदोसमावन्नो । आयरिएणं लक्खियं, 'मिच्छामि दुक्कडं' कयं तहावि न उवसमइ, भणइ य-तुज्झ दंते भंजामि । गुरुमा चिंतियं-'मा असमाहिमरणेण मारिस्सइत्ति गणे अन्नं गणहरं ठवेत्ता अन्नं गणं गंतूण भत्तपच्चक्खाणं कयं । समाहीए कालगया । इयरो गवसमाणो सझंतिए पुच्छइ-कत्थ आयरिया? । तेहिं न अक्खायं । सो अन्नतो सोच्चा तत्थ गंतुं पुच्छइ-कहिं आयरिया ? । ते भणंति-समाहीएकालगया।पुनोपुच्छइ-कहिंसरीरगंपरिद्ववियं? आयरिएहियपुव्वं भणियंमातस्सपावस्समम सरीरपरिट्ठावणियाभूमिं कहेज्जाह, माआगद्वि-विगठिं करेमाणो उड्डाहं काहिइ। तेहिं अकहिए अन्नतो सोउं तत्थ गंतुं उवट्ठियाओ गोलोवलं कड्डिऊण दंते भंजंतो भणइ-एतेहिं तुमे सासवनालं खइयं । तं साहूहिं पडियरंतेहिं दिटुं॥ __अथाक्षरगमनिका-सर्षपनालविषयं छन्दनं' निमन्त्रणं गुरोः कृतम्। गुरुणा च सर्वं भुक्तम्। इतरस्य कोपः । गुरुणा क्षामणे कृतेऽपि स नोपशान्तः । ततोऽनुपशान्ते तस्मिन् ‘गणिनम्' आचार्यंस्थापयित्वाअन्यस्मिन्गच्छो परिज्ञा' भक्तप्रत्याख्यानमङ्गीकृतम्। तस्य चशिष्याधमस्य 'गुरवः कुत्र गताः?' इति पृच्छतोऽपि सज्झिलकसाधुभि ख्यातम् । ततोऽन्यतः श्रुत्वा तत्र Page #129 -------------------------------------------------------------------------- ________________ १२६ बृहत्कल्प-छेदसूत्रम् -३-४/११२ गत्वा 'कुत्रतेषांशरीरम् ?' इति पृच्छा कृता ।गुरुभिश्चपूर्वमेव तदीयोवृत्तान्तः कथित आसीत्। "दायण"त्ति अकारप्रश्लेषात् ततस्तैराचार्यशरीरपरिष्ठापनाभूमिर्न दर्शिता । स चान्यतः श्रुत्वा गतो दन्तमञ्जनं कृतवान् । साधुभिश्च गुपिलस्थाने स्थितैः प्रतिचरणं कृतमिति॥ अथ मुखानन्तकदृष्टान्तमाह[भा.४९९०] मुहनंतगस्स गहणे, एमेव य गंतु निसि गलग्गहणं । सम्मूढेणियरेण वि, गलए गहितो मता दो वि॥ वृ-एकेन साधुना मुखानन्तकमतीवोज्ज्वलं लब्धम्, तस्य च गुरुमिर्ग्रहणं कृतम् । तत्रापि ‘एवमेव' पूर्वाख्यानकसशं वक्तव्यम् । नवरंतत् पुनर्मुखानन्तकं प्रत्यर्पयतोऽपिन गृहीतम् । ततो गुरुणा खगण एव मक्तंप्रत्याख्यातम् । निशायां विरहं लब्ध्वा 'मुखानन्तकं गृह्णासि' इति भणता गाडतरंगले ग्रहणं कृतम् । सम्मूढेन च इतरेणापि' गुरुणा स गलके ग्रहीतः । एवं द्वावपि मृतौ ॥ उलूकाक्षदृष्टान्तमाह[भा.४९९१] अत्थंगए विसिव्वसि, उलुगच्छी ! उक्खणामि ते अच्छी। पढमगमो नवरिइहं, उलुगच्छीउ त्ति दोक्केति॥ वृ- एकः साधुरस्तङ्गतेऽपि सूर्ये सीव्यन् अपरेण साधुना परिहासेन भणितः-उलूकाक्ष ! किमेवमस्तङ्गतेऽपि सूर्ये सीव्यसि ? । स प्राह-एवं भणतस्तव द्वेअप्यक्षिणी उत्खनामि । अत्रापि सर्वोऽपि प्रथमाख्यानकगमो मन्तव्यः । नवरमिह स्वगणे प्रत्याख्यातभक्तस्य कालगतस्य रजोहरणाद् अयोमयीं कीलिकामाकृष्य 'मां उलकाक्षं भणसि?' इति ब्रुवाणो द्वे अप्यक्षिणी उद्धृत्य तस्य दौकयति, “वैरं मया निमितम्' इति कृत्वा । शिखरिणीदृष्टान्तमाह[मा.४९९२] सिहरिणिलंभाऽऽलोयण, छंदिए सव्वाइते अ उग्गिरणा। भत्तपरिन्ना अन्नहि, न गच्छती सो इहं नवरिं॥ वृ-एकेन साधुना उत्कृष्टा शिखरिणी लब्धा ।साचगुरूणामालोचिता, तयाचगुरवः 'छन्दिताः' निमन्त्रिताः ।सा चतैः सर्वाऽप्यापीता । ततः ससाधुः प्रद्वेषमुपगतोमारणार्थदण्डकमुद्रीर्णवान्। सगुरुभिःक्षामितोऽपियदा नोपशाम्यति तदा भक्तपरिज्ञाकृता।नवरमिह सः' आचार्योऽन्यस्मिन् गणे न गतः। तस्य च समाधिना कालगतस्य शरीरकं तेत दण्डकेन कुट्टितम् ।। यत एते दोषास्ततो लोमस्तीव्रो न कर्तव्यः । प्रथा चाह[भा.४९९३] तिव्वकसायपरिणतो, तिव्वयरागाणि पावइ भयाई। मयगस्सं दंतमंजन, सममरणं ढोक्कनुग्गिरणा॥ वृ-तीव्राः उत्कटा ये कषायस्तेषु परिणतो जीवस्तीव्रतरकाणि भयानि प्राप्नोति । यथाप्रथम दृष्टान्तोक्तस्याचार्यस्य तीव्रलोभपरिणतस्य दन्तमञ्जनभयम्, द्वितीय दृष्टान्तोक्तयोस्तु शिष्याऽऽचार्ययोस्तीव्रक्रोधपरिणतयोः समकालंमरणम्, तृतीयदृष्टान्तोक्तस्यदण्डकोद्गिरणम्। ईशाः स्वपक्षकषायदुष्टालिङ्ग पाराञ्चिकाः कर्तव्याः॥गतः प्रथमो भङ्गः।अथद्वितीयभङ्गमाह[भा.४९९४] रायवधादि परिणतो, अहवा वि हवेज रायवहओतु। सो लिंगतो पारंची, जो विय परिकहती तंतु॥ वृ-राज्ञो राजामात्यस्य वा अपरस्य वा प्राकृतगृहस्यस्य वधाय परिणतः, अथवा राजवधक Page #130 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-११२, [भा. ४९९४] १२७ एवस भवेत् विहितराजवध इत्यर्थः, एवमनेकविधः परपक्षदुष्टः । एष सर्वोऽपि लिङ्गपाराञ्चिकः कर्तव्यः । योऽपिचआचार्यादिकः तं राजवधकं परिकर्षति' वर्त्तापयति सोऽपिलिङ्गपाराञ्चिको विधेयः ।। अथ तृतीयभङ्ग उच्यते-परपक्षः स्वपक्षे दुष्टः स कथं भवति ? उच्यते-पूर्वं गृहवासे वसतो वादे पराजित आसीत्, स्कन्दकाचार्येण पालकवत्, वैरिको वा स तस्याऽऽसीत् । स पुनः कीदृशो भवेत् ? इत्याह[भा.४९९५] सन्नी व असन्नी वा, जो दुट्ठो होति तू सपक्खम्मि । तस्स निसिद्धं लिंगं, अतिसेसी वा वि दिजाहि ॥ वृ-सच संज्ञी वा असंज्ञी वायःस्वपक्षे दुष्टो भवति तस्य लिङ्गं निषिद्धम्, प्रव्रज्या न दातव्येति भावः। अतिशयज्ञानी वा 'उपशान्तोऽयम्' इति मत्वा तस्यापि लिङ्गं दद्यात् ।। अथ चतुर्थभङ्गः परपक्षः परपक्षे दुष्ट इति भाव्यते[भा.४९९६] रन्नो जुवरन्नो वा, वधतो अहवा वि इस्सरादीणं । . सो उसदेसि न कप्पइ, कप्पति अन्नम्मि अन्नाओ॥ वृ-योराज्ञो वा युवराजस्य वा वधकः अथवाऽपिईश्वरादीनां घातकः ‘सतु' सपुनः स्वदेशे दीक्षितुंन कल्पते, किन्तु कल्पतेऽन्यस्मिन् देशेऽज्ञातो दीक्षितुम् ।। [भा.४९९७] इत्थ पुन अधीकारो, पढमिल्लुग-बितियभंगदुडेहिं। तेसिं लिंगविवेगो, दुचरिमे वा लिंगदानं तु॥ वृ-अत्र पुनः प्रथम-द्वितीयभङ्गदुष्टैरधिकारः, 'स्वपक्षः स्वपक्षे दुष्टः, स्वपक्षः परपक्षे दुष्टः' इत्याद्यभङ्गद्वयवर्तिभिरिति भावः । एतेषां लिङ्गविवेकरूपं पाराञ्चिकं दातव्यम् । अतिशयज्ञानी वा यदि जानाति 'न पुनरीशं करिष्यति' इति ततः सम्यगावृत्तस्य लिङ्गविवेकं न करोति । "दुचरिमे"त्ति तृतीय-चतुर्थलक्षणौ यौ द्वौ चरमभङ्गौ तयोः 'वा' विकल्पेन लिङ्गदानं कर्त्तव्यम् । किमुक्तंभवति?- परपक्षः स्वपक्षेदुष्टः, परपक्षः परपक्षे दुष्टः' इति भङ्गद्वये वर्तमानायधुपशान्ता इति सम्यग् ज्ञायन्ते ततो लिङ्गदानं कर्तव्यम्, अथ नोपशान्तास्ततो न प्रव्राज्यन्ते । प्रव्राजिता अपि तानि स्थानानि परिहार्यन्ते; एष वाशब्दसूचितोऽर्थः ॥ अथ 'सर्षपनालादिष्टान्तप्रसिद्धा दोषा मा भूवन्' इति हेतोराचार्येण यथा सामाचारी स्थापनीया तथा प्रतिपादयन्नाह- . [भा.४९९८] सव्वेहि विघेत्तव्वं, गहणे य निमंतणे यजो तु विही। भुंजती जतनाए, अजतण दोसा इमे होति॥ वृ-सर्वैरपि साधुभिराचार्यप्रायोग्यं स्वस्वमात्रकेषुग्रहीतव्यम्। तथा ग्रहणे चनिमन्त्रणेचयो वक्ष्यमाणो विधि स सर्वोऽपि कर्तव्यः । एवं यतनया सूरयो भुञ्जते ।अयतनया तु भुजानानाम् 'इमे' वक्ष्यमाणा दोषा भवन्ति । एनामेव नियुक्तिगाथां भावयति[भा.४९९९] सव्वेहि विगहियम्मी, थोवं थोवंतु के विइच्छंति। सव्वेसिन विभुंजति, गहितं पि बितिज आदेसो।। वृ-सर्वैरपि आचार्यप्रायोग्ये गृहीते केचिदाचार्या इदमिच्छन्ति, यथा-तत एकैकस्य हस्तात् स्तोकं स्तोकं गृहीत्वा गुरुणा भोक्तव्यम्; एष प्रथम आदेसः । अपरे ब्रुवते-एकेनैव गुरुयोग्यं ग्रहीतव्यम्, अथान्यैरपि गृहीतं ततस्तद्गृहीतमपितेषांसर्वेषां हस्तात् स्तोकस्तोकंन भोक्तव्यम्, Page #131 -------------------------------------------------------------------------- ________________ १२८ बृहत्कल्प-छेदसूत्रम् -३-४/११२ किन्तु तैर्निमन्त्रितेन वक्तव्यम्-पर्याप्तम्, इत ऊर्ध्वं न गच्छति; एष द्वितीय आदेशः॥ अमुमेव व्याचष्टे[भा.५०००]गुरुभत्तिमं जो हिययानुकूलो, सो गिण्हती निस्समणिस्सतो वा। तस्सेव सो गिण्हति नेयरेसिं, अलब्भमाणम्मि व थोव थोवं ॥ वृ- यो गुरुभक्तिमान् यश्च गुरूणां 'हृदयानुकूलः' छन्दोनुवर्ती स गुरुप्रायोग्यं निश्रागृहेभ्योऽनिश्रागृहेभ्यो वा गृह्णाति, तस्यैव च सम्बन्धि सः' आचार्यो भक्त-पानं गृह्णाति, न 'इतरेषाम्' अपरसाधूनाम् । अथैकः पर्याप्तं न लभते ततोऽलभ्यमाने स्तोकस्तोकं सर्वेषामपि गृह्णाति । एष ग्रहणविधिरुक्तः । सम्प्रति निमन्त्रणे विधिमाह[भा.५००१] सति लंभम्मि विगिण्हति, इयरेसिं जाणिऊण निब्धं । मुंचति य सावसेसं, जाणति उवयारभणियं च ।। वृ-'सति' विद्यमानेऽपि प्राचुर्येण लाभे यदि इतरे साधवो निमन्त्रयमाणा गाढं निर्बन्धं कुर्वते ततस्तं ज्ञात्वा तेषामपि गृह्णाति। तच्च तदीयं भुनानः सावशेषं मुञ्चति, मा सर्वस्मिन् भुक्ते प्रद्वेष स गच्छेत् उपचारभणितं च जानाति, 'अयमुपचारेण, अयं पुनः सद्भावेन निमन्त्रयते' इत्येवं बहिश्चिकैरुपलक्षयतीत्यर्थः॥ [भा.५००२] गुरुणो भुत्तुवरियं, बालादसतीय मंडलिं जाति । जंपुन सेसगगहितं, गिलाणमादीण तं दिति ।। वृ-गुरूणां यद्भुक्तोद्वरितंतद्बालादीनां दीयते। तेषामभावे 'मण्डली याति' मण्डलीप्रतिग्रहे क्षिप्यते । यत् पुनः शेषैः-गुरुभक्तिमन्धरिक्तैः साधुभिर्मात्रके गृहीतंतद् ग्लानादीनांप्रयच्छन्ति। [भा.५००३] सेसाणं संसहूं, न छुभंती मंडलीपडिग्गहए। पत्तेग गहित छुब्भति, ओभासणलंभ मोत्तूणं॥ वृ-'शेषाणां गुरुव्यतिरिक्तानां संसृष्टं मण्डलीप्रतिग्रहे न क्षिप्यते । यत्तु ग्लानादीनामर्थाय 'प्रत्येकं पृथक् पृथग् मात्रकेषु गृहीतं तत् तेषामुद्वरितं मण्डल्या प्रक्षिप्यते, परमवभाषितलाभं मुक्त्वा, सन प्रक्षिप्यत इति भावः ।। [भा.५००४] पाहुणगट्ठा व तगं, धरेत्तुमतिबाहडा विगिंचंति । इह गहण-भुंजणविही, अविधीए इमे भवेदोसा ।। वृ-प्राघुणकार्थं वा 'तकं ग्लानार्थमानीतं प्रायोग्यं 'धृतवा' स्थापयित्वा यदि अंतिबाहडाः' अतीवध्राताः प्राधुणकाच नायाताः तदा 'विवेचयन्ति' परित्यजन्ति । एवमिह ग्रहणभोजनविधिर्भवति । यद्येनं विधिं न कुर्वन्ति ततस्तस्मिन् अविधौ इमे दोषा भवेयुः।। [भा.५००५] तिव्वकसायपरिणतो, तिव्वतरागाइं पावइ भयाई। मयगस्स दंतभंजण, सममरणं ढोक्कणुग्गिरणा ।। वृ-व्याख्याता ॥ उक्तः कषायदुष्टः । अथ विषयदुष्टमाह[भा.५००६] संजति कप्पट्ठीए, सिज्जायरि अन्नउत्थिनीए य। - एसो उ विसयदुट्ठो, सपक्ख परपक्ख चउभंगो॥ वृ-इहापि स्वपक्ष-परपक्षपदाभ्यां चतुर्भङ्गी, तद्यथा-स्वपक्षः स्वपक्षे दुष्टः १ स्वपक्षः परपक्षे Page #132 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-११२, [भा. ५००६] १२९ दुष्टः २ परपक्षः स्वपक्षे दुष्टः ३ परपषः परपक्षे दुष्ट: ४ । तत्र 'कल्पस्थिकायां' तरुण्यां संयत्यां 'संयतः' अध्युपपन्न इतिप्रथमो भङ्गः। संयतएव शय्यातरभ्रूणिकायामन्यतीर्थक्यांवाऽध्युपपन्न इति द्वितीयः । गृहस्थः संयतीकल्पस्थिकायामध्युपपन्न इति तृतीयः । गृहस्थो गृहस्थायामिति चतुर्थ । एष विषयदुष्टश्चतुर्विधो मन्तव्यः ॥अथैतेषु प्रायश्चित्तमाह[भा.५००७] पढमे भंगे चरिमं, अनुवरए वा वि बितियभंगम्मि । सेसेण न इह पगतं, वा चरिमे लिंगदानं तु॥ वृ-प्रथमे भने 'चरमं' पाराञ्चिकम् ‘अनुपरतस्य' अनिवृत्तस्य । द्वितीयेऽपि भङ्गे पाराञ्चिकम्। 'शेषेण तु' तृतीय-चरमभङ्गद्वयेन नात्र प्रकृतम्, अत्र पाराश्चिकस्य प्रस्तुतत्वात् तस्य च परपक्षेऽघटमानत्वात् । अथवा “वा चरिमे लिंगदानं तु"त्ति 'वा' विकल्पेन-भजनया चरम भङ्गद्वये लिङ्गदानं कर्तव्यम्, यद्युपशान्तस्तदाऽन्यस्मिन् स्थाने लिङ्गं दातव्यम् अन्यथा तु नेति भावः ॥ अथ प्रथमभङ्गे दोषं दर्शयन्नाह[भा.५००८] लिंगेन लिंगिनीए, संपत्तिं जइ नियच्छती पावो। सव्वजिनानऽज्जातो, संघो आसातिओ तेनं ।। वृ-'लिङ्गेन' रजोहरणादिना युक्तः 'लिङ्गिन्याः' संयत्याः सम्पत्तिं यदि अधमतया कथमपि कश्चित् पापः 'नियच्छति' प्राप्नोति तर्हि तेन पापेन सर्वजिनानाम् 'आर्या' संयत्यः सङ्घश्च भगवानाशातितो मन्तव्यः॥ [भा.५००९] पावाणं पावयरो, दिट्ठिऽब्भासे विसो न वट्टति हु। . जो जिनपुंगवमुदं, नमिऊण तमेव धरिसेति॥ वृ-पापानां सर्वेषामपि स पापतरः, अत एव दृष्टेः-लोचनस्याभ्यासेऽपि-समीपेऽपि कर्तुं सः 'न वर्तते' न कल्पते यः "जिनपुङ्गवमुद्रां' श्रमणीं नत्वा तामेवघर्षयति ॥ [भा.५०१०] संसारमनवयग्गं, जाति-जरा-मरण-वेदनापउरं । पावमलपडलछन्ना, भमंति मुद्दाधरिसणेणं ।। कृ-संसारम् अनवदग्रम्' अपर्यन्तंजाति-जरा-मरण-वेदनाप्रचुरंपापमलपटलच्छन्ना मुद्राघर्षणेन परिभ्रमन्ति ॥ ततः[भा.५०११] जत्थुप्पजति दोसो, कीरति पारंचितो स तम्हातु। सो पुन सेवीमसेवी, गीतमगीतो व एमेव ॥ वृ-यत्र क्षेत्रे यस्य संयतीघर्षणादिको दोष उत्पद्यते उत्पत्स्यते वास तस्मात् क्षेत्रात् पाराञ्चिकः क्रियते । स पुनः सेवी वा स्यादसेवी वा, तेन तत् कार्यं कृतं वा भवेदकृतं वेति भावः; एवमेव गीतार्थो वा भवेदगीतार्थो वा, स सर्वोऽपि पाराञ्चिकः कर्तव्यः । कथम् ? इत्याह[भा.५०१२] उवस्सय कुले निवेसन, वाडग साहि गाम देस रज्जे वा। कुल गण संघे निजूहणाए पारंचितो होति ।। वृ-यस्य यस्मिन्नुपाश्रये दोष उत्पन्न उत्पत्स्यते वा सतत उपाश्रयात् पाराश्चिकः क्रियते । एवं यस्मिन् गृहस्थकुले दोष उत्पन्नः, तथा निवेशनम्-एकनिर्गम-प्रवेशद्वारो द्वयोमियोरपान्तराले 2097 Page #133 -------------------------------------------------------------------------- ________________ १३० बृहत्कल्प-छेदसूत्रम् -३-४/११२ द्व्यादिगृहाणांसन्निवेशः, एवंविधस्वरूप एवग्रामान्तर्गतः पाटकः,साही-शाखारूपेण श्रेणिक्रमेण स्थिता ग्रामगृहाणामेकतः परिपाटिः, ग्रामः-प्रतीतः, देशः-जनपदः, राज्यं नाम-यावत्सु देशेषु एकभूपतेराज्ञा तावद्देशप्रमाणम् । एतेषु यत्र यस्य दोष उत्पन्न उत्पत्सयते वा सततः पाराञ्चिकः क्रियते। तथा कुलेन यो निर्मूढः-बाह्यःकृतः सकुलपाराश्चिकः ।गणाबाह्यः कृतोगणपाराञ्चिकः। सङ्घा यस्य निर्वृहणा कृतास सङ्घपाराञ्चिकः॥किमर्थमुपाश्रयादिपाराञ्चिकः क्रियते? इत्याह[भा.५०१३] उवसंतो वि समाणो, वारिजति तेसु तेसु ठाणेसु । हंदि हुपुनो वि दोसं, तट्ठाणासेवणा कुणति ॥ वृ-'उपशान्तोऽपि स्वलिङ्गिप्रतिसेवनात् प्रतिनिवृत्तोऽपि सन् 'तेषु तेषु स्थानेषु प्रतिश्रयकुल-निवेशनादिषुविहरन् वार्यते। कुतः? इत्याह-'हन्दि' इति कारणोपप्रदर्शने, 'हुरिति निश्चये, पुनरप्यसौ तस्य स्थानस्यासेवनात् तमेव दोषं करोति । इदमेव स्पष्टतरमाह[भा.५०१४] जेसु विहरंति तातो, वारिजति तेसुतेसु ठाणेसु । पढमगभंगे एवं, सेसेसु ति ताई ठाणाइं॥ वृ-'येषु' ग्रामादिषु 'ताः' संयत्यो विहरन्ति तेषुतेषुस्थाने, सविहरन् वार्यते, ततः पाराञ्चिकः क्रियत इत्यर्थः । एवं 'प्रथमभङ्गे' स्वपक्षः स्वपक्षे दुष्टः' इतिलक्षणे विधिरुक्तः । शेषेष्वपि' द्वितीयादिषु भङ्गेषु तानि स्थानानि वर्जनीयानि । किमुक्तं भवति ?-द्वितीयभङ्गे यस्यामगार्यामध्युपपनस्तदीये कुल-निवेशनादीप्रविशन्वारणीयः, तृतीय-चतुर्थभङ्गयोः परपक्षः स्वपक्षे परपक्षे वा दुष्टः' इतिलक्षणयोः उपशान्तस्यापि तेषु स्थानेषु लिङ्गन दातव्यम् । [भा.५०१५] एत्थं पुन अहिगारो, पढमगभंगेन दुविह दुढे वी। उच्चारियसरिसाइं, सेसाई विकोवणट्ठाए। वृ-अत्र पुनः 'द्विविधेऽपि' कषायतो विषयतश्च दुष्टे प्रथमभङ्गेनाधिकारः । शेषाणि पुनः' द्वितीयभङ्गादीनि पदानि उच्चारितसद्दशानि विनेयमतिविकोपनार्थमभिहितानि॥ गतो दुष्टः पाराञ्चिकः । सम्प्रति प्रमत्तपाराञ्चिकमाह[भा.५०१६] कसाए विकहा विगडे, इंदिय निद्दा पमाद पंचविधो। अहिगारो सुत्तम्मि, तहिगंच इमे उदाहरणा॥ वृ-'कषायाः' क्रोधादयः, विकथा' स्त्रीकथादिका, 'विकटं मद्यम्, 'इन्द्रियाणि' श्रोत्रादीनि 'निद्रा' वक्ष्यमाणा, एष पञ्चविधः प्रमादो भवति । अयं च निशीथपीठिकायां यथा सविस्तर सपरायश्चित्तोऽपि भावितस्तथैवात्रापिमन्तव्यः।नवरमिहस्वपनंसुप्तं-निद्राइत्यर्थः, तयाऽधिकारः । सा च पञ्चविधा-निद्रा १ निद्रानिद्रा २ प्रचला ३प्रचलाप्रचला ४ सत्यानर्द्धिश्चेति ५। तत्र सुहपडिबोहोनिद्दा, दुहपडिबोहो य निद्दनिहाय । पयला होइ ठियस्सा, पयलापयला उचंकमतो॥ स्त्यानर्द्धिस्तु-स्त्याना-प्रबलदर्शनावरणीयकर्मोदयात् कठिनीभूता ऋद्धिः-चैतन्यशक्तिर्यस्यामवस्थायां सा स्त्यानर्द्धिः, यथा घृते उदके वा स्त्याने न किञ्चिदुपलभ्यते एवं चैतन्यऋध्यामपि स्त्यानायांन किञ्चिदुपलभ्यतइतिभावः । अत्रपाराञ्चिकस्यप्रस्तुतत्वात्स्त्यानद्धिनिद्रयाऽधिकारः। तस्यां चामून्युदाहरणानि॥ Page #134 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- ११२, [ भा. ५०१७ ] [भा. ५०१७] पोग्गल मोयग फरुसग, दंते वडसालभंजणे सुत्ते । एतेहिं पुनो तस्सा, विविंचणा होति जतणाए ॥ १३१ वृ- 'पुद्गलं' पिशितम्, ‘मोदकः' लड्डुकः, 'फरुसकः' कुम्भकारः, 'दन्ताः' प्रतीताः, वटशालाभञ्जनम् । एतानि पञ्चोदाहरणानि 'सुप्ते' स्त्यानर्द्धिनिद्रायां भवन्ति । एतैः ' एतदृष्टान्तोक्तैश्चिह्वैः स्त्यानद्धिं परिज्ञाय 'तस्य' स्त्यानर्द्धिमतः साधोर्यतनया 'विवेचनं' परित्यागः कर्तव्यों भवति ॥ तत्र पुद्गल ध्ष्टान्तमाह [भा.५०१८] पिसियासि पुव्व महिसं, विगच्चियं दिस्स तत्थ निसि गंतुं । अन्नं हंतुं खायति, उवस्सयं सेसगं नेति ॥ वृ- एगम्मि गामे एगो कोडुंबी पक्वानि य तलियानि य तिम्मनेसु अ अनेगसो मंसप्पगारे भक्खेइ । सो अ तहारूवाणं थेराणं अंतिए धम्मं सोउं पव्वइओ गामाइसु विहरइ । तेन य एगत्थ गा महिसो विगिच्चमाणो दिट्ठो । तस्स मंसे अभिलासो जातो। सो तेन अभिलासेण अव्वोच्छिन्नेणेव भिक्खं हिंडित्ता अव्वोच्छिन्त्रेणेव भुत्तो, एवं अव्वोच्छिन्त्रेण वियारभूमिं गतो । चरिमा सुत्तपोरिसी कया, आवस्सयं काउं पातोसिया पोरिसी विहिता । तदभिलासी चेव सुत्तो, सुत्तस्सेव थीणद्धी जाया । सो उट्ठओ, अनाभोगनिव्वत्तिएणं करणेणं गतो महिसमंडलं, अनं महिसं हंतुं भक्खित्ता सेसं आगंतुं उवस्सयस्स उवरिं ठवितं । पच्चूसे गुरूणं आलोएइ - एरिसो सुविणो दिट्ठो । साहूहिं दिसावलोकं करेंतेहिं दिट्टं कुणिमं, जाणियं जहा- एस थीणद्धी । ताहे लिंगपारंचियं पच्छित्तं से दिन्नं ॥ अथ गाथाक्षरार्थः-पिशिताशी कश्चित् 'पूर्वं' गृहवासे आसीत् । स च महिषं विकर्त्तितं दृष्ट्वा सञ्जाततद्भक्षणाभिलाषः 'तत्र' महिषमण्डले 'निशि' रात्रौ गत्वा अन्यं महिषं हत्वा खादति । 'शेषम्' उद्धरितमुपाश्रये नयति ।। लड्डुकष्टान्तमाह [ भा. ५०१९] मोयगभत्तमलद्धुं भंतु कवाडे घरस्स निसि खाति । भाणं च भरेऊणं, आगतो आवासए विगडे ॥ 1 वृ- एकः साधुर्भिक्षां हिण्डमानो मोदकभक्तं पश्यति । तच्च सुचिरमवलोकितमवभाषितं च, परं न लब्धम् । ततस्तदलब्ध्वा तदध्यवसायपरिणत एव प्रसुप्तः, रात्रौ तत्र गत्वा गृहस्य कपाटी भंक्त्वा मोदकान् भक्षयति, शेषैर्मोदकैर्भाजनं भृत्वा समागतः । प्राभातिके आवश्यक विकटयतिईशः स्वप्नो मया दृष्ट इति । ततः प्रभाते मोदकभृतं भाजनं दृष्टवा-ज्ञातम्, यथा-स्त्यानर्द्धिरिति । तस्यापलिङ्गपाराञ्चिकं दत्तम् । शेषं पुद्गलाख्यानकवद् वक्तव्यम् ॥ अथ फरुसकदृष्टान्तमाह[ भा. ५०२०] अवरो फरुसग मुंडो, मट्टियपिंडे व छिंदिउं सीसे । एते अवयज्झइ, पासुत्ताणं विगडणा य ।। वृ- 'अपरः' कश्चित् ‘फरुसकः' कुम्भकारः क्वापि गच्छे मुण्डो जातः, प्रव्रजित इत्यर्थः । तस्य रात्री प्रसुप्तस्य स्त्यानर्द्धिरुदीर्णा । स च पूर्वं मृत्तिकाच्छेदाभ्यासी ततो मृत्तिकापिण्डानिव समीपप्रसुप्तानां साधूनां शिरांसि च्छेत्तुमारब्धः । तानि च शिरांसि कडेवराणि चैकान्ते अपोज्झति । शेषाः साधवोऽपसृताः । स च भूयोऽपि प्रसुप्तः । ततः प्रभाते 'ईशः स्वप्नो मया दृष्टः' इति विकटना कृता । प्रभाते च साधूनां शिरांसि कडेवराणि च पृथग्भूतानि दृष्ट्वा ज्ञातम्, यथास्त्यानर्द्धिरिति । लिङ्गपाराश्चिकं दत्तम् ॥ अथ दन्तदृष्टान्तमाह Page #135 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-४/११२ १३२ [ भा. ५०२१] अवरो वि धाडिओ मत्तहत्थिणा पुरकवाडे भंतूणं । तस्सुक्खणित्तु दंते, वसही बाहिं विगडणा य ।। वृ- अपरः कोऽपि साधुर्गृहस्थभावे 'मत्तहस्तिना' शुण्डामुत्क्षिप्य धावता घाटितः, पलायमानो महता कष्टेन छुट्टितः । एष चूर्ण्यभिप्रायः । निशीथचूर्णिकृता तु "एगो साहू गोयरनिग्गतो हत्थिणा पक्खित्तो" इति लिखितम् । एवमुभयथाऽपि तं हस्तिकृतं पराभवं स्मृत्वा स साधुः तस्योपरि प्रद्वेषमापन्नः प्रसुप्तः । उदीर्णस्त्यानर्द्धिश्चोत्थाय पुरकपाटौ भंक्त्वा हस्तिशालां गत्वा तस्य हस्तिनो व्यापादनं कृत्वा दन्तानुत्खन्य वसतेर्बहिः स्थापयित्वा भूयोऽपि प्रसुप्तः प्रभाते च 'विकटना' स्वप्नमालोचयति । साधुभिश्च दिगवलोकनं कुर्वाणैर्गजदन्दौ वीक्षितौ । ततः 'स्त्यानर्द्धिमान् असौ' इति ज्ञात्वा लिङ्गपाराञ्चिकः कृतः ।। वटशालाभञ्जनदृष्टान्तमाह [भा. ५०२०] उब्भामग वडसालेन घट्टितो केइ पुव्व वणहत्थी । asसालभंजणाSSनन, उस्सग्गाऽऽलोयणा गोसे ॥ वृ- एकः साधुः 'उद्भ्रामकः' भिक्षाचर्यां गतः । तत्र ग्रामद्वयस्यापान्तराले वटवृक्षो महान् विद्यते । स च साधुर्गाढतरमुष्णाभिहतो भरितभाजनस्तृषित-बुभुक्षित ईर्योपयुक्तो वेगेनाऽऽगच्छन् “वडसालेन’”त्ति लिङ्गव्यत्ययाद् वटपादपस्य शालया शिरसि घट्टितः सुष्ठुतरं परितापितः । ततो वटस्योपरि प्रद्वेषमुपगतः तदध्यवसायपरिणतश्च प्रसुप्तः । उदीणस्त्यानर्द्धिश्चोत्थाय तत्र गत्वा वटपादपं भंक्त्वा उन्मूल्य तदीया शालामानीयोपाश्रयोपरि स्थापितवान् । 'उत्सर्गे च' आवश्यककायोत्सर्गत्रिके कृते 'गोसे च' प्रभाते तथैव गुरूणामालोचयति । ततो दिगवलोके कृते तथैव ज्ञातम्, लिङ्गपाराञ्चिकः कृतश्च । केचिदाचार्या ब्रुवते स पूर्वभवे वनहस्ती बभूव, ततो मनुजभवमागतस्य प्रव्रजितस्योदीर्णस्त्यानर्द्धेः पूर्वमवाभ्यासाद् वटशालाभञ्जनमभवत् । शेषं प्राग्वद् ।। कथं पुनरसौ परित्यजनीयः ? इत्याह [ भा. ५०२३ ] केसव अद्धबलं पन्नवेंति मुय लिंग नत्थि तुह चरणं । नेच्छस्स हरइ संघो, न वि एक्को मा पदोसं तु ॥ वृ- केशवः - वासुदेवस्तस्य बलादर्धबलं स्त्यानर्द्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति । एतच्च प्रथमसंहननिनमङ्गीकृत्योक्तम्, इदानीं पुनः सामान्यलोकबलाद् द्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमतः स प्रज्ञापनीयः - सौम्य ! मुञ्च लिङ्गम्, नास्ति तव 'चरणं' चारित्रम् । यद्येवं गुरुणा सानुनयं भणितो मुञ्चति ततः शोभनम् । अथ न मुञ्चति ततः सङ्घः समुदितो लिङ्ग तस्य मोक्तुमनिच्छतः सकाशाद् 'हरति' उद्दालयति, न पुनरेकः । कुतः ? इत्याह-मा तस्यैकस्योपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्च व्यापादनमपि कुर्यात् ॥ लिङ्गापहारनियमार्थमिदमाह [भा. ५०२४] अवि केवलमुप्पाडे, न य लिंगं देति अनतिसेसी से । देसवत दंसणं वा, गिण्ह अनिच्छे पलायंति ॥ वृ- 'अपिः' सम्भावने सचैतत् सम्भावयति यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथापि “से” ‘तस्य' स्त्यानर्द्धिमतो लिङ्गमनतिशयी न ददाति । यः पुनरतिशयज्ञानी स जानाति-न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति ततो लिङ्गं ददाति, इतरथा न ददाति । लिङ्गापहारे पुनः Page #136 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- ११२, [भा. ५०२४] १३३ क्रियमाणेऽयमुपदेशो दीयते - 'देशव्रतानि' स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत् प्रतिपत्तुं न समर्थ ततः 'दर्शनं' सम्यक्त्वं गृहाण । अथैवमप्यनुनीयमानो लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा 'पलायन्ते' देशान्तरं गच्छन्ति ॥ गतः प्रमत्तपाराञ्चिकः । अथान्योन्यं कुर्वाणं तमेवाह [भा. ५०२५] करणं तु अन्नमन्ने, समणाण न कप्पते सुविहिताणं । जे पुन करेंति नाता, तेसिं तु विविंचणा भणिया ।। वृ-तुशब्दस्य व्यवहितसम्बन्धतया 'अन्योन्यं' परस्परं पुनर्यत् 'करणं' मुख-पायुप्रयोगेन सेवनं तत् श्रमणानां सुविहितानां कर्तुं न कल्पते । ये पुनः कुर्वन्ति ते यदि ज्ञातास्तदा तेषां ' विवेचना' परिष्ठापना भणिता ॥ इदमेव व्याचष्टे [भा. ५०२६] आसग-पोसगसेवी, केई पुरिसा दुवेयगा होंति । तेसिं लिंगविवेगो, बितियपदं रायपव्वइते ।। वृ- आस्यं मुखं आस्यमेवास्यकम्, पोसकः पायुः, आस्यक-पोसकाभ्यां सेवितुं शीलमेषामित्यासक-पोसकसेविनः; केचित् 'पुरुषाः' साधवः द्विवेदकाः' स्त्री-पुरुषवेदयुक्ता भवन्ति, नपुंसकवेदिन इत्यर्थः तेषां लिङ्गविवेकः कर्तव्यः, लिङ्गपाराञ्चिकं दातव्यमित्यर्थः । द्वितीयपदमत्र भवति-यो राजप्रव्रजितस्तस्यास्यक-पोसकसेविनोऽपि लिङ्गं नापह्रियते, परंयतनया स परित्यज्यते । गतोऽन्योन्यं कुर्वाणः पाराञ्चिकः । सम्प्रति यो दुष्टादिर्यतः पाराञ्चिकः क्रियते तदेतद् दर्शयति[ भा. ५०२७] विइओ उवस्सयाई, कीरति पारंचितो न लिंगातो । अनुवरमं पुन कीरति, सेसा नियमा तु लिंगाओ । वृ- 'द्वितीयः' विषयदुष्ट उपाश्रयादेः पाराञ्चिकः क्रियते, क्षेत्रत इत्यर्थः, 'न लिङ्गाद्' लिङ्गपाराञ्चिको न विधीयते । अथ ततो दोषान्नोपरमते तदाऽनुपरमन् लिङ्गतोऽपि पाराञ्चिकः क्रियते । 'शेषाः' कषायदुष्ट-प्रमत्ता ऽन्योन्यसेवाकारिणो नियमाद् लिङ्गपाराञ्चिकाः क्रियन्ते ॥ किमेत एव पाराञ्चिकाः ? अस्तीति ब्रूमः । कीदृशः सः ? इति चेद् उच्यतेइंदिय-पमाददोसा, जो पुन अवराहमुत्तर्म पत्तो । सब्भावसमाउट्टो, जति य गुणा से इमे होंति । [ भा. ५०२८] वृ- इन्द्रियदोषात् प्रमाददोषाद्वा पाराञ्चिकापत्तियोग्याद् यः पुनः साधुः 'उत्तमम्' उत्कृष्टमपराधपदं प्राप्तः स यदि 'सद्भावसमावृत्तः' 'निश्चयेन भूयोऽहमेवं न करिष्यामि' इति व्यवसितस्तदा स तपःपाराञ्चिकः क्रियते, यदि च “से” तस्येमे गुणा भवन्ति ॥ के पुनस्ते ? इत्याह [भा. ५०२९] संघयण-विरिय आगम- सुत्त ऽत्थ-विहीए जो समग्गो तु । तवसी निग्गहजुत्तो, पवयणसारे अभिगतत्थो । वृ- संहननं-वज्रऋषभनाराचम्, वीर्यं धृत्या वज्रकुड्यसमानता, आगमः- जघन्येन नवमपूर्वान्तर्गतमाचाराख्यं तृतीयं वस्तु उत्कर्षतो दशमपूर्वमसम्पूर्णम्, तच्च सूत्रतोऽर्थतश्च यदि परिजितं भवति, एतैः संहननादिभिर्विधिना च तदुचितसमाचारेण यः 'समग्रः' सम्पूर्ण । 'तपस्वी नाम' सिंहनिक्रीडितादितपःकर्मभावितः । निग्रहयुक्तः' इन्द्रिय- कषायाणां निग्रहसमर्थ । 'प्रवचन Page #137 -------------------------------------------------------------------------- ________________ १३४ सारेऽभिगतार्थ' परिणामितप्रवचनरहस्यार्थ इति । किञ्च [भा. ५०३०] तिलतुसतिभागमित्तो वि जस्स असुभो न विज्ञ्जती भावो । निज्जूहणाइ अरिहो, सेसे निज्जूहणा नत्थि ।। वृ- यस्य गच्छान्निर्यूढस्य तिलतुषत्रिभागमात्रोऽपि 'निर्यूढोऽहम्' इत्यशुभो भावो न विद्यते स निर्यूहणायाः 'अर्हः' योग्यः । 'शेषस्य' एतद्गुणविकलस्य निर्यूहणा नास्ति, न कर्तव्येत्यर्थः ॥ इदमेव व्याचष्टे [ भा. ५०३१] बृहत्कल्प-छेदसूत्रम् -३-४/११२ एयगुणसंपजुत्तो, पावति पारंचियारिहं ठाणं । एयगुणविप्पमुक्के, तारिसगम्मी भवे मूलं ॥ वृ- एतैः संहननादिभिर्गुणैः सम्प्रयुक्तः पाराञ्चिकार्हं स्थान् प्राप्नोति । यः पुनरेतद्गुणविप्रमुक्तः 'ताशे' पाराञ्चिकापत्तिप्राप्तेऽपि मूलमेव प्रायश्चित्तं भवति ।। अथ पाराञ्चिकमेव कालतो निरूपयति[ भा. ५०३२] आसायणा जहन्ने, छम्मासुक्कोस बारस तु मासे । वासं बारस वासे, पडिसेवओ कारणे भतिओ ॥ • वृ- आशातनापाराञ्चिको जघन्येन षण्मासान् उत्कर्षतश्च द्वादश मासन् भवति, एतावन्तं कालं गच्छान्निर्यस्तिष्ठतीत्यर्थः । प्रतिसेवनापाराञ्चिको जघन्येन संवतसरम् उत्कर्षतो द्वादश वर्षाणि निर्यूढ आस्ते । “पडिसेवओ कारणे भइओ" त्ति यः प्रतिषेवकपाराञ्चिकः सः ‘कारणे' कुलगणादिकार्ये 'भक्तः' विकल्पितः, यथोक्तकालादर्वागपि गच्छं प्रविशतीति भावः ॥ अथ तस्यैव गणनिर्गमनविधिमाह [भा. ५०३३] इत्तिरियं निक्खेवं, काउं अन्नं गणं गमित्ताणं । दव्वादि सुभे विगडण, निरुवस्सग्गट्ट उस्सग्गो ॥ वृ- इह यः पाञ्चिकं प्रतिपद्यते स नियमादाचार्य एव भवति, तेन च स्वगणे पाराञ्चिकं न प्रतिपत्तव्यम्, अन्यस्मिन् गणे गन्तव्यम् । तत इत्वरं गणनिक्षेपमात्मतुल्ये शिष्ये कृत्वा ततोऽन्यं गणं गत्वा 'द्रव्यादिषु' द्रव्य क्षेत्र काल- भावेषु 'शुभेषु' प्रशस्तेषु विकटनाम्' आलोचनां परगणाचार्यस्य प्रयच्छति । उभावपि च निरुपसर्गप्रत्ययं कायोत्सर्गं प्रकुरुतः ॥ अथ किं कारणं स्वगणे न प्रतिपद्यते ? उच्यते [भा. ५०३४] अप्पच्चय निब्भयया, आणाभंगो अजंतणा सगणे । परगणे न होंति एए, आणाथिरता भयं चेव ॥ वृ- स्वगच्छ एव पाराञ्चिकप्रतिपत्तौ अगीतार्थानामप्रत्ययो भवति नूनमकृत्यमनेन प्रतिसेवितं येन पाराञ्चिकः कृतः । ततस्तेषां निर्भयता भवति, न गुरूणां बिभ्यतीत्यर्थः । अबिभ्यतश्चाज्ञाभङ्गं कुर्वीरन् । अयन्त्रणा च स्वगणे भवति, शिष्यानुरोधादिना स्वयमेव भक्त-पानानयनादौ नियन्त्रणा वक्ष्यमाणा न भवतीत्यर्थः । परगणे चैते दोषा न भवन्ति । अपि च-तत्र गच्छता भगवतामाज्ञानुपालने 'स्थिरता' स्थैर्यं कृतं भवति, भयं चात्मनः सञ्जायते, ततः परगणं गत्वा तत्र पाराञ्चिकं पतिपद्य निरपेक्षः सक्रोशयोजनात् क्षेत्राद् बहिर्व्रजति ।। तस्य चेयं सामाचारी [ भा. ५०३५ ] जिनकप्पियपडिरूवी, बाहिं खेत्तस्स सो ठितो संतो । विहरति बारस वासे, एगागी झाणसंजुत्तो ॥ Page #138 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-११२, [भा. ५०३५] १३५ वृ-'जिनकल्पिकप्रतिरूपी' 'अलेपकृतं भैक्षं ग्रहीतव्यम्, तृतीयस्यां पौरुष्यां पर्यटनीयम्' इत्यादिका याशी जिनकल्पिकस्य चर्या तां कुर्वन क्षेत्राद् बहि स्थितः सन् ‘सः' पाराञ्चिकः एकाकी 'ध्यानसंयुक्तः' श्रुतपरावर्तनकचित्तो द्वादश वर्षाणि विहरति ॥ यस्य चाऽऽचार्यस्य सकाशे प्रतिपद्यते तेन यत् कर्तव्यं तदाह[भा.५०३६] ओलोयणं गवेसण, आयरितो कुणति सव्वकालं पि। उप्पन्ने कारणम्मिं, सव्वपयत्तेण कायव्वं ॥ वृ-आचार्य पाराश्चिकस्य ‘सर्वकालमपि' यावन्तं कालं प्रायश्चित्तं वहति तावन्तं सकलमपि कालं यावत् प्रतिदिवसमवलोकनं करोति, तत्समीपं गत्वा तदर्शनं करोतीत्यर्थः । तदनन्तरं 'गवेषणं' 'गतोऽल्पक्लमतयाभवतां दिवसोरात्रिर्वा?' इति पृच्छां करोति। उत्पन्ने पुनः 'कारणे' ग्लानत्वलक्षणे सर्वप्रयत्लेन भक्त-पानाहरणादिकं स्वयमाचार्येण तस्य कर्तव्यम् ।। [भा.५०३७] जो उ उवेहं कुजा, आयरिओ केणई पमाएणं । आरोवणा उ तस्सा, कायव्वा पुव्वनिद्दिट्ठा ।। वृ- यः पुनराचार्य 'केनापि प्रमादेन' जनव्याक्षेपादिना 'उपेक्षां कुरुते' तत्समीपं गत्वा तच्छरीस्योदन्तं न वहति तस्याऽऽरोपणा 'पूर्वनिर्दिष्टा' ग्लानद्वाराभिहिता कर्तव्या, चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमिति भावः॥ यदुक्तम् "उत्पन्ने कारणे सर्वप्रयत्नेन कर्तव्यम्" तद्भावयति[भा.५०३८] आहरति भत्त-पानं, उव्वत्तणमाइयं पि से कुणति। __सयमेव गणाहिवई, अह अगिलाणो सयं कुणति॥ वृ-अथ स पाराञ्चिको ग्लानोऽभवत् ततस्तस्य 'गणाधिपति' आचार्य स्वयमेव भक्तंपानंच 'आहरति' आनयति, उद्वर्तनम् आदिशब्दात् परावर्तनोर्द्धकरणोपवेशनादिकंतस्य स्वयंकरोति। अथ जातः ‘अग्लानः' नीरोगस्तत आचार्यं न किमपि कारयति किन्तु सर्वं स्वयमेव कुरुते ॥ अधुना यदुक्तम् “ओलोयणं गवेसण" ति तद्व्याख्यानार्थमाह. [भा.५०३९] उभयं पि दाऊण सपाडिपुच्छं, वोढुं सरीरस्स य वट्टमाणि। . आसासइत्ताण तवोकिलंतं, तमेव खेत्तं समुति थेरा।। वृ-'स्थविराः' आचार्याः शिष्याणांप्रतीच्छकानां च 'उभयमपि' सूत्रमर्थंच, किंविशिष्टम् ? इत्याह-'सप्रतिपृच्छं' पृच्छा-प्रश्नस्तस्याः प्रतिवचनं प्रतिपृच्छा तया सहितं सप्रतिपृच्छम्, सूत्रविषयेऽर्थविषये च यद् येन पृष्टं तप्रतिवचनं दत्त्वा तत्सकाशमुपगम्य तदीयशरीरस्य “वट्टमाणि"ति वर्तमानेकाले भवा वार्त्तमानी-वार्तेत्यर्थःस्तां वहन्ति, अल्पक्लाम्यतांपृच्छन्तीति भावः । सोऽपिचाऽऽचारागतं मस्तकेन वन्दे' इति फेटावन्दनकेन वन्दते।शरीररस्य चोदन्तमूढ्वा यदि तपसा क्लाम्यति तत आश्वासयन्ति । आश्वास्य च तदेव क्षेत्रं' यत्र गच्छोऽवतिष्ठते तत् समुपगच्छन्ति स्थविराः ।। अथ द्वावपि सूत्रार्थों दत्त्वा तत्र गन्तुं न शक्नोति ततः को विधिः? इत्याह[भा.५०४०] असहू सुत्तं दातुं, दो वि अदाउं व गच्छति पए वि। संघाडओ से भत्तं, पानं चाऽऽनेति मग्गेणं॥ Page #139 -------------------------------------------------------------------------- ________________ १३६ बृहत्कल्प-छेदसूत्रम् -३-४/११२ वृ- इहैकस्यापि कदाचिदेकवचनं कदाचिच्च बहुवचनं सर्वस्यापि वस्तुन एकाऽनेकरूपताख्यापनार्थमित्यदुष्टम् । असहिष्णुराचार्य सूत्रं दत्त्वा गच्छति।अथतथापिन शक्तोति ततः 'द्वावपि' सूत्रा-ऽर्थावदत्त 'प्रगे' प्रभात एव गच्छति । तस्य च तत्र गतस्य एकः सङ्घाटको भक्तं पानकं च ‘मार्गेण' पृष्ठत आनयति ॥ कदाचिनन्न गच्छेदपि तत्रैतानि कारणानि[भा.५०४१] गेलनेण व पुट्ठो, अभिनवमुक्को ततो व रोगातो । कालम्मि दुब्बले वा, कज्जे अन्ने व वाघातो॥ वृ-स आचार्यो ग्लानत्वेन वा स्पृष्टो भवेद् अथवा 'तस्माद्' ग्लानत्वकारणाद् रोगाद् 'अभिनवमुक्तः' तत्कालमुक्तः स्यात् ततो न गच्छेत् । यदि वा काले 'दुर्बले न विद्यते बलं गमनाय यस्मिन्गाढातपसम्भवादिनास दुर्बलः-ज्येष्ठा-ऽऽषाढादिकः कालः, दुरशब्दोऽभाववाची, तस्मिन् न गच्छेत्, शरीरक्लेशसम्भवात् । “कजे अन्ने व वाघातो" इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात्, ततोऽयमर्थः-अन्येन वा कार्येण केनापि व्याघातो भवेत्।। कं पुनस्तत् कार्यम् ? इत्याह[भा.५०४२] वायपरायण कुवितो, चेइय-तद्दव्व-संजतीगहणे । पुव्वुत्ताण चउण्ह वि, कजाण हवेज अन्नयरं ॥ वृ-वादे कस्यापि राजवल्लभवादिनः पराजयेन नृपति कुपितः स्यात्।अथवा चैत्यं-जिनायतनं किमपि तेनावष्टब्धं स्यात् ततस्तन्मोचने क्रुद्धो भवेत् । अथवा तव्यस्य-चैत्यद्रव्यस्य संयत्या वा ग्रहणं राज्ञा कृतं तन्मोचने वा कुपितः । ततः 'पूर्वोक्तानाम्' इहैव प्रथमोद्देशके प्रतिपादितानां निर्विषयत्वाज्ञापन-भक्तपाननिषेधोपकरणहरण-जीवितचारित्रभेदलक्षणानांचतुर्णा कार्याणामन्यतरत् कार्यमुत्पन्नं भवेत्ततो न गच्छेत्॥अगमने चोपाध्यायः प्रेषणीयोऽन्यो वा, तथाचाह[भा.५०४३] पेसेइ उवज्झाय, अन्नं गीतं व जो तहिं जोग्गो। पुट्ठो व अपुट्ठो वा, स चावि दीवेति तं कज्जं ॥ कृ-पूर्वोक्तकारणवशतःस्वयमाचार्यस्य गमनाभावे उपाध्यायंतदभावेऽन्योवायोगीतार्थस्तत्र योग्यस्तंप्रेषयति । स चापि तत्र गतः सन् तेन पाराञ्चितेन 'किमित्यद्य क्षमाश्रमणा नायाताः?' इति पृष्टो वाऽपृष्टो वा तत् 'कार्य' कारणं दीपयेत्, यथा-अमुकेन कारणेन नायाता इति॥ [भा.५०४४] जाणंता माहप्पं, सयमेव भणंति एत्थतं जोग्गो। अस्थि मम एत्थ विसओ, अजाणए सो व ते बेति॥ वृ. इह यदि ग्लानीभवनादिना कारणेन क्षमाश्रमणानागमनं पृष्टेनापृष्टेन वा दीपितं तदा न किमप्यन्यत् तेन पाराञ्चितेन वक्तव्यं किन्तु गुवदिश एवोभाभ्यां यथोदितः सम्पादनीयः । अथ राजप्रद्वेषोनिर्विषयत्वाज्ञापनादिना व्याघातो दीपितस्तत्र यदि ते उपाध्यायाअन्येवागीतार्थास्तस्य शक्ति स्वयमेव बुध्यन्ते ततो जानन्तः स्वयमेव तस्य माहात्म्यं तं ब्रुवते, यथा-अस्मिन् प्रयोजने त्वं योग्य इति क्रियतामुद्यमः। अथ न जानते तस्य शक्ति ततः स एव तानजानानान् ब्रूते, यथाअस्ति ममात्र विषय इति । एतच्च स्वयमुपाध्यायादिभिर्वा भणितो वक्ति[भा.५०४५] अच्छउ महानुभागो, जहासुहं गुणसयागरो संघो। __गुरुगं पि इमं कजं, मं पप्प भविस्सए लहुयं ॥ Page #140 -------------------------------------------------------------------------- ________________ १३७ उद्देशकः ४, मूलं-११२, [भा. ५०४५] वृ-तिष्ठतु यथासुखं महान् अनुभागः-अधिकृतप्रयोजनानुकूला अचिन्त्या शक्तिर्यस्य सः, तथा गुणशतानाम-अनेकेषां गुणानाम् आकरः-निधानं गुणशताकरः सङ्घः। यत इदं गुरुकमपि कार्यं मां प्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रोयजनस्य लीलयाऽपि साधने इति भावः ।। एवमुक्ते सोऽनुज्ञातः सन् यत् करोति तदाह[भा.५०४६] अभिहाण-हेउकुसलो, बहूसुनिराजितो विउसभासु। . गंतूण रायभवने, भणातितं रायदारटुं । वृ. 'अभिधान-हेतुकुशलः' शब्दाम्रागे तर्कमार्गे-ऽतीव क्षुन्न इत्यर्थः, अत एव बहुषु विद्वत्सभासु'नीराजितः' निर्वटितः, इत्थम्भूतः स पाराञ्चिको राजभवेन गत्वा तं 'राजद्वारस्थं' प्रतीहारं भणति ॥ किं भणति? इत्याह[भा.५०४७] पडिहाररूवी ? भण रायरूविं, तमिच्छए संजयरूवि दटुं। निवेदयित्ता य स पत्थिवस्स, जहिं निवो तत्थ तयं पवेसे॥ वृ-हे प्रतीहाररूपिन् ! मध्ये गत्वा ‘राजरूपिणं' राजानुकारिणं भण, यथा-त्वां संयतरूपी द्रष्टुमिच्छति । एवमुक्तः सन् ‘सः' प्रतीहारस्तथैव पार्थिवस्य निवेदयति । निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र 'तकं साधुं प्रवेशयति । [मा.५०४८] तं पूयइत्ताण सुहासनत्थं, पुच्छिसु रायाऽऽगयकोउहल्लो । पण्हे उराले असुए कयाई, स चावि आइक्खइ पत्थिवस्स ।। वृ-'तं' साधुंप्रविष्टं सन्तं राजापूजयित्वा शुभासनस्थं' शुभेआसने निषन्नमागतकुहूहलोऽप्राक्षीत्। कान्? इत्याह-प्रश्नान् ‘उदारान्' गम्भीरार्थान् कदाचिदप्यश्रुतान् “प्रतिहाररूपिन्'! इत्येवमादिकान् । स चापि' साधुरेवं पृष्टः पार्थिवस्याचष्टे । किमाचष्टे ? इत्याह[भा.५०४९] जारिसग आयरक्खा, सक्कादीणं न तारिसो एसो। तुह राय! दारपालो, तं पिय चक्कीण पडिरूवी॥ वृ-याध्शकाः खलु शक्रादीनाम्, आदिशब्दात् चमरादिपरिग्रहः, आत्मरक्षा न ताश एष तत्र राजन्! द्वारपालस्तत उक्तम् “हे प्रतीहाररूपिन्!" तथा त्वमपि याद्दशश्चक्रवर्ती ताईशो न भवसि, रलाद्यभावात्, अत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या, किञ्च प्रताप-शौर्यन्यायानुपालनादिनात प्रतिरूपोऽसितत उक्तम् “राजरूपिणं ब्रूहि", चक्रवर्तिप्रतिरूपमित्यर्थः॥ एवमुक्ते राजा प्राह-त्वं कथं श्रमणानां प्रतिरूपी? तत आह[भा.५०५०] समणाणं पडिरूवी, जंपुच्छसि राय ! तं कहमहं ति । निरतीयारा समणा, न तहाऽहं तेन पडिरूवी॥. वृ-यत् त्वं राजन् ! पृच्छसि ‘अथ। कथं त्वं श्रमणानां प्रतिरूपी ?' तदहं कथयामि-यथां श्रमणा भगवन्तो निरतिचारा न तथाऽहं तेन श्रमणानां प्रतिरूपी, न तु साक्षात् श्रमण इति ॥ प्रतिरूपित्वमेव भावयति[भा.५०५१] निजूढो मिनरीसर!, खेत्ते विजईण अच्छिउंन लभे। अतियारस्स विसोधि, पकरेमि पमायमूलस्स ॥ वृ-हेनरेश्वर! प्रमादमूलस्यातिचारस्य सम्प्रति विशोधिप्रकरोमि, तां च कुर्वन् 'निढोऽस्मि' Page #141 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-४/११२ निष्कासितोऽस्मि, तत आस्तामन्यत्, क्षेत्रेऽपि यतीनामहमास्थातुंन लभे, ततः श्रमप्रतिरूप्यहमिति । राजा प्राह-सत्त्वया कृतोऽतिचारः ? का वा तस्य विशोधि ? एवं पृष्टे यत् कर्तव्यं तदाह[भा. ५०५२] कहणाऽऽउट्टण आगमनपुच्छणं दीवणा य कजस्स । वीसज्जियंतिय मए, हासुस्सलितो भणति राया ॥ - कथनं राज्ञा पृष्टस्य प्रसङ्गतोऽन्यस्यापि यथा प्रवचनभावना भवति । ततः 'आवर्तनम्' आकम्पनम् राज्ञो भक्तीभवनमिति भावः । तदननतरमागमनकारणस्य प्रश्नः - केन प्रयोजनेन यूयमत्राऽऽगताः स्थ ? । अत्रान्तरेयेन कार्येणागतस्तस्य 'दीपना' प्रकाशना । ततो राजा "हासुस्सलिओ "त्ति हासेन युक्त उत्सृतः हृष्टो हासोत्सृतः, हसितमुखः प्रहृष्टश्च सन्नित्यर्थः, भणति । यथा-मया 'विसर्जितं ' मुत्कलितं निर्विषयाज्ञापनादिकं कार्यमिति ॥ १३८ एवं च किं सञ्जातम् ? इत्याह [भा. ५०५३] संघो न लभइ कज्जं, लद्धं कज्जं महानुभाएणं । तुब्भं ति विसङ्गेमिं, सोविय संघो त्ति पूएति ॥ वृ-निर्विषयत्वाज्ञापनमुत्कलनादिलक्षणं कार्यं सङ्घो न लभते किन्तु तेन पाराञ्चिकेन 'महानुभागेन' सातिशयाचिन्त्यप्रभावेन लब्धम्। न च स एवं कार्यलाभेन गर्वमुद्वहति, यत आह- "तुमं ति" इत्यादि, राजा प्राह- युष्माकं भणितेनाहं पूर्वग्राहं त्यक्त्वा तत् कार्यं विसर्जयामि नान्यथा । 'सोऽपि च' पाराञ्चिको ब्रूते - कोऽहम् ? कियन्मात्रो वा ? गरीयान् सङ्घो भट्टारकः, तत्प्रभावादेवाहं किञ्चिज्जानामि, तस्मात् सङ्घामाहूय क्षमयितवा यूयमेवं ब्रूत-मुत्कलितं मया युष्माकमिति । ततो राजाऽपि सङ्घं पूजयति ॥ [भा. ५०५४] अब्मत्थितो व रन्ना, सयं व संघो विसज्जति तु तुट्ठो । आदी मज्झऽवसाणे, स यावि दोसो धुओ होइ ।। वृ- राजा सङ्कं ब्रूयात्-मया युष्माकं विसर्जितं कार्यम्, परं मदीयमपि कार्यमिदानीं कुरुतमुञ्चतास्य पाराञ्चिकस्य प्रायश्चित्तम् । एवं राज्ञाऽभ्यर्थितो यदि वा स्वयमपि तुष्टः सङ्घः 'विसर्जयति' मुत्कलयति । किमुक्तं भवति ? यद् व्यूढं तद् व्यूढमेव, शेषं तु पुनर्देशतः सर्वतो वा प्रसादेन मुञ्चति । तस्य च पाराञ्चिकतपसस्तदानीमादिर्मध्यमवसानं वा भवेत्, त्रिष्वपि सङ्घस्यादेशात् 'स चापि' पाराञ्चिकपत्तिहेतुर्दोषः 'धुतः' कम्पितः, प्रसादेन स्फेटितो भवतीत्यर्थः । तत्र देशो देशदेशो वा प्रायश्चित्तस्य तेन वोढव्यः । अथ राजा तस्यापि मोचने निर्बन्धं करोति तदा तदपि मुच्यते । देशो नाम-षड्भागः, देशदेशः- दशभागः ॥ तत्र देशे यावन्तो मासा भवन्ति तदेतत् प्रतिपादयति [भा. ५०५५ ] एक्को य दोन्नि दोन्नि य, मासा चउवीस होंति छब्भागे । संदोह वि एयं, वहेज मुंचेज वा सव्वं ॥ वृ- इहाशातनापाराञ्चिको जघन्यतः षण्मासान् उत्कर्षतो वर्षं भवति इत्युक्तम्, तत्र षण्मासानां षष्ठे भागे एको मासो लभ्यते वर्षस्य तु षड्भागे द्वौ मासौ भवतः । प्रतिसेवनापाराञ्चिको जघन्यतो वर्षम् उत्कर्षतो द्वादश वर्षाणि भवतीत्युक्तम्, तत्रापि वर्षस्य षड्भागे द्वौ मासौ द्वादशवर्षाणां षष्ठे भागे चतुर्विंशतिर्मासा भवन्ति । एवंविधं देशं 'द्वयोरपि' आशातना-प्रतिसेवनापाराञ्चिकयोः Page #142 -------------------------------------------------------------------------- ________________ .१३९ उद्देशक : ४, मूलं-११२, [भा. ५०५५] सम्बन्धिनं सङ्घस्यादेशाद् वहेत्, यद्वा सर्वमपि सङ्घो मुञ्चेत्, न किमपि कारयेदित्यर्थः ।। अथ देशदेशमाह[भा.५०५६] अट्ठारस छत्तीसा, दिवसा छत्तीसमेव वरिसंच। बावत्तरिंच दिवसा, दसभागवहेज बितिओतु॥ वृ- आशातनापाराञ्चके षण्मासानां दशमे भागेऽष्टादश दिवसा वर्षस्य तु दशमे भागे षट्त्रिंशदिवसा भवन्ति। प्रतिसेवनापाराञ्चिके संवत्सरस्य दशमे भागेषट्त्रिंशदिवसा द्वादशवर्षाणां दशमे भागे वर्षमेकं द्वासप्ततिश्च दिवसा भवन्ति । एतावन्तं कालं यद् वहेद् एषः 'द्वितीयः' देशदेश उच्यते ।। उपसंहरन्नाह[भा.५०५७] पारंचीणं दोण्ह वि, जहन्नमुक्कोसयस्स कालस्स। छब्भां दसभागं, वहेज सव्वं व झोसिज्जा ॥ वृ-'द्वयोरपि आशातना-प्रतिसेवनापाराञ्चिकयोर्जघन्य उत्कृष्टश्चयःकालस्तस्य सम्बन्धिनं षड्भागं दशभागं वाऽनन्तरोक्तं वहेत् । यद्वा 'सर्वमपि अवशिष्यमाणं सङ्घः क्षपयेत्, प्रसादेन मुञ्चेदिति भावः॥ मू. (११३) ततो अनवट्टप्पा पन्नत्ता, तंजहा-साहम्मियाणं तेनं करेमाणे, अन्नधम्मियाणं तेनं करेमाणे, हत्थादालं दलेमाणे ॥ वृ-अस्य सम्बन्धमाह[भा.५०५८] पच्छित्तमनंतरियं, हेट्ठा पारंचियस्स अणवट्ठो। आयरियस्स विसोधी, भणिता इमगा उवज्झाते॥ वृ-पूर्वसूत्रे पाराञ्चिकप्रायश्चित्तमुक्तम्, तस्य अधस्ताद्' अनन्तरितमनवस्थाप्यप्रायश्चित्तं भवति, अतः साम्प्रतं तदभिधीयते।यद्वापूर्वसूत्रेआचार्यस्यशोधिर्भणिता, इयंपुनरुपाध्यायविषया सैवाभिधीयते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयः 'अनवस्थाप्याः' तत्क्षणादेव व्रतेष्वनवस्थापनीयाः प्रज्ञप्ताः। तद्यथा-साधर्मिकाः-साधवस्तेषां सत्कस्योत्कृष्टोपधेः शिष्यादेर्वा 'स्तैन्यं' चौर्यं कुर्वाणः । अन्यधार्मिकाः-शाक्यादयो गृहस्था वा तेषां सत्कस्योपध्यादेः स्तैन्यं कुर्वन् । तथा हस्तेनाताडनं हस्तातालः, सूत्रे च तकारस्य दकारश्रुतिरार्षत्वात्, तं “दलमाणे" ददत्, यष्टि-मुष्टि-लकुटादिभिरात्मनः परस्य वा प्रहरनितिभावः । अथव “हत्थालंबं"तिपाठः, हस्तालम्ब इव 'हस्तालम्बः' अशिवादिप्रशमनार्थमभिचारुकमन्त्रादिप्रयोगस्तं "हत्थालंबं" ति पाठः, हस्तालम्बइव हस्तालम्बः' अशिवादिप्रशमनार्थमभिचारुकमन्त्रादिप्रयोगस्तं “दलमाणे" कुर्वन् । यद्वा “अत्थादानं दलमाणे" त्तिपाठः, तत्र अर्थादानम्' अर्थोपादानकारणमष्टाङ्गनिमित्तं 'ददत्' प्रयुञ्जानः । एष सूत्रसङ्केपार्थः । अथ विस्तरार्थं बिभणिषुराह[भा.५०५९] आसायण पडिसेवी, अणवठ्ठप्पो वि होति दुविहो तु। एकेको वि यदुविहो, सचरित्तो चेव अचरित्तो।। वृ-आशातनानवस्थाप्यः प्रतिसेव्यनवस्थाप्यश्चेत्यनवस्थायप्योऽपिद्विविधोभवति, न केवलं पाराञ्चिक इति अपिशब्दार्थः । पुनरेकैकोऽपि द्विविधः-सचारित्रोऽचारित्रश्चेति । एतौ द्वावपि भेदौ पाराञ्चिकवद् वक्तव्यौ ॥ अथाशातनानवस्थाप्यमाह Page #143 -------------------------------------------------------------------------- ________________ १४० बृहत्कल्प-छेदसूत्रम् -३-४/११३ [भा.५०६०] तित्थयर पवयण सुते, आयरिए गणहरे महिड्डीए। एते आसादेंते, पच्छित्ते मग्गणा होइ ।। वृ- तीर्थकरः प्रवचनं श्रुतं आचार्यो गणधरो महर्द्धिकश्चेति । एतानाशातयतः प्रायश्चित्ते मार्गणा भवति । अमीषां चाशातना पाराञ्चिकवद्भावनीया ॥प्रायश्चित्तमार्गणा पुनरियम्[भा.५०६१] पढम-बितिएसुनवमं, सेसे एक्कक्क चउगुरू होति। सव्वे आसादेंतो, अनवट्ठप्पो उसो होइ॥ वृ-'प्रथम-द्वितीययोः' तीर्थङ्कर-सङ्घाशातनयोरुपाध्यायस्य 'नवमम्' अनवस्थाप्यं भवति । 'शेषेषु' श्रुतादिषु प्रत्येकमेकैकस्मिन् आशात्यमाने चतुर्गुरवो भवन्ति ।अथ ‘सर्वाणि' चत्वार्यपि श्रुतादी आशातयति ततोऽसौ अनवस्थाप्यो भवति॥ उक्त आशातनानावस्थाप्यः । अथ प्रतिसेवनानवस्थाप्यमाह[भा.५०६२] पडिसेवणअणवट्ठो, तिविधो सो होइ आनुपुव्वीए । साहम्मि अन्नधम्मिय, हत्थादालं व दलमाणे॥ वृ-यः प्रतिसेवनानवस्थाप्यःसूत्रेसाक्षादुक्तःसआनुपूर्व्यात्रिविधोभवति-साधर्मिकस्तैन्यकारी अन्यधार्मिकस्तैन्यकारी हस्तातालं च ददत् ।। तत्र साधर्मिकस्तैन्यं तावदाह[भा.५०६३] साहम्मि तेन्न उवधी, वावारण झामणा य पट्ठवणा। सेहे आहारविधी, जा जहि आरोवणा भणिता॥ वृ- साधर्मिकाणाम् 'उपधेः' वस्त्र-पात्रादिलक्षणस्य स्तैन्यं करोति । “वावारण"त्ति गुरुभिरुपधेरुत्पादनाय 'व्यापारणा' प्रेषणा कृता ततस्तमुत्पाद्य गुरूणामनिवेद्यापान्तराले स्वयमेवाधितिष्ठति । “झामणा य" त्ति उपकरं सद्भावेनासद्भावेन वा 'ध्यामितं' दग्धं भवेत् तयाजेन श्रावकमभ्यर्थ्य वस्त्रादिकं गृहीत्वा स्वयमेव भुङ्क्ते । “पट्ठवण"त्ति केनाप्याचार्येण कस्यापि संयतस्य हस्तेअपराचार्यस्य ढौकनाय प्रतिग्रहः प्रेषितस्तमसावन्तरास्वयमेव स्वीकरोति। "सेहे"त्ति शैक्षविषयंस्तैन्यंकरोति। "आहारविहि"त्तिदानश्राद्धादिषु स्थापनाकुलेषु गुरुभिरननुज्ञातः ‘आहारविधिम्' अशनादिकमाहारप्रकारंगृह्णाति।एतेषुस्थानेषुसाधर्मिकस्तैन्यं भवति। अत्रच या यत्रस्थाने 'आरोपणा' प्रायश्चित्तापरपर्याया भणिता सा तत्र वक्तव्या। एष नियुक्तिगाथास पार्थः । साम्प्रतमेनामेव विवरीषुराह[भा.५०६४] उवहिस्सआसिआवण, सेहमसेधे य दिट्ठऽदिढे य। सेहे मूलं भणितं, अणवठ्ठप्पो य पारंची॥ वृ-इहोपधेः आसिआवणं स्तैन्यमित्येकोऽर्थः, तच्च शैक्षो वा कुर्यादशैक्षो वा, उभावपि दृष्टं वास्तैन्यंकुर्यातामध्ष्टंवा तत्र शैक्षेमूलंयावत्प्रायश्चित्तंभणितम्, उपध्यायस्याऽनवस्थाप्यपर्यन्तम्, आचार्यस्य पाराञ्चिकान्तम् ॥ एतदेव भावयति[भा.५०६५] सेहो त्ति अगीयत्थो, जो वा गीतो अणिड्डिसंपन्नो । उवही पुन वत्थादी, सपरिग्गह एतरो तिविहो। वृ-शैक्ष इति पदेनागीतार्थो भण्यते, यो वा गीतार्थोऽपि 'अनृद्धिसम्पन्नः' आचार्यपदादिसमृद्धिमप्राप्तः सोऽपि शैक्ष इहोच्यते। उपधिपुनर्वस्त्रादिकः, आदिशब्दातु पात्रपरिग्रहः । सच Page #144 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-११२, [भा. ५०६५] १४१ 'सपरिग्रहः' परिगृहीतः स्याद् ‘इतरो वा' अपरिगृहीतः । पुनरेकैकस्त्रिविधः- जघन्यो मध्यम उत्कृष्टश्च ॥अथ “सेहे मूलं" इत्यादि पश्चार्द्धं व्याख्याति[भा.५०६६] अंतो बहिं निवेसण, वाडग गामुजाण सीमऽतिकते। मास चउ छच्च लहुगुरु, छेदो मूलं तह दुगंच॥ वृ- 'अन्तः' प्रतिश्रयाभ्यन्तरे साधर्मिकाणामुपधिमदृष्टं शैक्षः स्तेनयति मासलघु, वसतेर्बहिरटेष्टमेवस्तेनयतिमासगुरु ।निवेशनस्यान्तसिगुरु, बहिश्चतुर्लघु।वाटकस्यान्तश्चतुर्लघु, बहिश्चतुर्गुरु ।ग्रामस्यान्तश्चतुर्गुरु, बहि षड्लघु। उद्यानस्यान्तःषड्लघु, बहिषड्गुरु।सीमाया अन्तः षड्गुरु, अतिक्रान्तायां तु तस्यां बहिश्छेदः । “मूलं तह दुगं च"त्ति मूलं तथा 'द्विकंच' अनवस्थाप्य-पाराञ्चिकयुगम् ॥ एतदेव भावयति[भा.५०६७] . एवं ता अद्दिष्टे; दिढे पढमं पदं परिहवेत्ता । तेचेव असेहे वी, अदिट्ठ दिढे पुनो एक्कं ॥ वृ-एवं तावदष्टे स्तैन्ये क्रियमाणे शैक्षसय प्रायश्चित्तमुक्तम् । दृष्टे तु 'प्रथम' मासलघुलक्षणं पदं परिहाप्य' परिहत्यमासगुरुकादारब्धमूलं यावद्वक्तव्यम्।अशैक्षः-उपाध्यायस्तस्याप्यदृष्टे 'तान्येव' मासगुरुकादीनि मूलान्तानिप्रायश्चित्तस्थानानि भवन्ति, दृष्टे पुनः एक मासगुरुलक्षणं पदंहसति, चतुर्लघुकादारब्धमनवस्थाप्ये निष्ठांयातीत्यर्थः।आचार्यस्याप्यघटेऽनवस्थाप्यान्तमेव, घटेतुचतुर्गुरुकादारब्धंपाराञ्चकेतिष्ठति॥गतं साधर्मिकोपधिस्तैन्यद्वारम्।अथव्यापारणाद्वारमाह[भा.५०६८] वावारिय आनेहा, बाहिं घेत्तूण उवहि गिण्हंति । लहुगो अदिति लहुगा, अणवठ्ठप्पो व आदेसा॥ वृ-'व्यापारिता नाम गुरुभिप्रेषिताः, यथा-"आनेह"त्तिउपधिमुत्पाद्याऽऽनयत।तेचैवमुक्ता अनेकविधमुपधिं गृहिभ्यः ‘गृहीत्वा' उत्पाद्य 'बहिरेव' आचार्यसमीपमप्राप्ता उपधिं गृह्णन्ति, 'इदंतवइदं मम' इति विभज्यस्वयमेव स्वीकुर्वन्तीत्यर्थः; एवंगृह्णतांमासलघु।आगताआचार्यस्य न ददति चतुर्लघवः, प्रस्तुतसूत्रादेशाद्वा स स्वच्छन्दवस्त्रग्राहकः साधुवर्गोऽनवस्थाप्यो भवति॥ . गतं व्यापारणाद्वारम्।अथध्यामनाद्वारम्-सा चध्यामना द्विविधा-सती असतीच। तत्रासतीं तावदाह[भा.५०६९] दट्ठनिमंतण लुद्धोऽनापुच्छा तत्थ गंतु नं भणति। झामिय उवधी अह तेहि पेसितो गहित नातोय ॥ वृ-आचार्या केनापि दानश्राद्धादिना विरूपरूपैर्वस्त्रैर्निमन्त्रिताः, तैश्च तानि प्रतिषिद्धानि । एकश्च साधुस्तां निमन्त्रणां श्रुत्वा तानि च सुन्दराणि वस्त्राणि दृष्टवा 'लुब्धः' लोभं गतः । तत आचार्यमनापृच्छय “णं" इति तं श्रावक तत्र गत्वा भणति-अस्माकमुपधि 'ध्यामितः' दग्धः ततोऽहं तैराचार्यैर्युष्माकं सकाशे वस्त्रार्थं प्रेषितः; एवमुक्ते दत्तस्तेनोपधि । स च गृहीत्वा गतः, अन्ये च साधव आगताः । श्राद्धेन भणितम्-युष्माकमुपधिदग्ध इति कृत्वा यो भवद्भि साधुः प्रेषितस्तस्य नूतनोपधिर्दत्तो वर्तते, यदि न पर्याप्तं ततो भूयोऽपि ददामीति । साधवो ब्रुवतेनास्माकमुपदिर्दग्धो न वा वयं कमपि प्रेषयामः । एवं स लोभाभिभूतः साधुस्तेन श्रावकेण ज्ञातः, यता-गुरूणां पृच्छामन्तरेणायं गृहीतवान् । ततश्च किं भवति? इत्याह Page #145 -------------------------------------------------------------------------- ________________ १४२ बृहत्कल्प-छेदसूत्रम् -३-४/११३ [भा.५०७०] लहुगा अनुग्गहम्मिं, गुरुगा अप्पत्तियम्मि कायव्वा । मूलं च तेनसद्दे, वोच्छेद पसज्जणा सेसे ॥ वृ-एवं तेन साधुनास्तैन्येनवस्त्रेषु गृहीतेषुयद्यप्यसौ श्राद्धोऽनुग्रहंमन्यते-“यथाऽपितथाऽपि गृह्णताममी साधवः' इति तथापि चतुर्लघवः । अथाप्रीतिकं करोति ततश्चतुर्गुरवः प्रायश्चित्तं कर्तव्याः । अथासौ ‘स्तेनोऽयं स्तेनोऽयम्' इति शब्दं जनम्ये विस्तारयति तदा मूलम् । यच्च शेषद्रव्याणां शेषसाधूनां वा व्यवच्छेदं “पसज्जण"त्तिप्रसङ्गतः करोति तनिष्पन्न प्रायश्चित्तम्॥ अथ सतीं ध्यामनां दर्शयति[भा.५०७१] सुव्वत्त झामिओवधि, पेसण गहिते य अंतरा लुद्धो । लहुगो अदेंते गुरुगा, अनवट्ठप्पो व आदेसा॥ वृ-अथ 'सुव्यक्तं' सत्येनैव ध्यामित उपधि ततो गुरुभिस्तथैव प्रेषणं कृतम्, प्रेषितश्च सन् येनाचार्या निमन्त्रितास्तस्मादन्यस्माद्वा श्रावकाद् वस्त्रादिकमुपधिं गृहीत्वा अन्तरा ‘लुब्धः' लोभाभिभूतोयदिगृह्णाति तदा लघुकोमासः आगतोऽपियदिगुरूणांनप्रयच्छतितदाचतुर्गुरवः, सूत्रादेशाद्वाऽनवस्थाप्यो भवति॥गतं ध्यामनाद्वारम् । अथ प्रस्थापनाद्वारमाह[भा.५०७२] उक्कोस सनिजोगो, पडिग्गहो अंतरा गहण लुद्धो । लहुगा अंदेते गुरुगा, अणवठ्ठप्पो व आदेसा॥ वृ-केनाप्याचार्येण कस्यापि संयतस्य हस्तेअपराचार्यस्य ढौकनहेतोः प्रतिग्रहःप्रेषितः, सच 'उत्कृष्टः' उत्कृष्टोपधिरूपो यद्वा वृत्त-समचतुरस्र-वर्णाढ्यतादिगुणोपेतः, तथा सह निर्योगेनपात्रकबन्धादिना यः स सनिर्योगः। एवंविधस्य प्रतिग्रहस्य अन्तरा' अपान्तराल एवासौ लुब्धः 'ग्रहणं' स्वीकरणं करोति तत्र चतुर्लघु । तत्र गतस्तेषां सूरीणांतंप्रतिग्रहंन प्रयच्छतिचतुर्गुरवः, सूत्रांदेशेन वाऽनवस्थाप्यो ऽसौ द्रष्टव्यः॥गतं प्रस्थापनाद्वारम्, अथ शैक्षद्वारमाह[भा.५०७३] पव्वावणिज्ज बाहिं, ठवेत्तु भिक्खस्स अतिगते संते। . . सेहस्स आसिआवण, अभिधारेंते व पावयणी॥ वृ-कोऽपि साधुः ‘प्रव्राजनीय' सशिखाकं शैक्षं गृहीत्वा प्रस्थितः, तं च भिक्षाकाले क्वापि ग्रामे बहि स्थापयित्वा भिक्षार्थम् अतिगतः-प्रविष्टः, प्रविष्टे च सति तस्मिन् अपरः साधुस्तं शैक्षं दृष्ट्वा विप्रतार्य च तस्य “आसियावणं" अपहरणं करोति । साधुविरहितो वा एकाकी कमपि साधुमभिधारयन्-मनसि कुर्वन् शैक्षो स्वयमेवाऽऽत्मनो दिक्परिच्छेदं कुरुत इति सङ्ग्रहगाथासमासार्थः ॥अथैनामेव विवृणोति[भा.५०७४]. सनातिगतो अद्धाणितो व वंदनग पुच्छ सेहो मि। सो कत्थ मज्झ कज्जे, छात-पिवासस्स वा अडति ॥ वृ-संज्ञाभूमिगत आदिशब्दाभक्तादिपरिष्ठापनिकाय निर्गतः कोऽपिसाधुः शैक्षं दृष्टवान्, अथवा 'आध्वनिकः' पथिकोऽसौ साधुस्ततः पथि गच्छन् शैक्षं दृष्टवान् । तेन च वन्दनके कृते सति साधुः पृच्छति-कोऽसि त्वम् ? कुत आगतः ? क्व वा प्रस्थितः ? । शैक्षः प्राह- अमुकेन साधुना सार्द्ध प्रस्थितः प्रव्रजितुकामः शैक्षोऽसम्यहम् । साधुः पृच्छति-स साधुः सम्प्रति क्व गतः? शैक्षो भणति-स मम कार्ये बुभुक्षितस्य पिपासितस्य वा भक्त-पानार्थं पर्यटति ॥ Page #146 -------------------------------------------------------------------------- ________________ १४३ उद्देशक ः ४, मूलं-११२, [भा. ५०७५] [भा.५०७५] मज्झमिणमन्न-पानं, उवजीवऽनुकंपनाय सुद्धो उ। पुट्ठमपुढे कहणा, एमेव य इहरहा दोसो॥ वृ-ततः स साधुर्मदीयमिदमन्न-पानम् ‘उपजीव' मुंश्वेति ब्रुवाणो यदि ‘साधर्मिकोऽयम्' इत्यनुकम्पया ददाति तदा शुद्धः । शैक्षेण पृष्टोऽपृष्टो वा यदि 'एवमेव' अनुकम्पया धर्मकथां करोति तदाशुद्धः । 'इतरथा' अपहरणार्थं भक्त-पानंददतोधर्म वा कथयतो 'दोषः' चतुर्गुरुकं प्रायश्चित्तम् । अपहरणप्रयोगानेव दर्शयति[भा.५०७६] भत्ते पन्नवण निगृहणा य वावार झंपणाचेव। पत्थवण-सयंहरणे, सेहे अव्वत्त वत्ते य॥ . वृ-अपहरणार्थं भक्त-पानं ददाति धर्मं वातस्य पुरतः प्रज्ञापयति। ततः स शैक्ष आवृत्तः सन् भणति-भवत एव सकाशेऽहं प्रव्रजामि किन्तु न शक्नोमि येनाऽऽनीतस्तत्पुरतः स्थातुम्, ततो मां गुपिले प्रदेशे निगूहत; ततोऽसौतं व्यापारयति-अमुकत्र निलीय तिष्ठेति। ततस्तं तत्रनिलीनं साधुः पलालादिनाझम्पयति, स्थगयतीत्यर्थः। अथवाऽन्यैः सार्धमन्यं ग्रामंप्रस्थापयति, एकाकिनं वाप्रेषयति-अमुकत्र ग्रामादौ व्रज, अहमप्यमुष्मिन् दिवसे तत्राऽऽगमिष्यामि।अथवा स्वयमेव गृहीत्वा तमपहरति। एतानिषट्पदानि भवन्ति, तद्यथा-भक्तप्रदानं धर्मकथा २ निगूहनावचनं ३व्यापारणं ४ झम्पनं ५प्रस्थापन-स्वयंहरणं ६ चेति । एतेषुषट्सु पदेषु शैक्षे व्यक्तेऽव्यक्ते च प्रायश्चित्तमिदं भवति॥ [भा.५०७७] गुरुओ चउलहु चउगुरु, छल्लहु छग्गुरुगमेव छेदो य। भिक्खु-गणाऽऽयरियाणं, मलूं अणवट्ठ पारंची॥ वृ-भिक्षुर्यद्यव्यक्तशैक्षस्यापहरणार्थं भक्तं ददाति तदा मासगुरू, धर्मप्रज्ञापनायां चतुर्लघु, निगूहनवचनेचतुर्गुरु, व्यापारणेषड्लघु, झम्पनेषड्गुरु,प्रस्थापने स्वयंहरणेवाच्छेदः। एवमव्यक्ते शैक्षे भणितम् । अव्यक्तो नाम-यस्याद्यापि श्मश्रु न सातम् । यस्तु व्यक्तः-सञ्जातश्मश्रुस्तत्र चतुर्लघुकादारब्धमूलंयावद्भिक्षोःप्रायश्चित्तम्।गणिनः-उपाध्यायस्य चतुर्लघुकादारब्धमनवस्थाप्ये तिष्ठति । आचार्यस्य चतुर्गुरुकादारब्धं पाराञ्चिके पर्यवस्यति॥ एवं ससहाये शैक्षे भणितम्, यः पुनरसहायोऽभिधारयन् व्रजति तत्र विधिमाह[भा.५०७८] अभिधारंत वयंतो, पुट्ठो वच्चामऽहं अमुगमूलं । पनवण भत्तदाने, तहेव सेसा पदा नत्थि ।। वृ- कोऽपि शैक्ष एकाकी कमप्याचार्यमभिधारयन् प्रव्रज्याभिमुखो व्रजति । तेन क्वचिद् ग्रामेपथिवा साधुंदृष्ट्वा वन्दनकंकृतम्।साधुना पृष्टः-कगच्छसि? ।सप्राह-अमुकस्याऽऽचार्यस्य पादमूले प्रव्रजनार्थं व्रजामि । एवमुक्ते यदि भिक्षुरव्यक्तशैक्षस्य भक्तदानं करोति मासगुरु, धर्मप्रज्ञापनायां चतुर्लघु; व्यक्तशैक्षस्य भक्तदाने चतुर्लघु, धर्मकथायां चतुर्गुरु । उपाध्यायाऽऽचार्ययोर्यथाक्रमं षड्लघुषड्गुरुकंच भवति, अधस्तनमेकैकंपदं हसतीति भावः । 'शेषाणि तु' निगूहन-व्यापारण-झम्पनादीनि पदानि न सन्ति, असहायत्वात्, तदभावात् प्रायश्चित्तमपि नास्तीति ॥ एते चापरे दोषाः___ [भा.५०७९] आणादऽनंतसंसारियत्त बोहीय दुल्लभत्तं च । Page #147 -------------------------------------------------------------------------- ________________ १४४ बृहत्कल्प-छेदसूत्रम् - ३-४/११३ साहम्मियतेन्त्रम्मिं, पमत्तछलणाऽधिकरणं च ॥ वृ- शैक्षमपहरत आज्ञाभङ्गादयो दोषा भवन्ति । अनन्तसंसारिकत्वं च भगवतामाज्ञाभङ्गाद् भवति । बोधेश्च दुर्लभत्वं जायते । साधर्मिकस्तैन्यं च कुर्वाणः प्रमत्तो लभ्यते । प्रमत्तस्य च प्रान्तदेवतया छलना भवति । यस्य च सम्बन्धी सोऽपहियते तेन समम् 'अधिकरणं' कलह उपजायते । एवं तावत् पुरुषविषया दोषा उक्ताः । अथ स्त्रीविषयांस्तानेवातिदिशतिएमेव य इत्थी, अभिधारेंतीए तह वयंतीए । वत्तऽव्वत्ता गमो जहेव पुरिसस्स नायव्वो । [भा. ५०८० ] वृ एवमेव स्त्रिया अपि शैक्षिकायाः अभिधारयन्त्यास्तथा "वयंतीए "त्ति ससहायायाः प्रव्रजितुं व्रजन्त्या व्यक्ताया अव्यक्तायाश्च गमः स एव ज्ञातव्यो यथा पुरुषस्योक्तः ॥ अथ प्रावचनिकपदं व्याचष्टे [ भा. ५०८१] एवं तु सो अवधितो, जाघे जातो सयं तु पावयणी । निक्कारणे य गहितो, वञ्चति ताहे पुरिल्लाणं ॥ वृ- 'एवम्' अन्तरोक्तैः प्रकारैः 'सः' शैक्षोऽपहृतः सन् यदा स्वयमेव प्रावचनिको जातः, अन्यो वा निष्कारणे यः केनापि गृहीतः स आत्मनो दिक्परिच्छेदं कृत्वा भूयोऽपि बोधिलाभावाप्तये पूर्वेषामेवाचार्याणामन्तिके व्रजति ॥ [ भा. ५०८२ ] अन्नरस व असतीए, गुरुम्मि अब्भुज्जएगतरजुत्ते । धारेति तमेव गणं, जो य हडों कारणज्जाते ॥ वृ- येन स शैक्षो निष्कारणेऽपहृतस्तस्य गच्छेऽपरः कोऽप्याचार्यपदयोग्यो न विद्यते ततोऽन्यस्याभावे यद्वा स गुरु आचार्योऽभ्युद्यतस्यैकतरेण युक्तः, अभ्युद्यतमरणम् अभ्युद्यतविहारं वा प्रतिपन्न इत्यर्थः, ततो यदि कोऽपि शिष्यस्तेषां निष्पन्नो नास्ति तदा तमेव गणमसौ धारयति यावत् कोऽपि तत्र निष्पत्र इति । यश्च कारणजाते केनाप्याचार्येण हृतः सोऽपि तमेव गणं धारयति ।। किं पुनस्तत कारणम् ? इत्याह [भा. ५०८३] नाऊण य वोच्छेदं, पुव्वगते कालियानुजोगे च । अज्जाकारणजाते, कप्पति सेहावहारो तु ॥ वृ- कोऽप्याचार्यो बहुश्रुतस्तस्य पूर्वगते किञ्चिद् वस्तु प्राभृत वा कालिकानुयोगेऽपि श्रुतस्कन्धोऽध्ययनं वा विद्यते तच्चान्यस्य नास्ति ततो यद्यन्यस्य न सङ्क्राम्यते तदा व्यवच्छिद्यते। एवं पूर्वगते कालिकानुयोगे च व्यवच्छेदं ज्ञात्वा तं च सम्प्रस्थितं शैक्षं ग्रहण धारणासमर्थं विज्ञाय भक्तदान-धर्मकथादिभिर्विपरिणाम्य झम्पनादीन्यपि कुर्वाणः शुद्धः । यद्वा तस्याऽऽचार्यस्य नास्ति कोऽप्यार्याणां परिवर्तकस्ततस्तासामपि कारणजाते शैक्षमपहरेत् । एवं कल्पते शैक्षापहारः कर्तुम् ॥ तस्य च कारणेऽपहृतस्य को विधिः? इत्याह 1 [भा. ५०८४] कारणजाय अवहितो, गणं धरेंतो तु अवहरंतस्स । जागो निष्पन्नो, पच्छा से अप्पणो इच्छा ॥ वृ- यः कारणजातेऽ पहृतः स तदीयं गणं धारयन् अपहरत एवाभाव्यो भवति । अथ येन कारणेनापहृतस्तत् कारणं न पूरयति तदा पूर्वेषामेवाभवति नापहरतः । सच कारणापहृतस्तस्मिन् Page #148 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं - ११२, [भा. ५०८४ ] १४५ गणे तावदास्ते यावदेकोऽपि गीतार्थो निष्पन्नः, पश्चात् तस्याऽऽत्मीया इच्छा, तत्र वा तिष्ठति पूर्वेषां वा सकाशे गच्छति । यस्तु निष्कारणेऽपहृतः स एकस्मिन् निर्माते नियमात् पूर्वेषामन्तिके गच्छति, न तस्याऽऽत्मीयेच्छेति भावः ।। गतं शैक्षद्वारम् । अथाऽऽहारविधिमाह [भा. ५०८५ ] ठवणाघरम्मि लहुगो, मादी गुरुगो अनुग्गहे लहुगा । अप्पत्तियम्मि गुरुगा, वोच्छेद पसजणा सेसे ॥ वृ-दानश्राद्धादिकुलं स्थापनागृहं भण्यते, तस्मिन् य आचार्यै असन्दिष्टः अननुज्ञातो वा प्रविशति तस्य मासलघु । अथवा 'प्राघूर्णक-ग्लानार्थमहमिहाऽऽयातः' इति तेषां श्राद्धानां पुरतो मायां करोति ततो मायिनो मासगुरुकम् । एवमुक्ते यदि ते श्राद्धाः 'अनुग्रहोऽयम्' इति मन्यन्ते तदा चतुर्लघु । अथाप्रीतिकं कुर्वन्ति ततश्चतुर्गुरवः, यच्च तद्रव्यवच्छेदादिशेषदोषाणां 'प्रसजना' प्रसङ्गस्तन्निष्पन्नं प्रायश्चित्तम् ॥ इदमेव व्याचष्टे [भा. ५०८६] अज अहं संदिट्ठो, पुट्ठोऽपुट्ठो व साहती एवं । पाहुणग- गिलाणट्टा, तं च पलोट्टेति तो बितियं ॥ वृ- कश्चिदाचार्यैरसन्दिष्टः स्थापनाकुलेषु प्रविश्य पृष्टोऽपृष्टो वा इदं भणति - अद्याहं गुरुभिः 'सन्दिष्टः' प्रेषित इति, ततो मासलघु । यदि च पूर्वं सन्दिष्टः सङ्घाटकः प्रविष्ट आसीत् श्राद्धैश्च तस्यासन्दिष्टस्याग्रे इदं भणितं भवेत् सन्दिष्टसङ्घाटकस्य दत्तमिति; ततो ब्रूयात् प्राघूर्णकार्थं ग्लानार्थं वा साम्प्रतमहमागत इति, एवं 'तं' श्राद्धजनं मायया यदि प्रलोटयति प्राघूर्णकार्थं ग्लानार्थं वा साम्प्रतमहमागत इति, एवं 'तं' श्राद्धजनं मायया यदि प्रलोटयति ततो 'द्वितीयं' मासगुरु ॥ ते च श्राद्धा विपरिणमेयुः, विपरिणताश्चाऽऽचार्यादीनां प्रायोग्यं न दद्युः ततः शुद्धं शुद्धेनाप्येतत् प्रायश्चित्तम् [भा. ५०८७] आयरि-गिलाण गुरुगा, लहुगा य हवंति खमग पाहुणए । गुरुगो य बाल- वुड्डे, सेसे सव्वेसु मासलहुँ । वृ- आचार्यस्य ग्लानस्य च प्रायोग्यमददानेषु श्राद्धेषु चतुर्गुरवः । क्षपकस्य प्राघुणकस्य च योग्यमददानेषु चतुर्लघवः । बालृवृद्धानां योग्येऽलभ्यमाने गुरुमासः । 'शेषाणाम्' एतद्व्यति रिक्तानां सर्वेषामपि प्रायोग्येऽलभ्यमाने मासलघु ।। गतं साधर्मिकस्तैन्यम् । अथाऽन्यधार्मिकस्तैन्यमाह [ भा. ५०८८] परधम्मिया वि दुविहा, लिंगपविट्ठा तहा गिहत्था य । तेसिं तिनं तिविहं, आहारे उवधि सच्चित्ते ॥ वृ-परधार्मिका अन्यधार्मिका इत्येकोऽर्थः । तेच द्विविधाः लिङ्गप्रविष्टा गृहस्थाश्च । 'लिङ्गप्रविष्टाः ' शाक्यादयः, 'गृहस्थाः' प्रतीताः । 'तेषाम्' उभयेषामपि स्तैन्यं त्रिविधम्-आहारविषयमुपधिविषयं सचित्तविषयं चेति ॥ तत्राऽऽहारविषयं तावदाह [ भा. ५०८९ ] भिक्खूण संखडीए, विकरणरूवेण भुंजती लुद्धो । आभोगण उद्धंसण, पवयणहीला दुरप्प त्ती ॥ वृ - भिक्षवः- बौद्धास्तेषां सङ्खड्यां कश्चिद् लुब्धो "विकरणरूवेण" लिङ्गविवेकेन भुङ्क्ते, 20 10 Page #149 -------------------------------------------------------------------------- ________________ १४६ बृहत्कल्प-छेदसूत्रम् -३-४/११३ तदीयं लिङ्गं कृत्वेति भावः । एवं भुनानं यदि कोऽपि आभोगयति' उपलक्षयति तदा चतुर्लघवः । एवमुपलक्ष्य यद्यसौ 'उद्धर्षणं' निर्भर्त्सनं करोति ततश्चतुर्गुरुकाः। प्रवचनहीलां वा ते कुर्युः, यथा-दुरात्मानोऽमी भोजननिमित्तमेव प्रव्रजिता इति ॥ अपि च[मा.५०९०] गिहवासे वि वरागा, धुवं खुएते अदिट्ठकल्लाणा। गलतो नवरिन वलितो, एएसिं सत्थुणा चेव ॥ वृ-गृहवासेऽप्येते वराकाः 'ध्रुवं' निश्चितमेव अष्टकल्याणाः, एतेषां च 'शाखा' तीर्थकृता दुश्चरतरामाहारशुध्धादिचर्यामुपदिशता गलक एव नवरं न वलितः, शेषं तु सर्वमपि कृतमिति भावः ॥गतमाहारविषयं स्तैन्यम् । अथोपधिविषयमाह[भा.५०९१] उवस्सए उवहि ठवेतुं, गतम्मि भिच्छुम्मि गिण्हती लहुगा। गेण्हण कड्डण ववहार पच्छकडुड्डाह निव्विसए॥ कृ-'उपाश्रये मठे उपधिम् उपकरणंस्थापयित्वा कश्चिभिक्षुकः-बौद्धो भिक्षांगतः, तस्मिन् गते यदि तदीयमुपधिं गृह्णाति तदा चतुर्लघवः । स भिक्षुकः समायातः स्वकीयमुपकरणंस्तेनितं मत्वा तस्य संयतस्य ग्रहणं करोति चतुर्गुरवः । राजकुलाभिमुखमाकर्षति षड्गुरवः । व्यवहारं कारयितुमारब्धेच्छेदः । पश्चात्कृते मूलम् । उड्डहनेऽनवस्थाप्यम्। निर्विषयाज्ञापने पाराञ्चिकम्। अथ सचित्तविषयंस्तैन्यमाह[मा.५०९२] सच्चित्ते खुड्डादी, चउरो गुरुगा यदोस आणादी। गेण्हण कहण ववहार पच्छकडुड्डाह निव्विसए। कृ-सचित्तस्तैन्ये चिन्त्यमानेभिक्षुकादेः सम्बन्धिनं क्षुल्लकम्आदिशब्दाद्अक्षुल्लकंवायद्यपहरति तदा चत्वारो गुरुकाः आज्ञादयश्च दोषाः । ग्रहणा-ऽऽकर्षण-व्यवहार-पश्चात्कृतोड्डाहनिविषयाज्ञापनादयश्च दोषाः प्राग्वमन्तव्याः।। अथैतेष्वेव प्रायश्चित्तमाह[भा.५०९३] गेहणे गुरुगा छम्मास कड्डणे छेओ होइ ववहारे । पच्छाकडम्मि मूलं, उड्डहण विरंगणे नवमं ॥ [भा.५०९४] उद्दावण निविसए, एगमनेगे पदोस पारंची। अणवठ्ठप्पो दोसु य, दोसु उ पारंचितो होइ॥ वृ-गाथाद्वयं गतार्थम् ॥ [भा.५०९५] खुकुंव खुड्डियं वा, नेति अवत्तं अपुच्छियं तेने । वत्तम्मि नत्थि पुच्छा, खेत्तं थामंच नाऊणं॥ वृक्षुल्लको वाक्षुल्लिका वायोऽद्यापि अव्यक्तः स यस्य शाक्यादेः सम्बन्धी तमपृष्टवा यदितं क्षुल्लकं क्षुल्लिका वा नयति ततः ‘स्तेनः' अन्यधार्मिकस्तैन्यकारी स मन्तव्यः, चतुर्गुरुकं च तस्य प्रायश्चित्तम् । यस्तु व्यक्तस्तत्र नास्ति पृच्छा, तामन्तरेणापिस प्रव्राजनीयः । किं सर्वथैव ? उत न? इत्याशङ्कयाऽऽह-क्षेत्रंस्थामच ज्ञात्वा । किमुक्तं भवति? -यदि विवक्षित क्षेत्रंशाक्यादिभावितं राजवल्लभतादिकंवातेषांतत्रबलं तदा पृच्छामन्तरेण व्यक्तोऽपिप्रव्राजयितुंन कल्पते, अन्यथा तु कल्पत इति ॥ एवंतावल्लिङ्गप्रविष्टानां स्तैन्यमुक्तम् । अथ गृहस्थानां तदेवाह [भा.५०९६] एमेव होति तेत्रं, तिविहं गारत्थियाण जं वुत्तं । Page #150 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - ११२, [भा. ५०९६] १४७ गहणादिगा य दोसा, सविसेसतरा भवे तेसु ॥ वृ- एवमेवागारस्थानामपि 'त्रिविधम् ' आहारादिभेदात् त्रिप्रकारं स्तैन्यं भवति यदनन्तरमेव परतीर्थिकानामुक्तम् । 'तेषु च ' गृहस्थेषु आहारादिकं स्तेनयतां ग्रहणादयो दोषाः सविशेषतरा भवेयुः । ते हि राजकुले करादिकं प्रयच्छन्ति, ततस्तद्वलेन समधिकतरान् ग्रहणा-SSकर्षणादीन् कारयेयुः ॥ कथं पुनरमीषामाहारादिकं स्तेनयति ? इति उच्यतेआहारे पिट्ठाती, तंतू खुड्डादिजं भणित पुव्वं । पिडुंडिय कब्बट्ठी, संछुभण पडिग्गहे कुसला ॥ [भा. ५०९७] तत्र वृ- आहारे- पिष्टादिकं बहिर्विरल्लितं दृष्ट्वा क्षुल्लिकाः स्तेनयति । उपधी- "तंतु "त्ति सूत्राटिकाम् उपलक्षणत्वाद् वस्त्रादिकं वाऽपहरति । सचित्ते क्षुल्लकः- बालकस्तम् आदिशब्दाद् अक्षुल्लकं वा स्तेनयति । इत्याह- "पिटुंडि" इत्यादि, काश्चित् क्षुल्लिका भिक्षामटन्त्यः किञ्चिद् गृहं प्रविष्टाः, च बहिः पिष्टं विसारितमास्ते, तच्च दृष्ट्वा तासां मध्यादेका कल्पस्थिका पिष्टपिण्डिकां गृहीत्वा पतद्ग्रहे प्रक्षिप्तवती, सा चाविरतिकया दृष्टा ततो भणितम्-एनां पिष्टपिण्डिकां गृहीत्वा पतद्रहे प्रक्षिप्तवती, सा चाविरतिकया दृष्टा ततो भणितम्-एनां पिष्टपिण्डिकामत्रैव स्थापयत; ततस्तया क्षुल्लिकया कुशलत्वेनान्यस्याः सङ्घाटिकाया अन्तरे प्रक्षिप्ता । एवं सूत्राटिकामपि दक्षत्वेनापरेत्॥ अथ सचित्तविषयं विधिमाह [भा. ५०९९] अपरिग्गहा उ नारी, न भवति तो सा न कप्पति अदिन्ना । सा वि यहु काय कप्पति, जह पउमा खुड्डुमाता वा ॥ वृ- 'नारी' स्त्री सा प्रायेणापरिग्रहा न भवति, पितृ-पतिप्रभृतीनामन्यतरेण परिगृहीता भवतीति भावः । उक्तं च पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्र स्वातन्त्रयमर्हती ॥ ततो नासावदत्ता सती कल्पते प्रव्राजयितुम् । साऽपि च कचिददत्ताऽपि कल्पते, यथा पद्मावतीदेवी करकण्डुमाता प्रव्राजिता, यथा वा क्षुल्लककुमारमाता योगसङ्ग्रहाभिहिता यशोभद्रा नाम्नी प्रव्राजिता ॥ अथ द्वितीयपदमाह [भा. ५१०० ] बिइयपदं आहारे, अद्धाणे हंसमादिणो उवही । उवउज्जिऊण पुव्विं, होहिंति जुगप्पहाण त्ति ॥ वृ-द्वितीयपदमाहारादिषु त्रिष्वपि अभिधीयते तत्राऽऽहारेऽध्वानं प्रवेष्टुकामास्ततो वा उत्तीर्णा उफलक्षणत्वाद् अशिवादौ वा वर्तमाना असंस्तरणे अदत्तमपि भक्त - पानं गृह्णीयुः । आगाढे कारणे उपधिमपि हंसादेः सम्बन्धिना प्रयोगेणोत्पादयेत् । सचित्तविषयेऽपि 'भविष्यन्त्यमी युगप्रधानाः' इत्यादिकं पुष्टालम्बनं 'पूर्वं' प्रथममेव 'उपयुज्य' परिभाव्य गृहस्थक्षुल्लकान् अन्यतीर्थिकक्षुल्लकान् वा हरेत् ।। इदमेव भावयति [भा.५१०१] असिवं ओम विहं वा, पविसिउकामा ततो व उत्तिन्ना । थलि लिंगि अन्नतित्थिग, जातितु अदिन्ने गिण्हंति ॥ वृ- अशिवगृहीते विषये स्वयं वा साधवोऽशिवगृहीता भक्त-पानलाभाभावान्न संस्तरेयुः, Page #151 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-४/११३ अवमंदुर्भिक्षं तत्र वा भक्त-पानं न लभेरन्, 'विहम्' अध्वानं वा प्रवेष्टुकामास्ततो वा उत्तीर्णा न संस्तरेयुः, ततः स्वलिङ्गिनां या स्थलिका देवद्रोणी तस्यां याचन्ते, यदि ते न प्रयच्छन्ति तदा बलादपि गृह्णन्ति । अथ बलवन्तस्ते दारुणप्रकृतयो वा ततोऽन्यतीर्थिकानामपि स्थलीषु याच्यते, यदि न प्रयच्छन्ति ततः स्वयमेव प्रकटं प्रच्छन्नं वा गृह्णीयुः । एवं गृहस्थेष्वपि याचितमलभमानाः स्वयमपि गृह्णन्ति । असंस्तरणे उपधिरप्येवमेव स्तैन्यरयोगेण ग्रहीतव्यः ॥ नाऊण य वोच्छेदं, पुव्वगते कालियानुतोगे य । गिहि अन्नतित्थियं वा, हरिज्ज एतेहि हेतूहिं ॥ [ भा. ५१०२] वृ-पूर्वगते कालिकानुयोगे वा व्यवच्छेदं ज्ञात्वा यो गृहस्थक्षुल्लकोऽन्यतीर्थिकक्षुल्लको वा ग्रहणधारणामेधावी स याचितो यदा न लभ्यते तदा स्वयमपि गृह्णीयात् । 'ऐतैः' एवमादिभिः 'हेतुभिः' कारणैर्गृहस्थमन्यतीर्थिकं वा हरेत् ॥ गतमन्यधार्मिकस्तैन्यम् । अथ 'हत्यादालं दलेमाणे" इत्यादि पाठत्रयं विवरीषुराह १४८ [ भा. ५१०३ ] हत्थाताले हत्थालंबे, अत्थादाने य होति बोधव्वे । एतेसिं नाणत्तं वोच्छामि अहानुपुवीए । वृ-हस्तातालो हस्तालम्बोऽर्थादानं चेति त्रिधा पाठोऽत्र बोद्धव्यः । एतेषां त्रयाणामपि नानात्वं वक्ष्यामि यथाऽऽनुपूर्व्याऽहम् ।। तत्र हस्तातालं तावद् विवृणोति [भा. ५१०४] उग्गिन्नम्मि य गुरुगो, दंडो पडियम्मि होइ भयणा उ । एवं खु लोइयाणं, लोउत्तरियाण वोच्छामि ॥ वृ- इह हस्तेन उपलक्षणत्वात् खङ्गादिभिश्च यद् आताडनं स हस्तातालः । स च द्विधा - लौकिको लोकोत्तरिकश्च । तत्र लौकिके हस्ताताले पुरुषवधाय खड्गादावुद्गीर्णे 'गुरुकः' रूपकाणामशीतिसहस्रलक्षणो दण्डो भवति । पतिते तु प्रहारे यदि कथमपि न मृतस्तदा 'भजना' देशे देशेऽपरापरदण्डलक्षणा भवति । अथ मृतस्तदा तदेवाशीतिसहस्र दण्डः । एवं 'खुः' अवधारणे, लौकिकानां दण्डो भवति । लोकोत्तरिकाणां तु दण्डमतः परं वक्ष्यामि ॥ [ भा. ५१०५ ] हत्थेण व पादेण व, अणवटुप्पो उ होति उग्गिन्ने । पडियम्मि होति भयणा, उद्दवणे होति चरिमपदं ॥ वृ-हस्तेन वा पादेन वा उपलक्षणत्वाद् यष्टि-मुष्टयादिना वा यः साधुः स्वपक्षस्य परपक्षस्य वा प्रहारमुद्गिरति सोऽनवस्थाप्यो भवति । पतिते तु प्रहारे भजना, यदि न मृतस्ततोऽनवस्थाप्य एव, अथापद्राणः मृतः तदा 'चरमपदं' पाराञ्चिकं भवति ।। अत्रेदं द्वितीयपदम् [ भा. ५१०६ ] आयरिय विनयगाहण कारणजाते व बोधिकादीसु । करणं वा पडिमाए, तत्थ तु भेदो पसमणं च ॥ वृ- आचार्य क्षुल्लकस्य विनयग्राहणं कुर्वन् हस्तातालमपि दद्यात् । 'कारणजाते वा' गुरुगच्छप्रभृतीनामात्यन्तिके विनाशे प्राप्ते बोधिकस्तेनादिष्वपि हस्तातालं प्रयुञ्जीत । पश्चार्द्धेन हस्तालम्बमाह-‘“करणं वा’” इत्यादि, अशिव-पुररोधादौ तठप्रशमनार्थं 'प्रतिमां' पुत्तलकं करोति, तत अभिचारुकमन्त्रं परिजपन् 'तत्रैव' प्रतिमायां भेदं करोति, ततस्तस्योपद्रवस्य प्रशमनं भवति ।। एषा नियुक्तिगाथा अत एनां विवृणोति Page #152 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं- ११२, [भा. ५१०७] [भा. ५१०७ ] विनयस्स उ गाहणया, कन्नामोड खड्डुगा-चवेडाहिं । सावेक्ख हत्थतालं, दलाति मम्माणि फेडिंतो ॥ वृ- इह विनयशब्दः शिक्षायामपि वर्तते, यत उक्तम् - "विनयः शिक्षा प्रणत्योः” इति । ततोऽयमर्थ:-'विनयस्य' ग्रहणशिक्षाया आसेवनाशिक्षाया वा ग्राहणायां क्रियमाणायां कर्णामोटकेन खडुकाभिः चपेटाभिर्वा 'सापेक्षः' जीवितापेक्षां कुर्वन् अत एव 'मर्माणि स्फेटयन्' येषु प्रदेशेष्वाहतः सन् म्रियते तानि परिहरन् आचार्य क्षुल्लकस्य हस्तातालं ददाति । अत्र परः प्राह- ननु परस्य परितापे क्रियमाणेऽसातवेदनीयकर्मबन्धो भवति तत् कथमसावनुज्ञायते ? उच्यते [भा. ५१०८] कामं परपरतावी, असा हेतू जिनेहि पन्नत्तो । आत- परहितकरो पुन, इच्छिज्जइ दुस्सले स खलु ॥ , वृ- 'कामम्' अनुमतमिदमस्माकम्-परपरितापो जिनैरसातहेतुः प्रज्ञप्तः परं 'सः' परपरितापः 'दुःशले' वाक्छिक्षया दुर्ग्रहे दुर्विनीते शिष्ये 'खलु' निश्चितमिष्यत एव । कुतः ? इत्याह- "आयपरहियकरो' त्ति हेतौ प्रथमा भावप्रधानश्च निर्देशः, ततोऽयमर्थ-आत्मनः परस्य च हितकरत्वात् । तत्राऽऽत्मनः शिष्यं शिक्षां ग्राहयतः कर्मनिर्जरालाभः परस्य तु सम्यग्गृहीतशिक्षस्य यथावत् चरम-करणानुपालनादयो भूयांसो गुणाः । पुनः शब्दो विशेषणे, स चैतद् विशिनष्टि-यो दुष्टाध्यवसायतया परपरितापः क्रियते स एवासातहेतुः प्रज्ञप्तः, यस्तु शुद्धाध्यवसायेनाऽऽत्मपरहितकरः क्रियते स नैवासातहेतुरिति ।। अमुमेवार्थं दृष्टान्तेन द्रढयति [ भा. ५१०९] सिप्पंनेउणियट्ठा, घाते वि सहति लोइया गुरुणो । न य मधुरनिच्छया ते, न होति एसेविहं उवमा । १४९ वृ- ‘“सिष्पं’”ति मकारोऽलाक्षणिकः, शिल्पानि - रथकारकर्मप्रभृतीनि नैपुण्यानि च-चिलिगणितादिकलाकौशलानि तदर्थं लौकिकाः शिक्षकाः 'गुरोः' आचार्यस्य घातानपि सहन्ते, न च ‘ते’ घातास्तदानीं दारुणा अपि 'मधुरनिश्चयाः' सुन्दरपरिणामा न भवन्ति, किन्तु शिल्पादिपरिज्ञाने वृत्तिलाभ - जनपूजनीयतादिनापरिणामस्तेषां सुन्दरो भवतीति भावः । एषैवोपमा 'इह' प्रस्तुतार्थे मन्तव्या यथा तेषां ते घाता हितास्तथा प्रस्तुतस्यापि दुर्विनीतस्य शिष्यस्येति भावः । अत्रायं बृहद्भाष्योक्तः सोपनयोऽपरो दृष्टान्तः अहवा वि रोगियस्सा, ओसह चाडूहि पिज्जए पुव्विं । पच्छा तालेत्तुमवी, देहहियट्ठाए दिजइ से | इह भवरोगत्तस्स वि, अनुकूलेणं तु सारणा पुव्विं । पच्छा पडिकूलेन वि, परलोहियट्ठ कायव्वा ॥ “ओसह”त्ति विभक्तिलोपादौषधमिति मन्तव्यम् । अत एव साधुरेवंविधो भवेत्[भा. ५११० ] संविग्गो मद्दविओ, अमुई अनुयत्तओ विसेसन्नू । उज्जुत्तमपरितंतो, इच्छियमत्थं लहइ साहू ॥ वृ-‘संविग्नः’ मोक्षाभिलाषी, ‘मार्दविकः' स्तब्धताविकलः, 'अमोचि' गुरूणाममोचनशीलः, 'अनुवर्तकः' तेषामेव च्छन्दोऽनुवर्ती, 'विशेषज्ञः' वस्त्ववस्तुविभागवेदी, उद्युक्तः स्वाध्यायादी, अपरितान्तो वैयावृत्यादौ, एवंविधः साधुरीप्सितमर्थमिह परत्र च लभते ॥ Page #153 -------------------------------------------------------------------------- ________________ १५० बृहत्कल्प-छेदसूत्रम् -३-४/११३ अथ "कारणजाते व बोहिगाईसु" त्ति पदं व्याचष्टे[भा.५१११] बोहिकतेनभयादिसु, गणस्स गणिणो व अञ्च्चए पत्ते । इच्छंति हत्थतालं, कालातिचरं व सज्जं वा ॥ वृ- बोधिकस्तेनभये आदिशब्दात् श्वापदादिभयेषु वा यदि 'गणिस्य' गच्छस्य 'गणिनो वा' आचार्यस्य ' अत्ययः' आत्यन्तिको विनाशः प्राप्तस्तदा 'कालातिचरं वा' कालातिक्रमेण 'सद्यो वा' तत्कालमेव हस्ततालमिच्छन्ति, गीतार्था इति गम्यते ॥ अथ हस्तालम्बं व्याख्यानयति[ भा. ५११२] असिवे पुरोवरोधे, एमादीवइससेसु अभिभूता । संजायपञ्च्चया खलु, अन्नेसु य एवमादीसु ॥ वृ- अशिवेन लोको भूयान् म्रियते, परबलेन वा पुरं समन्तादुपरुद्धम्, तत्र बहिकटकयोधैः आभ्यन्तराणां कटकमर्द क्रियते, अन्नक्षयाद्वा क्षुधा म्रियते, आदिशब्दाद् गलगण्डादिभिर्वा रोगैर्दिने दिने प्रभूतो जनो मरणमश्नुते, एवमादिभिः 'वैशसैः' दुःखैरभिभूतास्ते पौरजनाः सञ्जातप्रतययाः ' 'योऽत्र पुरे आचार्यो बहुश्रुतो गुणवांस्तपस्वी स शक्तो वैशसमिदं निरोद्धुम्, नान्यः कश्चिद्' इति समिति - सम्यग् जातः प्रत्ययो येषां ते तथा, न केवलमत्रैव किन्तु अन्येष्वप्येवमादिषु सञ्जातप्रत्ययास्ते सम्भूय तमाचार्यं त्रायस्व' इति शरणमुपगताः प्राञ्जलिपुटाः पादपतितास्तिष्ठन्ति ।। [भा. ५११३] मरणभणऽभिभूते, ते नातुं देवतं वुवासंते । पडिमं काउं मज्झे, विंधति मंते परिवजवेंतो ॥ वृ- ततः स आचार्यस्तान् पौरजनान् मरणभयेनाभिभूतान् देवतामिवाऽऽत्मानं पर्युपासीनान् ज्ञात्वा तदनुकम्पापरीतचित्तः प्रतिमांकृत्वा तत अभिचारुकमन्त्रान् परिजपन् तां प्रतिमां मध्यभागे विध्यति, ततो नष्टा सा कुलदेवता, प्रशमितः सर्वोऽप्युपद्रवः । एवंविधहस्तालम्बदायी यदाऽभ्युत्तिष्ठते तदा तत्कालमेव नोपस्थाप्यते किन्तु कियन्तमपि कालं गच्छ एव वसन् व्यामर्दनं कार्यते ॥ अथाऽर्थादानमाह [ भा. ५११४] अनुकंपणा निमित्ते, जायण पडिसेहणा सउनिमेव । दायण पुच्छा यता, सारण उब्भावण विनासे ॥ वृ- कस्याप्याचार्यस्य भागिनेयो व्रतं परित्यज्य मुत्कलापयति, तत आचार्यस्य 'अनुकम्पा' 'कथमयं द्रव्यमन्तरेण गृहवासमध्यासिष्यते ?' इत्येवंलक्षणा बभूव । स च 'निमित्ते अतीव कुशलः' इति कृतवा तेनैवावर्जितयोर्द्वयोर्वणिजोरन्तिके तं भागिनेयं रूपकयाचनाय प्रेषितवान् । स च तत्रैकेन वणिजा 'किं मम शकुनिका रूपकान् हदते ? ' एवमुक्त्वा प्रतिषिद्धः, द्वितीयेन तु रूपकनवलकानां दर्शना कृता। द्वितीये च वर्षे द्वाभ्यामपि वणिग्भ्यां पृच्छा कृता । तत आचार्येण 'सारणा' क्रयाणकग्रहणविषया शिक्षा दत्ता । ततो येन रूपका न दत्तास्तस्य सर्वस्वविनाशः समजनि, येन तु दत्तास्तस्य 'उद्भावनं' महर्द्धिकतासम्पादनं कृतवान् । एष नियुक्तिगाथाक्षरार्थः । भावार्थस्तु कथानकादवसेयः । तच्चेदम् उज्जेनीए एगो ओसन्नायरिओ नेमित्तितो। तस्स य दुन्निमित्ता वाणियगा, ते तं आपुच्छिउं आपुच्छिउं ववहरंति किं भंडं गिण्हामो मुयामो वा ? । एवं ते इस्सरीभूया । तस्स य आयरियस्स भागिनेज्जो भोगाभिलासी आगम्म तं आयरियं तं आयरियं केवइए मग्गति ताहे आयरियेणं Page #154 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - ११२, [भा. ५११४] खुड्डएण समंतेसिं दोन्हं पि मित्ताणं सगासं पेसवितो - रूवगसहस्सं देहिं । तेन गंतुं आयरियवयणेणं मग्गितो- देहि । भणइ-किं मम सउणी रूवगा हगंति ? नत्थि मम एत्तिया, वीसमेत्ते देमिं । तेन नेच्छियं, आयरियस्स य निवेदियं । ताहे आयरिएण बितियमित्तस्स सगासं पेसवितो, मग्गितो य आरयिवयणेणं । तेन चंगोडए काउं बहू नवलया दंसिया- एत्तो जावतिएहिं भे रूवएहिं इच्छा तावति गिण्हह । तेहिं आगंतुं आयरियस्स उवनीतो नउलगो; ताहे भाइणिज्जस्स दिन्नो । बितियवरिसे ते वणियगा दो वि आयरियं पुच्छंति- एसमंवरिसे केरिसं भंडं गेण्हामो ? । आयरिएहिं सउनिवाइत्तो भणितो- जत्तितो ते घरसारो तेन कप्पास घय-गुले घेत्तुं अंतोघरे संगोवेह | बितिओ अप्पसारियं भणितो- तुमं सुबहुंतण-कट्ठ-वंसे धनं च घेत्तुं बाहिं नगरस्स निरग्गेयट्ठाणे संगोवाहि । तदा य अनवुट्ठी जाया, अह अग्गी उट्ठितो, सव्वं नगरं दहूं। सउनीइत्तस्स सव्वं कप्पासाति दहुं, बितियस्स नद, ताहे तेन तं तण-कटुं धन्नं च सुमहग्धं विक्कियं, अगाणं सयसहस्साणं आभागी जातो । तओ सउनियाइत्तो आयरियं भणति - किह भे निमित्तं विसंवतियं ? । आयरिएणं भणियं किं मम निमित्तं सउणया हगइ ? । तओपायपडिएणं खामिओ ॥ ॥ अमुमेवार्थं गाथात्रयेण भाष्यकार आहउज्जेनी ओसन्नं, दो वणिया पुच्छियं ववहरंति । भोगाभिलास भच्चय, मुंचति न रूवए सउनी । चंगोड नलदायण, बितितेनं जत्तिए तहिं एक्को । अन्नम्म हायणम्मिय, गिण्हामो किं ति पुच्छंति ॥ [भा. ५११५] [भा. ५११६] [भा. ५११७] तण-कट्ठ- नेह-धन्ने, गिण्हह कप्पास-दूस - गुलमादी । अंतो बहिं च ठवणा, अग्गी सउणी न य निमित्तं ॥ वृ- तिस्रोऽपि व्याख्यातार्थाः । नवरं भचको भागिनेय उच्यते । “जत्तिय तहिं एक्को” त्ति 'यावन्तो युष्मभ्यं रोचन्ते तावतो नवलकान् गृह्णीत' एवं द्वितीयेन वणिजा भणितम् 'तत्र' तेषां मध्ये एको नवलको गृहीतः । अन्यस्मिन् 'हायने' वर्षे इत्यर्थः । दूष्यं' वस्त्रमुच्यते । “सउनी न य निमित्तं" ति 'न च ' नैव मम शकुनिका निमित्तं हदते ॥ [ भा. ५११८] एयारिसो उ पुरिसो, अनवट्ठप्पो उ सो सदेसम्मि । १५१ नेतून अन्नसं, चिट्ठउवट्ठावणा तस्स ॥ वृ- 'एताशः' अर्थादानकारी यः पुरुषोऽभ्युत्तिष्ठते स स्वदेशे 'अनवस्थाप्यः 'न महाव्रतेषु स्थाप्यते किन्तु तमन्यदेशं नीत्वा तस्य च तत्र तिष्ठत उपस्थापना कर्तव्या ॥ कुतः ? इति चेद् उच्यते [ भा. ५११९] पुव्वब्भासा भासेज किंचि गोरव सिनेह भयतो वा न सह परीसहं पि य, नाणे कंडुं व कच्छुल्लो ॥ वृ-तं नैमित्तंक तत्रस्थितं लोकः पूर्वाभ्यासाद् निमित्तं पृच्छेत्, सोऽपि ऋद्धिगौरवतः स्नेहाद्वा भयाद्वा 'किञ्चिद्' लाभा - ऽलादिकं तत्रस्थितो भाषेत । अपि च-स ज्ञानविषयं परीषहं तत्र न सहते, सोढुं न शक्नोतीत्यर्थः । यथा कच्छुः -पामा तद्वान् पुरुषः 'कण्डूं' खर्जितं विना स्थातुं न `शक्नोति एवमेषोऽपि तत्र निमित्तकथनमन्तरेण न स्थातुं शक्त इति भावः ॥ अथ पूर्वोक्तमप्यर्थं विशेषज्ञापनार्थं भूयोऽप्याह Page #155 -------------------------------------------------------------------------- ________________ १५२ बृहत्कल्प-छेदसूत्रम् -३-४/११३ [भा.५१२०] तइयस्स दोनि मोत्तुं, दव्वे भावे य सेस भयणा उ । पडिसिद्ध लिंगकरणं, कारणे अन्नत्थ तत्थेव॥ वृ-इह “साधम्मियेतणियंकरेमाणे" इत्यादिसूत्रक्रमप्रामाण्येनहत्थायालस्तृतीय उच्यते, स त्रिधा-हस्तातालो हस्तालम्बोऽर्थादानं चेति। तत्राऽऽद्ये द्वे पदे मुक्त्वा यत् शेषम्-अर्थादानाख्यं तृतीयं पदं तत्र द्रव्यतो भावतश्च लिङ्गप्रदाने भजना भवति । कथम् ? इत्याह-“पडिसिद्ध" इत्यादि, उत्तरत्र “कारणे" इत्यभिधास्यमानत्वाद् इह निष्कारणमिति गम्यते, ततो निष्कारणे प्रतिषिद्धमादानकारिणो लिङ्गकरणं' द्रव्यलिङ्गस्य मावलिङ्गस्य वा तत्र क्षेत्रे प्रदानम्। 'कारणे तु' भक्तप्रत्याख्यानप्रतिपत्तिलक्षणेऽन्यत्र वा तत्र वाऽनुज्ञातमेव ॥ एषापुरातना गाथा, अत एनां विवरीषुराह[भा.५१२१] हत्थातालो ततिओ, तस्स उ दो आइमे पदे मोत्तुं। अत्थायाणे लिंगं, न दिति तत्थेव विसयम्मि॥ वृ-हस्तातालः सूत्रक्रमप्रामाण्येन तृतीयः, तस्य द्वे आदिमे हस्ताताल-हस्तालम्बलक्षणे पदे मुक्त्वा यद् अर्थादानाख्यं पदं तत् वर्तमानस्य तत्रैव 'विषये' देशे लिङ्गं न ददति ॥ सच अर्थादानकारी गृहिलिङ्गीवा स्यादवसनलिङ्गी वा। तत्र[भा.५१२२] गिहिलिंगस्स उ दोन्नि वि, ओसन्ने न दिति भावलिंगंतु। दिज्जंति दो वि लिंगा, उवट्ठिए उत्तिमट्ठस्स ॥ वृ-यो गृहिलिङ्गी प्रव्रज्यार्थमभ्युत्तिष्ठते तस्य द्वेअपि' द्रव्य-भावलिङ्गे तस्मिन् देशेन दीयेते। यः पुनरवसनस्तस्य द्रव्यलिङ्गं विद्यत एव परं भावलिङ्गं तस्य तत्रैव न ददति । यदा पुनरसावुत्तमार्थप्रतिपत्त्यर्थमुपतिष्ठते तदा तस्मिन्नपि देशे द्वयोरपि गृहस्था-ऽवसनयोढे अपि लिङ्गे दीयेते॥अथवेदं कारणम्[भा.५१२३] ओमा-ऽसिवमाईहि व, तप्पिस्सति तेन तस्स तत्येव । न य असहाओ मुच्चइ, पुट्ठोय भणिज्ज वीसरियं ॥ वृ-अवमा-ऽशिव-राजद्विष्टादिषुवा समुपस्थितेषुगच्छस्य प्रतितर्पिष्यति' उपग्रहं करिष्यति तेन कारणेन तत्रैव क्षेत्रे तस्य लिङ्गं प्रयच्छन्ति । तत्र चेयं यतना-“न य असहाओ" इत्यादि, स तत्रारोपितमहाव्रतः सन् ‘असहायः' एकाकी न मुच्यते, लोकेन च निमित्तं पृष्टो भणति-विस्मृतं मम साम्प्रतं तद् निमित्तमिति॥अथ साधर्मिकादिस्तैन्येषु प्रायश्चित्तमुपदर्शयति[भा.५१२४] साहम्मिय-ऽन्नधम्मियतेनेसु उ तत्थ होतिमा भयणा। लहुगो लहुगा गुरुगा, अणवठ्ठप्पो व आएसा॥ वृ-साधर्मिकस्तैन्या-ऽन्यधार्मिकस्तैन्ययोस्तत्र तावदियं भजना' प्रायश्चित्तरचना भवतिआहारं स्तेनयतो लघुमासः, उपधिं स्तेनयतश्चतुर्लघु, सचित्तं स्तेनयतश्चतुर्गुरवः । आदेशेन वाऽनवस्थाप्यम्॥ [भा.५१२५] अहवा अनुवज्झाओ, एएस पएसु पावती तिविहं । तेसुंचेव पएसुं, गणि-आयरियाण नवमंतु ॥ वृ- अथवा 'अनुपाध्यायः' य उपाध्यायो न भवति किन्तु सामान्यभिक्षु सः ‘एतेषु पदेषु' Page #156 -------------------------------------------------------------------------- ________________ १५३ उद्देशकः४, मूलं-११२, [भा. ५१२५] आहारोपधि-सचित्तस्तैन्यरूपेषु यथाक्रमं त्रिविधं' लघुमास-चतुर्लघु-चतुर्गुरुलक्षणं प्रायश्चित्तं प्राप्नोति । एतेष्वेव च' आहारादिषु पदेषु गणिनः-उपाध्यायस्याऽऽचार्यस्य च 'नवमम्' अनवस्थाप्यं भवति॥अत्रपरःप्राह-ननुसूत्रे सामान्येनानवस्थाप्यएव भणितःनपुनर्ल घुमासादिकं त्रिविधं प्रायश्चित्तम् तत् कथमिदमर्थेनाभिधीयते ? उच्यते-आर्हतानामेकान्तवादः क्वापि न भवति । तथा चाह[भा.५१२६] तुल्लम्मि वि अवराहे, तुल्लमतुल्लं व दिज्जए दोण्हं । पारंचिके वि नवमं, गणिस्स गुरुणो उतं चेव॥ वृ-तुल्यः-सदृशोऽपराधः द्वाभ्यामपि-आचार्योपाध्यायाभ्यां सेवितस्तत्र द्वयोरपितुल्यमतुल्यं वाप्रायश्चित्तं दीयते। तत्र तुल्यदानं प्रतीतमेव, अतुल्यदानं पुनरिदम्-'पाराञ्चिकेऽपि' दीयते न पाराञ्चिकम्, 'गुरोः' आचार्यस्य पुनः 'तदेव' पाराञ्चिकं दीयते । ततो यद्यपि सूत्रे सामान्येनाऽनवस्थाप्यमुक्तं तथापि तत् पुरुषविशेषापेक्षं प्रतिपत्तव्यम्, यद्वाऽभीक्ष्णसेवानिष्पन्नम् ॥ तथा चाह[भा.५१२७] अहवा अभिक्खसेवी, अनुवरमं पावई गणी नवमं । पावंति मूलमेव उ, अभिक्खपडिसेविणो सेसा ॥ वृ-अथवा साधर्मिकस्तैन्यादेः 'अभीक्ष्णसेवी' पुनः पुनःप्रतिसेवांयः करोति सततः स्थानाद् 'अनुपरमन्' अनिवर्तमानः 'गणी' उपाध्यायोनवमंप्राप्नोति। शेषास्तु' ये उपाध्यायत्वमाचार्यत्वं वा न प्राप्तातेऽभीक्ष्णप्रतिसेविनोऽपि मूलमेव प्राप्नुवन्ति नानवस्थाप्यम् ॥ [भा.५१२८] अत्थादानो ततिओ, अणवट्ठो खेत्तओ समक्खाओ। गच्छे चेव वसंता, निशूहिज्जंति सेसा उ॥ वृ. अष्टाङ्गनिमित्तप्रयोगेण अर्थ-द्रव्यमादत्ते इति अर्थादानः, ततोऽर्थादानाख्यो यस्तृतीयोऽनवस्थाप्यः स क्षेत्रतः समाख्यातः, तत्र क्षेत्रे नोपस्थाप्यत इत्यर्थः । 'शेषास्तु' हस्तातालकारिप्रभृतयो गच्छ एव वसन्तो नियूद्यन्ते, आलापनादिभि पदैः बहिः क्रियन्ते इत्यर्थः। अथ कीशगुणयुक्तस्यानवस्थाप्यं दीयते? इत्याह[भा.५१२९] संघयण-विरिय-आगम-सुत्तत्थविहीय जो समग्गो तु। तवसी निग्गहजुत्तो, पवयणसारे अभिगयत्यो। [भा.५१३०] तिलतुसतिभागमेत्तो, वि जस्स असुभो न विज्जती भावो । निजूहणाए अरिहो, सेसे निजूहणा नत्थि॥ [भा.५१३१] एयगुणसंपउत्तो, अणवठ्ठप्पो य होति नायव्यो । __ एयगुणविप्पमुक्के, तारियम्मी भवे मूलं ॥ [भा.५१३२] आसायणा जहन्ने, छम्मासुक्कोस बारस उ मासा। वासं बारस वासे, पडिसेवओ कारणे भइओ॥ [भा.५१३३] इत्तिरियं निक्खेवं, काउंचऽन्नं गणं गमित्ताणं । दव्वाइ सुहे वियडण, निरुवस्सग्गट्ठ उस्सग्गो।। [भा.५१३४] अप्पच्चय निब्भयया, आणाभंगो अजंतणा सगणे। Page #157 -------------------------------------------------------------------------- ________________ १५४ बृहत्कल्प-छेदसूत्रम् -३-४/११३ परगणे न होति एए, आणाथिरया भयं चेव ॥ वृ-गाथाषट्कंयथापाराञ्चिके व्याख्यातं तथैवमन्तव्यम्।नवरं “दव्वाइसुभे वियडण"ति द्रव्य-क्षेत्र-काल-भावेषु शुभेषु प्रशस्तेषु; द्रव्यतोवटव-क्षादौ क्षीरवृक्षे, क्षेत्रत इक्षुक्षेत्रादौ, कालतः पूर्वाह्न, भावतः प्रशस्तेषुचन्द्र-तारादिबलेषुः गुरूणां विकटनाम् आलोचनांददाति।तत आचार्या भणन्ति-“एयस्स साहुस्स अणवठ्ठप्पतवस्स निरुवसग्गनिमित्तंठामिकाउसग्गंतिअनत्थूससिएणं इत्यादि वोसिरामि" इति यावत् चतुर्विंशतिस्तवमुच्चार्याऽऽचार्या भणन्ति-एष तपः प्रतिपद्यते ततो न भवद्भिः सार्धमालापादिकं विधास्यति, यूयमप्येतेन सार्धमालापादिकं परिहरध्वमिति। एवं तपः प्रतिपद्य यदसौ विदघाति तद् उपदर्शयति[भा.५१३५] सेहाई वंदंतो, पग्गहियमहातवो जिनो चेव । विहरइ बारस वासे, अणवट्ठप्पो गणे चेव ॥ वृ-शैक्षादीनपिवन्दमानः 'जिन इव' जिनकल्पिक इवच प्रगृहीतमहातपाः, पारणके निर्लेप भक्त-पानं ग्रहीतव्यम्' इत्याद्यनेकाभिग्रहयुक्तं चतुर्थ-षष्ठादिकं विपुलं परिहारतपः कुर्वनिति भावः । एवंविधोऽनवस्थाप्यः ‘गण एव' गच्छान्तर्गत एवोत्कर्षतो द्वादश वर्षाणि विहरति॥ इदमेव भावयति[भा.५१३६] अणवढं वहमाणो, वंदइ सो सेहमादिणो सव्वे । संवासो से कप्पइ सेसा उपया न कप्पंति ।। वृ-परगणेऽनवस्थाप्यं वहमानः ‘सः' उपाध्यायादिशैक्षादीनपि सर्वान् साधून वन्दते । तस्य च गच्छेन सार्धमेकत्रोपाश्रये एकस्मिन् पार्वेशेषसाधुजनापरिभोग्ये प्रदेशे संवासः कर्तुंकल्पते। शेषाणि तु पदानि न कल्पन्ते ॥ कानि पुनस्तानि ? इत्याह- . [भा.५१३७] आलावण पडिपुच्छन, परियटुट्ठाण वंदनग मत्ते। पडिलेहण संघाडग, भत्तदान संभुंजणा चेव।। वृ-आलपनं स साधुभिः सह न करोति तेऽपितं नाऽऽलपन्ति। सूत्रार्थयोः शरीरोदन्तस्य वा प्रतिप्रच्छनं स तेषां न करोति तेऽपितस्य न कुर्वन्ति। एवं परिवर्तनम् एकतो गुणनम् 'उत्थानम्' अभ्युत्थानं ते अपिन कुर्वन्ति । वन्दनकंतु सर्वेषामपि स करोति तस्य पुनः साधवो न कुर्वन्ति। "मत्ते"त्ति खेलमात्रादिप्रत्यर्पणं तस्य न क्रियते सोऽपि तेषां न करोति । उपकरणं परस्परं न प्रत्युपेक्षन्ते । सङ्घाटकेन परस्परं न भवन्ति । भक्तदानमन्योऽन्यं न कुर्वन्ति । एकत्र मण्डल्यां न सम्भूजते । यच्चाऽन्यत् किञ्चित् करणीयं तत् तेन सार्धं न कुर्वन्ति ॥ “संघो न लभइ कज्जं-" इत्यादिगाथाः पाराश्चिकवद्रष्टव्याः॥ मू. (११४) तो नो कप्पंति पव्वावित्तए, तंजहा-पंडए वाईए कीवे ॥ वृ-अस्य सम्बन्धमाह[भा.५१३८] न ठविजई वएसुं, सज्जं एएण होति अणवठ्ठो । दुविहम्मि वि न ठविजइ, लिंगे अयमन जोगो उ ।। वृ-येन तद्दोषोपरतोऽपि ‘सद्यः' तत्क्षणादेवानाचरिततपोविशेषो भावलिङ्गरूपेषु महाव्रतेषु न स्थाप्यते एतेन कारणेनानवस्थाप्य इत्युच्यते, स चानन्तरसूत्रे भणितः । अयं पुनः ‘अन्यः' Page #158 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - ११४, [भा. ५१३८] १५५ पण्डकादिर्द्विविधेऽपि द्रव्य-भावलिङ्गे यो न स्थाप्यते स प्रतिपाद्यते । एष 'योगः ' सम्बन्धः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयो नो कल्पन्ते प्रव्राजयितुम् । तद्यथा- 'पण्डकः' नपुंसकः । 'वातिको नाम' यदा स्वनिमित्ततोऽन्यथा वा मेहनं काषायितं भवति तदा न शक्नोति वेदं धारयितुं यावन्न प्रतिसेवा कृता । 'क्लीबः' असमर्थः, स च दृषिट्क्लीबादिलक्षणः । एष सूत्रार्थः । अथ भाष्यविस्तरः [ भा. ५१३९] वीसं तु अपव्वज्जा, निजुत्तीए उ वन्निया पुव्विं । इह पुन तिहि अधिकारी, पंडे कीवे य वाईया ॥ वृ- 'विंशतिः' बाल-वृद्धादिभेदाद् विंशतिसङ्ख्याः अप्रव्राज्याः 'पूर्वं' नामनिष्पन्ने निक्षेपे 'निर्युक्तौ ' पञ्चकल्पे सप्रपञ्चं वर्णिताः । इह पुनस्त्रभिरेवाधिकारः- पण्डकेन क्लीबेन वातिकेन चेति, गुरुतरदोषदुष्टा अमी इति कृत्वा ।। अथ प्रव्राजनाविधिमेव तावदाह [भा. ५१४०] गीयत्थे पव्वावण, गीयत्थे अपुच्छिऊण चउगुरुगा । तम्हा गीयत्थस्स उ, कप्पइ पव्वावणा पुच्छा || वृ- गीतार्थेनैव प्रव्रजना कर्तव्या नागीतार्थेन यद्यगीतार्थ प्रव्राजयति तदा चतुर्गुरुकम् । गीतार्थोऽपि यदि 'अपृष्ट्वा' पृच्छामन्तरेण प्रव्राजयति तदा तस्यापि चतुर्गुरुकाः । तस्माद् गीतार्थस्य पृच्छाशुद्धं कृत्वा प्रव्रजना कर्तुं कल्पते । पृच्छाविधिश्चायतम् - कोऽसि त्वम् ? को वा ते निर्वेदो येन प्रव्रजसि ? ॥ एवं पृष्टे सति [ भा. ५१४१] सयमेव कोति साहति, मित्तेहि व पुच्छिओ उवाएणं । अहवा वि लक्खणेहिं, इमेहि नाउं परिहरेज्जा | वृ-स्वयमेव 'कोऽपि' पण्डकः कथयति, यथा-सद्दशे मनुष्यत्वे ममेद्दशः त्रैराशिकवेदः समुदीर्ण इति । यद्वा मित्रैस्तस्य निर्वेदकारणमभिधीयेत । प्रब्राजकेन वा स एवोपायपूर्वं पृष्टः कथयेत् । अथवा 'लक्षणैः' महिलास्वभावादिभि 'एभि' वक्ष्यमाणैर्ज्ञात्वा तं परिहरेत् ॥ तत्र पृच्छां तावद् भावयति [भा. ५१४२ ] नज्जंतमनज्जंते, निव्वेयमसड्ढे पढमयो पुच्छे । अन्नाओ पुन भन्नइ, पंडाइ न कप्पई अम्हं ।। वृ- यः प्रव्रजितुमुपस्थितः स ज्ञायमानो वा स्यादज्ञायमानो वा । ज्ञायमानो नामअमुको मुकपुत्रोऽयम्, तद्विपरीतोऽज्ञायमानः । तत्र यो ज्ञायमानः स यदि श्राद्धः - श्रावको न भवति ततः प्रथमतस्तं निर्वेदं पृच्छेत् । यः पुनरज्ञातः स समासेन भण्यते न कल्पतेऽस्माकं पण्डकादि प्रव्राजयितुम् ॥ स च यदि पण्डकस्तत एवं चिन्तयति [भा. ५१४३] नाओ भित्ति पणासइ, निव्वेयं पुच्छिया व से मित्ता । साहंति एस पंडो, सयं व पंडो त्ति निव्वेयं ॥ वृ-ज्ञातोऽस्म्यमीभिरिति मत्वा प्रणश्यति । अथवा यानि “से” तस्य मित्रामि तानि पृच्छयन्तेएष तरुण ईश्वरो नीरोगश्च विद्यते ततः केन निर्वेदेन प्रव्रजति ? । एवं पृष्टानि तानि ब्रुवते - एष पण्डक इति । स्वयं वा सः 'पण्डकोऽस्म्यहम्' इति निर्वेदं कथयति ॥ अथ पूर्वोल्लिङ्गितानि पण्डकलक्षणानि निरूपयति Page #159 -------------------------------------------------------------------------- ________________ १५६ बृहत्कल्प-छेदसूत्रम् -३-४/११४ [भा. ५१४४] महिलासहावो सर-वन्नभेओ, मेण्ढं महंतं मउता य वाया । ससद्दगं मुत्तमफेणगं च, एयाणि च प्पंडगलक्खणाणि ॥ वृ- पण्डको वक्ष्यमाणनीत्या महिलास्वभावो भवति । स्वर वर्णभेदश्च तस्य भवति । स्वरभेदो नाम - पुरुषस्य स्त्रियाश्च स्वराद् विलक्षणस्तस्य स्वरो भवति । वर्णग्रहणेन गन्ध-र -रस- स्पर्शा अपि गृह्यन्ते, ततो वर्णभेदो नाम वर्णादयः तस्य स्त्र- पुरुषविलक्षणा अन्यादृशा भवन्ति । 'मेढम्' अङ्गादानं तच्च 'महत्' प्रलम्बं भवति । वाक् च 'मृदुका' कोमला भवति । मूत्रं सशब्दमफेनकं च भवति । एतानि षट् पण्डकलक्षणानि मन्तव्यानि ॥ 'महिलास्वभावः' इति पदं व्याचष्टे[भा. ५१४५ ] गती भवे पञ्चवलोइयं च, मिदुत्तया सीयलगत्तया य । धुवं भवे दोक्खरनामधेज्जो, सकारपञ्चंतरिओ ढकारो ॥ वृ- गति स्त्रीवद् मन्दा सविभ्रमा च भवति । पार्श्वतः पृष्ठतश्च प्रत्यवलोकितं कुर्वन् गच्छति । शरीरस्य च त्वग् मृद्वी भवति । 'शीतलगात्रता च' अङ्गोपाङ्गानां शीतलः स्पर्शो भवति । एतानि स्त्रिया इव लक्षणानि दृष्ट्वा मन्तव्यम्- 'ध्रुवं' निश्चितमयं व्यक्षरनामधेयो भवेत् । तच्चाक्षरद्वयं सकारप्रत्यन्तरितो ढकार इति प्रतिपत्तव्यम्, प्राकृत शैल्या 'संढः' संस्कृते तु ‘षण्ढः' इति भावः । किञ्च [ भा. ५१४६ ] गइ भास वत्थ हत्थे, कडि पट्टिभुमा य केसऽलंकारे । पच्छन्न मज्जनानि य, पच्छन्नयरं च नीहारो ॥ वृ- " गइ "त्ति यथा स्त्री तथा शनैः सविकारं गच्छति । स्त्रीवद् भाषां भाषते । तथा वस्त्र यथा स्त्री तथा परिधत्ते, शिरो वा वस्त्रेण स्थगयति । “हत्थे "त्ति हस्तौ कूर्पराधो विन्यस्य कपोलयोर्वा निवेश्य जल्पति । अभीक्ष्णं च कटीभङ्गं करोति, पृष्ठं वा वस्त्रण सुस्थगितं करोत । भाषमाणश्च सविभ्रमं ध्रुयुगलमुत्क्षिपति, भू-रोमाणि वास्त्रसध्शानि । स्त्रवत् केशानामोटयति । महिलानामलङ्कारान् पिनह्यति । प्रच्छन्ने च प्रदेशे 'मज्जनानि' स्नानादीनि करोति । प्रच्छन्नतरं च 'नीहारः ' उच्चार-प्रश्रवणात्मकस्तेन क्रियते ॥ [ भा. ५१४७ ] पुरिसेसुभीरु महिलासु संकरो पमयकम्मकरणो य । तिविहम्मिवि वेदम्मिं, तियभंगो होइ कायव्वो । , वृ- 'पुरुषेषु' पुरुषमध्ये 'भीरु' सभयः शङ्कमान आस्ते । महिलासु 'सङ्करः' सम्मिलनशीलो निशङ्को निर्भयस्तिष्ठति । प्रमदाः स्त्रियः तासां यत् कर्म ण्डन-दलन - पचन- परिवेषणोदकाहरणप्रमार्जनादिकं तत् स्वयमेव करोतिति प्रमदाकर्मकरणः कृत् "बहुलम्" इति वचनात् कर्तरि अनट्प्रत्ययः । एवमादिकं बाह्यलक्षणं पण्डकस्य मन्तव्यम् । आभ्यन्तरं तु लक्षणं तस्य तृतीयवेदोदयः। स च नपुंसकवेदस्त्रविधेऽपि वेदे भवति, यत आह-त्रिविधेऽपि वेदे प्रत्येकं त्रिकभङ्गः कर्तव्यो भवति । कथम् ? इति चेद् उच्यते- पुरुषः पुरुषवेदं वेदयति, पुरुषः स्त्रीवेदं वेदयति, पुरुषो नपुंसक वेदं वेदयति, एवं स्त्री-नपुंसकयोरपि वेदत्रयोदयो मन्तव्यः ॥ आ यद्येवं ततो यदुच्यते 'स्त्र- पुरुष नपुंसकवेदा यथाक्रमं फुम्फका दवाग्नि-महानगरदाहसमानाः' तदेतद् व्या- हन्यते ? अत्रोच्यते [ भा. ५१४८ ] उस्सग्गलक्खणं खलु, फुंफग तह वनदवे नगरदाहे । Page #160 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-११४, [भा. ५१४८] १५७ अववादतो उ भइओ, एक्केको दोसु ठाणेसु॥ वृ-इह विवक्षितस्य वस्तुनः कारणनिरपेक्षं सामान्यस्वरूपमुत्सर्ग उच्यते, ततस्त्रयाणामपि वेदानामिदमुत्सर्गलक्षणमेव मन्तव्यम् । यथा-स्त्रीवेदः फुम्फकाग्निसमानः, पुरुषवेदो वनदवाग्निसमानः,नपुंसकवेदोमहानगरदाहसमान इति । अपवदतस्तुत्रिविधोऽपि वेदः 'भक्तः' विकल्पितः । कथम् ? इत्याह-एकैको वेदः स्वस्थानं मुक्त्वा इतरयोरपि द्वयोः स्थानयोर्वर्तते । यथा-स्त्री स्त्रीवेदसमाना वा पुरुषवेदसमाना वा नपुंसकवेदसमाना वा भवेत्, एवं पुरुषनपुंसकयोरपि वक्तव्यम्॥अथ प्रकारान्तरेण पण्डकलक्षणमाह[भा.५१४९] दुविहो उ पंडओ खलु, दूसी-उवधायपंडओ चेव । उवधाए विय दुविहो, वेए य तहेव उवकरणे॥ वृ-द्विविधः खलु पण्डकः, तद्यथा-दूषितपण्डक उपघातपण्डकश्च । दूषितण्डको द्विविधःआसिक्त उपसिक्तश्च। एतच्च भेदद्वयमद्व्याख्यातम्। उपघातपण्डकोऽपिद्विविधः-वेदोपघाते उपकरणोपघाते च ।। तत्र दूषितपण्डकं तावद् व्याख्यानयति[भा.५१५०] दूसियवेओ दूसिय, दोसु व वेएसुसज्जए दूसी। दूसेति सेसए व, दोहि व सेविजए दूसी॥ वृदूषितो वेदो यस्य स दूषितवेदः, एष दूषित उच्यते । 'द्वयोर्वा' नपुंसक-पुरुषवेदयोः अथवा नपुंसक-स्त्रीवेदयोर्यः ‘सजति' प्रसङ्गं करोति स प्राकृतशैल्या दूसी भण्यते । यौ वा 'शेषौ' स्त्री-पुरुषवेदौ ‘दूषयति' निन्दति स दूषी । 'द्वाभ्यां वा' आस्यक-पोसकाभ्यां यः सेव्यते सेवते वस दूषी ॥अस्यैव भेदानाह[भा.५१५१] आसित्तो ऊसित्तो, दुविहो दूसी उ होइ नायव्यो। आसित्तो सावच्चो, अणवच्चो होइ ऊसित्तो॥ वृ-स दूषी द्विविधो ज्ञातव्यो भवति-आसिक्त उपसिक्तश्च । आसिक्तो नाम ‘सापत्यः' यस्यापतयमुत्पद्यते, सबीजइति भावः । यस्तु 'निरपत्यः' अपत्योत्पादनसामर्थ्यविकलः, निर्वीज इत्यर्थः, स उपसिक्त उच्यते॥ व्याख्यातो दूषिपण्डकः, अथोपघातपण्डकमाह[भा.५१५२] पुट्विं दुच्चिन्नाणं, कम्माणं असुभफलविवागेणं। तो उवहम्मइ वेओ, जीवाणं पावकम्माणं॥ वृ-पूर्वं 'दुश्चीर्णानां दुराचारसमाचरणेनार्जितानां कर्मणामशुभफलः 'विपाकः' उधयो यदा भवति ततो जीवानां पापकर्मणां वेद उपहन्यते॥ तत्र चायं दृष्टान्तः [भा.५१५३] जह हेमो उ कुमारो, इंदमहे भूणियानिमित्तेणं। मुच्छिय गिद्धो यमओ, वेओ वि य उवहओ तस्स ॥ वृ-यथा हेमो नाम कुमार इन्द्रमहे समागता या भ्रूणिकाः-बालकास्तासां निमित्तेन ‘मूर्च्छितो गृद्धः' अत्यन्तमासक्तः सन् ‘मृतः' पञ्चत्वमुपगतः, वेदोऽपिच तस्योपहतः सात इत्यक्षरार्थ। भावार्थः कथानकादवसेयः । तच्चैदम्- हेमपुरे नगरे हेमकूडो राया । हेमसंभवा भारिया । तस्स पुत्तो वरतवियहेमसन्निमो हेमो नाम कुमारो । सो य पत्तजोव्वणो अन्नया इंदमहे इंदट्ठाणं गओ, पेच्छइ य तत्थ नगरकुलबालियाणं रूववईणं पंचसे बलि-पुप्फ-धूवकडुच्छयहत्थे । ताओ द8 Page #161 -------------------------------------------------------------------------- ________________ १५८ बृहत्कल्प-छेदसूत्रम् - ३-४/११४ सेवग पुरिसे भाइ-किमेयाओ आगयाओ ? किंवा अभिलसंति ? । तेहिं लवियं-इंदं मग्गंति वरं सोभग्गं च अभिलसंति । भणिया य तेन सेवगपुरिसा अहमेएसिं इंदेन वर दत्तो, नेह एयाओ अंतेउरम्मि । तेहिं ताओ घेत्तुं सव्वाओ अंतेउरे छूढाओ। ताहे नागरजनो रायाणं उवट्ठियो-मोएह त्ति । तओ रन्ना भणियं-किं मज्झ पुत्तो न रोयति तुहं जामाउओ ? । तओ नागरा तुण्डिक्का ठिया । 'एयं रनो सम्मतं ' ति अविन्नप्प गया नागरा । कुमारेण ता सव्वा परिणीया । सो य तासु अतीव पसत्तो । पसत्तस्स य तस्स सव्वबीयनीगालो जाओ । तओ तस्स वेओवघाओ जाओ मओ य । अति ताहिं चेव 'अप्पडिसेवगो' त्ति रूसियाहिं अद्दाएहिं मारिओ | एष वेदोपघातपण्डक उच्यते । अथोपकरणोपघातपण्डकमाह भा (५१५४ ] उवहय उवकरणम्मिं, सेज्जायरभूणियानिमित्तेणं । तो कविलगस्स वेओ, ततिओ जाओ दुरहियासो । वृ- शय्यातरभ्रूणिकानिमित्तेन पूर्वम् 'उपकरणे' अङ्गादानाख्ये 'उपहते' छिन्ने सति ततः क्रमेण कपिलस्य दुरधिसहस्तृतीयो वेदो जात इत्यक्षरार्थः । भावार्थस्तु कथानकेनोच्यते- सुट्ठिया आयरिया । सिं सीसो कविलो नाम खुड्डगो । सो सिज्जायरस्स भूणियाए सह खेड्डुं करेति । तस्स तत्थेव अज्झोववाओ जाओ । अन्नया सा सिञ्जातरभूणिया एगागिणी नातिदूरे गावीणं दोहणवाडगं गया । सा तदुद्ध-दहिं घेत्तूणाऽऽगच्छति । कविलो य तं चैव वाडगं भिक्खायरियं गच्छति । तेनंतरा असारिए अनिच्छमाणी बला भारिया उप्पाइया । तीए कब्बट्टियाए अदूरे पिया छित्ते किसिं करेइ । तीए तस्स कहियं । तेन सा दिट्ठा जोणिब्भेइ रुहिरोक्खित्ता महीए लोलिंतिया य । सोय कोहाडहत्थगओ रुट्ठो । कविलो य तेनकालेण भिक्खं अडितुं पडिनियत्तो, तेन य दिट्ठो । मूलाओ से सागारियं सह जलधरेहिं निक्कंतियं । सो य आयरियसमीवं न गओ, उन्निक्खंतो । तस्स य उवगरणोवघाएण ततिओ वेदओ उदिन्नो । सो जुन्नकोट्टिणीए संगहिओ । तत्थ से इत्थीवेओ वि उदिन्नो ।। एष उपहतोपकरण उच्यते । अयं च पुं-नपुंसकवेदोदयाद् आस्यपोसकप्रतिसेवी भवति,, वेदोदयं च निरोद्धुं न शक्नोति ॥ तथा चात्र दृष्टान्तः [भा. ५१५५ ] जह पढमपाउसम्मिं, गोणो धाओ तु हरियगतणस्स । अनुसज्जति कोटिंबिं, वावन्नं दुब्मिगंधीयं ॥ [ भा. ५१५६ ] एवं तु केइ पुरिसा, भोत्तूण वि भोयणं पतिविसिहं । ताव न होंति उ तुट्ठा, जाव न पडिसेविओ भावो ॥ वृ- यथा प्रथमे प्रावृषि 'गौः ' बलवर्दो हरिततृणस्य धातो दुरभिगन्धां व्यापन्नां च 'कोट्टिम्बिनीं ' गामनुसजति, एवं 'केचिद्' उत्कटबेदाः पुरुषा भोजनं 'प्रतिविशिष्टं' स्निग्ध-मधुर भुक्त्वाऽपि तावत् तुष्टा न भवन्ति यावदास्य-पोसकलक्षणो भावो न प्रतिसेवितो भवति । एवंविधः कदाचिदनाभोगेन प्रव्राजितो भवेत् ततः केन हेतुना पश्चाद् ज्ञायते ? इत्याह [भा. ५१५७] गहणं तु संजयस्सा, आयरियाणं व खिप्पमालोए । बहिया व निग्गयाणं, चरित्तसंभेयणी विकहा ॥ वृ- स पण्डकः प्रव्रजितः सन् प्रतिसेवनाभिप्रायेण संयतस्य ग्रहणं कुर्यात् । स च संयतः क्षिप्रमाचार्याणामालोचयेत् । यदि नालोचयति ततश्चतुर्गुरु । अथवा प्रतिश्रयान्तर्विरहमलभमानः Page #162 -------------------------------------------------------------------------- ________________ १५९ - उद्देशकः ४, मूलं-११४, [भा. ५१५७] 'बहिः' विचारभूमौ गतानां चारित्रसम्भेदिनीं विकथां कुर्यात् ।। इदमेव भावयति[भा.५१५८] छंदिय गहिय गुरूणं, जो न कहे जो व सिट्ठवेहेजा। परपक्ख सपक्खे वा, जं काहिति सो तमावजे ॥ वृ-'छन्दितो नाम' तेन पण्डकेन 'मांप्रतिसेवस्व, अहं वा त्वां प्रतिसेवे' इत्येवं यो निमन्त्रितो यश्च साधुस्तेन गृहीतः, एतौ द्वावपि यदि गुरूणां न कथयतः 'शिष्टेवा' कथिते यदि गुरव उपेक्षा कुर्वन्ति तदा सर्वेषामपि चतुर्गुरु। यच्च परपक्षे स्वपक्षेवाप्रतिसेवनां कुर्वन्स पण्डक उड्डाहादिकं करिष्यति तत् ते 'आपद्यन्ते' प्राप्नुवन्ति ।। “चरित्तसंभेयणी विकह" तिपदं व्याचष्टे[भा.५१५९] इत्थिकहाउ कहित्ता, तासि अवनं पुनो पगासेति। समलं सावि अगंधिं, खेतोय न एयरे ताई॥ वृ-स.पण्डकः स्त्रीकथाः कथयति, यथा ताः परिभुज्यन्ते यद् वा सुखं तत्र भवति । एवं कथयित्वा पनस्तासामवर्णं प्रकाशयति, यथा-समलं श्रावि अगन्धिच' दुर्गन्धं तदीयं लिङगम्, तासुचपरिभुज्यमनासुपुरुषस्य खेदोजायते, “एतरे"त्तिअस्माकं पुनरास्यके 'तानि' दूषणानि न भवन्ति ।। स च पण्डक एवंविधै; कुचेष्टितैर्लक्षयितव्यः[भा.५१६०] सागारियं निरिक्खति, तंच मलेऊण जिंघई हत्थं । पुच्छति सेविमसेवी, अतिव सुहं अहं चिय दुहा वि।। वृ-सागारिकमात्मनः परस्य वा सत्कमभीक्ष्णं निरीक्षते । तच्च' सागारिकं हस्तेन मलयित्वा तं हस्तं जिघ्रति । भुक्तभोगिनं च साधुं रहसि पृच्छति-नपुंसकस्य यूयं गृहवासे सेविनो वा न वा?, तस्मिन् सेव्यमाने अतीव सुखमुत्पद्यते । ततस्तस्य साधोराशयं ज्ञात्वा भणति-अहमेव नपुंसकः 'द्विधाऽपि' आस्यक-पोसकाभ्यांप्रतिसेवनीयः । एवं तं पण्डकं ज्ञात्व गुरूणामालोचनीयमिति प्रक्रमः॥ [भा.५१६१] सो समणसुविहितेसुं, पवियारं कत्थई अलभमाणो। तो सेविउमारद्धो, गिहिणो तह अन्नतित्थी य॥ वृ. 'सः' पण्डकः 'श्रमणसुविहितेषु' स्वाध्याय-ध्याननिरतेषु साधुषु मैथुनप्रविचारं कुत्राप्यलभमानस्ततो गृहिणस्तथाऽन्यतीर्थिनश्च प्रतिसेवितुमारब्धः।। तत्रैते दोषा भवेयुः. [भा.५१६२] अयसो य अकित्तीया, तम्मूलागं तहिं पवयणस्स । तेसि पि होइ संका, सव्वे एयारिसा मने। वृ-“तहिं"ति 'तत्र' विवक्षिते ग्रामादौ 'तन्मूलं' तद्धेतुकंप्रवचनस्यायशश्चाकीर्तिश्च भवति। तत्रायशोनाम-छायाघात, अकीर्ति-अव्णवादभाषणम्।येच भट्ट चट्ट नर्तकप्रभृतयस्तंप्रतिसेवन्ते तेषामपिशङ्का भवति-सर्वेऽप्यमीश्रमणा 'ईशाएव' त्रैराशिका भविष्यन्ति । मन्ये' इति निपातो वितर्कार्थः ।अयशःपदमकीर्तिपदं च व्याचष्टे[भा.५१६३] एरिससेवी सव्वे, वि, एरिसा एरिसो व पासंडो। सो एसो न वि अन्नो, असंखडं घोडमाईहिं॥ वृ-प्रभूतजनमीलके लोक एवं ब्रूयात्-ईशं-नपुंसकंसेवितुंशीलं येषांते ईशसेविनः, सर्वेऽप्येते 'ईशाः' त्रैराशिकाः, 'ईशो वा' दम्मबहुल एष पाखण्डः । एवमयशःकीर्तिशब्दः सर्वत्रापि Page #163 -------------------------------------------------------------------------- ________________ १६० बृहत्कल्प-छेदसूत्रम् - ३-४/११४ प्रचरति । साधून् वा भिक्षा-विचारादिनिर्गतान् दृष्ट्वा युवानः केलिप्रिया ब्रुवते - अरे अरे भट्टिन् ! गोमिन् ! स एष श्रीमन्दिरकारकः । अन्यः प्राह - नाप्येष स इति । अथवा ते ब्रवीरन्-समागच्छत समागच्छत श्रमणाः ! यूयमपि तादृशं तादृशं कुरुत । एवमुक्तः कश्चिदसहिष्णस्तैर्घोटादिभिः सहासङ्घडं कुर्यात् । घोटा:- चट्टाः, आदिशब्दाद् आरामिक-मिण्ठ- गोपालादिपरिगरहः ॥ उक्तः पण्डकः, अथ क्लीबमाह [भा. ५१६४] कीवस्स गोत्र नामं, कम्मुदय निरोहे जायती ततिओ । तम्मि वि सो चेव गमो, पच्छत्तुस्सग्ग अववादे ॥ वृ- क्लीवस्य 'गौणं' गुणनिष्पन्नं नाम, क्लिव्यते इति क्लीवः । किमुक्तं भवति ? - मैथुनाभिप्राये वयस्याङ्गादानं विकारं भजति बीजबिन्दूंश्च परिगलति स क्लीबः । अयं च माहमोहकर्मोदयेन भवति । यदा च परिगलतस्तस्य निरोधं करोति तदा निरुद्धवस्ति कालान्तरेण तृतीयवेदो जायते । स च चतुर्धा - द्दष्टिक्लीबः शब्दक्लीब आदिग्धक्लीबो निमन्त्रणाक्लीबश्चेति । तत्र यस्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीबः । यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयः । यस्तु विपक्षेणोपगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स यथाक्रममादिग्धक्लीबो निमन्त्रणाक्लीबश्चेति । चतुर्विधोऽप्ययमप्रतिसेवमानो निरोधेन नपुंसकतया परिणमति । 'तस्मिन्नपि' क्लीबे ‘स एव' प्रायश्चित्तोत्सर्गा ऽपवादेषु गमो भवति यः पण्डक स्योक्तः गतः क्लीबः, अथ वातिकं व्याचष्टे [ भा. ५१६५ ] उदएण वादियस्सा, सविकारं जा न तस्स संपत्ती । तच्चनि - असं डीए, दितो होइ अलभंते ॥ वृ- यद् सनिमित्तेनानिमित्तेन वा मोहोदयेन सागारिकं 'सविकारं' काषायितं भवति तदा न शक्नोति वेदं धारयितुं यावन्न 'तस्य' प्रतिसेवमानस्य सम्प्राप्तिर्भवति, एष वातिक उच्यते । अत्र च तच्चनिकेनासंवृताया अगार्या प्रतिसेवकेन दृष्टान्तो भवति- एगो तच्चनिओ जलयरनावारूढो । तत्थ तस्स पुरओ अहाभावेण अगारी असंवुडा निविट्ठा । तस्स य तच्चनियस्स तं दद्धुं सागारियं थद्धं । तेन वेयउक्कडयाए असहमाणेण जनपुरओ पडिगाहिया अगारी । तं च पुरिसा हंतुमारद्धा तहावि तेन न मुक्का । जाहे से बीयनिसग्गो जाओ ताहे मुक्का ।। अयमपि 'अलभमानः' अप्राप्नुवन् निरुद्धवेदो नपुंसकतया परिणमति । उक्तो वातिकः । “एकग्रहणेन तज्जातीयानां सर्वेषामपि गहणम्" इति कृत्वा अपरानपि नपुंसकभेदान् निरूपयति [भा. ५१६६ ] पंड वाइए कीवे, कुंभी ईसालुए ति य । सउनी तक्कम्मसेवी य, पक्खियापक्खिते ति य ॥ वृ- पण्डक-वातिक-क्लीबा अनन्तरमेव व्याख्याताः । कुम्भी द्विधा- जातिकुम्भी वेदकुम्भी च । यस्य सागारिकं भ्रातृद्वयं वा वातदोषेण शूनं महाप्रमाणं भवति स जातिकुम्भी । अयं च प्रव्राजनायां भजनीयः- यदि तस्यातिमहाप्रमाणं सागारिकादिकं तदा न प्रव्राज्यते, अथेषच्छूनं ततः प्रव्राज्यते । वेदकुम्भी नाम-यस्योत्कटमोहतया प्रतिसेंवनामलभमानस्य मेहनं वृषणद्वयं वा शूयते स एकान्तेन निषिद्धः, न प्रव्राजनीय इति । 'ईष्यालुर्नाम' यस्य प्रतिसेव्यमानं दृष्ट्वा ईर्ष्यामैथुनाभिलाष उत्पद्यते सोऽपि निरुद्धवेदः कालान्तरेण त्रैराशिको भवति । 'शकुनी' वेदत्कटतया Page #164 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-११४, [भा. ५१६६] १६१ गृहचटक इवाऽभीक्ष्णप्रतिसेवनांकरोति। 'तत्कर्मसेवीनाम' यदा प्रतिसेविते बीजनिसर्गोभवति तदा श्वान इव तदेव जिह्वया लेढि, एवं विलीनभावमासेवमानः सुखमिति मन्यते । पाक्षिकापाक्षिकस्तुसउच्यते यस्यैकस्मिन् शुक्ले कृष्णेवापक्षेऽतीवमोहोदयो भवति, द्वितीयपक्षे तु स स्वल्पो भवति॥ [भा.५१६७] सोगंधिए य आसित्ते, वद्धिए चिप्पिए तिय। . मंतोसहिओवहते, इसिसत्ते देवसत्ते य ।। वृ-'सौगन्धिको नाम सागारिकस्य गन्धं शुभमन्यते, सच सागारिकं जिघ्रतिमलयित्वा वा हस्तं जिघ्रति । “आसित्तो नाम" स्त्रशरीरासक्तः, स मोहोत्कटतया योनौ मेहनमनुप्रविश्य नित्यमास्ते। एतेसर्वेऽपिनिरुद्धवस्तयः कालान्तरेण नपुंसकतयापरिणमन्ति। एतेचपण्डकादयो दशापि प्रव्राजयितुमयोग्याः।तथा 'वर्द्धितोनाम' यस्य बालस्यैवच्छेदं दत्त्वा द्वौभ्रातरावपनीतौ। 'चिप्पितस्तु' यस्यजातमात्रस्यैवाङ्गुष्ठ-प्रदेशिनी-मध्यमाभिर्मलयित्वा वृषणद्वयं गालितम्। अपरस्तु मन्त्रेणोपहतो भवति।अन्यः पुनरौषध्या उपहतः।कश्चिद्ऋषिणा शप्तो भवति-मम तपःप्रभावात् पुरुषभावस्तेमा भूयात्। एवमपरोदेवेन रुष्टेन शप्तः। एतेवर्द्धितादयः षडपि यद्यप्रतिसेवकास्तदा प्रव्राजयितव्याः॥ अथैतेषां प्रव्राजने प्रायश्चित्तमाह[भा.५१६८]दससु विमूलाऽऽयरिए, वयमाणस्स वि हवंति चउगुरुगा। सेसाणं छण्हं पी, आयरिए वदंति चउगुरुगा।। वृ-पण्डकादीन्आसिक्तान्तान् दशापि नपुंसकान्यः प्वाजयति तस्याऽऽचार्यस्य दशस्वपि प्रत्येकं मूलम् । तेष्वेव दशसु यो वदति 'प्रवाजयत' तस्याऽपि चतुर्गुरुका भवन्ति । 'शेषाणां' वर्द्धितादीनां पन्नामपि प्रतिसेवकानां प्रव्राजने आचार्यस्य चतुर्गुरुकम् । यो वदति 'प्रव्राजयत' तस्यापि चतुर्गुरुकम् ॥अथ शिष्यः प्रश्नयति[भा.५१६९] थी-पुरिसा जह उदयं, धरैति झाणोववास-नियमेहि। एवमपुमं वि उदयं, धरिज जति को तहिं दोसो॥ वृ- यथा स्त्री-पुरुषा ध्यानोपवास-नियमैरुपयुक्ता वेदोदयं धारयन्ति, एवम् ‘अपुमान्' नपुंसकोऽपि यदि वेदोदयं धारयेत् ततः 'तत्र' प्रव्राजिते को दोषः स्यात् ? ॥ [भा.५१७०] अहवा ततिए दोसो, जायइ इयरेसु किं न सो भवति । एवंखु नस्थि दिक्खा, सवेययाणं न वा तित्थं ॥ वृ-अथवायुष्माकमभिप्रायो भवेत्-'तृतीये'नपुंसके वेदोदये चारित्रभङ्गलक्षणो दोषो भवेत्, तत उच्यते-'इतरयोः' स्त्र-पुरुषयोरपिवेदोदयेस दोषः किं न भवति? ।अपिच-क्षीणमोहादीन् मुक्त्वा शेषाः सर्वेऽपि संसारस्था जीवाः सवेदकाः, तेषां च दोषदर्शनादेव भवदुक्तनीत्या नास्ति दीक्षा, तदभावाच्च 'न तीर्थं' न तीर्थस्य सन्ततिर्भवति ॥ सूरिराह[भा.५१७१] थी-पुरिसा पत्तेयं, वसंति दोसरहितेसु ठाणेसु । संवास फास दिट्ठी, इयरे वत्थंवदिटुंतो ।। | 20[11] Page #165 -------------------------------------------------------------------------- ________________ १६२ बृहत्कल्प-छेदसूत्रम् - ३-४/११४ वृ- स्त्री प्रव्राजिता स्त्रीणां मध्ये निवसति, पुरुषः प्रव्राजितः पुरुषमध्ये वसति, एवं तौ प्रत्येकं दोषरहितेषु स्थानेषु वसतः । इतरस्तु पण्डको यदि स्त्रीणां मध्ये वसति तदा संवासे स्पर्शतो ष्टितश्च दोषा भवन्ति, एवं पुरुषेष्वपि संवसतस्तस्य दोषा भवन्ति । वत्सा-ऽऽम्रध्ष्टान्तश्चात्र भवति यथा वत्सो मातरं दृष्ट्वा स्तन्यमभिलषति, माताऽपि पुत्रं दृष्ट्वा प्रस्नौति; आनं वा खाद्यमानमखाद्यमानं वा दृष्ट्वा यथा मुखं क्लिद्यति; एवं तस्य संवासादिना वेदोदयेनाभिलाष उत्पद्यते । भुक्ताऽभुक्तभोगिनः साधवो वा तमभिलषेयुः । यतएवमतः पण्डको न दीक्षणीयः । द्वितीयपदे एतैः कारणैः प्रव्राजयेऽपि - [ भा. ५१७२] असिवे ओमोयरिए, रायद्दुट्टे भए व आगाढे । गेलन उत्तिमट्ठे, नाणे तह दंसण चरित्ते ॥ वृ- स प्रव्राजितः सन् अशिवमुपशमयिष्यति, अशिवगृहीतानां वा प्रतितर्पणं करिष्यति । एवमवमौदर्ये राजद्विष्टे बोधिकादिभये वा आगाढे ग्लानत्वे उत्तमार्थे वा ज्ञाने दर्शने चारित्रे वा साहायकं करिष्यति । एतैः कारणैः पण्डकं प्रव्राजयेत् । अथैनामेव गाथां व्याख्यातिराहु-भए, ताट्ठ निवस्स चेव गमनट्ठा । विज्जो व सयं तस्स व, तप्पिस्सति वा गिलाणस्स ॥ [भा. ५१७३ ] वृ- राजद्विष्टे बोधिकादिभये च त्राणार्थं नृपस्य वा अभिगमनार्थम् । किमुक्तं भवति ? - राजद्विष्टे समापतिते देशान्तरं गच्छतां तन्निस्तारणक्षमं भक्त-पानाद्युपष्टम्भं करिष्यति, राजवल्लभो वा स पण्डकस्ततो राजानमनकूलयिष्यति, बोधिकादिभये वा स बलवान् गच्छस्य परित्राणं विधास्यति । ग्लानत्वद्वारे-स पण्डकः स्वयमेव वैद्यो भवेत् ततो ग्लानस्य चिकित्सां करिष्यति, यद्वा सः 'तस्य' वैद्यस्य ग्लानस्य वा वेतन - भेषजादिना 'प्रतितर्पिष्यति' उपकरिष्यति । वाशब्दाद् उत्तमार्थप्रतिपन्नस्य वा ममासहायस्य साहाय्यं करिष्यति, स्वयमेव वाऽसावुत्तमार्थं प्रतिपस्त्यते ॥ [ भा. ५१७४] गुरुणो व अप्पणो वा, नाणादी गिण्हमाण तप्पिहिति । चरणे देसावक्कमि, तप्पे ओमा -ऽसिवेहिं वा ॥ वृ तथा गुरोरात्मनो वा ज्ञानम् आदिशब्दाद् दर्शनप्रभावकानि शास्त्रणि गृह्णतोऽसौ भक्तपानादिभिर्वस्त्रादिभिश्चोपकरिष्यति । चरणे यत्र चारित्रं पालयितुंन शक्यते ततो देशादपक्रमणं कुर्वतां मार्गग्रामादिषु स्वजनादिबलाद् भक्त-पानादिभिस्तस्करादिरक्षणतश्चोपकरिष्यति । अवमाऽ शिवयोर्वा प्रतितर्पिष्यति । अत्र चानानुपूर्व्या अपि वस्तुत्वख्यापनार्थं अवमाऽशिवद्वारयोः पर्यन्ते व्याख्यानम् ॥ [भा. ५१७५] एएहि कारणेहिं, आगाढेहिं तु जो उ पव्वावे । पंडाईसोलसगं, कए उ कजे विगिंचणया ॥ वृ- एतैः कारणैरागादैः समुपस्थितैर्य पण्डकादिषोडशकस्यान्यतरं नपुंसकं प्रव्राजयति तेनाऽऽचार्येण 'कृते' समापिते कार्ये तस्य नपुंसकस्य 'विवेचनं' परिष्ठापनं कर्तव्यम् ॥ तत्र प्रव्राजनायां तावद् विधिमाह [ भा. ५१७६ ] दुविहो जानमजानी, अजानगं पन्नवेंति उ इमेहिं । जनपञ्चयट्ठयाए, नजंतमणज्रमाणे वि ॥ Page #166 -------------------------------------------------------------------------- ________________ १६३ उद्देशक ः ४, मूलं-११४, [भा. ५१७६] कृ-द्विविधो नपुंसकः-ज्ञायकोऽज्ञायकश्च । तत्र यो जानाति 'साधूनां त्रैराशिकः प्रव्राजयितुं न कल्पते' स ज्ञायकः, तद्विपरीतोऽज्ञायकः। तत्रज्ञायकमुपस्थितंप्रज्ञापयन्ति-भवान् दीक्षाया अयोग्यः, ततोऽव्यक्तवेषधारी श्रावकधर्मं प्रतिपद्यस्व, अन्यथाज्ञानादीनां विराधनातेभविष्यति। अज्ञायकमप्येवमेव प्रज्ञापयन्ति । अथैनां प्रज्ञापनां नेच्छति प्रव्रज्यामेवाभिलषति आत्मनश्च किञ्चिदशिवादिकं कारणमुपस्थितंततस्तमज्ञायकंजनप्रत्ययार्थम् 'अमीभिः' कटीपट्टकादिभिः प्रज्ञापयन्ति।सचाज्ञायकस्तत्र जनेन ज्ञायमानोऽजायमानो वा स्यादुभयत्राप्ययं विधिकर्तव्यः॥ [भा.५१७७] कडिपट्टए य छिहली, कत्तरिया भंड लोय पाढे य। धम्मकह सन्नि राउल, ववहार विगिचणा विहिना॥ वृकटीपट्टकं स परिधापयितव्यः । छिहली' शिखा तस्य सिरसिधारणीया । अथ नेच्छति ततः कर्त्तयाँ 'भाण्डेन वा' क्षुरेण मुण्डनं विधेयम्, लोचो वा विधातव्यः । “पाडि"त्ति परतीर्थिकमतादीनि स पाठनीयः । कृते कार्ये धर्मकथा कर्तव्या येन लिङ्गं परित्यज्य गच्छति। अथैवं लिङ्गं न मुञ्चति ततः ‘संज्ञिभिः' श्रावकैः प्रज्ञापनीयः ।अथ राजकुलं गत्वा कथयति ततो व्यवहारोऽपि कर्तव्यः । एवं तस्य 'विगिञ्चना' परिष्ठापना 'विधिना' वक्ष्यमाणनीत्या विधेया। एष द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवृणोति[मा.५१७८]कडिपट्टओ अभिनवे, कीरइ छिहली यअम्हऽवेवाऽऽसी। कत्तरिया भंडं वा, अनीच्छे एक्केवपरिहानी ।। वृ-कटीपट्टकोऽभिनवप्रव्रजितस्य तस्य क्रियतेन पुनरग्रावपूरकः, शिरसि च 'छिहलीनाम' शिखा ध्रियते। यदि ब्रूयात्-किंममानावपूरकं सर्वमुण्डनं वा न कुरुत?; ततो वृषभा भणन्तिअस्माकमपिप्रथममेवमेव कृतमासीत्।तच्च मुण्डनं कर्तर्याकर्तव्यम्, अथनेच्छतिततः 'भाण्डेन' क्षुरेण, क्षुरमप्यनिच्छतोलोचः कर्तव्यः । एवमेकैकपरिहाणिर्मन्तव्या।शिखातुसर्वत्रापिधारणीया। [भा.५१७९] छिहलिं तुअनीच्छंते, भिक्खुगमादीमतं पऽनीच्छंते। परउत्थियवत्तव्वं, उक्कमदानं ससमए वि॥ वृ-अथ शिखामपि नेच्छति ततः सर्वमुण्डनमपि विधीयते । पाठस्तु-द्विविधा शिक्षा-ग्रहणे आसेवने च । आसेवनाशिक्षायां क्रियाकलापमसौ न ग्राह्यते । ग्रहणशिक्षायाम्-भिक्षुकाःसौगतास्तेषाम् आदिशब्दात् कपिलादीनांच परतीथिकानां मतमध्याप्यते; अथ तदपि नेच्छति ततः शृङ्गारकाव्यं पाठ्यते, तदप्यनिच्छन्तंद्वादशाङ्गेयानि परतीर्थिकवक्तव्यतानिबद्धानिसूत्राणि तानि पाठयन्ति, तान्यप्यनिच्छतः स्वसमयस्यालापका उत्क्रमेण विलुलिता दीयन्ते॥ आसेवनाशिक्षायां विधिमाह[मा.५१८०] वीयार-गोयरे थेरसंजुओ रत्तिं दूरे तरुणाणं । गाहेह ममं पि ततो, तेरा गाहेंति जत्तेणं॥ वृ-विचारभूमिंगच्छन् गोचरं वा पर्यटन स्थविरसाधुसंयुक्तो हिण्डाप्यते।रात्रौ तरुणानांदूरे क्रियते।तंच साधवो न पाठयन्ति ततो यदिब्रूयात्-मामपि पाठंग्राहयत, ततः स्थविराः साधवो यलेन ग्राहयन्ति ॥ किं तत् ? इत्याह [भा.५१८१]. वेरग्गकहा विसयाण निंदणा उट्ठ-निसियणे गुत्ता। Page #167 -------------------------------------------------------------------------- ________________ १६४ बृहत्कल्प - छेदसूत्रम् - ३-४/११४ चुक्क - खलिएसु बहुसो, सरोसमिव चोदए तरुणा ।। वृ- यानि सूत्राणि वैराग्यकथायां विषयनिन्दायां च निबद्धानि तानि ग्राह्यते, अथवा वैराग्यकथा विषयनिन्दा च तस्य पुरतः कथनीया । उत्तिष्ठन्तो निषीदन्तश्च साधवः 'गुप्ताः' सुसंवृता भवन्ति यथाऽङ्गादानं स न पश्यति । तस्य यदि सामाचार्यां चुक्क- स्खलितानि भवन्ति; चुक्कं नाम - विस्मृतं किञ्चित् कार्यम्, स्खलितं तदेव विनष्टम् ततो ये तरुणास्ते सरोषमिव तं परुषवचोभिर्बहुशो नोदयन्ति येन तरुणेषु नानुबन्धं गच्छति ॥ अथ धर्मकथापदं व्याचष्टे [ भा. ५१८२ ] धम्मकहा पाढिज्जति, कयकज्जा वा से धम्ममक्खति । माहन परं पि लोगं, अनुव्वता दिक्ख नो तुज्झं ॥ वृ- धर्मकथाः वा स पाठ्यते । 'कृतकार्या वा' येन कार्येण दीक्षितस्तं समापितवन्तः “से” तस्य धर्ममाख्यान्ति, यथा-महाभाग ! रजोहरणादि लिङ्गं धारयन् परभवे बोधेरुपघातकरणाय त्वं वर्तसे ततो मा परमपि लोकं 'हन' विनाशय, मुञ्च रजोहरणादि लिङ्गम्, तवाणुव्रतानि धारयितुं , बुध्यन्ते न दीक्षा ।। एवं प्रज्ञापितो यदि मुञ्चति तदा लष्टम्, अथ न मुञ्चति ततः [भा. ५१८३] सन्नि खरकम्पिओ वा, भेसेति कतो इधेस कंचिक्को । निवसिट्टे वा दिक्खितो, एतेहिं अनाते पडिसेहो ॥ वृ- यः खरकर्मिकः संज्ञी स पूर्वं प्रज्ञाप्यते - अस्माभि कारणे त्रैराशिकः प्रव्राजितः, स इदानीं लिङ्गं नेच्छति परित्यक्तुं ततो यूयं प्रज्ञापयत । एवमुक्तोऽसावागत्य गुरून् वन्दित्वा सर्वानपि साधून् निरीक्षते, ततस्तं पण्डकं पूर्वकथितचित्रैरुपलक्ष्य भूमितलास्फालन - शिरः कम्पनखरद्दष्टिनिरीक्षण-परुपवचनैर्भेषयति- कुत एषः 'इह' युष्माकं मध्ये 'कञ्चित्कः' नपुंसकः ? इति तं च ब्रवीति-अपसर साम्प्रतमितः, अन्यथा व्यपरपयिष्यामि भवन्तम् । एवमुक्तोऽपि यदि लिङ्गं न मुञ्चति, खरकर्मिकस्य वा श्रावकस्याभावे यदि नृपस्य कथयति अहमेतैर्दीक्षितः साम्प्रतं पुनः परित्यजन्ति; ततो व्यवहारेण जेतव्यः । कथम् ? इत्याह- यद्यसौ जनेनाज्ञातो दीक्षितस्ततः प्रतिषेधः क्रियते, 'नास्माभिर्दीक्षितः' इति अपलप्यत इत्यर्थः ।। अथासौ ब्रूयात् [भा. ५१८४] अज्झाविओ मि एतेहि चेव पडिसेधो किं वऽधीयं ते । छलियातिकहं कति, कत्थ जती कत्थ छलिया || वृ- अहमेतैरेवाध्यापितस्ततोऽपि प्रतिषेधः कार्य, न किमप्यस्माभिरध्यापित इत्यर्थः । अथवा वक्तव्यम्-किं त्वयाऽधीतम् ? । ततोऽसौ छलितकाव्यादिकथामाकर्षेत् तत्र वक्तव्यम्-कुत्र यतयः ? कुत्र च छलितादिकाव्यकथा ?, साधवो वैराग्यमार्गस्थिताः शृङ्गारकथां न पठन्ति न वा पाठयन्ति । वयमीदृशं सर्वज्ञभाषितं सूत्रं पठामः [भा. ५१८५ ] पुव्वावरसंजुत्तं, वेरग्गकरं सतंतमविरुद्धं । पोराणमद्धमागहभासानियतं हवति सुत्तं ॥ - वृ- यत्र पूर्वसूत्रनिबन्धः पाश्चात्यसूत्रेण न व्याहन्यते तत् पूर्वापरसंयुक्तम् । 'वैराग्यकरं ' विषयसुखवैमुख्यजनकम्। स्वतन्त्रेण- स्वसिद्धान्तेन सहाविरुद्धं स्वतन्त्रविरुद्धम्, 'सर्वथा सर्वकालं सर्वत्र नास्त्यात्मा' इत्यादिस्वसिद्धान्तविरोधरहितमित्यर्थः । 'पोराणं नाम' पुराणैः तीर्थकरगणधरलक्षणैः पूर्वपुरुषैः प्रणीतम् । अर्धमागधभाषानियतमिति प्रकटार्थम् । Page #168 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - ११४, [भा. ५१८५ ] एवंविधमस्मदीयं सूत्रं भवति । किञ्च [ भा. ५१८६ ] जे सुत्तगुणा भणिया, तव्विवरीयाइं गाहए पुव्विं । नित्थिन्नकारणाणं, सच्चेव विगिंचणे जयणा ॥ - ये सूत्रस्य गुणाः “निद्दोसं सारवंतं च, हेउजुत्तमलंकियं ।" इत्यादयः पीठिकायां भणिताः 'तद्विपरीतानि' तद्गुणविकलानि सूत्राणि पूर्वमेव तं ग्राहयेत् । ततः 'निस्तीर्णकारणानां' समाप्तविवक्षितप्रयोजनानां सैव 'विवेचने' परिष्ठापने यतना भवति ॥ एवं व्यवहारेण परिष्ठापनविधिरुक्तः । यस्तु व्यवहारेण न शक्यते परित्यक्तुं तस्यायं विधिः [भा. ५१८७ ] कावालिए सरक्खे, तच्चन्निय वसभ लिंगरूवेणं । वडुंबगपव्वइए, कायव्व विहीए वोसिरणं ॥ वृ- गीतार्था अविकारिणो वृषभा उच्यन्ते, ते कापालिक सरस्क- तच्चनिकवेषग्रहणेन तं परिष्ठापयन्ति । यः वडुम्बकः- बहुस्वजनः प्रव्राजितस्तस्यैवंविधेन विधिना व्युत्सर्जनं कर्तव्यम् ॥ एतदेव भावयति [भा. ५१८८] निववल्लह बहुपक्खम्मि वा वि तरुणविसहामिणं बिंति । भिन्नकहा ओभट्ठा, न घडइ इह वच्च परतित्थि । १६५ वृ- यो नृपस्य वल्लभो बहुपाक्षिको वा प्रभूतस्वजन-मित्रवर्गस्तयोरयं परिष्ठापने विधिः यदा नपुंसको रहसि तरुणभिक्षुमवभाषते भिन्नकथां वा करोति तदा ते तरुणवृऋषभा इदं ब्रुवते"इह यतीनां मध्ये ईध्शं न घटते, यदि त्वमीशं कर्तुकामोऽसि तत उन्निष्क्रमणं कुरु परतीर्थिकेषु वा व्रज ॥ ततो यदि ब्रूयात् [ भा. ५१८९] तुमए समगं आमं, ति निग्गओ भिक्खमाइलक्खेणं । नासति भिक्खुगमादिसु, छोढूण ततो वि हि पलाति ॥ वृ- ‘त्वया सममहं परतीर्थिकेषु गमिष्यामि' एवमुक्तः स तरुणवृषभ आममिति भणित्वा निर्गच्छति । निर्गतश्च भिक्षुकादिवेषेण गत्वा तेषु भिक्षुकादिषु प्रक्षिप्य नश्यति । यः पुनस्तत्र नीतोऽपि तं साधुंन मुञ्चति तं रात्रौ सुप्तं मत्वा 'तत एव' भिक्षुकादिस्थानात् पलायते, भिक्षादिलक्ष्येण वा निर्गतो नश्यति ॥ तओ नो कप्पंति मू. (११५) एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवासित्तए तंजहापंडए वाइए कीवे वृ-यथैते पण्डकादयस्त्रयः प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चित् छलितेन प्रव्राजिता अपि सन्तः ‘मुण्डापयितुं' शिरोलोचेन लुञ्चितुंन कल्पन्ते । एवं 'शिक्षापयितुं प्रत्युपेक्षणादिसामाचारीं ग्राहयितुम् 'उपस्थापयितुं' महाव्रतेषु व्यवस्थापयितुं 'सम्भोक्तुम्' एकमण्डलीसमुद्देशादिना व्यवहारयितुं ‘संवासयितुम्’ आत्मसमीपे आसयितुमिति सूत्रार्थः ॥ अथ भाष्यम् [भा. ५१९०] पव्वाविओ सिय त्ति उ, सेसं पनगं अनायरणजोग्गो । अहवा समायरंते, पुरिमपदऽ निवारिता दोसा ॥ वृ-स पण्डकः 'स्यात्' कदाचिदनाभोगादिना प्रव्राजितो भवेत्, इतिशब्दः स्वरूपपरामर्शार्थः । एवं प्रव्राजितोऽपि यदि पश्चाद् ज्ञातस्तदा "सेसं पणगं" ति विभक्तिव्यत्ययात् 'शेषपञ्चकस्य' Page #169 -------------------------------------------------------------------------- ________________ १६६ बृहत्कल्प-छेदसूत्रम् -३-४/११५ मुण्डापनादिलक्षणस्यानाचरणयोग्यः, न तआचरणीयमिति भावः । अथ लोभाधभिभूततया तदपि समाचरति ततः पूर्वस्मिन्-प्रव्राजनाख्ये पदे ये प्रवचनापयशःप्रवादादयो दोषा उक्तास्ते अनिवारिताः, तदवस्था एव मन्तव्या इति भावः॥ [भा.५१९१] मुंडाविओ सियत्तीस सेसचउक्कं अणायरणजोग्गो। · अहवा समायरंते पुरिमपदऽनिवारिया दोसा ।। वृ-अनाभोगादिनामुण्डापितोऽपिस्यात् ततः शेषचतुष्कस्य' शिक्षापनादिलक्षणस्याचरणे अयोग्यः । अथ समाचरति ततः पूर्वपददोषा अनिवारिताः॥एवं तिस्रोगाथा वक्तव्याः, यथा[भा.५१९२] सिक्खाविओ सियत्ती, सेसतिगस्सा अनायरणजोग्गो। अहवासमायरंते, पुरिमपदऽनिवारिया दोसा ॥ [भा.५१९३] उवठ्ठाविओ सियत्ती, सेसदुगस्सा अनायरणजोग्गो। अहवा समायरंते, पुरिमपदऽनिवारिया दोसा ॥ [भा.५१९४] संभुंजिओ सियत्ती, संवासेउं अनायरणजोग्गो। अहवा संवासिंते, पुरिमपदऽनिवारिया दोसा ।। वृ-एवं षड्विधसचित्तद्रव्यकल्पसूत्राणि क्रमेण भवन्ति ॥तथा चात्रामी दृष्टान्ताः[भा.५१९५] मूलातो कंदादी उच्छुविकारो यजह रसादीया। मिप्पिंड-गोरसाण य, होति विकारा जह कमेणं॥ [भा.५१९६] जह वा निसेगमादी, गब्मे जातस्स नाममादीया। होति कमा लोगम्मिं, तह छव्विह कप्पसुत्ता उ॥ वृ-यथामूलात्कन्द-स्कन्ध-शाखादयो भेदाःक्रमेण भवन्ति, इक्षुविकाराश्च रस-कक्कबादयो यथाक्रमेण जायन्ते, मृत्पिण्डस्यवायथास्थाश-कोश-कुशूलादयो गोरसस्य चदधि-नवनीतादयो विकारा यथा क्रमेण भवन्ति, यथा वा गर्भे प्रविष्टस्य जीवस्य निषेक:-ओजः-शुक्रपुद्गलाहरणलक्षणस्तदादयःआदिशब्दात् कलला-ऽर्बुद-पेशीप्रभृतयः पर्याया भवन्ति, जातस्यवातस्यैव 'नामादयः' नामकरण-चूडाकरणप्रभृतयःक्रमायथा लोकेभवन्ति, तथा षडविधकल्पसूत्राणि यथाक्रमभाविप्रव्राजनादिषट्कविषयाणि क्रमेण भवन्ति। मू. (११६)तओनोकप्पंति वाइत्तए, तंजहा-अविनीए, विगईपडिबद्धे, अविओसवियपाहुडे। तओ कप्पंति वाइत्तए, तंजहा-विनीए, नोविगईपडिबद्धे, विओसवियपाहुडे॥ अस्य सम्बन्धमाह[भा.५१९७] पंडादी पडिकुट्ठा, छव्विह कप्पम्मि मा विदित्तेवं । अविनीयमादितितयं, पवादए एस संबंधो॥ वृ-पण्डकादयस्त्रय एव षड्विधे सचित्तद्रव्यकल्पे प्रतिकुष्टाः नापरे केचित्, एवं विदित्वा 'मा अविनीतादित्रितयं प्रवाचयेद्' इति कृत्वा प्रस्तुतसूत्रमारभ्यते । एष सम्बन्धः॥ प्रकारान्तरेण सम्बन्धमाह[भा.५१९८] सिक्खावणंच मोत्तुं, अविनियमादीण सेसगा ठाणा। ___ नेगंता पडिसिद्धास अयमपरो होइ कप्पो उ॥ Page #170 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-११६, [भा. ५१९८] १६७ वृ-ये पूर्वसूत्रे षट् प्रव्राजनादयो द्रव्यकल्पाः प्रतिपादिताः तेषां मध्यादेकां ग्रहणशिक्षापणां मुक्त्वा शेषाणि स्थानानि अविनीतादीनांत्रयाणां नैकान्तेन प्रतिषिद्धानि । ग्रहणशिक्षाप्रतिषेधार्थ तु प्रस्तुतं सूत्रमारभ्यते । अयमपरः सम्बन्धस्य 'कल्पः' प्रकारो भवति ।। अनेनायातस्यास्य व्याख्या-त्रयो नो कल्पन्ते 'वाचयितुं' सूत्रं पाठयितुमर्थं वा श्रावयितुम् । तद्यथा-'अविनीतः' सूत्रा-ऽर्थदातुर्वन्दनादिविनयरहितः। विकृतिप्रतिबद्धः'घृतादिरसविशेषगृद्धः,अनुपघानकारीति भावः ।अव्यवशमिम्-अनुपशान्तंप्राभृतमिव प्राभृतं-नरकपालकौशलिकंतीव्रक्रोधलक्षणंयस्यासी अव्यवशमितप्राभृतः । एतद्विपरीतास्तु त्रयोऽपि कल्पन्ते वाचयितुम् । तद्यथा-विनीतो नोविकृतिप्रतिबद्धो व्यवशमितप्राभृतश्चेति सूत्रार्थः ।। अथ नियुक्तिविस्तरः[मा.५१९९] विगइ अविनीए लहुगा, पाहुइ गुरुगा य दोसा आणादी। सोय इयरे य चत्ता, बितियं अद्धाणमादीसु॥ कृ-विकृतिप्रतिबद्धमविनीतंच वाचयतश्चतुर्लघुकाः।अव्यवशमितप्राभृतंवाचयतश्चतुर्गुरुकाः। आज्ञादयश्च दोषाः । स च 'इतरे च' साधवः परित्यक्ता भवन्ति । तत्र स तावद् विनयमकुर्वन् ज्ञानाचारविराधयतीतिकृत्वापरित्यक्तः, इतरेच तमविनीतंदृष्टवविनयंन कुर्वन्तीतिपरित्यक्ताः। द्वितीयपदमत्र भवति-अध्वादिषु वर्तमानानां योऽविनीतादिरप्युपग्रहं करोति स वाचनीयः । एषा नियुक्तिगाथा । एनामेव भाष्यकृद् विवृणोति[भा.५२००] अविनीयमादियाणं, तिण्ह विभयणा उ अट्ठिया होति। पढमगभंगे सुत्तं, पढमं बितियं तु चरिमम्मि । वृ-अविनीतादीनांत्रयाणामपि पदानांअष्टिका भजना भवति, अष्टभङ्गीत्यर्थः। यथा-अविनीतो विकृतिप्रतिबद्धोऽव्यवशमितप्राभृतः १अविनीतो विकृतिप्रतिबद्धो व्यवशमितप्राभृतः २ इत्यादि यावदष्टमो भङ्गो विनीतो विकृत्यप्रतिबद्धो व्यवशमितप्राभृतश्चेति । अत्र च प्रथमे भङ्गे प्रथमसूत्रं निपतति, 'चरमे' अष्टमे भङ्गे द्वितीयं सूत्रमिति ॥अथ त्रयाणामपि वाचने यथाक्रमंदोषानाह[भा.५२०१] इहरा वि ताव थब्मति, अविनीतो लंभितो किमुसुएण। मा नट्ठो नस्सिहिती, खए वखारावसेओ तु॥ वृ-'इतरथाऽपि' श्रुतप्रदानमन्तरेणापितावदविनीतः स्तभ्यते' स्तब्धो भवति किं पुनः श्रुतेन लम्भितः सन्?, महिमानमिति शेषः। अतः स्वयं नष्टोऽसौ अन्यानपिमा नाशयिष्यति, क्षते वा क्षारावसेको मा मूदिति कृत्वा नासौ वाचनीयः॥अपिच[भा.५२०२] गोजूहस्स पडागा, सयं पयातस्स वड्डयति वेगं। दोसोदए यसमणं, न होइन निदानतुलं वा॥ वृ-इह गोपालको गवामग्रतो मूत्वा यदा पताकां दर्शयति तदाताः शीघ्रतरं गच्छन्तीति श्रुति; ततो गोयूथस्य स्वयं प्रयातस्ययथापताका वेगंवर्धयतितथादुर्विनीतस्यापिश्रुतप्रदानमधिकतरं दुर्विनयं वर्धयति । तथा दोषाणां-रोगाणामुदये 'चः' समुच्ये 'शमनम्' षधं न दीयते, यतश्च निदानादुत्थितो व्याधितत्तुल्यं-तत्सद्दशमपि वस्तु रोगवृद्धिभयान दीयते; यद्वा दोषोदये दीयमानं शमनंन ननिदानतुल्यं भवति, किन्तु भवत्येव, ततो न दातव्यम्; एवमस्यापि दुर्विनयदोषभरे वर्तमानस्य श्रुतौषधमहितमिति कृत्वा न देवम् ॥ Page #171 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् -३-४/११६ १६८ [ भा. ५२०३ ] विनयाहीया विज्जा, देति फलं इह परे य लोगम्मि । न फलंति विनयहीना, सस्साणि व तोयहीणाई ॥ वृ. विनयेनाधीता विद्या इह परत्र च लोके फलं ददति, जनपूजनीयता- यशः प्रवादलाभादिकमैहिकं निश्रेयसादिकं चाऽऽमुष्किकं फलं ढौकयन्तीति हृदयम् । विनयहीनास्तु ता अधीता न फलन्ति, सस्यानीव तोयहीनानि यथा जलमन्तरेण धान्यानि न फलन्ति ॥ अथ विकृतिप्रतिबद्धमाह [ भा. ५२०४] रसलोलुताइ कोई, विगतिं न मुयति दढो वि देहेणं । अब्भंगेण व सगडं, न चलइ कोई विना तीए ॥ - रसलोलुपतया कश्चिद् देहेन ढोऽपि विकृतिं न मुञ्चति स वाचयितुमयोग्यः । कश्चित् पुनरभ्यङ्गेन विना यथा शकटं न चलति तथा 'तया' विकृत्या विना निर्वोढुं न शक्नोति तस्य गुरूणांमनुज्ञया विधिना गृह्णतो वाचना दातव्येति ॥ किञ्च [ भा. ५२०५ ] उस्सग्गं एगस्स वि, ओगाहिमगस्स कारणा कुणति । गिण्हति व पडिग्गहए, विगतिं वर में विसर्जिता । वृ- योगं वहमानः कश्चिदेकस्याप्यवगाहिमस्य कारणाद् विकृत्यनुज्ञापनाविषयं कायोत्सर्ग करोति । प्रतिग्रहे वा विकृतिं गृह्णाति, वरममुनाऽप्युपायेन मे विकृतिं विसर्जयितारः ॥ एवं मायां कुर्वतः किं भवति ? इत्याह [ भा. ५२०६] अतवो न होति जोगो, न य फलए इच्छियं फलं विज्जा । अवि फलति विउलमगुणं, साहनहीना जहा विजा || वृ- 'अतपाः' तपसा विहीनः 'योगः' श्रुतस्योद्देशनादिव्यापारों न भवति । न च तपसा विना गृह्यमाणा 'विद्या' श्रुतज्ञानरूपा 'ईप्सितं' मनोऽभिप्रेतं फलं फलति, 'अपि' इति अभ्युच्चये, प्रत्युत विपुलम् 'अगुणम्' अनर्थं फलति । यथा साधनहीना विद्या, यस्याः प्रज्ञप्तिप्रभृतिकाया विद्याया उपवासादिको यः साधनोपचारः सा तमन्तरेण गृह्यमाणेति भावः ॥ अथाव्यवशमितप्राभृतं व्याचष्टे [ भा. ५२०७ ] अप्पे वि पारमाणिं, अवराधे वयति खामियं तं च । बहुसो उदीरयंतो, अविओसियपाहुडो स खलु ॥ वृ- 'अल्पेऽपि' परुषभाषमादावपराधे “पारमाणि" परमं क्रोधसमुद्धातं यो व्रजति, 'तच ' अपराधजातं क्षामितमपि यो बहुश उदीरयति स स्वल्वव्यवशमितप्राभृत उच्यते ॥ अस्य वाचने दोषानाह [मा. ५२०८ ] दुविधो उ परिचाओ, इह चोदण कलह देवयच्छलना । परलोगम्मिय अफलं, खित्तम्मि व ऊसरे बीजं ॥ दृ- दुर्विनीतादेरपात्रस्य वाचनादाने 'द्विविधः परित्यागः' इह-परलोकभेदाद् भवति । तत्रेलोकपरित्यागो नाम स यदि स्मारणादिना प्रेर्यते तदा कलहं करोति, अपात्रवाचनेन च प्रमत्तं प्रान्तदेवता छलयेत् । परलोके तु परित्यागः तस्य श्रुतप्रदानं 'अफलं' सुगति-बोधिकालाभादिकं पारत्रिकं फलं न प्रापयति, ऊषर इव क्षेत्रे बीजमुप्तं यथा निष्फलं भवति ॥ Page #172 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-११६, [भा. ५२०८] "सोय इयरे य चत्ता" इति पदं व्याख्याति[भा.५२०९] वाइजति अपत्ता, हनुदानि वयं पिएरिसा होमो। इय एस परिचातो, इह-परलोगेऽनवत्था य॥ वृ-स तावद् ज्ञानाचारविराधकतया संसारंपरिभ्रमतीति परित्यक्तः । इतरेऽपि साधवस्तान् वाच्यमानान् दृष्टवा चिन्तयन्ति-अहो! अपात्राण्यपि यदि वाच्यन्ते “हनुदानि"त्ति ततः साम्प्रतं वयमपीदशाभवामः; "इय" एवं तेषामपिदुर्विनयादीप्रवर्तमानानामिह-परलोकयोः परित्यागः कृतो भवति । अनवस्था चैवं भवति, न कोऽपि विनयादिकंकरोतीत्यर्थः ॥ अथ "द्वितीयपदमध्वादिषु भवति' इति यदुक्तं तद् व्याचष्टे[भा.५२१०] अद्धाण-ओमादि उवग्गहम्मिं, वाए अपत्तं पितु वट्टमाणं। वुच्छिजमाणम्मि व संथरे वी, अन्नासतीए वितुतं पि वाए। वृ-अध्वनि वा अवमौदर्येवा आदिशब्दाद् राजद्विष्टादिषुवा भक्त-पानादिना गच्छस्योपग्रहे वर्तमानम् 'अपात्रमपि' दुर्विनीतादिकं लब्धिसम्पनं वाचयेत् । अथवा किमप्यपूर्वं श्रुतं तस्याऽऽचार्यस्य समस्ति, पात्रभूतश्च शिष्यो न प्राप्यते, तच्चान्यत्रासकाम्यमाणं व्यवच्छिद्यते, ततःसंस्तरणेऽपि अपात्रं वाचयेत् । यद्वा नास्ति तस्यान्यः कोऽपि शिष्यस्ततोऽन्यस्याभावे 'मा सूत्रार्थो विस्मरताम्' इति कृत्वा 'तमपि' अपात्रभूतं वाचयेत् ॥ मू. (११७) तओ दुस्सन्नप्पा पन्नत्ता, तं जहा-दुढे मूढे वुग्गाहिए। वृ.अस्य सम्बन्धमाह[भा.५२११] सम्मत्ते वि अजोग्गा, किमु दिक्खण-वायणास दुट्ठादी। दुस्सन्नप्पारंभो, मा मोह परिस्समो होज्जा ॥ वृ-दुष्टादयस्त्रयः सम्यक्त्वग्रहणेऽप्ययोग्याः किं पुनर्दीक्षण-वाचनयोः?,अतस्तेषांप्रज्ञापने 'मोघः' निष्फलः प्रज्ञापकस्य परिश्रमो मा भूदिति दुःसंज्ञाप्यसूत्रमारभ्यते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयःदुःखेन-कुच्छ्रेण संज्ञाप्यन्ते-प्रतिबोध्यन्त इति दुःसंज्ञाप्याःप्रज्ञप्ताः। तद्यथा-'दुष्टः' तत्त्वं प्रज्ञापकं वा प्रति द्वेषवान्, स चाप्रज्ञापनीयः, द्वेषेणोपदेशाप्रतिपत्तेः । एवं 'मूढः' गुण-दोषानभिज्ञः । 'व्युद्ग्राहितोनाम' कुप्रज्ञापकढीकृतविपरीतावबोधः । एषसूत्रार्थः। अथ भाष्यविस्तरः[भा.५२१२] दुस्सन्नप्पो तिविहो, दुट्ठाती दुट्टो वनितो पुट्विं । मूढस्स य निक्खेवो, अट्ठविहो होइ कायव्वो॥ वृ-दुःसंज्ञाप्यो दुष्यादिभेदात् त्रिविधः। तत्र दुष्टः 'पूर्व पाराञ्चिकसूत्रेयथा वर्णितः तथाऽत्रापि मन्तव्यः । मूढस्य पुनरष्टविधो निक्षेपो वक्ष्यमाणनीत्या कर्तव्यो भवति॥ तत्र पदत्रयनिष्पन्नामष्टभङ्गी तावदाह[मा.५२१३] दुढे मूढे वुगाहिए य भयणा उ अट्ठिया होइ । ___ पढमगभंगे सुत्तं, पढमं बिइयं तु चरिमम्मि ।। वृ-दुष्टो मूढो व्युद्ग्राहित इति त्रिभि पदैरष्टिका भजना भवति, अष्टौ भङ्गा इत्यर्थः । अत्रच प्रथमे भङ्गे प्रथमं सूत्रं निपतति, 'चरमे' अष्टमे भङ्गे अदुष्टोऽमूढोऽव्युद्ग्राहितः' इत्येवंलक्षणे Page #173 -------------------------------------------------------------------------- ________________ १७० बृहत्कल्प-छेदसूत्रम् -३-४/११७ 'द्वितीयं क्ष्यमाणं सूत्रमिति॥अथ मूढस्याष्टधा निक्षेपमाह[भा.५२१४] दव्व दिसि खेत काले, गणणा सारिख अभिभवे वेदे। वुग्गाहणमन्नाणे, कसाय मत्तेय मूढपदा॥ वृ-द्रव्यमूढोदिग्मूढः क्षेत्रमूढः कालमूढोगणनामूढः साध्श्यमूढोऽभिभवमूढो वेदमूढश्चेत्यष्टधा मूढः । तथा "वुग्गाहण"त्ति व्युद्ग्राहणामूढो व्याद्ग्राहित इति चैकोऽर्थः, स च वक्ष्यमाणद्वीपजातवणिक्सुतादिवत्। “अन्नाणि"ति नञः कुत्सार्थत्वाद् 'अज्ञानं' मिथ्याज्ञानम्, तच भारत-रामायणादिकुशास्त्रश्रुतिसमुत्थम्, तेन यो मूढः सोऽपि व्युद्ग्राहितो भण्यते । 'कषायमूढः' तीव्रकषायवान्, सचकषायदुष्टे सर्षपनालादिष्टान्तसिद्धेऽन्तर्भवति। 'मत्तो नाम' यक्षावेशेनमोहोदयेन वाउन्मत्तीभूतः, सचअभिभवमूढ-वेदमूढादाववतरतीति। एतानि मूढपदानि भवन्तीति द्वारगाथासङ्केशार्थः ।। साम्प्रतमेनामेव विवृणोति[भा.५२१५] धूमादी बाहिरतो, अंतो धत्तूरगादिणा दव्वे। जो दव्वं वन जाणति, घडिगावोद्दो व्व दिटुंपि। वृ-इह यो बाह्येनाभ्यन्तरेण वा द्रव्येण मोहमुपगतः स द्रव्यमूढ उच्यते । तत्र बाह्यतो धूमादिनाऽऽकुलितो यो मुह्यति, 'अन्तः' अभ्यन्तरे च धत्तूरकेण मदनकोद्रवोदनेन वा भुक्तेन यो मुह्यति । अथवा यः पूर्वदृष्टं द्रव्यंकालान्तरे ईष्टमपिनजानीते स द्रव्यमूढः । घटिकावोद्रवत्.. एगस्स वाणियस्स पवसियस्स मज्जा पंडरंगेण समं संपलग्गा । पंडरंगेण भन्नति-अनिव्वुयए हियए केरिसी रती ?, विविक्तविनम्भरसो हि कामः, तो नस्सामो। 'माय अयसो होहिति' त्ति अनाहमडयंछोढुंपलीवित्ता नट्ठाणि गंगातडंगयाई।सो वणितोअन्नया आगओघरंदडं पासित्ता तानिय अट्ठियाणि रोविउमाढत्तो। भजासिनेहानुरागेणं एयाणि अट्ठीणि से गंगं नेमि' त्ति तानि अनाहमडयऽट्ठियाणि घडियाए छोढुं गंगं गतो । तीए भजाए य दिट्ठो, न य संजाणति । ताए पुच्छिओ-को तुम? ।तेन अक्खायं-पवसियस्स घरंदह, भज्जा य मे दड्डा, ततो मए भज्जानुरागेणं 'तानि अट्ठियाणिगंगनेमि तिआगतो, 'गंगाए छूटेहिं सुगतिंजाहिति' एवं पित से सेयं करेमि। तीसे अनुकंपा जाया। तीए भणियं-अहं सा तव भजा । न पत्तियति । एयाणि अट्ठियाणि किं अलिक्कयाणि ? । बहुविहं भन्नमाणो जाहे न पत्तियति ताहे तीए जं पुदि कीलियं जंपियं भुत्तं एवमाद सव्वं साभिन्नाणं संवादियंताहे पत्तिजिओ। एस दव्वमूढो । अथ दिग्मूढ-क्षेत्रमूढ-कालमूढानाह[भा.५२१६] दिसिमूढो पुव्वाऽवर, मन्नति खेत्ते तु खेत्तवच्चासं। दिव-रातिविवच्चासो, काले पिंडारदिटुंतो॥ वृ-दिग्मूढो नाम-विपरीतां दिशं मन्यते, यथा-पूर्वामपरामिति । क्षेत्रमूढः-क्षेत्र न जानाति, क्षेत्रस्य वा विपर्यासं करोति, विपरीतमवबुध्यते इत्यर्थः, रात्रौ वा परसंस्तारकमात्मीयं मन्यते, एष क्षेत्रमूढः । कालमूढो दिवसंरात्रिं मन्यते।अत्रपिण्डारदृष्टान्तः- एगो पिंडारगोउमामिगासुतो अब्मवद्दले माहिसदधि-दुद्धं निसढं पाउं दिवसतो सुत्तो । तओ उडिओ निद्दाचमढितो जोण्हं मन्नमाणोदिवाचेव महिसीओघरेसुछोदणउन्मामिगाधरंपद्वितो। 'किमेयं?' तिजणकलकलो जातो तओ विलक्खीभूओ त्ति । एवं दिय-राइविवच्चासं कुणंतो कालमूढो भन्नइ ॥ गणनामूढं Page #174 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-११७, [भा. ५२१६] १७१ सादृश्यमूढं चाह[भा.५२१७] ऊनाधिय मन्नतो, उट्टारूढो व गणणतो मूढो। सारिक्ख थाणुपुरिसो, कुडुबिसंगामदिटुंतो॥ वृ-योगणयन्ऊनमधिकंवामन्यतेस उष्ट्रारूढ इव गणनामूढो भण्यते।जहा-एगो उट्टपालो उट्टीओ एगवीसं रक्खइ । अन्नया उट्टीए आरूढो गणितो जत्थ आरूढो तं न गणेइ, सेसा वीसं गणेइ । पुनो वि गणेइ वीसं । 'नथि मे एगो उट्टो त्ति अन्ने पुच्छइ । तेहिं भणितो-जत्थारूढो सि एसतेइगवीसइमो॥साहेश्यमूढो यथास्थाणुंपुरुषं मन्यते।अत्रचकुटुम्बिनौ-महत्तर-सेनापती तयोः सङ्ग्रामेण दृष्टान्तः- एगो गामो चोरसेणावइणा चोरेहिं समं आगंतूण रत्तीए हतो। तत्थ य गामे जो महत्तरो सो तत्थ चोरसेणावइस्स सरिसो। तओ संगामे उवट्ठिए चोरसेनावई मारितो, गामिल्लएहिं 'महयरो'त्ति मन्नमाणेहिं दड्डो । चोरेहिय गाममहयरो 'सेनावइति काउपल्लिंनीओ। सो भणति-नाहं सेणाहिवो । चोरा भणंति-एस रणपिसइओ त्ति पलवइ । अन्नया सो नासिउं सगामं गतो । ते भणंति-को सि तुमं? पेतो पिसाओ वा तेन पडिरूवेण आगओ? । तओ साभिन्नाणे कहिए पच्छा संगहिओ। उभओ विसयणा सारिक्खमूढा ।। अथाभिभवमूढमाह[भा.५२१८] अभिभूतो सम्मुन्झति, सत्थ-ऽग्गी-वादि-सावयादीहिं । अब्भुदय अनंगरती, वेदम्मितुरायदिटुंतो॥ वृ-सङ्ग्रामादौ खगादिना शस्त्रण, प्रदीपनके वा अग्निना, वादकाले वा वादिना, अरण्येवा श्वापद-स्तेनादिभिश्चाभिभूतो यः सम्मुह्यति सोऽभिभवमूढः। वेदमूढस्तुसउच्यते यः ‘अभ्युदयेन' अतीववेदोदयेन 'अनङ्गरतिम्' अनङ्गक्रीडां करोति । राजदृष्टान्तश्चात्रभवति- जहा आनंदपुरं नगरं । जितारी राया । वीसत्था भारिया । तस्स पुत्तो अनंगो नाम बालते अच्छिरोगेण गहितो निचं रुयंतो अच्छति।अन्नया जननीते नगिनियाए अहाभावेन जानु-ऊरुअंतरे छोढुं उवगूहितो । दो वि तेसिं गुज्झा परोप्परं समप्फिडिता, तहेव तुण्हिक्को ठितो । लद्धोवाया रुवंतं पुनो पुनो तहेव करेति । सो विट्ठायति रुयंतो । पवड्डमाणो तत्थेव गित्यो । मातुए वि अनुप्पियं । पिता से मतो । सो रज्जे ठितो तहावितंमायरं परि जति। सचिवादीहिं वुच्चमाणो विनी ठितो॥ पूर्वोक्तं वक्ष्यमाणं चार्थं सङ्ग्रहीतुमिमां गाथामाह[भा.५२१९] राया य खंतियाए, वणि महिलाए कुला कुडुंबिम्मि। दीवे यपंचसेले, अंधलग सुवन्नकारे य॥ वृ-'राजा' अनन्तरोक्तः खन्तिकायामनुर्को वेदमूढः । वणिग् घटिकावोद्राख्यः स्वमहिलायां रक्तः स्वमहेलामनुपलक्षयन् द्रव्यमूढः । 'कुटुम्बिनः' सेनापतेर्महत्तरस्य च कुलानि साश्यमूढे उदाहरणम् । “दीवे"त्ति द्वीपजातः पुरुषः। “पंचसेले"तति पञ्चशैलवास्तव्याभिरप्सरोभियु ग्राहितःसुवर्णकारः । “अंधलग"ति धूर्तव्युद्ग्राहिताअन्धाः। “सुवन्नगारे"त्ति सुवर्णकारव्युद्ग्राहितःपुरुषः। एते चत्वारोऽपि वक्ष्यमाणलक्षणा व्युद्ग्राहणामूढा मन्तव्याः।एष सङ्ग्रहगाथासमासार्थ ॥साम्प्रतमेनामेव विवृणोति[भा.५२२०] बालस्स अच्छिरोगे, सागारिय देवि संफुसे तुसिणी। उभय चियत्तऽभिसेगे, न ठाति वुत्तो वि मंतीहि ।। Page #175 -------------------------------------------------------------------------- ________________ १७२ बृहत्कल्प-छेदसूत्रम् -३-४/११७ वृ-इदंगाथात्रयं गतार्थम् । नवरम्-"उभय चियत्तऽभिसेगे"त्ति 'उभयोरपि' देवी-कुमारयोः प्रीतिकरं तद् विषयसेवनम् । राज्याभिषेकेऽपि साते तामसौ न मुञ्चति ॥ [भा.५२२१] छोढूणऽनाहमडयं, झामित्तुंघरं पतिम्मि उ पउत्थे। धुत्त हरणुज्झ पति अहिगंग कहिते य सद्दहणा॥ वृ-द्वितीयगाथायाम्-"धुत्तहरणुज्झ"त्तिधूर्तेन तस्यावणिग्भार्याया अपहरणम्। तस्याअपि पतिमुज्झित्वा गङ्गातटे गमनम् ।। [भा.५२२२] सेनावतिस्स सरिसो, वणितो गामिल्लतो निओ पल्लिं । नाहं तिरणपिसाई, घरे विदड्डो त्ति नेच्छंति॥ वृ-तृतीयगाथायाम्-"नाहंति" इत्यादि, महत्तरेण 'नाहंसेनापतिः' इत्युक्तेचौराश्चिन्तयन्तिएष रणपिशाचकीतेनैवं वक्ति।गृहेऽपिगतंतं महत्तरंतेग्रामेयकाः ‘दग्धः' इति कृत्वानेच्छन्ति सङ्ग्रहीतुम् ।। व्याख्यातो मूढः । सम्प्रति व्युद्ग्राहितं व्याचिख्यासुर्तीपजातष्टान्तमाह[भा.५२२३] पोतविवत्ती आवनसत्त फलएण गाहिया दीवं। सुतजम्म वड्डि भोगा, वुग्गाहण नाववणियाऽऽया। वृ- एगो वणितो । तस्स भजा अईव इट्टा । सो वाणिज्जेण गंतुकामोतं आपुच्छति । तीए भणियं-अहं पि आगच्छामि । तेन सा नीता । सा गुठ्विणी समुद्दमज्झे विनटुं जाणवत्तं । सा फलगं विलग्गाअंतरदीवे पत्ता । तत्थेव पसूता दारगं।सो वणिओसमुद्दे मओ।सा महिला तम्मि चेवदारएसंपलग्गा।ताए सोवुग्गाहितो-जइमाणुसं पिच्छिज्जासितो नासेन्जासि, तेमानुसरूवेण रक्खसा । अनया दुव्वायहयपोएण वाणिया आगया। ते दटुं सो नासेइ । तेहिं नायं वुग्गाहिओ केणावि। कहवि अल्लीणोपुच्छिओसव्वं कहेइ । तेहिं बहुसो पन्नविओ-एयंमहापवं, परिचयाहि। तहा विनोपरिचयति ॥अथाक्षरार्थः-'पोतः' प्रवहणं तस्य विपत्ति।आपन्नसत्त्वा च सा फलकेन द्वीपं ग्राहिता । सुतस्य जन्म वृद्धिश्चाभवत्, भोगांश्च तेन सह भोक्तुंमारब्धा । व्युद्ग्राहणकंच कृतम् । नौवणिजश्च चिरादायाताः। एवंविधा व्युद्ग्राहिताः प्रज्ञापनायाअयोग्याः॥तथा चाह[भा.५२२४] पुट्विं वुग्गाहिया, केई, नरा पंडियमानिनो। निच्छंति कारणं किंची, दीवजाते जहा नरे॥ वृ-पूर्वं व्युद्ग्राहिताः केचिद् नराः पण्डितमानिनो नेच्छन्ति कारणं किञ्चित् श्रोतुमिति शेषः, द्वीपजातो यथा नरः ।। अथ पञ्चशैलदृष्टान्तमाह[भा.५२२५] चंपा अनंगसेनो, पंचऽच्छर थेर नयन दुम वलए। विहपास नयन सावग, इंगिनिमरणेय उववातो॥ १- चम्पायामनङ्गसेनः सुवर्णकारः, कुमारनन्दीति तस्य नामान्तरम् । तस्य च पञ्चशैलद्वीपवास्तव्याभ्यामप्सरोभ्यां व्युद्ग्राहितस्य स्थविरेण तत्र नयनम् । 'द्रुमश्च वटवृक्षोऽपान्तरालेष्टः तत्राऽऽरोहणम्।स्थविरस्य 'वलये आवर्ते गत्वामरणम्। 'विहपास'त्ति विहगाः' भारण्डनामानः पक्षिणस्तेषांदर्शनम् ।तैः पञ्चशैलद्वीपेनयनम् । हास-प्रहासाभ्यां भूय इहानीतस्य श्रावकेणच बहुतरंप्रज्ञाप्यमानस्य तस्येङ्गिनीमरणप्रतिपत्ति।ततः पञ्चशैलद्वीपेउपपात इत्यक्षरार्थः। कथानकंतु सुप्रतीतं बहुविस्तरंचेति कृत्वा न लिख्यते ॥अन्धदृष्टान्तमाह Page #176 -------------------------------------------------------------------------- ________________ १७३ उद्देशकः ४, मूलं-११७, [भा. ५२२६] [भा.५२२६] अंधलगभत्त पत्थिव, किमिच्छ सेज्जऽन्न धुत्त वंचणता। अंधलभत्तो देसो, पव्वयसंघाडणा हरणा।। वृ-अन्धभक्तः कश्चित् पार्थिवः । स किमीप्सितं शय्या-ऽन्नादिदानं ददाति । धूर्तेन च तेषां वञ्चना । कथम् ? इत्याह-'अन्धलभक्तोऽमुको देशः समस्ति तत्र युष्मान् नयामः' इत्युक्त्वा पर्वते सङ्घाटना कृता, परस्परंलगयित्वा तत्र भ्रामिता इत्यर्थः । ततः 'हरणं' तदीयं द्रव्यं हृत्वागत इत्यक्षरार्थ । भावार्थ पुनरयम्-अंधपुरं नगरं । तत्थ अनंधो राया। सोय अंधभत्तो तेन सभ काउं अंधलयाणं अग्गाहारो दिनो । तत्थ खाण-पाणाइए सुपरिग्गहिया सुस्सूसिजंता अच्छंति। तेसिं सुबहुं दव्वं अस्थि । अन्नया य एगेन धुत्तेण दिट्ठा । तओ ‘एए मुसामि'त्ति मिच्छोवयारेणं ते अतीव उवचरति । अन्नया तेन अंधलया भणिया-अम्हे अंधलगदासा, जत्थ अम्हे वसामो सो सव्वो विदेसो अंधलगभत्तो, राया य तत्थ अंधलाणं अम्मापियरं, तुब्भे एत्थ दुहिया, जइ इच्छह तो तत्य नेमो । तेहिं इच्छियं । तओ रातो नीणेत्ता नाइदूरेण मणिया-इहऽस्थि चोरा, जइमे किंचि अंतद्धणं अस्थि तो अप्पेह । तेहिं वीसंमेण अप्पियं । तओ तेन ते पुरिल्लं मग्गिल्लस्स लाइत्ता अन्नोन्लग्गा महंतं सिलं छिन्नटंकंडोंगरसमं भामिया भणिया य-पत्थरे गेण्हह, जो भे अल्लियइतं पहणेज्जाह, जइ भे कोइ भणेजा-'मुसिया केन वि अंधा डोंगरं भामिया' जाणह ते चोरे, तओ पहणिज्जाह । एवं भणित्ता पलामो । ते य गोवालमाईहिं दिट्ठा, भणंति य-मुट्ठा वरागा डोंगरं भामियाधुत्तेणं।तओ एतेते चोर'त्तिकाउंपत्थरे खिवंति ढोयंच न देंति॥सुवर्णकारदृष्टान्तमाह[भा.५२२७] लोभेण मोरगाणं, भच्चग! छेज्जेज्न माहुते कन्ना। छादेमिणं तंबेणं, जति पत्तियसेन लोगस्स ॥ वृ-कश्चिद्वोद्रः सुवर्णकारेणभणितः, यथा-'मञ्चक!' भागिनेय! “मोरगाणं" तिकुण्डलानां लोभेनमा 'ते तव कीछिद्येताम्, अतोयदि लोकस्य नप्रत्ययसेततः “ण"मित एतत्कुण्डलयुगलं ताम्रेण छादयाम्यहमित्यक्षराथः । भावार्थस्त्वयम्- एगस्य वोद्दस्स जच्चसुवन्नघडियाणि कुंडलानि कन्नेसुसुवन्नकारेण दिट्ठाणि।तओतेन भन्नइ-भागिणेज्ज! अहंतवएतेएवं करेमि जहा एगानियस्स पंथे वच्चमाणस्स न कोइ हरइ, अन्नहा ते सुब्बलोभेण चोरेहिं कन्ना छेजेस्संति । तेन भणियं-एवं होउ त्ति । कलाएण ते कुंडले घेत्तुं अन्ने सुवन्नरीरियामया कां दिन्ना, भणिओ अ-जणो भणिहिइकलाएण मुट्ठो वराओ, न य ते पत्तिज्जियव्वं । ‘एवं' पडिवजित्ता निग्गओ। लोगो जो जो पासइ सो सो भणइ-सुंदरा रीरिया । सो भणइ-सोवन्निया एए, तुब्भे विसेसं न याणह। किञ्च[भा.५२२८] जो इत्थं भूतत्थो, तमहं जाणे कलायमामो य । वुग्गाहितो न जाणति, हितएहि हितं पि भन्नतो॥ वृ-योऽत्र कोऽपि 'भूतार्थः' परमार्थः तमहं जाने कलादमामकश्च जानाति । एवमसौ तेन सुवर्णकारेण व्युद्ग्राहितो हितैः पुरुषैः हितमपि भण्यमानो न जानाति । ईशा व्युद्ग्राहणामूढा मन्तव्याः ।अज्ञानमूढादयस्तुसुगमत्वाद्भाष्यकृतान व्याख्याताः,अतएवास्माभिरिगाथायामेव व्याख्याता इति । अथैषां मध्ये के मूढाः ? के वा व्युद्ग्राहिता? इति दर्शयन्नाह[भा.५२२९] रायकुमारो वणितो, एते मूढा कुयते दो वि । वुग्गाहिया यदीवे, सेलंधल-भच्चए चेव ॥ Page #177 -------------------------------------------------------------------------- ________________ १७४ बृहत्कल्प-छेदसूत्रम् -३-४/११७ कृयोराजकुमारोमातृप्रतिसेवकः,यश्च वणिग्घटिकावोद्राख्यः,येच ते सेनापति-महतरसत्के द्वे अपि कुले, एते मूढा मन्तव्याः । यस्तु द्वीपजातः, यश्च पञ्चशैलसुवर्णकारः, ये चान्धाः यश्च 'भच्चकः' सुवर्णकारभागिनेयः, उपलक्षणत्वाद्येच भारतादिकुशास्त्रश्रुतिभाविताअज्ञानमूढाः, एते व्युद्ग्राहिता मन्तव्याः॥अथैषां मध्ये के प्रव्राजयितुं योग्याः? केवान? इत्याह[भा.५२३०] मोत्तूण वेदमूढं, अप्पडिसिद्धा उ सेसा मूढा । दुग्गाहिता य दुट्ठा, पडिसिद्धा कारणं मोत्तुं॥ वृ-वेदमूढं मुक्त्वा ये शेषाः' द्रव्य-क्षेत्रमूढादयस्तेऽप्रतिषिद्धाः, प्रव्राजयितुंकल्पन्त इत्यर्थः। ये तु व्युद्ग्राहिताः 'दुष्टाश्च' कषायदुष्टादयस्ते कारणं मुक्त्वा प्रतिषिद्धाः, कारणे तुकल्पन्त इति भावः॥किमर्थमेते प्रतिषिद्धाः? इत्याह[भा.५२३१] जंतेहि अभिग्गहियं, आमरणंताए तं न मुंचंति। सम्मत्तं पिन लग्गति, तेसिं कत्तो चरित्तगुणा ।। वृ-यत् 'तैः' व्युद्ग्राहितादिभिः किमपि शाक्यादिदर्शनम् अन्यद्वा भारतादिकं मिथ्याश्रुतम् 'अभिगृहीतम्' आभिमुख्येनोपादेयतया स्वीकृतं तद् आमरणान्तं न मुञ्चन्ति । अत एवैतेषां सम्यक्त्वमपि न लगति, कुतश्चारित्रगुणाः? इति ॥ कथं पुनरमीषां सम्यक्त्वमपि न लगति? इत्याह[भा.५२३२] सोय-सुय-धोररणमुह-दारभरण-पेयकिञ्चमइएसु। सग्गेसु देवपूयण-चिरजीवन-दानदिढेसु॥ कृ-इह भारतादौशौच-सुत-घोररणमुख-दारभरण-प्रेतकृत्यमयेषुदेवपूजन-चिरजीवन-दानहटेषु च स्वर्गेषु ये भाविता भवन्ति, यथा-शौचविधानात् पुत्रोत्पादनाद् घोरसमरशिरःप्रवेशाद् धर्मपत्नीपोषणात् पिण्डप्रदानादिप्रेत्यकर्मविधानाद् वैश्वानरादिदेवपूजनात् चन्द्रसहस्रादिरूपचिरकालजीवनाधेनु धरित्र्यादिदानात् स्वर्गा अवाप्यन्ते॥ [भा.५२३३] इच्चेवमाइलोइयकुस्सुइवुग्गाहणाकुहियकन्ना। फुडमवि दाइज्जतं, गिण्हंति न कारणं केई॥ वृ-इत्येवमादिलौकिककुश्रुतिव्युद्ग्राहणाकुथितकर्णासन्तस्तस्याः कुश्रुतेरघटनायांस्फुटमपि दर्यमानं कारणम्' उपपत्तिं 'केचिद् गुरुकर्माणोनप्रतिपद्यन्ते अतस्तेदुःसंज्ञाप्या मन्तव्याः॥ मू. (११८) तओ सुसनप्पा पनत्ता, तंजहा-अदुढे अमूढे अवुग्गाहिए। वृ-त्रयः 'सुसंज्ञाप्याः' सुखप्रज्ञापनीयाः प्रज्ञप्ताः। तद्यथा-अदुष्टोऽमूढोऽव्युद्ग्राहितश्चेति॥ आह-पूर्वसूत्रेणैवार्थापत्या इदमवसीयते-यदेतद्विपरीता अदुष्टादयः सुसंज्ञाप्यः ततः किमर्थमिदमारब्धम् ? उच्यते[भा.५२३४] कामं विपक्खसिद्धी, अत्थावत्तीइ होतऽवुत्ता वि। तह विविवक्खोवुच्चति, कालियसुयधम्मता एसा॥ वृ-'कामम्' अनुमतमिदम्-विपक्षस्य प्रतिपक्षार्थस्य सिद्धिरनुक्ताऽप्यर्थापत्या भवति तथापि विपक्षः साक्षादुच्यते । कुतः ? इत्याह-कालिकश्रुतस्य 'धर्मता' स्वभावः शैली एषा-यदर्थापत्तिलब्धोऽप्यर्थः साक्षादभिधीयते । तथा च तल्लक्षणान्येव दर्शयति Page #178 -------------------------------------------------------------------------- ________________ १७५ उद्देशकः ४, मूलं-११८, [भा. ५२३५] [भा.५२३५] ववहार नऽत्थवत्ती, अणप्पिएण य चउत्थभासाए। मूढनय अगमितेन य, कालेन य कालियं नेयं ।। कृ“ववहारे"तिनैगम-सङ्ग्रह-व्यवहाराख्यास्त्रयोव्यवहारनयउच्यते, ऋजुसूत्राधास्तुचत्वारो निश्चयनयः । तत्र 'व्यवहारेण' व्यवहारनयतमतेन कालिकश्रुते प्रायः सूत्रार्थनिबन्धो भवति, “अहिगारोतीहि ओसन्नं"ति वचनात् । “नऽत्थवत्ती"तिअर्थापत्ति कालिकश्रुतेन व्यवह्रियते किन्तु तयालब्धोऽप्यर्थः प्रपञ्चितज्ञविनेयजनानुग्रहाय साक्षादेवाभिधीयते, यथा उत्तराध्ययनेषु प्रथमाध्ययने “आणानिद्देसकरे" इत्यादिना विनीतस्वरूपमभिधायार्थापत्तिलब्धमप्यविनीतस्वरूपम् “आणाअनिद्देसकरे' इत्यादिना भूयः साक्षादभिहितमिति । “अणप्पिएण य"त्ति 'अनर्पितं-विषयविभागस्यानपणंतेन कालिकश्रुतंरचितम्, विशेषाभिधानरहितमित्यर्थः, यथा"जे भिक्खू हत्थकम्मं करेइसे आवजइ मासियं परिहारहाणं अनुग्घाइयं" अत्रच यस्मिन्नवसरे यथा हस्तकर्म सेवमानस्य मासगुरुकं भवति स विशेषः सूत्रे साक्षात्रोक्तः परमर्थादवगन्तव्यः, एवमन्यत्रापि द्रष्टव्यम् । “चउत्थमासाए"त्ति इह सत्या-मृषा-मिश्रा-ऽसत्यामूषाभेदात् चतस्त्र भाषा-। तत्र परेण सह विप्रतिपत्तौ सत्यांवस्तुनःसाधकत्वेनबाधकत्वेन वा प्रमाणान्तरैरबाधिता या भाषा भाष्यतेसा सत्या, सैव प्रमाणैर्बाधिता मृषा, सैव बाध्यमाना-ऽबाध्यमानरूपा मिश्रा या वस्तुसाधकत्वाद्यविवक्षया व्यवहारपिता स्वरूपमात्राभिधित्सया प्रोच्यते सा पूर्वोक्तभाषात्रयविलक्षणाअसत्यामृषानामचतुर्थभाषाभण्यते, सा चामन्त्रण्या-ऽऽज्ञापनीप्रभृतिस्वरूपा, तयाकालिकश्रुतं निबद्धम्: यथा-"गोयमा!" इत्यामन्त्रणी, “सव्वेजीवान हंतव्वा" इत्याज्ञापनी इत्यादि । दृष्टिवादस्तु नैगमादिनयमतप्रतिबद्धनिपुनयुक्तिभिर्वस्तुत-त्वव्यवस्थापकतया सत्यभाषानिबद्ध इति भावः। तथा मूढाः-विभागेनाव्यवस्थापिता नया यस्मिन् तद् मूढनयम्, भावप्रधानश्चायंनिर्देशः, ततोमूढनयत्वेन कालिकंविज्ञेयम्।तथागमाः-भङ्गगणितादयःसशपाठा वातैर्युक्तंगमिकम्, तद्विपरीतमगमिकम्, तेनागमिकत्वेन कालिकश्रुतंज्ञेयम्, “गमियंदिहिवाओ, अगमियं कालियं" (नन्दी) इति वचनात् । कालेन हेतुभूतेन निवृतं कालिकम्, काले-प्रथमचरमपौरुषीलक्षणे पठ्यत इति व्युत्पत्तेः । एतैर्लक्षणैः कालिकश्रुतं ज्ञेयम्।। मू. (११९) निग्गंथिं च णं गिलायमाणिं पिता वा भाया वा पुत्तो वा पलिस्सएजा, तं च निग्गंधी साइजेज्जा, मेहुणपडिसेवणपत्ता आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं॥ मू. (१२०) निग्गंथं च नं गिलायमाणं माया वा भगिनी वा धूता वा पलिस्सएजा, तं च निग्गंथे साइजेज्जा, मेहुणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ।। वृ-अथास्य सूत्रद्वयस्य कः सम्बन्धः? इत्याह[भा.५२३६] उवहयभावंदव्वं, सच्चित्तं इति निवारियं सुत्ते। भावाऽसुभसंवरणं, गिलाणसुत्ते विजोगोऽयं ॥ वृ-दुष्टताभिर्दोषैः उपहतः-दूषितः भावः-परिणामो यस्य तदुपहतभावम्, एवंविधं सचित्तं द्रव्यंप्रव्राजनादौ "इय" एवमनन्तरसूत्रेनिवारितम्।इहापिग्लानसूत्रेऽशुभभावस्य परिष्वजनानुमोदनलक्षणस्य 'संवरणं निवारणं विधीयते।अयं योगः' सम्बन्धः॥अनेनायातस्यास्य व्याख्या'निर्ग्रन्थी' प्रागुक्तशब्दार्थाम्, चशब्दोवाक्यान्तरोपन्यासे, “ण” इति वाक्यालङ्कारे, “गिलायमाणि" . Page #179 -------------------------------------------------------------------------- ________________ १७६ बृहत्कल्प-छेदसूत्रम् -३-४/१२० ति ‘ग्लायन्ती' “ग्लै हर्षक्षये" शरीरक्षयेण हर्षक्षयमनुभवन्तीं पिता वा भ्राता वा पुत्रो वा निर्ग्रन्थः सन् ‘परिष्वजेत्' प्रपतन्ती धारयन् निवेशयन् उत्थापयन् वा शरीरे स्पृशेत्, 'तंच' पुरुषस्पर्श सा निर्ग्रन्थी मैथुनप्रतिसेवनप्राप्ता 'स्वादयेत्' अनुमोदयेत् तत आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ॥एवं निर्ग्रन्थसूत्रमपि व्याख्येयम् । नवरम्-माता वा भगिनी वा दुहिता वा परिष्वजेत् एषसूत्रार्थः॥अथ नियुक्तिविस्तरः-तत्रपरः प्राह-ननु 'पुरुषोतमोधर्म' इति कृत्वा प्रथमं निर्ग्रन्थस्य सूत्मभिधातव्यं ततो निर्ग्रन्थाः, अतः किमर्थं व्यत्यासः? इत्याह[भा.५२३७] कामं पुरिसादीया, धम्मा सुत्ते विवज्जतो तह वि। दुब्बल-चलस्सभावा, जेणित्थी तो कता पढमं॥ वृ-'कामम्' अनुमतमिदम्-यत् 'पुरुषादयः'पुरुषमुख्याधर्माभवन्ति, तथापि सूत्रे विपर्ययः कृतः । कुतः ? इत्याह-दुर्बला-धृतिबलविकला चलस्वभावा च स्त्री येन कारणेन भवति ततः प्रथममसौ कृता इत्यदोषः॥ [भा.५२३८] वइणि त्ति नवरि नेम्मं, अन्ना विन कप्पती सुविहियाणं। अवि पसुजाती आलिंगिउं पिकिमु ता पलिस्सइउं । -इह सूत्रेयद् व्रतिनी निर्ग्रन्थीभणितातद्नवरं नेम' चिह्नम् उपलक्षणंद्रष्टव्यम्, तेनान्याऽपि स्त्री सुविहितानां न कल्पते परिष्वक्तुम् । इदमेव व्याचष्टे-'पशुजातिरपि' छागिकाप्रभृतिपशुजातीयस्त्ररपि आलिङ्गितुंन कल्पते, किमु तावत् परिष्वक्तुम् ?॥ यत् तु सूत्रे परिष्वजनमभिहितं तत् कारणिकम् अत एवाह[भा.५२३९] निग्गंथो निग्गंथिं, इथि गिहत्थं च संजयं चेव। पलिसयमाणे गुरुगा, दो लहुगा आणमादीणि ॥ वृ-निर्ग्रन्थो निर्ग्रन्थी परिष्वजति चतुर्गुरुकाः तपसा कालेन चगुरवः । स्त्रियम्' अविरतिकां परिष्वजतित एव तपसागुरवः । गृहस्थं परिष्वजति चतुर्लघुकाः कालेन गुरवः । संयतंपरिष्वजति त एव द्वाभ्यामपि लघवः' तपसा कालेन च । सर्वत्र चाज्ञादीनि दूषणानि भवन्ति॥ . इदमेव व्याचष्टे[भा.५२४०] निग्गंथी थी गुरुगा, गिहि पासंडि-समणे य चउलहुगा। दोहि गुरू तवगुरुगा, कालगुरूदोहि वी लहुगा॥ वृ-निर्ग्रन्थस्य निर्ग्रन्थी परिष्वजतः चतुर्गुरवो द्वाभ्यामपि गुरुकाः। स्त्रियं परिष्वजतस्त एव तपोगुरवः । गृहस्थं परिष्वजतः चतुर्लघवः कालगुरवः । पाषण्डिपुरुषं श्रमणं वा' परिष्वजतश्चतुर्लघव एव 'द्वाभ्यामपि' तपः-कालाभ्यां लघवः॥ [भा.५२४१] मिच्छत्ते उड्डाहो, विराधना फास भावसंबंधो। आतंको दोण्ह भवे, गिहिकरणे पच्छकम्मंच॥ वृ-निर्ग्रन्थं निर्ग्रन्थींपरिष्वजन्तं दृष्ट्वा यथाभद्रकादयो मिथ्यात्वंगच्छेयुः, एते यथा वादिनस्तथा कारिणोन भवन्ति । उड्डाहो वा भवेत्, एतेसंयतीभिरपि सममेब्रह्मचारिणः । एवं शङ्कायांचतुर्गुरु, निशङ्किते मूलम् । एवं प्रवचनस्य विराधना भवेत् । तेन वा स्पर्शेण द्वयोरपि मोहोदये साते भावसम्बन्धोऽपि स्यात्, ततश्च प्रतिगमनादयो दोषाः । आतङ्को वा द्वयोरन्यतरस्य भवेत् स Page #180 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १२०, [भा. ५२४१ ] परिष्वजने सङ्क्रामेत् । गृहस्थस्य चपरिष्वजनकरणे पश्चात्कर्मदोषो भवेत् ॥ इदमेव पश्चार्द्ध व्याचष्टे [भा. ५२४२] कोढ खए कच्छु जरे, अवरोप्पर संकमंते चउभंगो । इत्थीणाति सुहीण य, अचियत्तं गिण्हणादीया ॥ वृ- कष्ठ-क्षत-कच्छू-ज्वरप्रभृतिके रोगे परस्परं सङ्क्रामति चतुर्भङ्गी भवति संयतस्य सम्बन्धी कुष्ठादि संयत्याः सङ्क्रामति १ संयत्याः सम्बन्धी वा संयतस्य सङ्क्रामति २ द्वयोरप्यन्योन्यं सङ्क्रामति ३ द्वयोरपि न सङ्क्रामति ४ । अत्राद्यभङ्गत्रये रोगसङ्क्रमणकृताः परितापनादयो दोषाः । तथा " इत्थी" इत्यादि, तस्याः स्त्रियः सम्बन्धिनो ये ज्ञातयो ये च सुहृदस्तेषामप्रीतिकं भवति- किमयं श्रमणोऽस्मत्सम्बन्धिनीमित्थमालिङ्गति ? इति । ततश्च ग्रहणाऽऽकर्षणादयो दोषाः ॥ गिहिएसु पच्छकम्मं, भंगो ते चेव रोगमादीया । संजय असंखडादी, भुत्ता ऽभुत्ते य गमनादी ॥ [भा. ५२४३] वृ-गृहिषु परिष्वज्यमानेषु पश्चात्कर्म भवति, 'संयतेन स्पृष्टोऽहम्' इति कृत्वा गृहस्थः स्नानं कुर्यादिति भावः । अविरतिकायाः परिष्वङ्गेभावसम्बन्धोऽपि जायेत, ततश्च 'भङ्गः' ब्रह्मचर्यविराधना भवेत्, रोगसङ्क्रमणादयश्च त एव दोषाः । संयतं तु परिष्वजतस्तेन सहासङ्घडादयो दोषाः । भुक्तभोगिनश्च स्मृतिकरणेनाभुक्तभोगिनः कौतुकेन प्रतिगमनादयो दोषाः । एवं तावन्निष्कारणेऽग्लानायाश्चोक्तम् ॥ [भा. ५२४४ ] एमेव गिलाणाए, सुत्तऽफलं कारणे तु जयणाए । कारणे एग गिलाणा, गिहिकुल पंथे व पत्ता वा ।। १७७ वृ- एमवमेव ग्लानाया अपि संयत्याः परिष्वजने क्रियमाणे दोषजालं मन्तव्यम् । परः प्राहनन्वेवं सूत्रमफलं प्राप्नोति, तत्र हि परिष्वजनमनुज्ञातं स्वादनं पुनः प्रतिषिद्धम् । सूरिराह- कारणे यतनया क्रियमाणे परिष्वजने सूत्रमवतरति । कथं पुनस्तस्य सम्भवः ? इत्याह- कारणे काचिदार्यिका " एग "त्ति एकाकिनी संवृत्ता सा च पश्चाद् ग्लानीभूता, “गिहिकुल "त्ति गृहस्थकुलानिश्रया सा स्थिता, अथवा “गिहिकुल'' त्ति सा तस्यैककुलसमुद्भूता भगिन्यादिसम्बन्धेन निजका गृहस्थतां परित्यज्य तदन्तिके प्रव्रजिता, सा चानीयमाना पथि वा वर्तमाना विवक्षितग्रामं वा प्राप्ता ग्लाना जाता ॥ तत्रेयं यतना[भा. ५२४५] माता भगिनी धूतां, तधेव सन्नातिगा य सड्डी य । गारत्थि कुलिंगी वा असोय सोए य जयणाएं ॥ वृ-तस्याः संयत्या या माता भगिनी दुहिता वा तया तस्या उत्थापनादिकं कार्यते । एतासामभावे या तस्याः 'संज्ञातका' भागिनेयी-पौत्रीप्रभृतिका तया कार्यते । तस्या अभावे श्राद्धिकया । तदभावे गृहस्थया यथाभद्रिकया कुलिङ्गिन्या वा कार्यते । तास्वपि प्रथममशौचवादिनीभि, ततः शौचवादिनीभिरपि यतनया कारयितव्यम् ॥ [भा. ५२४६ ] यासिं असतीए, अगार सन्नाय नालबद्धो य । समणी व नालबद्धो, तस्सऽसति गिही अवयतुल्लो ॥ 2012 Page #181 -------------------------------------------------------------------------- ________________ १७८ बृहत्कल्प - छेदसूत्रम् - ३-४/१२० स वृ- एतासां स्त्रीणामभावे, योऽगारः 'संज्ञातकः' तस्याः स्वजनः, स च मातुल-पुत्रादिरपि स्याद् अतस्तत्प्रतिषेधार्थमाह- 'नालबद्ध - ' वल्लीबद्धः, पित-भ्रात-पुत्रप्रभृतिक इत्यर्थः, उत्थापनादिकं तस्याः कार्यते। तदभावे श्रमणोऽपि यस्तस्या नालबद्धो असमानवयाः । तस्यासति अनाबद्धोऽपि यो गृही वयसा अतुल्यः स कार्यते ॥ [भा. ५२४७] दोत्रि वि अनालबद्धा उ, जुजंती एत्थ कारणे । किढी कन्ना विमज्झा वा, एमेव पुरिसेसु वि ॥ वृ- नालबद्धाभावे 'द्वावपि' स्त्री-पुरुषावनालबद्धपि 'कारणे' आगाढे उत्थापनादिकं कारयितुं युज्यन्ते । तत्रापि प्रथमं “किढि” त्ति स्थविरा स्त्री कार्यते । तदभावे कन्यका । तदप्राप्तौ मध्यमा। एवं पुरुषेष्वपि वक्तव्यम् ।। अमुमेवार्थं पुरातनगाथया व्याख्यानयति 4 [भा. ५२४८ ] असई माउवग्गे, पिता व भाता व से करेज्जाहि । दोह वि तेसिं करणं, जति पंथे तेन जतणाए ॥ वृ- मातृवर्गो नाम-स्त्रीजनः तस्याभावे यः तस्याः संयत्याः सम्बन्धी पिता वा भ्राता वा स उत्थापनादिकं करोति । “दोण्ह वि” इत्यादि, द्वयोरपि तयोः करणम्, किमुक्तं भवति ? - पथि वर्तमानायाः प्राप्ताया वा अथवा निजकाया वा अनिजकाया वा अनन्तरोक्तविधिना तस्या उत्थापनादिकं कर्तव्यम् । यदा च पथि ग्लाना संवृत्ता तदा स्वयमेव 'यतनया' गोलकञ्चुकतिरोधानरूपया तस्याः परिकर्म करोति । अथवा “दोण्ह वि"त्ति विभक्तिव्यत्ययाद् द्वाभ्यामपि द्रष्टव्यम् । तत्रायमर्थः [ भा. ५२४९] थी पुरिस नालऽनाले सपक्ख परपक्ख सोयऽसोये य । गाढम्म उज्जे, करेति सव्वेहि जतणाए । वृ- आगाढे कार्ये स्त्रिया वा पुरुषेण वा नालबद्धेन वा अनालबद्धेन वा स्वपक्षेण वा परपक्षेण वा शौचवादिना वाऽशौचवादिना वा सर्वैरपि यतनया कारयति ।। - [भा.५२५०] पंथम्मि अपंथम्मि व, अन्नस्सऽ सती सती वऽ कुणमाणो । अंतरि कंचुकादी, सचिय जतना तु पुव्वत्ता ॥ वृ- पथि अपथि वा वर्तमानाया अन्यस्याभावे यद्वा विद्यतेऽन्यः परं स भणितोऽपि न करोति ततः स्वयमेव कुर्वन् गोपालकञ्चुकादिभिरन्तरितः करोति । अत्र च सैव पूर्वोक्ता यतना मन्तव्या या तृतीयोद्देशके प्रथमसूत्रे ग्लानसंयत्याः प्रतिचरणे प्रतिपादिता ॥ एवं तावदेकाकिनः साधोर्विधिरुक्तः । अथ गच्छे तमेवाह [मा. ५२५१] गच्छम्मि पिता पुत्ता, भाता वा अज्जगो व नत्तू वा । एतेसिं असतीए, तिविहा वि करेति जयणाए । वृ- गच्छे वसतां यदि तस्याः पिता पुत्रो भ्राता वा 'आर्यको वा' पितामहादि 'नप्ता वा ' पौत्रोऽस्ति ततः संयतीनामपरस्य वा स्त्रीजनस्याभावे तैः कर्त्तव्यम् । 'एतेषां' पितृप्रभृतीनामभावे 'त्रिविधा अपि' स्थविर-मध्यम-तरुणाः साधवः 'यतनया' गोपालकञ्चुकतिरोहिताः कुर्वन्ति ।। इदं गच्छे प्राप्ताया अभिहितम्, अथ पथि वर्तमानाया उच्यते [भा. ५२५२] दोन वि वयंति पंथं, एक्तरा दोनि वा न वञ्चंती । Page #182 -------------------------------------------------------------------------- ________________ १७९ उद्देशकः ४, मूलं-१२०, [भा. ५२५२] . तत्य विस एव जतणा, जा वुत्ता नायगादीया ॥ कृ-'द्वे अपि' निजका-ऽनिजके संयत्यौ पन्थानं व्रजतः, एकतरा वा व्रजति, द्वे अपि न व्रजतः, एवमेते त्रयः प्रकाराः । अत्र तृतीयः प्रकारः शून्यः, स्थानस्थितानां वा अशक्नुवतां गच्छमप्राप्तानां वा भवति । त्रिष्वपि चामीषु यतना सैव मन्तव्या या पूर्व ज्ञातकादिक्रमेण गच्छे प्राप्तायाः प्रोक्ता॥ [भा.५२५३] एवं विकीरमाणे, सातिजने चउगुरू ततो पुच्छा। तम्मि अवत्थाय भवे, तहिगंच भवे उदाहरणं ॥ वृ- 'एवमपि' यतनया क्रियमाणे परिकर्मणि यदि सा निर्ग्रन्थी पुरुषस्पर्श स्वादयति तदा चतुर्गुरवो द्वाभ्यामपि तपः-कालाभ्यां गुरवः । “ततो पुच्छ"त्ति ततः शिष्यः पृच्छति- यस्यां ग्लानावस्थायामुत्थातुमपि न शक्यते तस्यामपि मैथुनाभिलाषो भवतीति कथं श्रद्धेयम् ? । सूरिराह-'तत्र' इति ताद्दगवस्थायामपि मोहोदये इदमुदाहरणं भवेत्॥ [भा.५२५४] कुलवंसम्मि पहीणे, सस-भसएहिं च होइ आहरणं। सुकुमालियपव्वजा, सपच्चवाता य फासेणं॥ वृ-शशक-भसकाभ्यामाहरणं भवति । कथम्? इत्याह-कुलवंशे सर्वस्मिन् अशिवेन प्रक्षीणे सतिसुकुमारिकायाः प्रव्रज्या ताभ्यांदत्ता ।साचातीवसुकुमारा रूपवतीच।ततस्तेन स्पर्शदोषेण उपलक्षणतया रूपदोषेण च सप्रत्यपाया जाता ॥ एनामेव नियुक्तिगाथां व्याख्याति[भा.५२५५] जियसत्तुनरवरिंदस्स अंगया सस-भसा य सुकुमाली। धम्मे जिनपनत्ते, कुमारगा चेव पव्वइता॥ [भा.५२५६] तरुणाइन्ने निचं, उवस्सए सेसिगाण रक्खट्ठा। गणिणि गुरु-भाउकहणं, पिहुवसए हिंडए एको। [भा.५२५७] इक्खागा दसभागं, सव्वे वियवण्हिणो उछब्मागं। अम्हं पुन आयरिया, अद्धं अद्धेण विभयंति॥ [मा.५२५८] हत-महित-विप्परद्धे, वण्हिकुमारेहि तुरुमिणीनगरे। किं काहिति हिंडतो, पच्छा ससतो व भसतो वा॥ [भा.५२५९] भायऽनुकंप परिन्ना, समोहयं एगो भंडगं बितितो। . आसत्थ वणिय गहणं, भाउग सारिक्ख दिक्खा य॥ वृ-इहेव अड्डभरहे वनवासीए नगरीए वासुदेवजेट्ठभाउणो जराकुमारस्स पउप्पए जियसत्तू राया। तस्स दुवे पुत्ता ससओ भसओ य, धूया य सुकुमालिया नामेणं । अन्नया ते भाउणो दो वि पव्वइया, गीयत्था जाया, सन्नागदंसणत्थं आगया ।नवरंसव्वो विकुलवंसोपहीणोसुकुमालियं एवं मोत्तुं । सा तेहिं पव्वाविया, तुरमिणि नगरिं गया, महयरियाए दिन्ना । सा अतीव रूववई जओजओभिक्खा-वियारादिसुवच्चइतओतओतरुणजुवाना पिट्ठतो वच्चंति।वसहीए पविट्ठए वितरुणा उवस्सयं पविसित्ता चिट्ठति । संजईओ न तरंति पडिलेहणाइ किंचि काउं ताहे ताए महयरियाए गुरूणं कहियं-सुकुमालियाए तणएणं मम अनातो वि विणस्सिहिति । ताहे गुरुणा ससग-भसगा भणिता-सारक्खह एतं भगिनिं । तेतं घेत्तुंवीसुंउवस्सएठिया । तेसिं एगो भिक्खं Page #183 -------------------------------------------------------------------------- ________________ १८० बृहत्कल्प-छेदसूत्रम् -३-४/१२० हिंडइ, एगो तं पयत्तेण रक्खइ। दो वि भायरो साहस्सम्ला जे तरुणा अहिवडंति ते हत-महिते काउंधाडेति। ते यविरहिया भिक्खन देंति।तओसोएगो भिक्खं हिंडतो तिण्हंपज्जत्तंन लहइ। बिइओ पच्छा देसकाले फिडिए हिंडतो न संथरइ ताहे सा भणइ-तुब्मे दुक्खिया मा होह, अहं भत्तं पञ्चक्खामि । पच्चक्खाए मारणंतियसमुग्घाएणं समोहया । तेहिं नायं-कालगय त्ति । ताहे एगेणंउवगरणंगहियं, बिइएणंसा गहिया। गच्छंताणंताएईसित्तिपुरिसफासो वेइओसाइज्जियं च । तओ ते तं परिठवित्ता गया गुरुसगासं । इयरी रत्तीए सीयलवाएणं समासत्था सचेयणा जाया।गोसे एगेणंसत्थवाहपुत्तेणं दिट्ठा।ताएसो भणिओ-जइते भएकजंतोसारवेहि।सा तेन सारविया महिला से जाया। तेभायरो अन्नया भिक्खं हिंडते दटुं पाएसु पडिया परुन्ना । सा तेहिं सारिक्खेण पञ्चभिन्नाया पुनो पववाविया। एवंजइतावतीए समुग्घायगयाए साइज्जियं, किमंग पुन इयरी गिलाणी न साइजिज्जा?॥ अथाक्षरार्थः-जितशत्रुनरवरेन्द्रस्य 'अङ्गजौ' पुत्रौ शशक-भसकौ सुकुमारिका च दुहिता । ततो जिनप्रणीते धर्मे कुमारकावेव तौ प्रव्रजितौ । क्रमेण च ताभ्यां भगिन्यपि प्रव्राजिता ॥ ततस्तस्या रुपदोषेण तरुणैराकीर्णे नित्यमुपाश्रये शेषसाध्वीनां रक्षणार्थं गणिन्या गुरवे निवेदितम्। गुरुभिश्चभ्रात्रौः कथितम्।ततः पृथगुपाश्रयेतांगृहीत्वा स्थितौ। तयोर्मध्यादेको भिक्षार्थं हिण्डते, एकस्तां रक्षति ।। किमर्थं पुनस्तस्या रक्षणमेवं तौ कृतवन्तौ ? इत्याह-“इक्खागा" इत्यादि । 'इक्ष्वाकवः' इक्ष्वाकुवंशनृपतयः प्रजाः सम्यक् पालयन्तोऽपालयन्तश्च यथाक्रमं तदीयपुण्यपापयोर्दशभागं लभन्ते । सर्वेऽपि च 'वृष्णयः' हरिंशनृपतय एवमेव षड्भागं लभन्ते। अस्माकं पुनः प्रवचने आचार्यासाधु-साध्वीजनंसंयमा-ऽऽत्म-प्रवचनविषयप्रत्यपायेभ्यः सम्यक्पालयन्तो अपालयन्तोवा यथाक्रमं पुण्यं पापंचार्द्धमर्द्धन विभजन्ति, अतएव तौतारक्षितवन्ताविति भावः ॥ __ ततश्च-“विण्हिकुमारेहि"तिवृष्णयः-यादवास्तेषांकुमारौवृष्णिकुमारी, शशकभसकावित्यर्थः, ताभ्यां तुरुमिणीनगर्यां उपसर्गकारि तरुणजनो भूयान् हत-मथित-विप्रारब्धः कृतः । तत्र हतश्चपेटादिना, मथितः-मानम्लानिंप्रापितः, विप्रारब्धः-विविधं-खर-परुषवचनैप्रकर्षणनिवारितः। तत एवं प्रभूतलोके विराधिते सति किं करिष्यति पश्चाद् भिक्षां हिण्डमानःशशको भसको वा भक्त-पानलाभाभावात् ?, नकिमपीति भावः॥ ततः सुकुमारिकाया भ्रात्रोरनुकम्पया परिज्ञा' भक्तप्रत्याख्यानम्। ततोमरणसमुद्धातेन 'समहवहता कालगतेयमिति ज्ञात्वा एकः 'भाण्डम्' उपकरणं द्वितीयस्तां गृहीतवान् । ततः शीतलवातेन आश्वस्तायाः तस्या वणिजा ग्रहणम्, कालान्तरेण च भ्रातृभ्यां साक्ष्येण प्रत्यभिज्ञाय दीक्षा प्रदत्तेति ॥ व्याख्यातं निर्ग्रन्थीसूत्रं । अथ निर्ग्रन्थसूत्रं व्याचष्टे[भा.५२६०] एसेव गमो नियमा, निग्गंथीणं पि होति नायव्वो। तासिं कुल पव्वजा, भत्तपरित्राय भातुम्मि॥ वृ-एष एव गमो निर्ग्रन्थस्य परिष्वजनं कुर्वतीनांनिर्ग्रन्थीनांज्ञातव्योभवति।नवरम्-'तासां' निर्ग्रन्थीनांसम्बन्धी "कुल"त्तिएककुलोद्भवोभ्रातारूपवान्प्रव्रजितस्तस्यापिक्रमेण भक्तपरिज्ञा साता ।। इदमेव व्याचष्टे[भा.५२६१] विउलकुले पव्वइते, कप्पट्ठग किढियकालकरणं च । Page #184 -------------------------------------------------------------------------- ________________ ___ १८१ उद्देशकः ४, मूलं-१२०, [भा. ५२६१] . जोव्वण तरुणी पेल्लण, भगिनी सारक्खणा वीसुं॥ [भा.५२६२] सोचेव यपडियरणे, गमतो जुवतिजन वारण परिना। कालगतो त्ति समोहतो, उज्झण गणिया पुरिसवेसी॥ वृ-क्वापि विपुलकुले समुद्भूतंभगिनीद्वयंप्रव्रजितम्।ततः कुलवंशस्तथैवसर्वोऽपिप्रक्षीणः। नवरमेकः कल्पस्थकोजीवति। ततः संज्ञातकदर्शनायागतेनतेनार्यिकाद्वयेन किढिका-स्थविरा मातेत्यर्थः तत्प्रभृतिकुटुम्बस्य कालकरणं श्रुतम् । सचकल्पस्थकः प्रव्राज्य गुरूणांदत्तः। यौवनं च प्राप्तोऽसावतीव रूपवान् समजनि, ततस्तरुणीभिः प्रेर्यते । ततो गुरूणामाज्ञया ते भगिन्यौ विष्वगुपाश्रये नीत्वा संरक्षितवत्यौ ॥ कथम् ? इत्याह-स एव 'प्रतिचणे' रक्षणे गमो भवति यः सुकुमारिकायाउक्तः एवं युवतिजनवारणे क्रियमाणेतस्य भगिनीदुःखंतथाविधं दृष्ट्वा भक्तपरिज्ञा। ततः समवहतः कालगत इतिविज्ञाय उज्झन परिष्ठापनम्।तस्य च स्त्रस्पर्शेन समाश्वासितस्य पुनश्चैतन्ये सजाते पुरुषद्वेषिण्यागणिकया ग्रहणम्। ततस्तस्याः पति सञ्जातः।कियत्यपि काले गते समागताभ्यां भगिनीभ्यां प्रत्यभिज्ञाय भूयः प्रव्राजित इति॥ मू. (१२१) नो कप्पइ निग्गंथाण वा निग्गंथीण वा असनं वा पानं वा खाइमं वा साइमं वा पढमाए पोरिसीए पडिग्गाहित्ता पच्छिमं पोरिसिं उवाइणावित्तए । से य आहच्च उवाइणाविए सिया तं नो अप्पणा भुंजिज्जा, नो अन्नेसिं अनुप्पएज्जा, एगंते बहुफासुए थंडिले पडिलेहित्ता पमज्जिता परिट्टवेयव्वे सिया । तं अप्पणा भुंजमाणे अन्नेसिं वा दलमाणे आवजइ चाउम्मासियं परिहारट्ठाणं उग्धाइयं॥ मू. (१२२) नो कप्पइ निग्गंथाण वा २ असनं वापरं अद्धजोयणमेराए उवायणावित्तए। सेय आहच्च उवाइणाविए सिया तंनोअप्पणा भुंजिजा जाव आवजइ चाउम्मासियंपरिहारहाणं उग्घाइयं॥ वृ-अस्य सूत्रद्वयस्य सम्बन्धमाह[भा.५२६३] भावस्स उ अतियारो, मा होज इती तु पत्थुते सुत्ते। कालस्स य खेत्तस्स य, दुवे उ सुत्ता अनतियारे ।। वृ-'भावस्य' ब्रह्मव्रतपरिणामस्य 'अतिचारः' अतिक्रमो मा भूदिति अनन्तरप्रस्तुते सूत्रे प्रतिपादिते।अथ कालस्य च क्षेत्रस्य चातिचारः-अतिक्रमो मा भूदिति द्वे सूत्रे प्रारभ्येते॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनांवा अशनं वा पानं वाखादिमं वा स्वादिमंवा प्रथमायां पौरुष्यांप्रतिगृह्य पश्चिमांपौरुषी “उवाइणावित्तए"त्ति उपानाययितुं' सम्प्रापयितुमिति।तच “आहच्च"कदाचिद्उपानायितं स्यात्ततः तद्' अशनादिकंनाऽऽत्मना भुञ्जीत न वा अन्येषां साधूनामनुप्रदद्यात् । किं पुनस्तर्हि विधेयम् ? इत्याह-एकान्ते बहुप्राशुके स्थण्डिले प्रत्युपेक्ष्यचक्षुषा प्रमृज्यरजोहरणेनपरिष्ठापयितव्यं स्यात्।तद् आत्मना भुआनोऽन्येषां वा ददान आपद्यतेचातुर्मासिकंपरिहारस्थानमुद्धातिकम्॥एवं क्षेत्रातिक्रान्तसूत्रमपि वक्तव्यम्। नवरम्-अर्द्धयोजनलक्षणाया मर्यादाया अतिक्रामयितुमशनादिकंन कल्पते। स्यात्तदुपानायितं भवेत् ततो यः स्वयं तद् भुङ्क्तेऽन्येषां वा ददाति तस्य चतुर्लघुकमिति सूत्रद्वयार्थः॥ - अथ नियुक्तिविस्तरः Page #185 -------------------------------------------------------------------------- ________________ - १८२ बृहत्कल्प-छेदसूत्रम् -३-४/१२२ [भा.५२६४] बितियाउ पढम पुट्विं, उवातिणे चउगुरुंच आणादी। दोसा संचय संसत्त दीह साणे य गोणे य॥ वृ-आस्तां तावत् पश्चिमाचतुर्थी पौरुषी किन्तु द्वितीयायाः पौरुष्याः प्रथमाऽपिपूर्वाभण्यते प्रथमायाश्च द्वितीया पाश्चात्या, एवं तृतीयाया द्वितीया पूर्वा द्वितीयायास्तृतीया पाश्चात्या, चतुस्तृितीया पूर्वा तृतीयस्याश्चतुर्थी पश्चिमा । ततः प्रथमायाः पौरुष्या द्वितीयायामशनादिकमतिक्रामयतश्चतुर्गुरुकम्, आज्ञादयश्च दोषाः। तथा सञ्चयो भवति । चिरं चावतिष्ठमानं तदशनादिकंप्राणिभिसंसक्तंभवति।दीर्घजातयोवाश्वावासमागच्छेत्ततःसद्रवभाजनव्यग्रहस्त उत्थातुमशक्नुवन् ताभ्यांखाद्येत । 'गौः' बलीवर्दस्तेन वा हन्येत । अत्राऽऽत्मविराधनानिष्पन्नं चतुर्गुरु।तद्भयेन च इतस्ततःस्दमानो भाजनं भिन्द्यात्तत्रचतुर्लघु।तेन चविनायापरिहाणिस्तनिष्पन्नम् । अथैतेषां भयानिक्षिपति ततश्चतुर्लघु ॥ [भा.५२६५] अगनि गिलाणुचारे, अब्मुट्ठाणे य पाहुण निरोधे। . सज्झायविणय काइय, पयलंत पलोट्टणे पाना॥ - “अगनि" त्ति अग्नावुत्थिते भाजनमारव्यापृत्वेनानिर्गच्छन् दह्येत, तत्प्रतिबन्धेन वा उपधेर्दाहो भवेत् तत्रोपधिनिष्पन्न प्रायश्चित्तम् । ग्लानस्य वैयावृत्यमुद्वर्तनादिकं भारव्यापृतोन करोति, अक्रियमाणे परितापनादिकंस प्राप्नुयात् तनिष्पनं चतुर्लघुकादि पाराञ्चिकान्तम्, अथ निक्षिप्य करोति ततो मासलघु । तेन परिगृहीतेनोच्चारं व्युत्स्रष्टु न शक्नोति ततो धारयतो ग्लानत्वारोपणा, अथ गृहीतेन व्युत्सृजति तत उड्डाहः । गुरूणां प्राघुणकस्य चाऽभ्युत्थानं न करोति चतुर्लघु, अथ करोति ततो भाजनभेदादयो दोषाः । मृतभाजनधारणे गात्रनिरोधेनासभाधिर्भवेत् । तथास्वाध्यायंन प्रस्थापयति।आचार्यादीनांपादप्रक्षालनादिकं विनयंन करोति । कायिकीं न व्युत्सृजति, गृहीतेन वा व्युत्सृजति । प्रचलायमानस्य वा भाजनं प्रलुठेत्, तस्य च प्रलोठने पानकादिना प्लाव्यमानाः प्राणिनो विपद्यन्ते ॥ अथामूनेव सञ्चयादिदोषान् व्याचष्टे[भा.५२६६] निस्संचयाउ समणा, संचयितु गिहीव होतिधारेंता। संते अनुवभोगो, दुक्खं च विगिंचिउं होति ।। वृ-निस्सञ्चयाः श्रमणा उच्यन्ते, ततो यदितेऽपिगृहीत्वाधारयन्ति तदा गृहिण इवसञ्चयिनो भवन्ति । चिरं चावतिष्ठमानं तद् भक्त-पानं संसज्येत । संक्तं च साधूनामुपबोक्तुंन कल्पते, 'विवेक्तुं च' परिष्ठापयितुं तद् दुःखं भवति, यतस्तत्र परिष्ठाप्यमाने यैः प्राणिमि संसक्तं ते विनाशमश्नुवते॥ [भा.५२६७] एमेव सेसएसु वि, एगतर विराधना उभयतो वि। असमाधि विनयहानी, तप्पञ्चयनिजराए य॥ वृ-एवमेव शेष्वपि' दीर्घादिषु द्वारेषुभावना कर्तव्या, साचप्रागेवकृता।तथा 'एकतरस्य' साधो जनस्यवा विराधनआ धईरअघजातीयदिषु भवति । उभयम्-आत्मा संयमश्चेति द्वयं तस्यविराधनाउभयविराधना। “असमाहि" तिअग्निनादह्यमानस्यासमाधिमरणंभारेणाक्रान्तस्य वा असमाधि-दुःखेनावस्थानं भवेत् । गुरुप्रभृतीनां च विनयहानि कुर्वतस्तप्रत्ययनिर्जराया Page #186 -------------------------------------------------------------------------- ________________ १८३ - - उद्देशकः ४, मूलं-१२२, [भा. ५२६७] अपि हानिर्भवति॥ [भा.५२६८] पच्छित्तपरूवणता, एतेसि ठवेंतए यजे दोसा। गहितकरणं य दोसा, दोसा य परिहवेंतस्स ।। वृ-'एतेषां' सञ्चयादीनां सर्वेषामपि प्रायश्चित्तप्ररूपणा कर्तव्या, साच प्रागेवलेशतः कृता। 'स्थापयतः' निक्षिपतश्च ये दोषाः, ये च गृहीतेन कार्याणि कुर्वतो भाजनभेदप्रभृतयो दोषाः, ये च परिष्ठापयतो दोषास्तेऽपि वक्तव्या इति॥ [भा.५२६९] तम्हा उ जहिं गहितं, तर्हि भुंजणे वज्जिया भवे दोसा। एवं सोदि न विञ्जति, गहणे वि य पावती बितियं ॥ वृ-यत एतावन्तो दोषाः तस्माद्यस्यामेव पौरुष्यां गृहीतं तस्यामेव भोक्तव्यम् । एवं कुर्वता दोषाः पूर्वोक्ता वर्जिता भवन्ति । परः प्राह-नन्वेवं शोधिन विद्यते यतः 'गहणे विति यावद् भिक्षां गृह्णाति तावदेव द्वितीयां पौरुषीं प्राप्नोति ॥ सूरिराह[भा.५२७०] एवं ता जिनकपे, गच्छम्मिचउत्थियाएजे दोसा। इतरासि किन्न होती, दव्वे सेसम्मिजतणाए॥ वृ एवं तावञ्जिनकाल्पिकानामुक्तं यदुत 'यस्यामेव गृहीतं तस्यामेव भोक्तव्यम् । गच्छवासिनस्तुप्रथमायां गृहीत्वा यदिचतुर्थीमतिकामयन्तितदा ये सञ्चयादयोदोषाउक्तास्तान् प्राप्नुवन्ति। भूयोऽपि परःप्रेरयति-'इतरयोः' द्वितीय-तृतीययोः पौरुष्योरशनादिद्रव्यं वारयतां किमेते दोषान भवन्ति ? ।गुरुराह-भवन्ति, परंद्रव्ये भुक्तशेषे कारणे यतनया धार्यमाणे दोषा न भवन्ति ।। कथं पुनस्तदुद्वरितं भवति? इत्याह[भा.५२७१] पडिलाभणा बहुविहा, पढमाए कदाचि नासिमविणासी। तत्थ विनासिं भुंजेऽजिन्ने परिने य इतरं पि॥ वृ-अभिगतश्राद्धेनदानश्राद्धेनवा कचित्प्रकरणेप्रथमपौरुष्यांबहुविधा प्रतिलाभना कृता, बहुभिर्भक्ष्य-भोज्यद्रव्यैरित्यर्थः । तञ्च द्रव्यं द्विवा-विनाशि अविनाशि च । क्षिरादिकं विनाशि, अवगाहिमादिकमविनाशि।तत्रयविनाशिद्रव्यं तद्नमस्कार-पौरुषीप्रत्याख्यानवान्तो भुञ्जते। शेषसाधूनां यद्यजीर्णं यदि वा तैः परिज्ञातं-तस्या नमस्कार-पौरुषीप्रत्याख्यानवान्तो भुते । शेषसाधूनां यद्यजीर्णं यदि वा तैः परिज्ञातं-तस्या विकृतेः प्रत्याख्यानं कृतम् अभक्तार्थो वा प्रत्याख्यातः आत्मार्थिका वाते ततः 'इतरदपि' अविनाशि द्रव्यमपि भुञ्जते॥अमुमेवार्थव्याचष्टे[भा.५२७२] जइ पोरिसित्तया तं, गति तो सेसगाण न विसज्जे । अगमेंताऽजिनेवा, धरंति तं मत्तगादीसु॥ वृ-यदि पौरुषीप्रत्याख्यानवन्तस्तद् द्रव्यं सर्वमपि 'गमयन्ति' निर्वाहयितुं शक्नुवन्ति ततः 'शेषाणां' पूर्वार्द्धप्रत्याख्यानिनां न विसर्जयेयुः' न दधुः । अथ ते सर्वमपि न गमयन्ति ततः पूर्वार्द्धप्रत्याख्यानिनामपिदीयते। अथतेषामप्यजीर्णंततोमात्रकादिषु तद्' अशनादिकंधारयन्ति।। अथवाऽमुना कारणेन धारयेत्[भा.५२७३] तं काउ कोइ न तरइ, गिलाणमादीण दाउमच्चुण्हे। नाउं व बहुं वियरइ, जहासमाहिं चरिमवजं ॥ Page #187 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-४/१२२ वृ- 'तद्' अशनादिकं कृत्वा' भुक्त्वा कश्चिद् ग्लानादीनां प्रायोग्यमानीय दातुम् ‘अत्युष्णे' अतीवापेचटिन शक्नोति, एतेन कारणेन धारयेत् । यद्वा 'बहु' प्रभूतं भैक्षं लब्धं ततः 'मा परिष्ठापयितव्यं भवेद्' इति ज्ञात्वा गुरवोऽशनादेर्धरणं वितरन्ति, अनुजानन्तीत्यर्थः । गाथायामेकवचनं प्राकृतत्वात् । अथवा "जहासमाहिं" ति प्रथमपौरुष्यां लब्धं परमद्याप्यजीर्णं ततो यावज्जीर्यते तावद्धारयेदपि । एवं यथा यथा समाधिर्भवति तथा भुञ्जीत परं चरमावर्जम्, चतुर्थी पौरुषीं नातिक्रामयेदिति भावः ॥ तत्र च धार्यमाणे इयं यतनासंसज्जिमेसु छुब्मइ, गुलाइ लेवाडे इयरे लोणाई । जं च गमिस्संति पुनो, एसेव य भुत्तसेसे वि ॥ [भा. ५२७४ ] कृ- 'संसजिमेषु' संसक्तियोग्येषु 'लेपकृतेषु' गोरसादिद्रव्येषु गुडादिकं प्रक्षिप्यते येन न संसज्यन्ते । इतरन्नाम- अलेपकृतं तद् यदि संसक्तियोग्यं तदा तत्र लवणादिकं प्रक्षिपेद्न गुडम् । यच्च प्रथमपौरुष्यां द्वितीयपौरुष्यां वा भुक्त्वा पुनः गमयिष्यन्ति, कियतीमपि वेलां प्रतीक्ष्य भूयो भोक्ष्यन्त इत्यर्थः, तत्रापि भुक्तशेषे धार्यमाणे 'एष एव ' गुडादिप्रक्षेपणरूपो विधिर्भवति ॥ [ भा. ५२७५] चोएइ धरिज्जंते, जइ दोसा गिण्हमाणि किन्न भवे । उस्सग्ग वीसमंते, उब्भामादी उदिक्खते । वृ- 'नोदयति' प्रेरयति परः यद्येवं भक्त पाने धार्यमाणे दोषास्ततो भक्तादौ गृह्यमाणे किमेते श्वान - गवादयो दोषा न भवन्ति ? भवन्तेयेव । तथा कायोत्सर्गं कुर्वतोऽपि त एव बाहुपरितापनादयश्च दोषाः, एवं विश्राम्यतोऽपित एव दोषाः, उद्भामकभिक्षाचर्यां ये गतास्तदादीनपि "उदिक्खते" त्ति प्रतीक्षमाणस्य त एव दोषाः । पर एव प्राह १८४ [भा. ५२७६] एवं अवातरंसी, धूले वि कहं न पासह अवाये । हंदि हु निरंतरोऽयं, भरितो लोगो अवायाणं ॥ वृ- यद्येवं यूयमपि 'अपायदर्शिनः' सूक्ष्मानप्यपायान् प्रेक्षध्वे ततः स्थूलानपि भिक्षाचर्यादिविषयानपायान् कथं न पश्यथ ?, 'हन्दीति' उपदर्शने, 'हु' निश्चितम् पश्यन्तु भगवन्तो यद् एवं निरन्तरो ऽप्ययं लोकोऽपायानां भृतः ॥ कथम् ? इति चेद् उच्यतेभिक्खादि-वियारगते, दोसा पडिनीय-साणमादीया । उप्पते जम्हा, न हुलमा हिंडिउं तम्हा ॥ [भा. ५२७७] वृ- भिक्षा-विचारादौ गतानां साधूना प्रत्यनीक- श्वान-गवादयो बहवो दोषा यस्मादुत्पद्यन्ते तस्माद् 'नहि' नैव साधुना हिण्डितुं लभ्यम् ॥ [भा. ५२७८ ] अहवा आहारादी, न चेव निययं हवंति घेत्तव्वा । नेवाSSहारेयव्वं, तो दोसा वज्जिया होंति ।। वृ- अथवाऽऽहारादयः 'नियतं' सर्वदा न ग्रहीतव्या भवन्ति किन्तु चतुर्थ-षष्ठादिकं कृत्वा सर्वथैवाशक्तेनाहारो ग्राह्यः । यद्वा नैव कदाचिदप्याहारयितव्यम् । एवं 'दोषाः' अपायाः सर्वेऽपि वर्जिता भवन्ति । एवं परेणोक्ते सूरिराह [भा. ५२७९] भन्नति सज्झमसज्झं, कज्जं सज्झं तु साहए मतिमं । अविसज्झं साधेंतो, किलिस्सति न तं च साधेति ॥ Page #188 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१२२, [भा. ५२७९] १८५ . वृ-भण्यतेऽत्र प्रतिवचनम्-कार्यं द्विविधम्-साध्यमसाध्यं च । तत्र मतिमान् साध्यमेव कार्य साधयतिनासाध्यम् । तुशब्द एवकारार्थः । यस्तुयुष्माशोऽविसाध्यं साधयतिसकेवलं क्लिश्यति नचतत्कार्यं साधयति, यथा मृत्पिण्डेन पटादिसाधनाय प्रवर्तमानः पुरुष इति, असाध्यं चात्र भिक्षाचर्यादावपर्यटनम् ॥ कुतः? इति चेद् उच्यते[भा.५२८०] जति एयविप्पहूणा, तव-नियमगुणा भवे निरवसेसा। आहारमादियाणं, को नाम कहं पि कुव्वेजा। वृ-यदिएतैः-आहारादिभिर्विविधप्रकर्षेण हीनाः-रहितास्तपो-नियमगुणा निरवशेषा भवेयुः ततआहारादीनांको नाम कथामपि कुर्यात्? अतआहारग्रहणार्थं भिक्षायामटनीयमिति प्रक्रमः। एतेन “अहवा आहारादी" इत्याद्यपि प्रत्युक्तं द्रष्टव्यम् ॥ इदमेव सविशेषमाह- ." [भा.५२८१] मोक्खपसाहणहेतू, नाणाती तप्पसाहणो देहो। देहट्ठा आहारो, तेन तु कालो अनुन्नातो॥ वृ-इह मोक्षप्रसाधनहेतवः 'ज्ञानादीनि' ज्ञान-दर्शन-चारित्राणि, तेषांचप्रसाधनो देहो भवति, अतो देहार्थमाहार इष्यते । स च काले गृह्यमाणो धार्यमाणो वा चारित्रस्यानुपघातको भवति, तेन कारणेन कालोऽनुज्ञातः॥ कथम् ? इत्याह[भा.५२८२] काले उ अनुनाए, जति वि हु लग्गेज्ज तेहि दोसेहिं। सुद्धो वुवादिनंतो, लग्गति उ विवज्जए परेणं॥ वृ-आद्यप्रहरत्रयलक्षणो द्वितीयादिपौरुषीत्रयात्मकोवा कालो भक्त-पानादेर्धारणेऽनुज्ञातः। एवंविधेऽनुज्ञातेकाले यद्यपि 'तैः' पूर्वोक्तैर्दोषैः लग्येत' स्पृश्यतेतथापिशुद्धः ।अनुज्ञातकालात् परेण 'उपानाययन्' अतिक्रामयन् ‘विपर्यये' अविद्यमानेष्वपि दोषेषु 'लगति' सप्रायश्चित्तो मन्तव्यः॥ [भा.५२८३] पढमाए गिण्हितूणं, पच्छिमपोरिसि उवादिणति जो उ । तेचेव तत्थ दोसा, बितियाए जे भणिय पुट्विं ॥ वृ-प्रथमायांपौरुष्यांगृहीत्वापश्चिमांपौरुषी योऽतिक्रामयति तत्रतएव दोषायेपूर्वप्रथमायां गृहीत्वा द्वितीयायामतिकामयतो जिनकल्पिकस्य भणिताः ॥ अमूनि चातिक्रामणकारणानि[भा.५२८४] सज्झाय-लेव-सिव्वण-भायणपरिकम्म-सट्टरादीहिं। सहस अनाभोगेण व, उवादियं होज् जा चरिमं॥ वृ-स्वाध्यायेऽतीवोपयोगाविस्मृतम् । एवं लेपपरिकर्मणं कुर्वतः, वस्त्र वासीव्यतः, भाजनं वापरिकर्मयतः, देशकथादिकंवा सट्टरम्-आलजालं कुर्वतः, आदिशब्दः सट्टरस्यानेकभेदसूचकः। एतेषुयद्अत्यन्तव्यग्रत्वंस सहसाकारः, 'अनाभोगः' अत्यन्तविस्मृतिः । एवंसहसाकारेणानाभोगेन वा 'चरमां' चतुर्थी यावदतिक्रामितं भवेत् ॥ [भा.५२८५] आहचुवाइणाविय, विगिंचण परिनऽसंथरंतम्मि। ___ अन्नस्स गेण्हणं भुंजणंच असतीए तस्सेव ।। वृ-एतैः कारणैः “आहच्च" कदाचिदतिक्रामितं भवेत् ततः 'विवेच्य' परित्यज्य 'परिज्ञा' दिवसचरमप्रत्याख्यानं कर्तव्यम्। अथ न संस्तरन्तिततःकाले पूर्यमाणे 'अन्यस्य' अशनादेग्रहणं Page #189 -------------------------------------------------------------------------- ________________ १८६ बृहत्कल्प-छेदसूत्रम् -३-४/१२२ भोजनंच कर्तव्यम्।अथ कालोन पूर्यते न वातदानीं पर्याप्तं लभ्यतेततः यतनयायथाअगीता 'तदेवेदमशनादिकम् इति न जानन्ति तथा तस्यैव परिभोगः कर्तव्यः॥ [भा.५२८६] बिइयपएण गिलाणस कारणा अधवुवातिणे ओमे। . अद्धाण पविसमाणो, मज्झे अहवा विउत्तित्रो॥ वृ-द्वितीयपदे ग्लानस्य कारणात्प्रायोग्यं भक्तादिकमतिरिक्तमपिकालंधारयेत्, ग्लानकृत्ये वाताव व्यापृताःयावत् चरमपौरुषीं जाता, अथवाअवमेपर्यटतएव चतुर्थी साता, अध्वनि वा प्रविशन् सार्थवशगोऽतिक्रामयेत्, एवमध्वनो मध्ये वर्तमानस्ततो वा उत्तीर्णोऽसंस्तरन् अतिक्रामयेद् भुञ्जीत वा न कश्चिद् दोषः॥ व्याख्यातं कालातिक्रान्तसूत्रम् । अथ क्षेत्रातिक्रान्तूसत्रं व्याख्यानयति[भा.५२८७] परमद्धजोयणाओ, उजाण परेण चउगुरू होति। आणादिणो य दोसा विराधना संजमा-ऽऽयाए। वृ-अर्धयोजनं-द्विगव्यूतंततः परमशनादिकमतिकामयतश्चतुर्गुरु।आस्तांतावद्अर्धयोजनम् अग्रोद्यानादपि परेणातिकामयतश्चतुर्गुरुकाः आज्ञादयश्चदोषाः, संयमा-ऽऽत्मनोश्च विराधना।। तामेवाह[भा.५२८८] भारेण वेदनाए, न पेहती खाणुमादि अभिघातो। इरिया पगलिय तेनग, भायणभेदो य छक्काया। - वृ-भारेणाक्रान्तो वेदनाभिभूतः स्थाणु-कण्टकादीनि न प्रेक्षते, अश्वादिभिर्वाऽभिहन्यते, अथवा “अभिघाउ" त्ति वटशाखादिना शिरसि घट्यते, ईयाँ वा न शोधयति, दूरनयनेन च भक्तपाने परिगलिते पृथिव्यादिविराधना, स्तेनैर्वा समुद्देशो हियेत । क्षुधा-पिपासातस्य वा क्षीणबलस्य भाजनभेदो भवेत् तत्र षट्कायविराधना। आत्मनः परस्य च तेन विना परिहाणि॥ परः प्राह[भा.५२८९] उज्जान आरएणं, तहियं किं ते न जायते दोसा। - परिहरिया ते होजा, जति वितहिं खेत्तमावजे ॥ वृ-उद्यानादारतो ग्रामादेरानीयमाने भकत-पाने किं ते दोषा न जायन्ते यदेवमुद्यानात् परत इत्यभिधीयते? । सूरिराह-'ते' दोषास्तीर्थकरवचनप्रामाण्येन परिहृता भवन्ति यद्यप्यनुज्ञातक्षेत्रे तान् दोषानापद्यते । पुनमरपि परः प्रेरयति[भा.५२९०] एवं सुतं अफलं, सुत्तनिवातो इमोतु जिनकपे। गच्छम्मि अद्धजोयण, केसिंची कारणे तं पि। वृ- ननु यद्युद्यानात् परतो नातिक्रामयितव्यम् ततो यत् “परमद्धजोयणमेराओ"त्ति सूत्रं भणितंतद् अफलं प्राप्नोति। आचार्यप्राह-यद् ‘अग्रोद्यानात्परतोनातिक्रामयितव्यम्' इत्युच्यते स एष सूत्रार्थनिपातः 'जिनकल्पे' जिनकल्पिकविषयो मन्तव्यः, यत् पुनः “अर्द्धयोजनात् परतः" इत्यादि सूत्रंतद् गच्छवासिविषयम्, कारणेतु तदप्यर्धयोजनं नेतव्यम्, एवमापवादिकं सूत्रम् । यद्वा "केसिंची कारणे तं पि" त्ति अन्यथा व्याख्यायते- 'केषाञ्चिद्' आचार्य-बालवृद्धादीनां कारणे 'तदपि' अर्धयोजनंगम्यते ॥ इदमेव भावयति Page #190 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१२२, [भा. ५२९१] १८७ [भा.५२९१] सक्खेत्तेजदा न लभति, तत्तो दूरे वि कारणे जतति । गिहिणो विचिंतणमनागतम्मिगछे किमंग पुन॥ वृ-'स्वक्षेत्रे स्वग्रामे यदा न लभते तदा दूरेऽप्याचार्यादीनांकारणे भक्त-पानग्रहणार्थ यतते, अर्धयोजनमपि गच्छतीति भावः । अपि च यद्यपि स्वग्रामे प्राचुर्येण लभ्यते तथाऽप्युत्सर्गतस्तत्र नहिण्डनीयम्।कुतः? इत्याह-यदि तावद्गृहिणोऽपिक्रयविक्रयसम्प्रयुक्ताअनागतंप्राधूर्णकाद्यर्थं घृत-गुड-लवण-तम्डुलादीनां चिन्तां कुर्वन्ति किमङ्गपुनर्गच्छे सबाल-वृद्धे येषांक्रयविक्रयः सञ्चयश्च नास्ति तैः प्राघूर्णकाद्यर्तमनागतं च चिन्तनीयम् ॥ ततः[भा.५२९२] संघाडेगोठवणाकुलेसुसेसेसु बाल-वुवादी। तरुणा बाहिरगामे, पुच्छा दिटुंतऽगारीए॥ वृ-स्वग्रामे यानि दानश्राद्धादीनि स्थापनाकुलानि तेषु गुरूणां सङ्घाटक एकः प्रविशति । यानि स्वग्रामे शेषाणि कुर्लवानि तेषु बाल-वृद्धा-ऽसहिष्णिप्रभृतयो हिण्डन्ते । ये तु तरुणास्ते बहिमेपर्यटन्ति।शिष्यः पृच्छति-किमादरेण क्षेत्रं प्रत्युपेक्ष्य रक्षथ? |गुरुराह-अगार्याष्टान्तोऽत्र क्रियते॥ [भा.५२९३] परिमियभत्तपदाने, नेहादवहरति थोवथोवंतु। पाहुण वियाल आगत, विसन्न आसासणा दानं ।। कृ-एगोकिविणवणिओअगारीएअविस्ससंतोतंदुल-घत-लवण-कडुभंडादियं दिवसपरिव्वयं परिमितंदेति, आवणातो घरेन किंचितंदुलादिधारेति।अगारीएचिंता-जदिएयस्स अब्भरहितो मित्तो वा अनो वा पदोसादिअवेलाए आगमिस्सति तो किं दाहं? तओ अप्पणो बुद्धिपुव्वगेण वणियस्स अजानतो नेह-तंदुलादियाण थोवथोवं फेडेति । कालेन बहुमुस्सन्नं । अन्नया तस्स मित्तो पदोसकाले आगतो । आवणं आरक्खियभया गंतुंन सक्कति । वणियस्स चिंता जाता, विसनो 'कहमेतस्स भत्तं दाहामि?' ति । अगारी वणियस्स मनोगतंभावंजाणित्ता भणति-मा विसादं करेहि, सव्वंसे करिमे।तीए अब्मंगादिणाण्हावेउं विसिट्ठमाहारंभुंजाविओ। तुट्टो मित्तो पभाए पुनो जेमेउंगतो। वणिओ वितुट्ठो भारियं भणइ-अहं ते परिमियं देमि, कतो एतं? ति । तीएसव्वं कहियं तुटेण वणिएण एसाघरचिंतिय'त्तिसव्वोघरसारोसमप्पिओ॥अथाक्षरार्थःपरिमितभक्तप्रदाने सति स्नेहादेमध्यादगारी स्तोकस्तोकमपहरति । प्राघूर्णकस्य च विकाले आगमनम्, ततोगृहपतिर्विषन्नः। तयातस्याश्वासनाकृता। ततः प्राघूर्णकस्य भक्त-पानदानमकारी॥ [भा.५२९४] एवं पीईवडी, विवरीयऽन्नेण होइ दिटुंतो। . लोगुत्तरे विसेसा, असंचया जेन समणा तु ।। कृ-एवं क्रियमाणे तयोः सुहृदोः परस्परंप्रीतिवृद्धिरुपजायते।विपरीतश्चान्येन प्रकारेण ष्टान्तो भवति-तत्र परिमितभक्तमध्यादगारी स्तोकस्तोकंनापहरतिततः सुहृदादेः प्राघुणकस्यस्नेहच्छेदो भवति । एवं यदि गृहस्था अप्यनागतं चिन्तयन्ति ततः कुक्षिशम्बलैः साधुभिः सुतरामनागतं चिन्तनीयम्। अपिच-लोकोत्तरे येन असञ्चयाः श्रमणास्तेन कारणेन विशेषतःक्षेत्ररक्षणीयम्।। [भा.५२९५] जनलावो परगामे, हिंडित्ताऽऽनेति वसहि इह गामे। देजह बालादीणं, कारणजाते य सुलभंतु॥ Page #191 -------------------------------------------------------------------------- ________________ १८८ बृहत्कल्प-छेदसूत्रम् -३-४/१२२ वृ-जनस्यात्मीयात्मीयगृहेषुग्रामध्ये वामिलितस्यालापः-प्रवादो भवति-अमी साधवः परग्रामे हिण्डित्वा भिक्षामिहानयन्ति ततः केवलं वसतिरेवेह ग्रामे अमीषाम् । एवं श्रुत्वा गृहपतयः स्वस्वमहेलाआदिशन्दि-ये बालादयोऽत्रबालादयोऽत्र हिण्डन्तेतेषामादरेणसविशेषप्रयच्छत। एवं विधायां चिन्तायां प्राघूर्णकादिकारणजाते यदि देशकालेऽदेशकाले वा हिण्डन्ते तदाऽपि सुलभं भवति। [भा.५२९६] पाहुणविसेसदाने, निज्जर कित्ती य इहर विवरीयं । पुट्विं चमढणसिग्गा, न देंति संतं पि कज्जेसु ॥ कृप्राघुर्णकस्य विशेषेण आदरेण भक्त-पानेदीयमानेपरलोके निर्जराइहलोकेचकीर्तिर्भवति, चशब्दात्प्रीतिवृद्धि परस्परोपकारिताच भवति।'इतरथा प्राघुणकस्याक्रियमाणेएतदेव विपरीतं भवति, निर्जरादिकं भवतीत्यर्थः । कथं पुनस्तद् दानं न भवति ? इत्याह-पूर्वं चमढनया-दिने दिने प्रविशद्भिः साधुभिः सिग्गानि-परिश्रान्तानि स्थापनाकुलानि ‘सदपि' गृहे विद्यमानमपि घृतादिकं द्रव्यं प्राघूर्णकादिकार्येषु उत्पन्नेषुन प्रयच्छन्ति । एवं गुण-दोषान् विज्ञाय क्षेत्रप्रयत्लेन रक्षणीयमिति प्रक्रमः ॥अयं चापरस्तत्र गुणो भवति[भा.५२९७] बोरीइ य दिलुतो, गच्छे वायामो तहिच पतिरिकं । केइ पुन तत्थ भुंजण, आनेमाने भणिय दोसा ।। वृ-बहिमेि भिक्षाटने क्रियमाणे प्रभूतं दुग्ध-दध्यादिकं प्रायोग्यं प्राप्यते, तथा चात्र बदर्या दृष्टान्तोभवति।अपिचगच्छेएथैवसामाचारीगणधरभणिता-यबहिग्रमितरुणैर्भिक्षायामटनीयम्। व्यायामश्चमोहचिकित्सानिमित्तं तैः कृतो भवति। तत्र' बहिर्गामे चशब्दाद् इह चग्रामे “पइरिकं" एकान्तं भवति, मुत्कलमित्यर्थः । यद्वा “पइरिकं" ति परं भक्त-पानं तत्रावाप्यते । केचित् पुनराचार्यदेशीया ब्रुवते-'तत्रैव' बहिर्गामे भोजनं कर्त्तव्यम्, यतो ये पूर्वमानयतोभार-वेदनादयो दोषाभणितास्तेएवंपरिहृता भवन्ति। एतत्परमतमुत्तरत्र निराकरिष्यते॥अथ बदरीष्टान्तमाह[भा.५२९८] गामऽभासे बदरी, नीसंदकडुप्फला यखुजा य । पक्काऽऽमाऽलस चेडा, खायंतियरे गता दूरं॥ वृ-कस्यापि ग्रामस्य अभ्यासे' प्रत्यासत्तौ बदरी । सा ग्रामनिस्यन्दपानीयेन संवर्धिता ततः कटुकफला संवृत्ता। अन्यच्च सा स्वभावत एव कुब्जा ततः सुखारोहा । तस्यां न कानिचित् फलानि पक्वानि कानिचिदामानि, अथवा “पक्वाऽऽम"त्ति मन्दपक्वानि । तत्र ये अलसाः 'चेटकाः' बालकास्तेतांबदरीसुखारोहामारुह्य कटुकान्यपि बदराणिभक्षयन्ति, तान्यपिस्वल्पतया न पर्याप्तानि भवन्ति । इतरे नाम' अनलसाः-उउत्साहवन्तो बालकास्ते दूरमटवीं गताः, तत्र च महाबदरीवनेषुपरिपक्वानि बदराणि यथेच्छं खादन्ति॥ [भा.५२९९] सिग्घतरं ते आता, तेसिऽन्नेसिंच दिति सयमेव। खायंति एव इहई, आय-परसुवहा तरुणा॥ वृ-ततो यावत् तेऽलसास्तस्यां कटुकबदाँ क्लिश्यमाना आसते तावत् 'ते' दूरगामिनो बालकाआत्मनः परयाप्तं कृत्वा बदरपोट्टलकभाराक्रान्ताः शीघ्रतरमागताः तेषाम् अलसानाम् 'अन्येषां च' गृहे स्थितानां स्वजनानां बदराणि पर्याप्तया ददति, स्वयमेव च भक्षयन्ति । एवम् Page #192 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१२२, [भा. ५२९९] १८९ 'इहापि' गच्छवासेतरुणा भिक्षवो वीर्यसम्पन्ना उत्साहवन्तोबाह्यग्रामे हिण्डमानाआत्मनः परेषां च-बाल-वृद्धादीनां सुखावहा भवन्ति ।। कथम्? इति चेद् उच्यते[भा.५३००] खीर-दहीमादिण य, लंभो सिग्घतर पढम पइरिक्के । उग्गमदोसा विजढा, भवंति अनुकंपिया चितरे । वृ-यथा तेऽलसाश्चेटकास्तथा बाल-वृद्धादयोऽपि कुब्जबदरीकल्पे तस्मिन् मूलग्रामे प्रत्यहमुद्वेज्यमानतया चिरमपि हिण्डमानाः कोद्रव-कूरादिकमेव लभन्ते, तदपि न पर्याप्तम् ।ये तुतरुणाबहिमि गच्छन्तितेऽनलसचेटकल्पाः, ततः क्षीर-दध्यादीनांप्रायोग्यद्रव्याणां लाभस्तेषां बहिमि भवति, शीघ्रतरंच ते स्वगरामे आगच्छन्ति । “पढम" तिप्रतमालिकांचस्वयं कुर्वन्ति, बालादिभ्यःप्रथमतरंवासमागच्छन्ति। “पइरिकं"तिप्रचुरं भक्त-पानमुत्पादयन्ति।उद्गमदोषाश्च 'विजढाः' परित्यक्ता भवन्ति। इतरेच' बालादयोऽनुकम्पिताभवन्ति॥अमुमेवार्थसविशेषमाह[भा.५३०१] एवं उग्गमदोसा, विजढा पइरिक्कया अनोमानं। मोहतिगिच्छा य कता, विरियायारो य अनुचिन्नो॥ वृ- ‘एवं' बहिग्रामे गच्छद्भिस्तैः 'उद्गमदोषाः' आधाकर्मादयः परित्यक्ता भवन्ति । "पइरिक्कय" त्ति प्रचुरस्य भक्त-पानसय लाभो भवति । 'अनपमानं' स्वपक्षापमानं न भवति । 'मोहचिकित्सा च' परिश्रमा-ऽऽतप-वैयावृत्यादिभिर्मोहस्य निग्रहः कृतो भवति । वीर्याचारश्च 'अनुचीर्णः' अनुष्ठितो भवति ।। अथ परः प्राह[भा.५३०२] उज्जानतो परेणं, उवातिणंतम्मिपुव्व जे भणिता। भारादीया दोसा, ते चेव इहंतु सविसेसा॥ वृ-ननुशोभनमिदम् यद् अर्योजनंगम्यते, किन्तुतेषां भरितभाराणामाचार्यसकाशमागच्छतां ये पूर्वमुद्यानात् परेण 'उपानाययति' अतिक्रामयति भारादयो दोषा भणितास्त एवेह सविशेषा भवन्ति॥ ततः किं कर्तव्यम् ? इत्याह[भा.५३०३] तम्हा तुनगंतव्वं, तहि भोत्तव्वं न वा वि भोत्तव्वं । इहरा भे ते दोसा, इति उदिते चोदगंभणति॥ वृ-तस्मादाचार्यसमीपे भक्त-पानेन गृहीतेन न गन्तव्यं किन्तु 'तत्रैव' बहिमि भोक्तव्यम्, एवं भारादयो दोषाः परिहृता भवन्ति । “न वा विभोत्तव्वं" ति वाशब्दः पक्षान्तरद्योतकः, अथ भवन्तो भणिष्यन्ति-नैव बहिग्रामे भोक्तव्यम्, तत एवमितरथा "भे" भवतां 'तएव' भारादयो दोषाः । एवं 'उदिते' भणिते सति सूरि!दकं भणति-यदि तत्र समुद्दिशन्ति ततो मासलघु, भवतोऽप्येवं भणतो मासलघु, तैश्च तत्रप्रायोग्यं समुद्दिशद्भिराचार्यादयः परित्यक्तामन्तव्याः, तेषां प्रायोग्यमन्तरेण परितापनादिसम्भवात् ॥ आह किमिवाचार्यमन्तरेण न सिध्यति यदेवं तदर्थं प्रायोग्यमानीयते? इत्याह[भा.५३०४] जइ एयविप्पहूणा, तव-नियमगुणा भवे निरवसेसा। आहारमाइयाणं, को नाम कहं पि कुव्वेज्जा ।। वृ-यदि एतेन-आचार्येण विप्रहीणाः-एनमन्तरेणेत्यर्थः तपो-नियमगुणा निरवशेषा भवेयुः तत आचार्यप्रायोग्याणामाहारादीनामन्वेषणे को नाम कथामपि कुर्वीत?, न कश्चित् । इदमत्र Page #193 -------------------------------------------------------------------------- ________________ १९० बृहत्कल्प-छेदसूत्रम् -३-४/१२२ हृदयम्-सर्वोऽपि तपो-नियमादिकः प्रयासोऽस्माकंसंसारनिस्तरणार्थम्, तेच तपःप्रभृतयो गुणा गुरूपदेशमन्तरेण न सम्यगवगम्यनते, न वा निरवशेषा अपि यथावदनुष्ठातुं शक्यन्ते, अतः संसारनिस्तरणार्थमाचार्याणां प्रायोग्यानयनादिना कर्तव्यमेव वैयावृत्यमिति ॥ अपिच[भा.५३०५] जति ताव लोइय गुरुस्स लहुओ सागारिओ पुढविमादी। . आनयने परिहरिया, पढमा आपुच्छ जतणाए॥ वृ- यदि तावल्लौकिका अपि यो गुरु-पिता ज्येष्ठाबन्धुर्वा कुटुम्बं धारयति तस्मिन्नभुक्ते न भुञ्जते, यच्चोत्कृष्टं शाल्योदनादिकंतत्तस्य प्रयच्छन्ति; ततःकिंपुनर्यस्यप्रभावेन संसारोनिस्तीर्यते तस्य प्रायोग्यमदत्त्वा एवमेव भुज्यते? । यस्तु भङ्केतस्यमासलघु वसतेरभावाच तत्र भुआनान् सागारिको यदि पश्यति तदा चतुर्लघु, आज्ञादयश्च दोषाः । अस्थण्डिलेच समुद्दिशतां पृथिव्यादिविराधना।आनयनेतु सर्वेऽप्येतेदोषाः परिहता भवन्ति, अतोगुरुसमीपमानेतव्यम्।द्वितीयपदे प्रथमालिकां कुर्वन्तो गुरुमापृच्छय गच्छन्ति।यतनयाच यथा संसृष्टं न भवति तथा प्रथमालिका कर्तव्या॥ [भा.५३०६] चोगवयणं अप्पाऽनुकंपिओ ते य भे परिचत्ता। आयरिए अनुकंपा, परलोए इह पसंसणया॥ -'नोदकवचननाम परःप्रेयति-यावत्तेततोग्रामात्प्रत्यागच्छन्तितावत्तृष्णाक्षुधाक्लान्ता अतीव परिताप्यन्ते, एवं प्रस्थापयद्भिर्भवद्भिरात्मा अनुकम्पितः 'ते च साधवः परित्यक्ता भवति । गुरुराह-ननु मुग्ध ! त एवानुकम्पिताः, कथम् ? इत्याह-"आयरिए" इत्यादि, यद् आचार्यवैयावृत्ये नियुक्ता एषापारलौकिकी तेषामनुकम्पा; इहलोकेऽपितेऽनुकम्पिताः, यतो बहुभ्यः साधु-साध्वीजनेभ्यः प्रशंसामासादयन्ति॥परः प्राह- . [भा.५३०७] एवं पिपरिचत्ता, काले खमए य असहुपुरिसे य। कालो गिम्हो उ भवे, खमओ वा पढम-बितिएहिं॥ वृ-यतस्ते बुभुक्षित-तृषिता भाराक्रान्ताः शीत-वाता-ऽऽतपैरभिहताः पन्थानं वहन्ति, यूयं तुशीतलच्छायायांतिष्ठथ, ततएवमपितेपरित्यक्ताः।सूरिराह-तेषामपिकालंक्षपकमसहिष्णुपुरुषं च प्रतीत्य प्रथमालिकाकरणमनुज्ञातम् । तत्र कालः-ग्रीष्मलक्षणस्तस्मिन् प्रथमालिकां कृत्वा पानकं पिबन्ति, क्षपको वा प्रथम-द्वितीयपरीषहाभ्यामतीव बाधितः प्रथमालिकां करोति, एवमसहिष्णुरपि बुभुक्षातः प्रथमालिकां कुर्यात् ॥अत्र परः प्राह[भा.५३०८] जइ एवं संसहूं, अप्पत्ते दोसियाइणं गहणं। लंबण भिक्खा दुविहा, जहन्नमुक्कोस तिय पनए॥ वृ- यद्येवमसौ बहिरेव प्रथमालिकां करोति ततो भक्तं संसृष्टं भवति, संसृष्टे च गुर्वादीनां दीयमानेऽभक्ति कृता भवति । गुरुराह-अप्राप्ते देश-काले दोषान्नादेहणं कृत्वा येषु वा कुलेषु प्रभाते वेला तेषु पर्यटय प्रथमालिकां कुर्वन्ति, भाजनस्य चकल्पं कुर्वन्ति।प्रथमालिकाप्रमाणंच द्विधा-लम्बनतो भिक्षातश्च । तत्र जघन्येन त्रयः ‘लम्बनाः' कवलास्तिस्रश्च भिक्षाः, उत्कर्षतः पञ्च लम्बनाः पञ्च वा भिक्षाः। शेषं सर्वमपि मध्यमं प्रमाणम् ।। अथ तैः कुत्र किंग्रहीतव्यम् ? इति निरूपयति Page #194 -------------------------------------------------------------------------- ________________ १९१ उद्देशकः४, मूलं-१२२, [भा. ५३०९] [भा.५३०९] एगस्थ होइ भत्तं, वितियम्मि पडिग्गहे दवं होति। गुरुमादीपाउग्गं, मत्तए बितिए य संसत्तं ॥ वृ-साधुद्वयस्य द्वौ प्रतिग्रही द्वौ च मात्रको भवतः । तत्रैकस्मिन् प्रतिग्रहे भक्तं ग्रहीतव्यम्, द्वितीये च 'द्रवं' पानकं भवति । तथैकस्मिन् मात्रके आचार्यादीनां प्रायोग्यं गृह्यते, द्वितीये तु संसक्तं भक्तं वा पानकं वा प्रत्युपेक्षते । यदि शुद्धं ततः प्रतिग्रहे प्रक्षिप्यते॥ [भा.५३१०] जति रिक्को तो दवमत्तगम्मि पढमालियाए गहणं तु। संसत्त गहण दवदुल्लभे यतत्थेवजं पंतं॥ वृ-यदि रिक्तोऽसौ द्रवमात्रकः ततस्तत्रप्रथमालिकाया ग्रहणं कर्तव्यम्, एवं संसृष्टं न भवति। अथवा तस्मिन् द्रवमात्रके संसक्तंद्रवंगृहीतम्, द्रवंवा तत्र क्षेत्रेदुर्लभंततः 'तत्रैव' भक्तप्रतिग्रहे यत्प्रान्तं तद् एकेन हस्तेनाकृष्य अन्यस्मिन् हस्ते कृत्वा समुद्दिशति, एवं संसृष्टं न भवति॥ [भा.५३११] बिइयपदं तत्थेवा, सेसं अहवा वि होइ सव्वं पि। तम्हा गंतव् आननं, व जति विपुट्ठो तह विसुद्धो । वृ-द्वितीयपदमत्रोच्यते-अतीवबुभुक्षितास्तत्रैवात्मनः संविभागंभुञ्जते, शेषंसर्वमप्यानयन्ति, अथवा तत्रैव सर्वमात्म-परसंविभागंभुञ्जते । यत एष एवंविधो विधिस्स्माद् विधिना गन्तव्यं विधिना आनेतव्यं विधिना तत्रैव भोक्तव्यम् । एवं सर्वत्र विधिं कुर्वन् यद्यपि दोषैः स्पृष्टो भवति तथापि शुद्धः ॥ कथं पुनः सर्वमसर्व वा भिक्षाचर्यागतेन भोक्तव्यम् ? इत्याह[भा.५३१२] अंतरपल्लीगहितं, पढमागहियं व भुंजए सव्वं । संखडि धुवलंभेवा, जंगहियं दोसिणं वा वि॥ वृ-यद् अन्तरपल्लिकायां गृहीतंप्रथमपौरुषीगृहीतं वातत्सर्वमपि मुक्ते। यत्र वा जानन्ति सङ्खड्यां ध्रुवो लाभो भविता तत्र यत्पूर्वं गृहीतंतत् सर्वमपि भोक्तव्यम् । यद्वा दोषानं गृहीतं तदशेषमपि भोक्तव्यम्॥ [भा.५३१३] दरहिंडिएव भाणं, भरियं भुत्तुंपुनो वि हिंडिज्जा। ___ कालो वाऽतिक्कमई, मुंजेज्जा अंतरा सव्वं ॥ वृ-अथवा 'दरहिण्डिते' अर्धपर्यटित एवभाजनं भृतं ततोऽल्पसागारिकेतत् पर्याप्तं भुक्त्वा पुनरपि भिक्षां हिण्डेत । अथवा यावद् आचार्यान्तिके आगच्छन्ति तावत् कालोऽतिक्रामति, चतुर्थपौरुषी लगति सूर्यो वाऽस्तमेतीत्यर्थः, ततः सर्वमपि 'अन्तरा' तत्रैव भुञ्जीत ॥ [भा.५३१४] परमद्धजोयणातो, उज्जाण परेण जे भणिय दोसा। आहचुवातिणाविए, तेचेवुस्सग्ग-अववाता॥ अथायोजनात्परेणअतिक्रामयतितदायेउद्यानात्परतोऽतिक्रामणेदोषाः पूर्वभणितास्त एव द्रष्टव्याः । अथ “आहच्च" कदाचिदनाभोगादिनाऽतिक्रामितं ततस्तावेवोत्सर्गाऽपवादौ, उत्सर्गतस्तद् न भोक्तव्यम् अपवादतः पुनरसंस्तरणे भोक्तव्यमिति भावः ॥ म. (१२३) निगंथेणयगाहावइकुलंपिंडवायपडियाएअनुप्पविटेणंअन्नतरेअचित्तेअनेसणिजे पान-भोयणे पडिग्गाहिएसिया, अत्थि या इत्य केइ सेहतराए अनुवट्ठावियए कप्पइ सेतस्स दाउं अनुप्पदाउं वा; नत्थि य इत्य केइ सेहतराए अनुवट्टावियए तं नो अप्पणा भुंजेज्जा, नो अन्नेसिं Page #195 -------------------------------------------------------------------------- ________________ १९२ बृहत्कल्प-छेदसूत्रम् -३-४/१२३ दावए, एगंते बहुफासुए पएसे पडिलेहित्ता पमजित्ता परिट्टवेयव्वे सिया॥ दृ-अस्य सम्बन्धमाह[भा.५३१५] आहार एव पगतो, तस्स उगहणम्मि वनिया सोही। आहच पुन असुद्धे, अचित्त गहिए इमं सुत्तं॥ वृ-आहार एवानन्तरसूत्रे प्रकृतः । 'तस्य च' आहारस्य ग्रहणे शोधिर्वर्णिता, यथा शुद्ध आहारो ग्रहीतव्यः तथा भणितमिति भावः । “आहच" कदाचित् पुनरशुद्धो अचित्त आहारो गृहीतो भवेत् तत्र को विधिः? इत्यस्यां जिज्ञासायामिदं सूत्रमारभ्यते ॥ [भा.५३१६] अहवण सचित्तदव्वं, पडिसिद्धं दव्वमादिपडिसेहे। इह पुन अचित्तदव्वं, वारेति अनेसियंजोगो॥ वृ-अथवा पूर्वतरसूत्रेषु “तओ नो कप्पंति पव्वावित्तए" इत्यादिषु सचित्तद्रव्यं 'द्रव्यादिप्रतिषेधेन' द्रव्यं-पण्डकादिकं तदाश्रित्य प्रतिषेधो द्रव्यप्रतिषेधस्तेन, आदिशब्दाद् “दुढे मूढे' इत्यादिषुच भावप्रतिषेधेन प्रतिषिद्धम् । ‘इह पुनः' प्रकृतसूत्रेऽचित्तद्रव्यमनेषणीयं वारयति। एष 'योगः' सम्बन्धः॥ अनेनायातस्यास्य व्याख्या-निर्ग्रन्थेन च गृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टेन “अन्नलरे"त्ति उद्गमोत्पादनैषणादोषाणामन्यतरेण दोषेण दुष्टम् ‘अनेषणीयम्' अशुद्धम् ‘अचित्तं' निर्जीवं पान-भोजनमनाभोगेन प्रतिगृहीतं स्यात्, तच्चोत्कृष्टं न यतस्ततः परित्यक्तुंशक्यते, अस्तिचात्र कश्चित् 'शैक्षतरकः' लघुतरः अनुपस्थापितकः' अनारोपितमहाव्रतः कल्पते "से" 'तस्य' निर्ग्रन्थस्य तस्मै शैक्षाय दातुमनुप्रदातुंवा । तत्र दातुंप्रथमतः, 'अनुप्रदातुं' तेनान्यस्मिन्नेषणीये दत्ते सति पश्चात् प्रदातुम् । अथ नास्त्यत्र कोऽपि शैक्षतरकोऽनुपस्थापितकस्ततस्तद्दत्ते सति पश्चात्प्रदातुम्।अथ नास्त्यत्र कोऽपिशैक्षतरकोऽनुपस्थापितकस्ततस्तद् नैव आत्मना भुञ्जीत न वाऽन्येषां दद्यात् किन्तु एकान्ते बहुप्राशुके प्रदेशे प्रत्युपेक्ष्य प्रभृज्य च परिष्ठापयितव्यं स्यादिति सूत्रार्थ ॥अथ नियुक्तिविस्तरः[भा.५३१७] अन्नतरऽनेसणिज्जं, आउट्टिय गिण्हणे तुजंजत्थ। अनभोग गहित जतणा, अजतण दोसा इमे होति॥ वृ-'अन्यतरद्' उद्गमादीनामेकतरदोषदुष्टमनेषणीयमाकुट्टिकया यो गृह्णाति । आकुट्टिका नाम-स्वयमेव भोक्ष्ये शैक्षस्य वा दास्यामि । एवमुपेत्य ग्रहणे येन दोषेणाशुद्धं तमापद्यते, यच्च यत्र दोषे प्रायश्चित्तं तत् तस्य भवति । अथानाभोगेनानेषणीयं गृहीतं ततो यतनया शैक्षस्य दातव्यम् । यदि अयतनया ददाति तत इमे दोषा भवन्ति। [भा.५३१८] मा सव्वमेयं मम देहमन्त्रं, उक्कोसएणं व अलाहि मज्झं। ___ किंवा ममं दिजति सब्वमेयं, इच्चेव वुत्तोतु भणाति कोई॥ वृ-तेन अनेषणीयमिति कृत्वा शैक्षस्य दत्तम्, स च शैक्षो ब्रूयात्-मा सर्वमेतद् ‘अन्नं भक्तं मम दत, अथोत्कृष्टमिति कृत्वा मे दीयते तत्रोत्कृष्टेन भक्तेन ममालम्, किं वा सर्वमेतद् मम दीयते? इति । एवं शैक्षणोक्तः कश्चिद् भणति ।। [भा.५३१९] एतं तुझं अम्हं, न कपति चउगुरुंच आणादी। संका व आभिओग्गे, एगेन व इच्छियं होज्जा ।। Halil a Page #196 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं- १२३, [भा. ५३१९] १९३ वृ- 'एतत् तव कल्पते, अस्माकं तु न कल्पते' एवं भणतश्चतुर्गुरुकम् आज्ञादयश्च दोषाः । शङ्का च तस्य शैक्षस्य आभियोगः - कार्मणं तद्विषया भवति । 'एकेन वा' केनचित् शैक्षेण तद् दीयमानमीप्सितं भवेत् तस्य च ग्लानत्वे यथाभावेन जाते सति द्वितीयशैक्ष उड्डाहं कुर्यात् ॥ इदमेव भावयति [भा. ५३२० ] कम्मोदय गेलने, दवण गतो करेज्ज उड्डाहं । एगस्स वा वि दिने, गिलाण वमिऊण उड्डाहो ॥ वृ- कर्मोदयाद्यथाभावेनैव ग्लानत्वे जाते सति स चिन्तयेत् - एतैः 'मा व्रतादयं प्रतिभज्यताम्' इति कृत्वा ममाभियोग्यं दत्तम् । एवं 'दृष्टवा' ज्ञात्वा स भूयो गृहवासं गतः सन् उड्डाहं कुर्यात्एतैः कार्मणं मम दत्तमिति । एकस्य वा दत्ते सति यदा ग्लानत्वं जातं तदा द्वितीयः शैक्षो व्रतं वमित्वा प्रभूतजनसमक्षमुड्डाहं कुर्यात् ॥ किं पुनश्चिन्तयित्वा स व्रतं वमति ? इत्याह[ भा. ५३२१] मा पडिगच्छति दिन्नं, से कम्मण तेन एस आगल्लो । जाव न दिज्जति अम्ह वि, ह नु दानि पलामि ता तुरियं ॥ वृ- मा प्रतिगमिष्यतीति बुध्या कार्मणमस्य दत्तं तेनायं “ आगल्लो” ग्लानः सञ्जातः, अतो यावदस्माकमपि कार्मणं न दीयते तावत् त्वरितमिदानीमहमपि पलाये ॥ अथवा कश्चिदिदं ब्रूयात् [भा. ५३२२ वृ- भक्तेन 'मे' मम न कार्यम्, कल्ये वा भिक्षां गतो वा भोक्ष्ये, अन्यद्वा भक्तं मह्यं प्रयच्छत । "इय" एवमयतनया दीयमाने 'उज्झिनिका' पारिष्ठापनिका भवेत् । तस्यां च दोषाः कीटिकामक्षिकादिविराधनारूपा मन्तव्याः । अथवा एकस्य ग्लानत्वे जातेऽपरश्चिन्तयेत् [भा. ५३२३] हनु व असंदेह, एस मओ हं तु ताव जीवामि । वग्घा हु चरंति इमे, मिगचम्मगसंवुता पावा ॥ वृ- "हनु' त्ति 'हः' इति खेदे 'नुः' इति वितर्के । एष तावद् असन्देहं मृतः, अहं तु तावदिदानीं जीवामि, इमे च पापाः श्रमणका मृगचर्मसंवृता व्याघ्राश्चरन्ति, बहि साधुवेशच्छन्ना हिंसका अमी इति भावः । अतो यावद् एते मां जीवितान्न व्यपरोपयन्ति तावत् प्रतिगच्छामीति ।। किञ्च[भा. ५३२४] अभिओगपरज्झस्स हु, को धम्मो किं व तेन नियमेणं । अहियक्करगाहीण व, अभिजोएंताण को धम्मो ॥ Jain भत्तेण मे न कळं, कल्लं भिक्खं गतो व भोक्खामि । अन्नं व देह मज्झं, इय अजते उज्झिणिगदोसा ।। वृ- अभियोगेन-कार्मणेन ‘“परज्झस्स"त्ति परवशीकृतस्य मम को नाम धर्मो भविष्यति ?, किं वा तेन नियमेन मम कार्यम् ?, तथा अधिककरग्राहिणामिवामीषामप्येवमभियोजयतां को धर्म ? न कश्चिदित्यर्थः । एवं विचिन्त्य गृहवासं भूयोऽपि कुर्यात् ॥ यो ग्लानीभूयोप्रव्रजितः स प्रव्रजन्तमित्थं विपरिणमयेत् [ भा. ५३२५] किच्छाहि जीवितो हं, जति मरिउं इच्छसी तहिं वच्च । एस तु भणामि भाग !, विसकुंभा ते महुपिहाणा ॥ 20 13 International Page #197 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-४/१२३ वृ- 'कृच्छ्राद्' अतिदुःखेनाहं तावद् जीवितः, अतो यदि त्वमपि मर्तुमिच्छसि तदा 'तत्र' तेषां साधूनामन्तिके व्ज, येन भवतोऽप्येवं सम्पद्यत इति भावः । अपि च-हे भ्रातः ! एषोऽहमेकान्तहितो भूत्वा भवन्तं भणामि ते साधवो विषकुम्भा मधुपिधानाः सन्ति, मुखेन जीवदयाद्युपदेशकं मधुरं वो जल्पन्ति चेतसा तु विषवत् परव्यपरोपणारिदारुणपरिणामा इति हृदयम् । एवं विपरिणामितोऽसौ प्रव्रज्यामप्रतिपद्यमानः षट्कायविराधनादिकं यत् करोति तन्निष्पन्नं अयतनादायिनः प्रायश्चित्तम् ॥ किञ्च १९४ [भा. ५३२६] वातादीनं खोभ, जहन्नकालुत्थिए विसाऽऽसंका । अवि जुञ्जति अन्नविसे, नेव य संकाविसे किरिया । वृ-तस्याशुद्धाहारदानानन्तरं वातादीनां क्षोभे 'जघन्यकालात्' तत्क्षणादेवोत्थिते विषाशङ्का भवति-मन्येविषममीभिर्मम दत्तं येनैवं मे सहसैव धातुक्षोभः समजनि । एवं चिन्तयतस्तस्याचिरादेव मरणं भवेत् । कुतः ? इत्याह- "अवि" इत्यादि, 'अपि' सम्भावनायाम्, सम्भाव्यते अयमर्थ-यद् अन्यस्य सर्वस्यापि विषस्य मन्त्रादिक्रिया युज्यते, शङ्काविषस्य तु 'क्रिया' चिकित्सा नैव भवति, मानसिकत्वेन तस्य प्रतिकर्तुमशक्यत्वात् । यत एंते दोषा अतो नायतनया दातव्यम् ॥ अत्र परमतमुपन्यस्य दूषयति [भा. ५३२७] केइ पुन साहियव्वं, अस्समणो हं ति पडिगमो होज । दायव्वं जताए, नाए अनुलोमणाऽऽउट्टी ॥ वृ- केचित् पुनराचार्या ब्रुवते-स्फुटमेव तस्य कथयितव्यम्-भवत एवेदं कल्पते; एतच्च न युज्यते । यत एवमुक्ते कदाचिदसौ ब्रूयात् यत् श्रमणानां न कल्पते तद् मम यदि कल्पते तत एवमहम् 'अश्रमणः' न श्रणमो भवामि, अश्रमणस्य न निरर्थकं मे शिरस्तुण्डमुण्डनम्; इति विचिन्त्य प्रतिगमनं कुर्यात् । यत एवमतो यतनया दातव्यम् । यतनया च दीयमानं यदि ज्ञातं भवति तदा वक्ष्यमाणवचनैः ‘अनुलोमना' प्रज्ञापना तथा कर्तव्या यथा तस्य 'आवृत्ति' समाधानं भवति ।। प्रज्ञापनाविधिश्चायम् [मा. ५३२८] अभिनवधम्मो सि अभावितो सि बालो व तं सि अनुकंपो । तव चेवऽट्ठा गहितं, भुंजिज्जा तो परं छंदा ॥ वृ- 'अभिनवधर्मा' अधुनैव गृहीतप्रव्रजयोऽसि त्वम्, अत एव 'अभावितोऽसि' नाद्यापि मैक्षभोजनेन भावितः, बालश्च त्वमसि अत एव 'अनुकम्प्यः' अनुकम्पनीयः, तत इदमुत्कृष्टद्रव्यमशुद्धमपि तवैवार्थाय गृहीतम्, अतः परं 'छन्दात्' स्वच्छन्देन भुञ्जीथाः ॥ [भा. ५३२९] कप्पो च्चिय सेहाणं, पुच्छसु अन्ने वि एस हु जिनाणा । सामाइयकप्पठिती, एसा सुत्तं चिमं बेंति । वृ- अपि च-कल्प एवैष शैक्षाणां यदनेषणीयमपि भोक्तुं कल्पते, यदि भवतो न प्रत्ययस्ततः पृच्छ 'न्यानपि ' गीतार्थसाधून् । तेऽपि तेन पृष्टाः सन्तो ब्रुवते - एषा 'हु' निश्चितं 'जिनाज्ञा' तीर्थकृतामुपदेशः, सामायिककल्पस्य चैषैव स्थिति। सूत्रं च ते साधवः । सूत्रं च ते साधवः 'इदं' प्रस्तुतं "अत्थि या इत्थ केइ सेहतराए" इत्यादिरूपं ब्रुवते । भवेत कारणं येनाकुट्टिकयाऽपि दद्यात् ॥ कथम् ? इत्याह Page #198 -------------------------------------------------------------------------- ________________ १९५ उद्देशकः४, मूलं-१२३, [भा. ५३३०] [भा.५३३०] परतित्थियपूयातो, पासिय विविहातो संखडीतो य। विप्परिणमेज सेधो, कक्खडचरियापरिस्संतो।। वृ-क्वापिक्षेत्रेपरतीथिकानांपूजाः-सादरस्निग्ध-मधुरभोजनादिरूपास्तदुपासकैर्विधीयमाना दृष्ट्वा विविधाश्च सङ्खडीरवलोक्य शैक्षः कर्कशचर्यापरिश्रान्तः सन् विपरिणमेत ॥ ततः[भा.५३३१] नाऊण तस्स भावं, कप्पति जतणाए ताहे दाउंजे। . संथरमाणे देंतो, लग्गइ सट्ठाणपच्छिते॥ वृ-ज्ञात्वा 'तस्य' शैक्षस्य 'भावं' स्निग्ध-मधुरभोजनविषयमभिप्रायमेषणीयालाभे यतनया तस्यानेषणीयमपि दातुं कल्पते। अथ संस्तरतोऽपिददाति ततः स्वस्थानप्रायश्चित्ते लगति, येन दोषेणाशुद्धं तन्निष्पन्नं प्रायश्चित्तमापद्यत इति भावः॥ [भा.५३३२] सेहस्स व संबंधी, तारिसमिच्छंते वारणा नत्थि। कक्खडे व महिड्डीए, बितियं अद्धाणमादीसु॥ वृ-शैक्षस्य वा सम्बन्धिनः केऽपि स्नेहातिरेकत उत्कृष्टं भक्तमानीय दधुः, तस्य च ताशं भोक्तुमिच्छतः वारणा' प्रतिषेधोनास्ति “कक्खडेव"त्ति कर्कशम्-अवमौदर्यंतत्रासंस्तरणेऽशुद्धं शैक्षस्यदातव्यम्, शुद्धामात्मना भोक्तव्यम्। “महिड्डीए"त्तिकर्कशम्-अवमौदर्यतत्रासंस्तरणेऽशुद्धं शैक्षस्य नाद्यापि भावितःतावत्प्रायोग्यमनेषणीयं दीयते। "बिइयंअद्धाणमादीसु"त्तिअध्वादिषु कारणेषु द्वितीयपदं भवति, स्वयमप्यनेषणीयं भुजानाःशुद्धा इति भावः । एषापुरातनी गाथा॥ साम्प्रतमेनामेव विवृणोति[भा.५३३३] नीया व केई तु विरूवरूवं, आनेज भत्तं अनुवट्ठियस्सा। सचावि पुच्छेज्ज जता तु थेरे, तदानबारेंतिणं मा गुरूगा॥ वृ-निजकाः केचिद् 'विरूपरूपं' मोदका-ऽशोकवर्ति-शाल्योदनप्रभृतिकमुत्कृष्टं भक्तमनुपस्थितस्य शैक्षस्यार्थायानयेयुः । स च तैर्निमन्त्रितो यदा 'स्थविरान्' आचार्यान् पृच्छेत्गृह्णाम्यहमिदम् ? न वा? इति; तदा गुरवो “ण"मिति 'तं' शैक्षन वारयन्ति । कुतः? इत्याह"मा गुरूग"त्तिमा वारयतां चत्वारो गुरुकाः प्रायश्चित्तं भवेत् ॥ किमर्थं पुनर्न वार्यते? इत्याह[भा.५३३४] लोलुग सिनेहतो वा, अन्नहभावो व तस्स वा तेसिं। गिण्हह तुब्भे वि बहुं, पुरिमट्टी निविगतिगा मो॥ वृ-लोलुपतया संज्ञातकस्नेहतो वा स तद् भक्तं भोक्तुमभिलषेत् ततो यदि वार्यते तदा 'तस्य' शैक्षस्य 'तेषां वा' संज्ञातकानाम् 'अन्यथाभावः' विपरिणमनं भवेत् । संज्ञातकाश्च यदि साधूनामन्त्रयन्ते-बह्येतद् भक्तम् अतो यूयमपि गृहीत; ततो वक्तव्यम्-“मो" इति वयं पूर्वार्द्धप्रत्याख्यानिनो निर्विकृतिका वा ॥अथ ते संज्ञातका ब्रवीरन्- ' [भा.५३३५] मंदक्खेण न इच्छति, तुझे से देह बेहनं तुब्मे। किंवा वारेमु वयं, गिण्हतुछंदेण तो बिंति॥ वृ- एष युष्माभिरनुज्ञातः 'मन्दात्रेण' लज्जया न ग्रहीतुमिच्छति ततो यूयं तस्य प्रयच्छत, भणत वा यूयम्-गृहाणेति । तत्र ब्रुवते-किं वा वयं वारयामः ? गृह्णातु स्वयमेव छन्देन यदि रोचते । अथ “कक्खडे व महिड्डीए"ति पदद्वयं व्याख्याति Page #199 -------------------------------------------------------------------------- ________________ १९६ बृहत्कल्प-छेदसूत्रम् - ३-४/१२३ वसुं वोमे घेत्तुं दिंति व से संथरे व उज्झति । भावेंता विड्डिमतो, दलंति जा भावितोऽनेसिं ॥ [भा. ५३३६ ] वृ- 'अवमे' दुर्भिक्षे यावन्तिकादिकमनेषणीयं 'विष्वक्' पृथग् गृहीत्वा शैक्षस्यार्थायाऽऽनीतं तस्यैव प्रयच्छन्ति, संस्तरन्तोवा उज्झन्ति । योवा ऋद्धिमत्प्रव्रजितस्तं 'भावयन्तः' मैक्ष- भोजनभावनां ग्राहयन्तो यावद् भावितो न भवति तावद् येन वा तेन वा दोषेणानेषणीयं प्रायोग्यं लब्ध्वा ददति । यद्येवं ऋद्धिमत्प्रव्रजितं नानुवर्तयन्ति ततश्चतुर्गुरुकम् ॥ कुतः ? इति चेद् उच्यते[भा. ५३३७] तित्थविवड्डी य पभावना य ओभावणा कुलिंगीणं । एमादी तत्थ गुणा, अकुव्वतो भारिया चतुरो ॥ वृ- ऋद्धिमति प्रव्रजिते तीर्थविवृद्धिर्भवति, 'यदीध्शा अप्येतेषां सकाशे प्रव्रजन्ति ततो वयं द्रमकप्रायाः किमेवं गृहवासमधिवसामः ?' इति बुध्धा भूयांसः प्रव्रजन्तीति भावः । प्रभावना च प्रवचनस्य भवति कुलिङ्गिनां चापभ्राजना भवति, तेषां मध्ये ईद्दशामृद्धिमतामभावात् । एवमादयः 'तत्र' राजादिप्रव्रजिते यतो गुणा भवन्ति अतस्तस्यानुवर्तनामकुर्वतश्चत्वारो भारिका मासाः प्रायश्चित्तम् ॥ अथ द्वितीयपदमाह [भा. ५३३८] अद्धाणाऽसिवे ओमे, रायहुट्टे असंथरेंता उ । सयमवि य भुंजमाणा, विसुद्धभावा अपच्छित्ता ॥ वृ- अध्वा ऽशिवाऽवम- राजद्विष्टेषु असंस्तरन्तः स्वयमप्यनेषणीयं विशुद्धभावा भुञ्जाना अप्रायश्चित्ता मन्तव्याः ॥ मू. (१२४) जे कडे कप्पट्ठियाणं कप्पइ से अकप्पट्ठियाणं, नो से कप्पइ कप्पट्ठियाणं । जे कडे अकप्पट्ठियाणं नो से कप्पइ कप्पट्ठियाणं कप्पइ से अकप्पट्ठियाणं । कप्पे ठिया कप्पट्ठिया, अकप्पे ठिया अकष्पट्ठिया || वृ- अस्य सम्बन्धमाह[भा. ५३३९] सुत्तेनेव उ जोगो, मिस्सियभावस्स पन्नवणहेउं । अक्खेव निन्नओवा, जम्हा तु ठिओ अकप्पम्मि ।। वृ-सूत्रेणैव 'योगः' सम्बन्धः क्रियते- 'मिश्रितभावस्य' 'किमर्थमिदमशुद्धं मम दीयते ? 'इत्येवं कलुषितपरिणामस्य शैक्षस्य प्रज्ञापनाहेतोरिदं सूत्रमारभ्यते । यद्वा 'कथं शैक्षस्यानेषणीयं कल्पते?' इत्येवं केनापि 'आक्षेपे' पूर्वपक्षे कृते 'निर्णयः' निर्वचनमनेन क्रियते । कथम् ? इत्याह-यस्माद् असौ शैक्षः 'अकल्पे' सामायिकसंयमलक्षणे स्थितः ततः कल्पते तस्यानेषणीयमिति ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'यद्' अशनादिकं 'कृतं' विहितं कल्पस्थितानामर्थाय कल्पते तद् अकल्पस्थितानाम्, नो तत् कल्पते कल्पस्थितानाम् । इहाचेलक्यादी दशविधे कल्पे ये स्थितास्ते कल्पस्थिता उच्यन्ते, पञ्चर्यामधर्मप्रतिपत्तार इत्यर्थः । ततः पञ्चयामिकानुद्दिश्य कृतं चातुर्यामिकानां कल्पत इत्युक्तं भवति । तथा यद् 'अकल्पस्थितानां' चातुर्यामिकानामर्थाय कृतं नो तत् कल्पते 'कल्पस्थितानां पञ्चयामिकानां किन्तु कल्पते तद् 'अकल्पस्थितानां चतुर्यामिकानाम् । अत्रैव व्युत्पत्तिमाह- 'कल्पे' आचेलक्यादौ दशविधे स्थिताः कल्पस्थिताः । 'अकल्पे' अस्थितकल्परूपे स्थिता अकल्पस्थिताः । एष सूत्रार्थः ॥ अथ निर्युक्तिविस्तरः Page #200 -------------------------------------------------------------------------- ________________ १९७ उद्देशकः ४, मूलं-१२४, [भा. ५३४०] [भा.५३४०] कप्पठिइपरूवणता, पंचेव महव्वया चउज्जामा। कप्पट्ठियाण पणगं, अकप्प चउजाम सेहे य॥ वृ- कल्पस्थितेः प्रथमतः प्ररूपणा कर्तव्या । तद्यथा-पूर्व-पश्चिमसाधूनां कल्पस्थितिः पञ्चमहाव्रतरूपा, मध्यमसाधूनां महाविदेहसाधूनां च कल्पस्थितिश्चतुर्यामलक्षणा । ततो ये कल्पस्थितास्तेषां “पनगं" ति पञ्चेव महाव्रतानि भवन्ति । अकल्पस्थितानां तु चत्वारो यामाः' चत्वारि महाव्रतानि भवन्ति, 'नापरिगृहीता स्त्री भुज्यते' इति कृत्वा चतुर्थव्रतं परिग्रहव्रत एव एषामन्तर्भवतीतिभावः।यश्चपूर्व-पश्चिमतीर्थकरसाधूनामपिसम्बन्धी शैक्षः सोऽपिसमायिकसंयत इति कृत्वाचतुर्यामिकोऽकल्पस्थितश्चमन्तव्यः, यदापुनरुपस्थापितो भविष्यतितदाकल्पस्थित इति । प्ररूपिता कल्पस्थिति । इह “जे कडे कप्पट्ठियाणं" इत्यादिनाऽऽधाकर्म सूचितम् अतस्तस्योत्पत्तिमाह[भा.५३४१] साली घय गुल गोरस, नवेसु वल्लीफलेसु जातेसु । पुनह करण सड्डा, आहाकम्मे निमंतणता ।। वृ-कस्यापिदानरुचेरभिगमश्राद्धस्य वा नवः शालि_यान् गृहे समायातस्ततः सचिन्तयति'पूर्व यतीनामदत्त्वा ममात्मना परिभोक्तुंन युक्तः' इति परिभाव्याऽऽधाकर्म कुर्यात् । एवं घृते गुडे गोरसे नवेषु वातुम्ब्यादिवल्लीफलेषु जातेषुपुण्यार्थ दानरुचि श्राद्धः “करणं" तिआधाकर्म कृत्वा साधूनां निमन्त्रणं कुर्यात् ॥ तस्य चाधाकर्मणोऽमून्येकार्थिकपदानि[भा.५३४२] आहा अहे य कम्मे, आताहम्मे य अत्तकम्मे य। . तंपुन आहाकम्म, नायव्वं कप्पते कस्स ॥ वृ-आधाकर्म अधःकर्म आत्मघ्नम् आत्मकर्म चेति चत्वारि नामानि । तत्र साधूनामाधयाप्रणिधानेन यत् कर्म-षट्कायविनाशेनाशनादिनिष्पादनंतद्आधाकर्मीतथाविशुद्धसंयमस्थानेभ्यः प्रतिपात्य आत्मानं अविशुद्धसंयमस्थानेषु यद् अधोऽधः करोति तद् अधःकर्म । आत्मानंज्ञान-दर्शन-चारित्ररूपंहन्ति-विनाशयतीति आत्मघ्नम्।यत्पाचकादेः सम्बन्धिकर्म-पाकादिलक्षणं ज्ञानावरणीयादिलक्षणं वा तद् आत्मनः सम्बन्धि क्रियते अनेनेति आत्मकर्म। तत् पुनराधाकर्म कस्य पुरुषस्य कल्पते? न वा? यद्वा कस्य तीर्थे कथं कल्पते? न कल्पते वा? इत्यमीभिद्वारैतिव्यम्॥ तान्येव दर्शयति[भा.५३४३] संघस्स पुरिम-पच्छिम-मज्झिमसमणाण चेव समणीणं। चउण्हं उवस्सयाणं, कायव्वा मग्गणा होति॥ वृ-आधाकर्मकारी सामान्येन विशेषेण वा सङ्घस्योद्देशं कुर्यात्। तत्र सामान्येन-अविशेषितं सङ्घमुद्दिशति, विशेषेणतु पूर्ववामध्यमंवा पश्चिमंवा सङ्घचेतसिप्रणिधत्ते।श्रमणानामप्योघतो विभागतश्चनिर्देशं करोति। तत्रौघतः-अविशेषितश्रमणानाम्, विभागतः पञ्चयामिकश्रमणानां चतुर्यामिकश्रमणानां वा । एवं श्रमणीनामपि वक्तव्यम् । तथा चतुर्णामुपाश्रयाणामप्येवमेव सामान्येन विशेषेण च मार्गणा कर्तव्या भवति । तत्र चत्वार उपाश्रया इमे-पञ्चयामिकानां श्रमणानामुपाश्रयमुद्दिशतीतिएकः, पञ्चयामिकानामेव श्रमणीनांद्वितीयः, एवं चतुर्यामिक श्रमणश्रमणीनामप्येवमेव द्वावुपाश्रयौ मन्तव्यौ ॥ इदमेव भावयति Page #201 -------------------------------------------------------------------------- ________________ १९८ बृहत्कल्प-छेदसूत्रम् -३-४/१२४ [भा.५३४] संघ समुद्दिसित्ता, पढमो बितिओय समण-समणीओ। ततिओ उवस्सए खलु, चउत्थओ एगपुरिसस्स ॥ वृ-आधाकर्मकारीप्रथमोदानश्राद्धादिसङ्घसामान्येन विशेषेण वासमुद्दिश्याधाकर्म करोति। द्वितीयः श्रमण-श्रमणीः प्रणिघायकरोति।तृतीय उपाश्रयानुद्दिश्यकरोति।चतुर्थ एकपुरुषस्योद्देशं कृत्वा करोति। अत्र यथाक्रमं कल्प्या-ऽकल्प्यविधिमाह[भा.५३४५] जति सव्वं उद्दिसिउं, संघं कारेति दोण्ह विन कप्पे। - अहवा सव्वे समणा, समणी वा तत्य वितहेव ॥ वृ- 'यदीति' अभ्युपगमे । यदि नाम ऋषभस्वामिनोऽजितस्वामिनश्च तीर्थमेकत्र मिलितं भवति पार्श्वस्वामि-वर्द्धमानस्वामिनोर्वा तीर्थ मिलितं यदा प्राप्यते तदा तत्कालमङ्गीकृत्यायं विधिरभिधीयते-सर्वमपिसझं सामान्येनोद्दिश्ययदाआधाकर्मकरोतितदा द्वयोरपि पञ्चयामिकचतुर्यामिकसङ्घयोन कल्पते।अथसर्वान् श्रमणान् सामान्येनोद्दिशति ततः 'तत्रापि' श्रमणानामपि सामान्येनोद्देशे तथैव' सर्वेषामपि पञ्चयामिकानां चतुर्यामिकानांच श्रमणानांन कल्पते । एवं श्रमणीनामपि सामान्येनोद्देशे सर्वासामकल्प्यम् ।। अथ विभागोद्देशे विधिमाह[भा.५३४६] जइ पुन पुरिमं संघ, उद्दिसती मज्झिमस्स तो कप्पे। मन्झिमउद्दिढे पुन, दोण्हं पिअकप्पितं होति॥ वृ- यदि पुनः पूर्वमृषभस्वामिसत्कं सङ्घ समुद्दिशति ततः मध्यमस्य' अजितस्वामिसङ्घस्य कल्पते । अथ मध्यमं समुद्दिशति तदा 'द्वयोरपि' पूर्व-मध्यमसद्ध्योरकल्प्यं भवति । एवं पश्चिमतीर्थकरसत्कं सङ्घमुद्दिश्य कृतं मध्यमस्य कल्पते, मध्यमस्य कृतं द्वयोरपि न कल्पते॥ [भा.५३४७] एमेव समणवग्गे, समणीवग्गेय पुबमुद्दिढे। मज्झिमंगाणं कप्पे, तेसि कडं दोण्ह विन कप्पे॥ वृ-एवमेव श्रमणवर्गे श्रमणीवर्गेच पूर्वेषाम्-ऋषभस्वामिसम्बन्धिनां श्रमणानां श्रमणीनांवा यद् उद्दिष्टम्-उद्दिश्य कृतं तद् मध्यमानांश्रमण-श्रमणीनां कल्पते । तेषां मध्यमानामर्थाय कृतं 'उभयेषामपि' पूर्व-मध्यमानांसाधु-साध्वीनांन कल्पते।एवं पश्चिम-मध्यमानामपिवक्तव्यम्।। अथैकपुरुषोद्देशे विधिमाह[भा.५३४८] पुरिमाणं एक्कस्स वि, कयं तु सव्वेसि पुरिम-चरिमाणं । नवि कप्पे ठवणामेत्तगंतु गहणं तहिं नत्थि॥ वृ. 'पूर्वेषाम्' ऋषभस्वामिसत्कानामेकस्यापि पुरुषस्यार्थाय कृतं सर्वेषामपि पूर्वपश्चिमानामकल्प्यम्, पश्चिमानामप्येकस्यार्थाय कृतं सर्वेषां पूर्व-पश्चिमानामकल्प्यम् । एतच्च 'स्थापनामात्रं' प्ररूपणामात्रं संज्ञाविज्ञानार्थं क्रियते, बहुकालान्तरितत्वेन पूर्वपश्चिमसाधूनामेकत्रासम्भवात्तत्रपरस्परंग्रहणं नास्ति' नघटते।मध्यमानांतुयदि सामान्येनैकं साधुमुद्दिश्यकृतंतत एकेन गृहीतेशेषाणांकल्पते।अथकमप्येकंविशेष्यकृतंततः तस्यैवाकल्प्यम्, शेषाणां सर्वेषामपिकल्प्यम्, पूर्व-पश्चिमानांतुसर्वेषामपितन कल्पते॥अथोपाश्रयोद्देशेविधिमाह[भा.५३४९] एवमुवस्सय पुरिमे, उद्दिट्ट नतंतु पच्छिमा भुंजे। ___मज्झिम-तव्वजाणं, कप्पे उद्दिट्ठसम पुव्वा ॥ Page #202 -------------------------------------------------------------------------- ________________ - उद्देशक : ४, मूलं-१२४, [भा. ५३४९] १९९ वृ एवं यदि समान्येनोपाश्रयाणामामुद्देशं करोति तदा सर्वेषामकल्प्यम् । अथ पूर्वेषामआद्यतीर्थकरसाधूनामुपाश्रयानुद्दिशति ततस्तदर्थमुष्टिष्टं पश्चिमा उपलक्षणत्वात्पूर्वे वा साधवः सर्वेऽपि न भुञ्जते, मध्यमानां पुनः कल्पनीयम् । अथ मध्यमसाधूनामुपाश्रयान् सर्वानुद्दिश्य करोतिततोमध्यमानांपूर्व-पश्चिमानांचसर्वेषामकल्प्यम् । अथ कियतएव मध्यमोपाश्रयानुद्दिशति ततः 'तद्वानां तेषु-उपाश्रयेषुये श्रमणास्तान् वर्जयित्वा शेषाणांमध्यमश्रमणश्रमणीनांकल्पते। “उद्दिट्ठसम पुव"त्तिपूर्वे साधवः-ऋषभस्वामिसत्का भण्यन्ते, ते उदिष्टसमाः' यंसाधुमुद्दिश्य कृतंतत्तुल्याः, एकमुद्दिश्य कृतं सर्वेषामकल्पनीयमिति भावः॥एवं तावत्पूर्वेषांमध्यमानांच भणितम् । अथ मध्यमानां पश्चिमानां चाभिधीयते[भा.५३५०] सव्वे समणा समणी, मज्झिमगा चेव पच्छिमा चेव । मज्झिमग समण-समणी, पच्छिमगा समण-समणीतो॥ वृ-सर्वे श्रमणाः श्रमण्यो वायदोद्दिश्यन्ते ता सर्वेषामकल्प्यम् । “मज्झिमगाचेव" तिअथ मध्यमाः श्रमणाः श्रमण्यो वा उद्दिष्टास्ततो मध्यमानां पश्चिमानांच सर्वेषामकल्प्यम् । “पच्छिमा चेव" त्ति पश्चिमानां श्रमण-श्रमणीनामुहिष्टे तेषां सर्वेषामकल्प्यम्, मध्यमानां कल्प्यम् । मध्यमश्रमणानामुद्दिष्टं मध्यमसाध्वीनां कल्पते, मध्यमश्रमणीनामुद्दिष्टं मध्यमसाधूनां कल्पते। पश्चिमश्रमणानामुद्दिष्टे पश्चिमसाधु-साध्वीनां न कल्पते, मध्यमानामुभयेषामपि कल्पते । एवं पश्चिमश्रमणीनामप्युधिष्टे वक्तव्यम् ॥ [भा.५३५१] उवस्सग गणिय-विभाइय, उज्जुग-जड्डा यवंक-जड्डाय। मज्झिमग उज्जु-पन्ना, पेच्छा सत्राश्यगाऽऽगमणं॥ अथोपाश्रयेषु साधून गणित-विभाजितान् करोति । गणिता नाम-इयतांपञ्चादिसङ्ख्याकानां दातव्यम्, विभाजिता नाम-'अमुकस्यामुकस्य' इति नामोत्कीर्तनेन निर्धारिताः।अत्रचतुर्भङ्गीगणिताअपि विभाजिता अपि १ गणितान विभाजिताः२विभाजिता न गणिताः३न गणिता नविभाजिताः४।अत्रप्रथमभङ्गेमध्यमानां गणित-विभाजितानामेवाकल्प्यम्, शेषाणां कल्पते। द्वितीयभङ्गे यावद् गणितप्रमाणैर्न गृहीतं तावत् सर्वेषामकल्प्यम्, गणितप्रमाणैर्गृहीते मध्यमानां शेषाणां कल्प्यम् । तृतीयभङ्गे यावन्तः सद्दशनामानस्तेषां सर्वेषामकल्प्यम्, शेषाणां कल्प्यम् । चतुर्थभङ्गे सर्वेषामकल्प्यम् । पूर्व-पश्चिमानां तु सर्वेष्वपि भङ्गेषु न कल्पते । परः प्राह-ननु सर्वेषां सर्वज्ञानां सध्श एव हितोपदेशस्ततः कथं पञ्चयामिकानां चतुर्यामिकानां च विसध्शः कल्प्याऽकल्प्यविधिः ? अत्रोच्यते-कालानुभावेन विनेयानामपरापरं तथातथास्वभावपरिणाम विमलकेवलचक्षुषा विलोक्य तीर्थकृद्भिरित्थं कल्प्या-ऽकल्प्यविधिवैचित्र्यमकारि।तथा चाह"उजुग-जड्डाय" इति, पूर्वसाधवः ऋजु-जडाः पश्चिमसाधवो वक्र-जडा मध्यमा ऋजु-प्राज्ञाः । एतेषां च त्रिविधानामपि साधूनां नटप्रेक्षाध्ष्टान्तेन प्ररूपमा कर्तव्या। त्रिविधानामेव च साधूनां सज्ञातककुलमागतानां गृहिण उद्गमादिदोषान् कुर्युः तत्रापि त्रिधा निदर्शनं कर्तव्यम् ॥ तत्र नटप्रेक्षणकदृष्टान्तं तावदाह[भा.५३५२] नडपेच्छंदणं, अवस्स आलोयणा न सा कप्पे । कउयादी सोपेच्छति, न ते वि पुरिमाण तो सब्वे ॥ ional Page #203 -------------------------------------------------------------------------- ________________ २०० बृहत्कल्प-छेदसूत्रम् -३-४/१२४ वृ-कश्चित् प्रथमतीर्थकरसाधुभिक्षां पर्यटन् नटस्य प्रेक्षा' प्रेक्षणकं दृष्टवा कियन्तमपि कालमवलोक्य समागतः, स च ऋजुत्वेनावश्यमाचार्याणामलोचयति, यथा-नो नृत्यन् मया विलकितः।आचार्यरुक्तम्-'सा' नटावलोकना साधूनां कर्तुन कल्पते।ततः यथाऽऽदिशन्ति भगवन्तस्तथैव' इत्यभिधाय भूयोऽपि भिक्षामटन् कयोकादिकमी प्रेक्षते । कयोको नामवेषपरावर्तकारी नटविशेषः । आदिशब्दाद् नर्तकीप्रमृतिपरिग्रहः । ततस्तथैवालोचिते गुरवो भणन्ति-ननुपूर्वं वारितस्त्वमासीः।सप्राह-नट एव द्रष्टुं वारितोनकयोकः, एष चमयाकयोको दृष्टः।एवंयावन्मात्रंपरिश्पुटेन वचसावार्यन्तेतावन्मात्रमेवैतेवर्जयन्ति,नपुनःसामर्थ्योकतमपरस्य पाशस्य प्रतिषेधं प्रतिपद्यन्ते । यदा तु भण्यते "नते वि"ति 'तेऽपि' कयोकादयो न कल्पन्ते द्रष्टुं तदा सर्वानपि परिहरन्ति, अतः पूर्वेषां साधूनां सर्वेऽपि नटादयो न कल्पन्ते द्रष्टुमिति प्रथममेवोपदेष्टव्यम॥ [भा.५३५३] एमेव उग्गमादी, एकेक निवारि एतरे गिण्हे । सव्वे विन कपंति, ति वारितो जञ्जियं वजे ॥ वृ-'एवमेव' नटप्रेक्षणोक्तेनैव प्रकारेण पूर्वतीर्थकरसाधुर्यदिएकैकमुद्गमादिदोष निवार्यते ततोयमेवाधाकर्मादिकंदोषं निवारितस्तमेववर्जयति इतरांस्तु पूतिकर्म-क्रीतकृतादीन्गृह्णाति, न वर्जयतीत्यर्थः । यदा तु सर्वेऽपि' उद्गमदोषा न कल्पन्ते इति वारितो भवति तदा सर्वानपि यावज्जीवं वर्जयति ॥अथ संज्ञातकागमनपदं व्याचष्टे[भा.५३५४] सन्नायगा वि उज्जुत्तणेण कस्स कत तुझमेयं ति। मम उद्दिछ न कप्पइ, कीतं अन्नस्स वा पगरे॥ वृ-प्रथमतीर्थकरतीर्थेयदासाधुः संज्ञातककुलंगच्छतितदातेसंज्ञातकाः किञ्चिदाधाकर्मादिकं कृत्वा साधुना 'कस्यार्थाय युष्माभिरिदंकृतम्?' इतिपृष्टाःसन्त ऋजुत्वेन कथयन्ति-युष्मदर्थमेतद् इति। ततः साधुर्भणति-ममोटिष्टभक्तंन कल्पते। एवमुक्तः स गृही क्रीतकृतं अन्यद्वा दोषजातं कृत्वा दद्यात्, 'उहिष्टमेवामुना प्रतिषिद्धं न क्रीतादिकम्' इति बुध्या । अथवाऽन्यस्य साधोरायाधाकर्म प्रकुर्यात्, 'ममोदिष्टं न कल्पते इति भणता तेनात्मन एवाधाकर्म प्रतिषिद्धम् नान्येषाम्' इति बुध्या॥ [भा.५३५५] सव्वजईण निसिद्धा, मा अनुमन्नत्ति उग्गमाणे सिं। इति कधिते पुरिमाणं, सव्वे सव्वेसि न करेंति।। - यदा तु तेषां गृहिणामग्रेऽभिधीयते-सर्वेऽप्युद्गमदोषाः सर्वेषां यतीनां निषिद्धाः' न कल्पन्ते, मा भूद् "ने" अस्माकं "सिं" ति तेषां दोषाणां अनुमतिदोष इति कृत्वा । तत एवं कथिते सति ते गृहिणः सर्वेषामपि साधूनां सर्वानप्युद्गमदोषान् न कुर्वन्ति । एवं पूर्वेषां तीर्थे ये दानश्राद्धादयउद्गमदोषकारिणस्तेऽपिऋजु-जडाइतिभावः॥ अथऋजु-जडपदव्याख्यानमाह. [भा.५३५६] उज्जुत्तणं से आलोयणाए जडत्तणं से जं भुजो। तजातिए नयाणति, गिही वि अन्नस्स अन्नं वा।। वृ-ऋजुत्वं "से" 'तस्य' प्रथमतीर्थकरसाधोरेवं मन्तव्यम्-यद् एकान्तेऽप्यकृत्यं कृत्वा गुरूणामवश्यमालोचयति। यत् पुनर्भूयस्तजातीयान् दोषान् न जानातिन च वर्जयतितेन तस्य ___ Page #204 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं- १२४, [भा. ५३५६ ] २०१ जडत्वं द्रष्टव्यम् । गृहिणोऽपि यद् एकस्य निवारितं तद् अन्यस्य निमित्तं कुर्वन्ति 'अन्यं वा ' क्रीतकृतादिकं दोषं कुर्वन्ति एतत् तेषां जडत्वम् । यत् तु पृष्टाः सन्तः परिस्फुटं सद्भावं कथयन्ति एतत् तेषां ऋजुत्वम् ।। अथ मध्यमानामृजु-प्रज्ञतां भावयति [ भा. ५३५७ ] उज्जुत्तणं से आलोयणाए पत्रा उ सेसवज्रणया । सन्नायगा वि दोसे, न करेंतऽन्ने न यऽन्नेसिं ॥ वृ- 'रहस्यपि यत् प्रतिसेवितं तद् अवश्यमालोचयितव्यम्' इत्यालोचनया मध्यमतीर्थङ्करसाधूनामृजुत्वं मन्तव्यम्, यत् पुनः शेषाणां तज्जातीयानामर्थानां स्वयमभ्यूह्य ते वर्जनां कुर्वन्ति ततः प्रज्ञा तेषं प्रतिपत्तव्या । ते हि 'नटावलोकनं कर्तुं न कल्पते' इत्युक्ताः प्राज्ञतया स्वचेतसि परिभावयन्ति-यथा एतद् नटावलोकनं 'राग-द्वेषनिबन्धनम्' इति कृत्वा परिह्नियते तथा कयोकनर्तक्यादिदर्शनमपि रागद्वेषनिबन्धनतया परिहर्तव्यमेव; इति विचन्त्य तथैव कुर्वन्ति । संज्ञातका अपि तेषाम् 'इदमुष्टिभक्तं मम न कल्पते' इत्युक्ताश्चिन्तयन्ति-यथैतस्यायं दोषोऽकल्पनीयस्तथाऽन्येऽपि तज्जायाः सर्वेऽप्यकल्पनीयाः, यथा चैतस्य ते अकल्पनीयास्तथा सर्वेषामपि साधूनां न कल्पन्ते । एवं विचिन्त्य 'अन्यान्' उद्गमदोषान् न कुर्वन्ति, अन्येषां च साधूनां हेतोर्न कुर्वन्ति ॥ अथ वक्र-जडव्याख्यानमाह [भा. ५३५८ ] वंकाउन साहंती, पुट्ठा उभांति उण्ह-कंटादी । पाहुणग सद्ध ऊसव, गिहिणो वि य वाउलंतेवं ॥ खू- पश्चिमतीर्थकरसाधवो वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि 'न कथयन्ति' नालोचयन्ति, जडतया च जानन्तोऽजानन्तो वा भूयस्तथैवापराधपदे प्रवर्तन्ते । नटावलोकनं कुर्वाणाश्च ध्ष्टास्ततो गुरुभिः पृष्टाः - किमियती वेलां स्थिताः ? । ततो भणन्ति-उष्णेनाभितापिता वृक्षादिच्छायायां विश्रामं गृहीतवन्तः, कण्टको वा लग्न आसीत् सतत्र स्थितैरपनीतः, आदिशब्दाद् अन्यदप्येवंविधमुत्तरं कुर्वन्तीति । गृहिणोऽपि आधाकर्मादौ कृते पृष्टा भणन्ति प्राघुणका आगतास्तदर्थमिदमुपस्कृतम्, अस्माकं वा ईशे शाल्योदनादौ भक्तेऽद्य श्रद्धा समजनि, उत्सवो वा अद्यामुकोऽस्माकम् । एवं गृहिणोऽपि वक्र-जडतया साधून् 'व्याकुलयन्ति' व्यामोहयन्ति, सद्भावं नाख्यान्तीत्यर्थः । एतेन कारणेन चातुर्यामिक-पञ्चयामिकानामाधाकर्मग्रहणे विशेषः कृत इति प्रक्रमः ॥ अथ द्वितीयपदमाह [भा. ५३५९ ] आयरिए अभिसेगे, भिक्खुम्मि गिलाणए य भयणा उ । तिक्खुत्तऽडवि पवेसे, चउपरियट्टे तओ गहणं ।। वृ- आचार्याऽभिषेक- भिक्षूणामेकतरः सर्वे वा ग्लाना भवेयुः तत्र सर्वेषामपि योग्यमुद्गमादिदोषशुद्धं ग्रहीतव्यम् । अलभ्यमाने पञ्चकपरिहाण्या यतित्वा चतुर्गुरुकं यदा प्राप्तं भवति तदाऽऽधाकर्मणः 'भजना' सेवना भवति । अथवा भजना नाम- आचार्यस्याभिषेकस्य गीतार्थभिक्षोश्च येन दोषेणाशुद्धमानीतं तत् परिस्फुटमेव कथ्यते । यः पुनरगीतार्थोऽपरिणामको वा तस्य न निवेद्यते । अशिवादिभिर्वा कारणैरटवीम् अध्वानं प्रवेष्टुमभिलषन्ति तत्र प्रथममेव शुद्धोऽध्वकल्पः 'त्रिकृत्वः' त्रीन् वारान् गवेष्यते, यदा न लभ्यते तदा चतुर्थे परिवर्ते पञ्चकपरिहाण्या आधाकर्मिकस्य ग्रहणं करोति ॥ अध्वनिर्गतानां चायं विधिः Page #205 -------------------------------------------------------------------------- ________________ २०२ बृहत्कल्प-छेदसूत्रम् -३-४/१२४ - [भा.५३६०] चउरो चउत्थभत्ते, आयंबिल एगठाण पुरिमढें । निव्वीयग दायब्वं, सयंच पुव्वोग्गहं कुजा ।। वृ- आचार्य स्वयमेव चतुःकल्याणकं प्रायश्चित्तं गृह्णाति, तत्र चत्वारि चतुर्थभक्तानि चत्वार्याचाम्लानि चत्वारि “एकस्थानानि' एकाशनकानीत्यर्थः चत्वारि पूर्वार्द्धानि चत्वारि निवृतिकानि (निर्विकृतिकानि)चभवन्ति।ततः शेषा अप्यपरिणामकप्रत्ययनिमित्तंचतुःकल्याणकं प्रतिपद्यन्ते। योऽपरिणाम भक्तस्य पञ्चकल्याणकंदातव्यम्, तत्र चतुर्थभक्तादीनि प्रत्येकं पञ्च पञ्च भवन्ति। स्वयंचाचार्य पूर्वमेवप्रायश्चित्तस्यावग्रहणं कुर्याद्येन शेषाः सुखेनैव प्रतिपद्यन्ते॥ आह-यत् पूर्वं प्रतिषिद्धं तत् किमेवं भूयोऽनुज्ञायते ? अनुज्ञातं चेत् ततः किमर्थं प्रायश्चित्तं दीयते? इत्याह[भा.५३६१] काल-सरीरावेक्खं, जगस्सभावं जिना वियाणित्ता। तह तह दिसंतिधम्मं, झिजति कम्मंजहा अखिलं ॥ वृ- 'काल-शरीरापेक्षं कालस्य शरीरस्य च याद्दशः परिणामो बलं वा तदनुरूपं जगतःमनुष्यलोकस्य स्वभावं विज्ञाय "जिनाः' तीर्थकरास्तथा तथा विधि-प्रतिषेधरूपेण प्रकारेण धर्मुपदिशन्ति यथा अखिलमपि कर्म क्षीयते । यच्चानुज्ञातेऽपि प्रायश्चित्तदानं तद् अनवस्थाप्रसङ्गवाराणार्थम् ॥ मू. (१२५] भिक्खूयगणाओ अवक्कम्म इच्छेज्जा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, नो से कप्पइ अनापुच्छित्ता आयरियं वा उवज्झायंवा पवत्तिं वा थेरं वागणिं वागणहरंवागणावच्छेइयं वा अनंगणं उवसंपजित्ताणं विहरित्तए; कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेइयं वाअनंगणं उवसंपज्जित्ताणं विहरित्तए; तेय से वियरेज्जा एवं से कप्पइ अन्नगणंउवसंपज्जित्ताणं विहरत्तए; ते य से नो वितरेजा एवं से नो कप्पइ अन्नं गणं उवसंपज्जित्ताणं विहरित्तए॥ वृ-एवमग्रेतनमपि सूत्राष्टकमुच्चारणीयम् ।।अथास्य सूत्रनवकस्य कः सम्बन्धः? इत्याह[भा.५३६२] कप्पातो व अकप्पं, होज्ज अकप्पा व संकमो कप्पे। गणि गछे व तदुभए, चुतम्मि अह सुत्तसंबंधो॥ वृ-पूर्वसूत्रे कल्पस्थिता अकल्पस्थिताश्चोक्ताः । तेषां च ‘कल्पात् स्थितकल्पाद् ‘अकल्पे' अस्थितकल्पे सङ्कमणं भवेत्, ‘अकल्पाद् वा' अस्थितकल्पात् 'कल्पे' स्थितकल्पे सङ्क्रमणं भवेत्, अथवा 'गणी' आचार्य उपाध्यायो वा तस्य गच्छे सूत्रा-ऽर्थ-तदुभयस्मिन् ‘च्युते' विस्मृते सति गच्छान्तरे सङ्क्रमणं भवेत्, अतस्तद्विधिरनेनाभिधीयते । एष सूत्रसम्बन्धः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'भिक्षु' सामान्यसाधुः चशब्दाद् निर्ग्रन्थी च गणाद् ‘अवक्रम्य' निर्गत्य 'इच्छेत्' अभिलषेद् अन्य गणमुपसम्पद्य विहर्तुम् । कल्पते "से" तस्य भिक्षोराचार्य वा यावत्करणाद् उपाध्यायं वा प्रवर्तिनं वा स्थविरं वा गणिनं वा गणधरं वा गणावच्छेदकं वाऽऽपृच्छयान्यं गणमुपसम्पद्य विहर्तुम् । ते च' आचार्यादय आपृष्टाः सन्तस्तस्यान्यगणगमनं 'वितरेयुः' अनुजानीयुः तत एवं तस्य कल्पते अन्यं गणमुपसम्पद्य विहर्तुम् । ते च तस्य न वितरेयुः ततो नो कल्पते तस्यान्यं गणमुपसम्पद्य विहर्तुमिति सूत्रार्थ ॥अथ नियुक्तिविस्तरः [भा.५३६३] तिहाणे अवकमणं, नाणट्ठा दंसणे चरित्तट्ठा। Page #206 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १२५, [भा. ५३६३] आपुच्छऊण गमनं, भीतो न नियत्तते कोती १ ॥ [भा. ५३६४ ] चिंतंतो २ वइगादी ३, संखडि ४ पिसुगादी ५ अपडिसेहे य ६ । परिसिल्ले सत्तम ७, गुरुपेसविए य ८ सुद्धे य ॥ वृ-स्थानं कारणमित्येकोऽर्थः, ततस्त्रिभिः स्थानैः कारणैर्गच्छाद् अपक्रमणं भवति-ज्ञानार्थं दर्शनार्थं चारित्रार्थं च । अथ निष्कारणन्यं गणमुपसम्बद्यते ततश्चतुर्गुरुकं आज्ञादयश्च दोषाः । कारणेऽपि यदि गुरुमनापृच्छय गच्छति ततश्चतुर्गुरुकम्, तस्माद् आपृच्छय गन्तव्यम् । तत्रज्ञानार्थं तावद् अभिधीयते यावद् आचार्यसकाशे श्रुतमस्ति तावद् अशेषमपि केनापि शिष्येणाधीतम्, अस्ति च तस्यापरस्यापि श्रुतस्य ग्रहणे शक्तिस्ततोऽधिक श्रुतग्रहणार्थमाचार्यमापृच्छति । आचार्येणापि स विसर्जयितव्यः । तस्यैवमापृच्छय गच्छत इमेऽतिचारा भवन्ति ते परिहर्तव्याः । तत्र कश्चित तेषामाचार्याणां कर्कशचर्यां श्रुत्वा मीतः सन् निवर्तते १ । तथा 'किं व्रजामि ? मावा ?' इति चिन्तयन् व्रजति २ । व्रजिकायां वा प्रतिबन्धं करोति, आदिशब्दाद् दानश्राद्धादिषु दीर्घा गोचरचर्यां करोति, अप्राप्तं वा देशकालं प्रतीक्षते ३ । "संखडि " त्ति सङ्घड्यां प्रतिबध्यते ४ । "पिसुगाइ " ति पिशुक - मत्कुणादिभयाद् निवर्तते अन्यत्र वा गच्छे गच्छति ५ । “अप्पडिसेह" त्ति कश्चिदाचार्यस्तं परममेघाविनमन्यत्र गच्छन्तं श्रुत्वा परिस्फुटवचसा तं न प्रतिषेधयति किन्तु शिष्यान् व्यापारयति-तस्मिन्नागते व्यञ्जन-घोषशुद्धं पठनीयम् येनात्रैवैष तिष्ठति; एवमप्रतिषेधयन्नपि प्रतिषेधको लभ्यते, तेनैवं विपरिणामितः सन् तदीये गच्छे प्रविशति ६ । “परिसिल्ले"त्ति पर्षद्वान् स उच्यते यः संविज्ञाया असंविज्ञायाश्च पर्षदः सङ्ग्रहं करोति, तस्य पार्श्वे तिष्ठतः सप्तमं पदम् । "गुरुपेसविए य" त्ति तत्र सम्प्राप्तो ब्रवीति - अहमाचार्यै श्रुताध्ययननिमित्तं युष्मदन्तिके प्रेषितः ८ । एतेषु भीतादिष्वष्टस्वपि पदेषु वक्ष्यमाणनीत्या प्रायश्चित्तम् । यत्सु भीतादिदोषविप्रमुक्तः समागतोब्रवीति-‘अहमाचार्यविसर्जितो युष्मदन्तिके समायातः' इति सः 'शुद्धः' न प्रायश्चित्तभाक् । भीतादिपदेषु प्रायश्चित्तमाह [ भा. ५३६५ ] पनगं च भिन्नमासो, मासो लहुगो य संखडी गुरुगा । पिसुमादी मासलहू, चउरो लहुगा अपडिसेहे ॥ वृ- भीतस्य निवर्तमानस्य पञ्चकम् । चिन्तयतो भिन्नमासः । व्रजिकादिषु प्रतिबध्यमानस्य मासलघु । सङ्खड्यां चतुर्गुरुकाः । पिशुकादिभयान्निवर्तमानस्य मासलघु । अप्रतिषेधकस्य पार्श्वे तिष्ठतश्चत्वारो लघुकाः ॥ [भा. ५३६६ ] परिसिल्ले चउलहुगा, गुरुपेसवियम्मि मासियं लहुगं । सेहेण समं गुरुग, परिसिल्ले पविसमाणस्स ॥ २०३ वृ- पर्षद्वत आचार्यस्य सकाशे तिष्ठतश्चतुर्लघुकाः 'गुरुभि प्रेषितोऽहम्' इति भणने लघुमासिकम् । शैक्षेण समं पर्षद्वतो गच्छे प्रविशतश्चतुर्गुरुकाः । गृहीतोपकरणस्य तत्र प्रविशत उपधिनिष्पन्नम्।। [भा. ५३६७ ] पडिसेहगस्स लहुगा, परिसेल्ले छ च्च चरिमओ सुद्धो । सिं प होंति गुरुगा, जं चाऽऽभव्वं न तं लभती ॥ वृ- 'प्रतिषेधकस्य' प्रतिषेधकत्वं कुर्वतश्चतुर्लघु । पर्षदं मीलयतः षड् लघुकाः । 'चरमः’ भीतादिदोषरहितः स शुद्धः । 'तेषामपि' प्रतिषेधकादीनामाचार्याणां तं स्वगच्छे प्रवेशयतां चत्वारो Page #207 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-४/१२५ गुरुकाः । यच सचित्तमचित्तं वा वाचनाचार्यस्याभाव्यं तत् ते किञ्चिदपि न लभन्ते, यः पूर्वमभिधारितस्तस्यैवाचार्यस्य तदाभाव्यमिति भावः ॥ अथ भीतादिपदानां क्रमेण व्याख्यानमाह २०४ [ भा. ५३६८ ] संसाहगस्स सोउं, पडिपंथिगमादिगस्स वा भीओ । आयरणा तत्थ खरा, सयं व नाउं पडिनियत्तो ॥ घृ-संसाघको नाम-वोलापकः पृष्ठतः कुतश्चिदागतो वा साधुस्तन्मुखेन श्रुत्वा, प्रतिपन्थिकःसम्मुखीनः साध्वादिस्तदादेर्वा मुखात् श्रुत्वा, स्वयं वा 'ज्ञात्वा' स्मृत्वा । किम् ? इत्याह- 'आचरणा' चर्या 'तत्र' तस्याचार्यस्य गच्छे 'खरा' कर्कशा । एवं श्रुत्वा ज्ञात्वा वा भीतः सन् यः प्रतिनिवृत्तस्तस्य पञ्चकं भवतीति शेषः ॥ अथ चिन्तयन्निति पदं व्याचष्टे [भा. ५३६९ ] पुव्वं चिंतेयव्वं, निग्गतो चिंतेति किं नु हु करेमि । वच्चामि नयत्तामि व, तहिं व अन्नत्थ वा गच्छे ॥ वृ- 'पूर्वमेव' यावन्न निर्गम्यते तावच्चिन्तयितव्यम् । यस्तु निर्गतश्चिन्तयति किं करोमि ? व्रजामि निवर्ते वा ?, यद्वा तत्र वाऽन्यत्र वगच्छे गच्छामि ? इति समासलघु प्रायश्चित्तं प्राप्नोति इति प्रक्रमः । व्रजिका-सङ्खडीद्वारद्वयमाह - [भा. ५३७० ] उव्वत्तणमप्पत्ते, लहुओ खद्धस्स भुंजणे लहुगा । पीस सुवणे लहुओ, संखडि गुरुगाय जं चऽन्नं ॥ वृ-व्रजिकां श्रुत्वा मार्गादुद्वर्तनं करोति अप्राप्तां वा वेलां प्रतीक्षते लघुमासः । अथ खद्धं प्रभूतं तत्र भुङ्क्ते ततश्चतुर्लघु । प्रचुरं भुक्त्वा अजीर्णभयेन 'निसृष्टं' प्रकामं स्वपिति लघुमासः । सङ्घड्यामप्राप्तकालं प्रतीक्षमाणस्य प्रभूतं गृह्णतो वा चतुर्गुरुकाः । “जं चऽन्नं ति यच्च हस्तेन हस्तसङ्घट्टनं पादेन पादस्याक्रमणं शीर्षेण शीर्षस्याकुट्टनमित्यादिकमन्यदपि सङ्खड्यां भवति तन्निष्पन्नं प्रायश्चित्तम् ॥ अथ प्रतिषेधकद्वारमाह [भा. ५३७१] अमुगत्य अमुगो वञ्च्चति, मेहावी तस्स कढणट्ठाए । पंथगामे व पहे, वसधीय व कोइ वावारे ॥ [भा. ५३७२ ] अभिलावसुद्ध पुच्छा, रोलेणं मा हु भे विनासेज्जा । इति कते लहुगा, जति सेहट्ठा ततो गुरुगा ॥ वृ- कश्चिदाचार्यो विशुद्धसूत्रार्थ स्फुटविकटव्यञ्जनाभिलापी, तेन च श्रुतम् अमुकाचार्यान्तिको मेधावी साधुरमुकश्रुताध्ययनार्थं व्रजति । ततोऽसौ 'मा मामतिक्रम्यान्यत्र गमद्' इति कृत्वा तस्याकर्षणार्थम् ‘अथ' अनन्तरं शिष्यान् प्रतीच्छकांश्च व्यापारयति । क्व ? इत्याह- "पंथ ग्गामे व पहे” त्ति यत्र पथि ग्रामे स भिक्षां करिष्यति, मध्येन वा समेष्यति, येन वा पथा समागमिष्यति, यस्यां वा वसतौ स्थास्यति तेषु स्थानेषु गत्वा यूयमभिलापशुद्धं परिवर्तयन्तस्तिष्ठत । यदा स आगतो भवति तदा यदि असौ पृच्छेत केन कारणेन यूयमिहागताः ? ; ततो भवद्भिर्वक्तव्यम्अस्माकं वाचनाचार्या अभिलापशुद्धं पाठयन्ति, यदि अभिलापः कथञ्चिदन्यथा क्रियते ततो महदप्रीतिकं ते कुर्वन्ति, भणन्ति च - अत्रोपाश्रये बहूनां रोलेनाभिलापं “भे” यूयं मा विनाशयतेति, ततस्तदादेशेन वयमत्र विजने परिवर्तयामः । एवमाकर्षणं कुर्वतश्चतुर्लघुकाः । अथ तेन आगच्छता Page #208 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - १२५, [भा. ५३७२] २०५ शैक्षः कोऽपि लब्धः तदर्थम् - एष शैक्षो मे भूयाद्' इति कृत्वा आकर्षति ततश्चतुर्गुरुकाः ॥ एवं बहिरावर्ज्य किं करोति ? अत आह [भा. ५३७३ ] अक्खर - वंजणसुद्धं, मं पुच्छह तम्मि आगए संते । घोसेहि य परिसुद्धं, पुच्छह निउणे य सुत्तत्थे ॥ वृ-स आचार्य शिष्यान् प्रतीच्छकान् वा भणति यदा युष्माकमभिलाप शुद्धगुणनया रञ्जितः स उपाश्रयमागच्छति तदा तस्मिन्नागते अक्षर-व्यञ्जनशुद्धं सूत्रं मां पृच्छत अक्षराणि प्रतीतानि, व्यञ्जनशब्देन अर्थाभिव्यञ्जकत्वाद् अत्र पदमुच्यते । तैरक्षरैर्व्यञ्जनैश्च सुद्धं तथा 'घोषैश्च' उदात्तादिभिः परिशुद्धं सूत्रं पठनीयम्, निपुणांश्च सूत्रार्थान् मां तदानीं पृच्छत। एवमनया भङ्ग्या तमन्यत्र गच्छे गच्छन्तं प्रतिषेधयति ।। गतं प्रतिषेधकद्वारम् । अथ परिसिल्लद्वारमाह [भा. ५३७४ ] पाउयमपाउया घट्ट मट्ठ लोय खुर विविधवेसहरा । परिसिल्लस्स तु परिसा, थलिए व न किंचि वारेति ॥ वृ-यः परिसिल्ल आचार्य स संविग्नाया असंविग्नायाश्च पर्षदः सङ्ग्रहं करोति, ततस्तस्य साधवः केचित् प्रावृताः केचिदप्रावृताः केचिद् 'घृष्टाः' फेनादिना घृष्टजङ्घाः, केचिद् 'मृष्टाः' तैलेन मृष्टकेशा मृष्टशरीरा वा अपरे लोचलुञ्चितकेशाः, अन्ये क्षुरमुण्डिताः, एवमादिविविधवेषधरा तस्य पर्षत् । स्थली - देवद्रोणी तस्यामिवासौ न किञ्चिरपि वारयति ॥ [भा. ५३७५] तत्थ पवेसे लहुगा, सच्चित्ते चउगुरुं च आणादी । उवहीनिफन्नं पिय, अचित्त चित्ते य गिण्हंते ॥ वृ- 'तत्र' पर्षद्वतो गच्छे प्रवेशं कुर्वतस्तस्य चतुर्लघु । अथ सचित्तेन शैक्षेण सार्द्धं प्रविशति ततश्चतुर्गुरव आज्ञादयश्च दोषाः । अथाचित्तेन वस्त्रादिना सह प्रविशति तत उपधिनिष्पन्नम् । मिश्रे संयोगप्रायश्चित्तम् । तथा सचित्ता ऽचित्तं ददतो गृह्णतश्चैवमेव प्रायश्चित्तम् ॥ - अथ पिशुकादिद्वारं गुरुप्रेषितद्वारं चाह [भा. ५३७६ ] ढिंकुण-पिसुगादि तर्हि, सोतुं नाउं व सन्निवत्तंते । अमुगसुतत्थनिमित्तं, तुज्झम्मि गुरूहि पेसविओ ॥ बृ- ढिड्डुण-पिशुक-दंश-मशकादीन् शरीरोपद्रवकारिणस्तत्र श्रुत्वा ज्ञात्वा वा सन्निवर्तमानस्य मासलघु । तथा 'अमुक श्रुतार्थनिमित्तं गुरुभिर्युष्मदन्तिके प्रेषितोऽहम्' इति भणतो मासलघु ॥ आह एवं भणतः को नाम दोषः ? सूरिराह [भा. ५३७७] आणाए जिणिंदाणं, न हु बलियतरा उ आयरियआणा । जिन आणाए परिभवो एवं गव्वो अविनतो य ॥ वृ- जिनेन्द्रैरेव भगवद्भिरुक्तम्, यथा- निर्दोषो विधिना सूत्रार्थनिमित्तं यः समागतस्तस्य सूत्रार्थी दातव्यौ । न च जिनेन्द्राणामाज्ञायाः सकाशादाचार्याणामाज्ञा बलीयस्तरा । अपि च'एवम्' आचार्यानुवृत्त्या श्रुते दीयमाने जिनाज्ञायाः परिभवो भवति, तथा प्रेषयत उपसम्पद्यमानस्य प्रतीच्छतश्च त्रयाणामपि गर्वो भवति, तीर्थकृतां श्रुतस्य चाविनयः कृतो भवति, ततः 'गुरुभिः प्रेषितोऽहम्' इति न वक्तव्यम् । यस्तु भीतादिदोषविप्रमुक्तोऽभिधारिताचार्यस्यान्तिके आयातः स शुद्धः । यस्तु प्रतिषेधकादीनां पार्श्वे तिष्ठति तत्र विधिमाह Page #209 -------------------------------------------------------------------------- ________________ २०६ बृहत्कल्प-छेदसूत्रम् -३-४/१२५ [भा. ५३७८] अन्नं अभिधारेतुं, उप्पडिसेह परिसिल्लमन्नं वा । पविसंते कुलादिगुरू, सच्चित्तादी व से हाउं ॥ [भा. ५३७९ ] ते दोऽवुवालभित्ता, अभिधारेज्जंते देंति तं थेरा । घट्टण विचालणं ति य, पुच्छा विष्फालनेगट्ठा ॥ वृ-यः पुनरन्यमाचार्यमभिधार्य अप्रतिषेधकं वा पर्षद्वन्तं वाऽन्यं वा प्रविशति, तस्य पार्श्वे उपसम्पद्यत इत्यर्थः, तं यदि 'कुलादिगुरवः' कुलस्थविरा गणस्थविराः सङ्घस्थविरा वा जानीयुस्ततो यत् तेनाचित्त सचित्तं वा सत्याचार्यस्योपनीतं तत् तस्य सकाशाद् हृत्वा तौ 'द्वावपि' आचार्यप्रतीच्छकौ स्थविरा उपालभन्ते कस्मात् त्वया अयमात्मपार्श्वे स्थापितः ? कस्माद् वा त्वमन्यमभिधार्य अत्र स्थितः ? ; एवम् 'उपालभ्य' तं प्रतीच्छकं घट्टयित्वा 'तत्' सचित्तादिकं सर्वमभिधारितस्याचार्यस्य 'ददति' प्रयच्छन्ति, तदन्तिके प्रेषयन्तीत्यर्थः । अथ घट्टयित्वेति कोऽर्थः ? इत्याह-घट्टनेति वा विचारणेति वा पृच्छेति वा विस्फालेति वा एकार्थानि पदानि ।। ततःघट्टेउं सच्चित्तं, एसा आरोवणा उ अविहीते । बितियपदमसंविग्गे, जयणाए कयम्मि तो सुद्धो ॥ [भा. ५३८० ] वृ-तं प्रतीच्छकं 'घट्टयित्वा' 'कमभिधार्य भवान् प्रस्थित आसीत् ? ' इति पृष्ट्वा सचित्तादिकं तस्याभिधारितस्य पार्श्वे स्थविराः प्रेषयन्तीति गम्यते । “एसा आरोवणा अविहीए "त्ति या पूर्वं प्रतिषेधकत्वं पर्षन्मीलनं वा कुर्वत आरोपणा भणिता सा अविधिनिष्पन्ना मन्तव्या । विधिना तु कारणे कुर्वाणस्य न प्रायश्चित्तम्, तथा चाह - "बिइयपय" इत्यादि, यमसावभिधारयति स आचार्योऽसंविग्नस्ततो द्वितीयपदे यतनया प्रतिषेधकत्वं कुर्यात् । का पुनर्यतना ? इति चेद् उच्यते प्रथमं साधुभिस्तं भाणयति मा तत्र व्रज । पश्चादात्मनाऽपि भणेत्, पूर्वोक्तेन वा शिष्यादिव्यापारणप्रयोगेण वारयेत् । एवं यतनया प्रतिषेधकत्वे कृतेऽपि 'शुद्धः' निर्दोषः ॥ अमुमेवार्थमाह [भा. ५३८१] अभिधारेंतो पासत्यमादिनो तं च जति सुतं अत्थि । जे अ पडिहदोसा, ते कुव्वंतो वि निद्दोसो ॥ वृ- यान् अभिधारयन्नसौ व्रजति ते आचार्या पार्श्वस्थादिदोषदुष्टाः, यच्च श्रुतमसावभिलषति तद् यदि तस्य प्रतिषेधकस्यास्ति, ततो ये प्रतिषेधकत्वं कुर्वतः 'दोषाः ' शिष्यव्यापारणादयस्तान् कुर्वन्नपि निर्दोषस्तदा मन्तव्यः ॥ [ भा. ५३८२] जं पुन सच्चित्ताती, तं तेसिं देति न वि सयं गेहे । बितियऽच्चित्त न पेसे, जावइयं वा असंथरणे ॥ वृ- यत् पुनः सचित्तादिकं प्रतीच्छकेनागच्छता लब्धं तत् 'तेषाम्' अभिधारिताचार्याणां ददाति न पुनः स्वयं गृह्णाति । द्वितीयपदे यद् वस्त्रदिकमचित्तं तद् अशिवादिभि कारणैः स्वयमलभमानो न प्रेषयेदपि अथवा यावदुपयुज्यते तावद् गृहीत्वा शेषं तेषां समीपे प्रेषयेत् । असंस्तरणे वा सर्वमपि गृह्णीयात् । सचित्तमप्यमुना कारणेन न प्रेषयेत् ॥ [भा. ५३८३] नाऊण य वोच्छेयं, पुव्वगए कालियानुओगे य । सयमेव दिसाबंधं, करेज्ज तेसिं न पेसेज्जा ।। Page #210 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - १२५, [भा. ५३८३ ] वृ- यस्तेन शैक्ष आनीतः स परममेधावी, तस्य च गच्छे नास्ति कोऽप्याचार्यपदयोग्यः, यच्च तस्य पूर्वगतं कालिकश्रुतं वा समस्ति तस्यापरो ग्रहीता न प्राप्यते, ततस्तयोर्व्यवच्छेदं ज्ञात्वा स्वयमेव तस्यात्मीयं दिग्बन्धं कुर्यात्, न 'तेषां' प्रागभिधारितानां पार्श्वे प्रेषयेत् ।। अथ पर्षद्वतो अपवादमाह [भा. ५३८४ ] असहातो परिसिल्लत्तणं पि कुज्जा उ मंदधम्मेसू । पप्प व काल - ऽद्धाणे, सच्चित्तादी वि गेहेज्जा | २०७ वृ- ‘असहायः' एकाकी स आचार्यस्ततः संविग्नमसंविग्नं वा सहायं गृह्णीयात् । शिष्या वा मन्दधर्माण गुरूणां व्यापारं न वहन्ति ततो यं वा तं वा सहयं गृह्णानः पर्षद्वत्त्वमपि कुर्यात् । श्राद्धा वा मन्दधर्माणो न वस्त्र पात्रादि प्रयच्छन्ति ततो लब्धिसम्पन्नं शिष्यं यं वा तं वा परिगृह्णीयात् । दुर्भिक्षादिकं वा कालमध्वानं वा प्राप्य ये उपग्रहकारिणः शिष्यास्तान् सङ्ग ह्वीयात् । एवं पर्षद्वत्त्वं कुर्वन् प्रतीच्छकस्य सचित्तादिकं तत्र प्रेषयेत्, पूर्वोक्तकारणे वा सञ्जाते स्वयमपि गृह्णीयात् ॥ अथ योऽसौ प्रतीच्छको गच्छति तस्यापवादमाह [ भा. ५३८५ ] कालगयं सोऊणं, असिवादी तत्थ अंतरा वा वि । परिसेल्लय पडिसेहं, सुद्धो अन्नं व विसमाणो ।। वृ- यमाचार्यमभिधार्य व्रजति तं कालगतं श्रुत्वा, यद्वा यत्र गन्तुकामस्तत्र अन्तरा वा अशिवादीनि श्रुत्वा पर्षद्वतः प्रतिषेधकस्य वा अन्यस्य वा पार्श्वे प्रविशन् शुद्धः । एतद् अविशेषितमुक्तम् । अथात्रैवाऽऽभाव्याऽनाभाव्यविशेषं बिभणिषुराह [भा. ५३८६ ] वच्चंतो वि य दुविहो, वत्तमवत्तस्स मग्गणा होति । वत्तम्मि खेत्तवज्जं, अव्वत्ते अणप्पिओ जाव ॥ वृ-यः प्रतीच्छको व्रजति सोऽपिच द्विविधः व्यक्तोऽव्यक्तश्च । तयोः सहायः किं दातव्यो ? नवा ? इति मार्गणा कर्तव्या । तत्र व्यक्तस्य यः सचित्तादिलाभः 'क्षेत्रवर्जं' परक्षेत्रं मुक्त्वा भवति स सर्वोऽप्यभिधारिताचार्यस्याभवति । यः पुनरव्यक्तः स सहायैर्यावदद्यापि तस्याचार्यस्यापिंतो न भवति तावत् परक्षेत्रं मुक्त्वा यत् ते सहाया लभन्ते तत् पूर्वाचार्यस्यैवाभवति इति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवृणोति [भा. ५३८७ ] सुतअव्वत्तो अगीतो, वएण जो सोलसण्ह आरेणं । तव्विवरीओ वत्तो, वत्तमवत्ते य चउभंगो ।। वृ- अव्यक्तो द्विधा - श्रुतेन वयसा च । तत्र श्रुतेनाव्यक्तोऽगीतार्थ, वयसाऽव्यक्तस्तु षोडशानां वर्षाणामर्वाग् वर्तमानः, तद्विपरीतो व्यक्त उच्यते । अत्र च व्यक्ता -ऽव्यक्ताभ्यां चतुर्भङ्गी भवति श्रुतेनाप्यव्यक्तो वयसाऽप्यव्यक्तः १ श्रुतेनाव्यक्तो वयसा व्यक्तः २ श्रुतेन व्यक्तो वयसाऽव्यक्तः ३ श्रुतेन व्यक्तो वयसाऽपि व्यक्तः ४ ॥ अस्य च सहायाः किं दीयन्ते ? उतन दीयन्ते ? इत्याह [भा. ५३८८] वत्तस्स वि दायव्वा, पहुप्पमाणा सहाय किमु इयरे । खेत्तविवज्रं अच्चंतिएस जं लब्भति पुरिल्ले ॥ वृ- आचार्येण पूर्यमाणेषु साधुषु व्यक्तस्यापि सहाया दातव्याः किं पुनः 'इतरस्य' अव्यक्तस्य?, Page #211 -------------------------------------------------------------------------- ________________ २०८ बृहत्कल्प-छेदसूत्रम् -३-४/१२५ तस्य सुतरांदातव्या इतिभावः । तेचसहाया द्विधा-आत्यन्तिकाअनात्यन्तिकाश्च आत्यन्तिका नाम-ये तेन सार्द्ध तत्रैवासितुकामाः, ये तु तं तत्र मुक्त्वा प्रतिनिवर्तिष्यन्ते ते अनात्यन्तिकाः । तत्रात्यन्तिकेषुसहायेषुय व्यक्तः क्षेत्रविवर्ज' परक्षेत्रंमुक्त्वा सचित्तादिकं लभतेतत् "पुरिल्ले" त्ति यस्याऽऽचार्यस्याभिमुखं व्रजति स पुरोवर्ती भण्यते, अभिधारित इत्यर्थः, तस्य सर्वमपि सचित्तादिकमाभवति । परक्षेत्रे तु लब्धं क्षेत्रिकस्याभाव्यम् ।। [भा.५३८९] जइ नेउं एतुमना, जंते मग्गिल्ले वत्ति पुरिमस्स। नियमऽव्वत्त सहाया, नेतु नियत्तंति जंसो य॥ . वृ-अथ ते सहायास्तं तत्र नीत्वा आगन्तुकामाः, अनात्यन्तिका इत्यर्थः, ततो यत् ते सहाया लभन्ते तत् सर्वमपि “मग्गिल्ले"त्ति यस्य सकाशत् प्रस्थिताः तस्यात्मीयस्याचार्यस्याभवति । "वत्तिपुरिमस्स"ततियत्पुनः सव्यक्तः स्वयमुत्पादयतितत् 'पुरिमस्य' अभिधारितस्याभवति। यःपुनरव्यक्तस्तस्य नियमेनैव सहाया दीयन्ते, तेच सहाया यदि आत्यन्तिकास्तदा यद् असौ ते च लभन्ते तद्अभिधारितस्याभाव्यम् । अथ तंतत्र नीत्वा निवर्तन्ते ततो यद् असौ तेच परक्षेत्रं मुक्त्वा लभन्ते तत् सर्वं पूर्वाचार्यस्याभवति यावद् अद्याऽप्यसौ नार्पितो भवति । [भा.५३९०] बितियं अपहुच्चंते, न देज्ज वा तस्स सो सहाएतु। वइगादिअपडिबझंतगस्स उवही विसुद्धो उ॥ वृ-द्वितीयपदमत्र भवति-अपूर्यमाणेषु साधुषु सहायान् साधून् तस्याचार्यो न दद्यादपि । स चात्मना श्रुतेन वयसा च व्यक्तः, तस्य च वजिकादावप्रतिबध्यमानस्योपधिर्विशुद्धो भवति, नोपहन्यते। अथ व्रजिकादिषु प्रतिबध्यते तत उपधेरुपघातो भवति॥ [भा.५३९१] एगे तू वचंते, उग्गहवजंतुलभति सच्चित्तं। वच्चंत गिलाणे अंतरातु तहि मग्गणा होइ॥ वृ-यो व्यक्त एकाकी व्रजति स यदि अन्यस्याचार्यस्य योऽवग्रहस्तद्वर्जितेऽनवग्रहक्षेत्रे यत् किञ्चिद् लभते तत् सचित्तमभिधार्यमाणस्याभवति । “वचंत" इत्यादि, योऽसौ ज्ञानार्थं व्रजति स द्वौ त्रीन् वाऽऽचार्यान् कदाचिद् अभिधारयेत् तेषां मध्ये यो मे अभिरोचिष्यत तस्यान्तिके उपसम्पदंग्रहीष्यामि' इति कृत्वा ।सचान्तराग्लानो जातः, तैश्चाचार्यश्रुतम्, यथा-अस्मानभिधार्य साधुरागच्छन् पथिग्लानो जात इति; तत्रेयमाभाव्या-ऽनाभाव्यमार्गणा भवति॥ [मा.५३९२] आयरिय दोनिआगत, एक्के एक्के वऽनागए गुरुगा। न य लभती सच्चित्तं, कालगते विप्परिणए वा॥ वृ- यदि तौ द्वावपि आचार्यावगातौ ततो यत् तेन लब्धं तद् उभयोरपि साधारणम् । अथैकस्तयोरागतः “एकश्च' द्वितीयो नागतः ततोऽनागतस्य चतुर्गुरु, यच्च सचित्तमचित्तं वा तदसौनलभते, यस्तंगवेषयितुमागतस्तस्य सर्वमाभवति।एवंत्र्यादिसङ्ख्याकेष्वाचार्येष्वभिधारितेषु भावनीयम् । अथासौ ग्लानः कालगतस्तदाऽपि यो गवेषयितुमागच्छति तस्यैवाभवति, नेतरेवाम् । अथासौ विपरिणतस्ततो यस्य विपरिणतः स न लभते । यत् पुनः सचित्तादिकमभिधार्यमाणे लब्धपश्चा विपरिणतस्ततो यदविपरिणते भावे लब्धंतद् लभते, विपरिणते भावे लब्धं न लभते ॥ Page #212 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं - १२५, [भा. ५३९३] [भा. ५३९३] पंथ सहाय समत्थो, धम्मं सोऊण पव्वयामि त्ति । खेत्ते य बाहि परिणये, वाताहडे मग्गणा इणमो ॥ वृ-योऽसौ ज्ञानार्थं प्रस्थितस्तस्य पथि गच्छतः कश्चिद् मिध्यादृष्टिः 'वाताहृतः' वातेनाऽऽहृत इव वाताहतः, आकस्मिक इत्यर्थः, समर्थ सहायो मिलितः, स च तस्य पार्श्वे धर्मं श्रुत्वा 'प्रव्रजामि' इति परिणाममुपगतवान् । स च परिणामः साधुपरिगृहीते क्षेत्रे जातो भवेत्, 'क्षेत्रात् वा बहिः' इन्द्रस्थानादौ वा अपरिगृहीते वा क्षेत्रे, ततस्तत्र वाताहते प्रव्रजितुं परिणते इयं मार्गणा भवति ।। [भा. ५३९४ ] खेत्तम्मि खेत्तियस्सा, खेत्तवहिं परिणए पुरिल्लस्स । अंतर परिणय विप्परिणए य नेगा उ मग्गणता ॥ २०९ वृ- साधुपरिगृहीते क्षेत्रे प्रव्रज्यापरिणतः क्षेत्रिकस्याभवति । क्षेत्राद् बहिः परिणतस्तु " पुरिल्लस्स "त्ति तस्यैव साधोराभवति । अथान्तराऽन्तरा स प्रव्रज्यायां परिणतो विपरिणतश्च भवति ततः क्षेत्रेऽ क्षेत्रे च धर्मकथिकस्य राग-द्वेषौ प्रतीत्यानेका मार्गणा । तद्यथा-यदि धर्मकथी ऋजुतया कथयति तदा क्षेत्रे परिणतः क्षेत्रिकस्याभवति, अक्षेत्रे परिणतो धर्मकथिकस्य । अथ विपरिणते भावे रागेण न कथयति, यदा क्षेत्रान्निर्गतो भविष्यति तदा कथयिष्यामि येन मे आभवति । एवं क्षेत्रनिर्गतस्य कथिते यदि परिणतः तदा क्षेत्रिकस्याभवतीत्येवं विभाषा कर्तव्या ।। [भा. ५३९५ ] वीसज्जियम्मि एवं अविसज्जिए चउलहुं च आणादी । तेसिं पि हुंति लहुगा, अविधि विही सा इमा होइ ॥ वृ- एवमेष विधिर्गुरुणा विसर्जिते शिष्ये मन्तव्यः । अथाविसर्जितो गच्छति तदा शिष्यस्य प्रतीच्छकस्य च चतुर्लघु । अथ विसर्जितो द्वितीयं वारमनापृच्छय गच्छति तदा मासलघु आज्ञादयश्च दोषाः । येषामपि समीपेऽसौ गच्छति तेषामप्यविधिनिर्गतं तं प्रतीच्छतां भवन्ति चत्वारो लघवः, सचित्तादिकं चाभाव्यं न लभन्ते । एषोऽ विधिरुक्तः, विधि पुनरयं वक्ष्यमाणो भवति ॥ स पुनराचार्य एभि कारणैर्न विसर्जयति [भा. ५३९६ ] 2014 परिवार - पूयहेउं, अविसज्जंते ममत्तदोसा वा । अनुलोमेन गमेजा, दुक्खं खु विर्मुचिरं गुरुणो ॥ वृ- आत्मनः परिवारनिमित्तं न विसर्जयति, बहुभिर्वा परिवारितः पूजनीयो भविष्यामि, 'मम शिष्योऽन्यस्य पार्श्वं गच्छति' इति ममत्वदोषाद्वा न विसर्जयति, एवमविसर्जयन्तं गुरुम् 'अनुलोम्ना' अनुकूलैर्वचोभि 'गमेत्' प्रज्ञापयेत् । कुतः ? इत्याह- 'दुःखं' दुष्करं 'खुः' अवधारणे गुरून् विमोक्तुम्, परमपकारकारित्वाद् न ते यतस्ततो विमोक्तुं शक्या इति भावः । ततः प्रथमत एव विधिना गुरूनापृच्छय गन्तव्यम् ।। कः पुनर्विधिः ? इति चेद् उच्यते [भा. ५३९७] नाणम्मि तिनि पक्खा, आयरि- उज्झाय-सेसगाणं च । एक्क्क पंच दिवसे, अहवा पक्खेण एक्केक्कं ॥ वृ- ज्ञानार्थं गच्छता आचार्योपाध्याय - शेषसाधूनां त्रीन् पक्षान् आपृच्छा कर्तव्या । तत्र प्रथममाचार्यं पञ्च दिवसानापृच्छति, यदि न विसर्जयति तत उपाध्यायं पञ्च दिवसानापृच्छेत्, यदि सोऽपि न विसर्जयति तदा शेषाः साधवः पञ्च दिवसान् प्रष्टव्याः, एष एकः पक्षो गतः; ततो Page #213 -------------------------------------------------------------------------- ________________ २१० बृहत्कल्प-छेदसूत्रम् -३-४/१२५ द्वितीयं पक्षमेवमेवाचार्योपाध्याय-शेषसाधून प्रत्येमेकैकं पञ्चभिर्दिवसैः पृच्छति; तृतीयमपि पक्षमेवमेव पृच्छति, एवं त्रयः पक्षा भवन्ति । अथवा पक्षेणैकैकं पृच्छेत् । किमुक्तं भवति?निरन्तरमेवाचार्य एकंपक्षमाप्रच्छनीयः, तत उपाध्यायोऽप्येकं पक्षम्, गच्छसाधवोऽप्येकंपक्षम्, एवं वा त्रयः पक्षाः । एवमपि यदि न विसर्जयन्ति ततोऽविसर्जित एव गच्छति॥ [भा.५३९८] एयविहिमागतंतू, पडिच्छ अपडिच्छणे भवे लहुगा। अहवा इमेहि आगते, एगादि पडिच्छती गुरुगा॥ वृ- एतेने विधिना आगतं प्रतीच्छकं प्रतीच्छेत् । अप्रतीच्छतश्चतुर्लघुका भवेयुः । अथामीभिरेकादिभिः कारणैरागतं प्रतीच्छति ततश्चतुर्गुरुकाः।तान्येव एकादीनि कारणान्याह[भा.५३९९] एगे अपरिणते या, अप्पाहारे य थेरए। गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ॥ कृएकाकिनमाचार्यमुक्त्वाससमागतः।अथवातस्याचार्यस्यपाइँयेतिष्ठन्तिते अपरिणताः' आहार-वस्त्र-पात्र-शय्या-स्थण्डलानामकल्पिकाः तैः सहितमाचार्य मुक्त्वा आगतः। अथवा स आचार्य 'अल्पाधारः' तमेव पृष्टवा सूत्रा-ऽर्थवाचनां ददाति । स्थविरो वा स आचार्य, यद्वा तदीये गच्छे कोऽपिसाधुःस्थविरस्तस्य स एव वैयावृत्यकर्ता । ग्लानोवाबहुरोगी वासआचार्य। 'ग्लानः' अधुनोत्पनरोगः, 'बहुरोगीनाम चिरकालं बहुभिर्वा रोगैरभिभूतः।अथवा शिष्यास्तस्य मन्दधर्माणस्तस्यैव गुणेन सामाचारीमनुपालयन्ति। एवंविधमाचार्य परित्यज्यागतः । “पाहुडे"त्ति गुरुणा समं 'प्राभृतं' कलहं कृत्वा समागतः; अथवा 'प्राभृतकारिणः' आसङ्घडिकास्तस्य शिष्यास्तस्यैव गुणेन नासवडयन्ति॥ [भा.५४००] एयारिसं विओसज्ज, विप्पवासो न कप्पती। सीस-पडिच्छा-ऽऽयरिए, पायच्छित्तं विहिज्जती ।। . वृ-एताशमाचार्य व्युत्सृज्य 'विप्रवासः' गमनं कर्तुंन कल्पते। यदि गच्छति ततः शिष्यस्य प्रतीच्छकस्याचार्यस्य च त्रयाणामपि प्रायश्चित्तं विधीयते । तत्रैकं ग्लानं वा मुक्त्वा शिष्यस्य प्रतीच्छकस्य वा समागतस्य चतुर्गुरुकाः, यश्चाचार्य प्रतीच्छति तस्यापिचतुर्गुरु ।प्राभृते शिष्यप्रतीच्छकयोश्चतुर्गुरुकमेव,आचार्यस्य पञ्चरात्रिन्दिवच्छेदः। शेषेषु अपरिणतादिषुपदेषुशिष्यस्य चतुर्गुरु, प्रतीच्छकस्य चतुर्लघु, आचार्यस्यापि शिष्यं प्रतीच्छत एतेषु चतुर्गुरु, प्रतीच्छकं प्रतीच्छतश्चतुर्लघु । अथ 'ज्ञानार्थं त्रीन् पक्षानाप्रच्छनीयम्' इत्यत्रापवादमाह[भा.५४०१] बिइयपदमसंविग्गे, संविग्गेचेव कारणागाढे । नाऊण तस्सभावं, कप्पति गमनं अनापुच्छा॥ वृ-द्वितीयपदमत्र भवति-आचार्यादिष्वसंविग्नीभूतेषु न पृच्छेदपि । संविग्नेष्वपि वा किञ्चिदागाढं-चारित्रविनाशनकारणंस्त्रीप्रभृतिकमात्मनः समुत्पन्नंततोऽनापृच्छयाऽपिगच्छति। तेषां वा-गुरूणां स्वभावंज्ञात्वा-'नैते पृष्टाः सन्तः कथमपिविसर्जयन्ति' इतिमत्वाअनापृच्छयापि गमनं कल्पते॥अथाविसर्जितेन न गन्तव्यमित्यपवदति[भा.५४०२] अज्झयणं वोच्छिज्जति, तस्स य गहणम्मि अस्थि सामत्यं । न वि वियरंति चिरेण वि, एतेनऽविसज्जितो गच्छे॥ Page #214 -------------------------------------------------------------------------- ________________ उद्देशक: ४, मूलं - १२५, [भा. ५४०२ ] २११ वृ- किमप्यध्ययनं व्यवच्छिद्यते, तस्य च तद्रहणे सामर्थ्यमस्ति, नच गुरवश्चिरेणापि 'वितरन्ति' गन्तुमनुजानते, एतेन कारणेनाविसर्जितोऽपि गच्छेत् || 'अविधिना आगत आचार्येण न प्रतीच्छनीयः' इत्यस्यापवादमाह [मा. ५४०३] नाऊण य वोच्छेदं, पुव्वगते कालियानुओगे य । अविहि-अनापुच्छाऽऽगत, सुत्तत्थविजाणओ वाए ॥ कृ- पूर्वगते कालिक श्रुते वा व्यवच्छेदं ज्ञात्वा अविधिना-प्रजिकादिप्रतिबन्धेनागतमनापृच्छयागतं वा सूत्रार्थज्ञायको वाचयेत्, न कश्चिद्दोषः ॥ यस्तेन प्रतीच्छकेन शैक्षस्तस्याभिधारितस्यानाभाव्य आनीतः स न ग्रहीतव्यः' इत्यपवदति [भा. ५४०४] नाऊण य वोच्छेदं, पुव्वगते कालियानुओगे य । सुत्तत्थजाणगस्सा, कारणजाते दिसाबंधो ॥ वृ- पूर्वगते कालिकश्रुते वा व्यवच्छेदं ज्ञात्वा सूत्रार्थज्ञायकेन कारणजाते अनाभाव्यस्यापि आत्मीयो दिग्बन्धः कर्तव्यः । आह- किमर्थमनिबद्धो न वाच्यते ? उच्यते-अनिबद्धः स्वयमेव कदाचिद् गच्छेत् पूर्वाचार्येण वा नीयेत, कालदोषेण वा ममत्वीभावमालम्ब्य वाचयिष्यन्ति इति दिग्बन्धोऽनुज्ञातः ॥ इदमेव सविशेषमाह [भा. ५४०५ ] ससहायअवत्तेणं, खेत्ते वि उवट्ठियं तु सच्चित्तं । दलियं नाउं बंधति, उभयममत्तट्टया तं वा ॥ वृ- अव्यक्तेन ससहायेन यः शैक्षो लब्धो यश्च परक्षेत्रेऽपि उपस्थितः सचित्तः स पूर्वाचार्यस्य क्षेत्रिकाणां वा यद्यपि आभाव्यस्तथापि तं 'दलिकं' परममेधाविनमाचार्यपदयोग्यं ज्ञात्वा यद्यात्मीये गच्छे नास्त्याचार्यपदयोग्यस्ततस्तस्यात्मीयां दिशं बध्नाति, स्वशिष्यत्वेन स्थापयतीत्यर्थः । कुतः ? इत्याह-उभयस्य-साधु-साध्वीवर्गस्य तत्र सैक्षे ममत्वम्- 'अस्माकमयम् इत्येवं ममीकारो भूयात्' 'इति कृत्वा, यद्वा स्वगच्छीयसाधूनां तस्य च शैक्षस्य 'परस्परं सज्झिलका वयम् इत्येवं ममत्वं भविष्यति' इति बुध्या तमात्मीयशिष्यत्वेन बध्नाति । "तं व"त्ति यो वा प्रतीच्छक आयातस्तमपि ग्रहण-धारणासमर्थं विज्ञाय स्वशिष्यं स्थापयति । एवं शैक्षः प्रतीच्छको वा कारणे शिष्यतया निबद्धः सन् यदा निर्मातो भवति तदा [ भा. ५४०६ ] आयरिए कालगते, परियट्टइ तं गणं च सो चेव । चोएति य अपढंते, इमा उ तहि मग्गणा होइ ॥ वृ- आचार्ये कालगते सति गच्छस्य निबद्धाचार्यस्य च व्यवहारो भण्यते स स्वयमेव तं गणं परिवर्तयति । स च गच्छो यदि श्रुतं न पठति ततस्तमपठन्तं नोदयति । यदि नोदिता अपि ते गच्छसाधवो न पठन्ति तत इयमाभवद्व्यवहारमार्गणा भवति ॥ [भा. ५४०७] साहारणं तु पढमे, बितिए खित्तम्मि ततिय सुह-दुक्खे । अणहिते सीसे, सेसे एक्कारस विभागा ॥ घृ- कालगतस्याचार्यस्य प्रथमे वर्षे सचित्तादिकं साधारणम्, यदसौ प्रतीच्छकाचार्य उत्पादयति तत् तस्यैवाभवति यद् इतरे गच्छसाधव उत्पादयन्ति तत् तेषामेवाभवतीति भावः । द्वितीये वर्षे यत् क्षेत्रोपसम्पन्नो लभते तत् तेऽपठन्तो लभन्ते । तृतीये वर्षे यत् सुख-दुःखोपसमपन्नो लभते Page #215 -------------------------------------------------------------------------- ________________ २१२ बृहत्कल्प-छेदसूत्रम् - ३-४/१२५ तत् ते लभन्ते । चतुर्थे वर्षे कालगताचार्यशिष्या अनधीयाना न किञ्चिल्लभन्ते । शेषा नामयेऽधीयते तेषामधीयानानां वक्ष्यमाणा एकादश विभागा भवन्ति । शिष्यः पृच्छति क्षेत्रोपसम्पन्नः सुख-दुःखोपसम्पन्नो वा किं लभते ? सूरिराह [भा. ५४०८ ] खेत्तोवसंपयाए, बावीसं संधुया य मित्ताय । सुह- दुक्ख मित्तवज्जा, चउत्थए नालबद्धाई ॥ वृ- क्षेत्रोपसम्पदा उपसम्पन्नः 'द्वाविंशतिम्' अनन्तर परम्परावल्लीबद्धान् माता-पित्रादीन् जनान् लभते, 'संस्तुतानिच' पूर्व-पश्चात्संस्तवसम्बद्धानि प्रपौत्र - श्वशुरादीनि 'मित्राणिच' सहजातकादीनि लभते, ध्यभाषितानि तु न लभते । सुख-दुःखोपसम्पन्नस्तु एतान्येव मित्रवर्णानि लभते । चतुर्थस्तुपञ्चविधोपसम्पत्क्रमप्रामाण्यात् श्रुतोपसम्पन्नः स केवलान्येव द्वाविंशतिनालबद्धानि लभते, अयं च प्रसङ्गेनोक्तः। क्षेत्रोपसम्पन्न- सुखदुःखोपसम्पन्नयोर्यद् आभाव्यमुक्तं तत् ते शिष्या अनधीयाना द्वितीये तृतीये च वर्षे यथाक्रमं लभन्ते, चतुर्थे वर्षे सर्वमप्याचार्यस्याभवति न तेषाम् ॥ ये तु शिष्या अधीयते तेषां विधिरुच्यते-तस्य कालगताचार्यस्य चतुर्विधो गणो भवेत्-शिष्याः शिष्यिकाः प्रतीच्छकाः प्रतीच्छिकाश्चेति । एतेषां पूर्वोधिष्ट-पश्चादुद्दिष्टयोः संवत्सरसङ्ख्यया एकादश गमा भवन्ति । पूर्वोष्टिं नाम यत् तेनाचार्येण जीवता तेषां श्रुतमुष्टिम्, यत् पुनस्तेन प्रतीच्छकाचार्येणोधिष्टं तत् पश्चादुद्दिष्टम् । तत्र विधिमाह [भा. ५४०९] पुव्वुद्दिट्ठे तस्सा, पच्छुद्दिट्ठे पवाययंतस्स । संवच्छरम्मि पढमे, पडिच्छए जं तु सच्चित्तं ॥ वृ- यद् आचार्येण जीवता प्रतीच्छकस्य पूर्वमुद्दिष्टं तदेव पढन् प्रथमे वर्षे यत् सचित्तमचित्तं वा स लभते यत् 'तस्य' कालगताचार्यस्याभवति, एष एको विभागः । अथ पश्चादुद्दिष्टं ततः प्रथमसंवस्तसेर यत् सचित्तादिकं लभते तत् सर्वं 'प्रवाचयतः' प्रतीच्छकाचार्यस्याभवति, एष द्वितीयो विभागः ॥ [भा. ५४१० ] पुव्वं पच्छुद्दिडे, पडिच्छए जं तु होइ सच्चित्तं । संवच्छरम्मि बितिए, तं सव्वं पवाययंतस्स ॥ वृ-प्रतीच्छकः पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठतु यत् तस्य सचित्तादिकं तद् द्वितीये वर्षे सर्वमपि प्रवाचयतो भवति, एष तृतीयो विभागः ॥ अथ शिष्यस्याभिधीयते [ भा. ५४११] पुव्वं पच्छुद्दिट्ठे, सीसम्मिय जं तु होइ सच्चित्तं । संवच्छ रम्मि पढमे, तं सव्वं गुरुस्स आभवइ ।। वृ- शिष्यस्य कालगताचार्येण वा उद्दिष्टं भवेत् प्रतीच्छकाचार्येण वा तदाऽसौ पठन् यत् सचित्तादिकं लभते तत् सर्वं प्रथमे संवत्सरे 'गुरोः' कालगताचार्यस्याभवति, एष चतुर्थो विभागः । [ भा. ५४१२] पुव्वुद्दिनं तस्सा, पच्छुद्दिनं पवाययंतस्स । संवच्छरम्मि बितिए, सीसम्मि उ जं तु सच्चित्तं ।। वृ-शिष्यस्य पूर्वोद्दिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकं कालगताचार्यस्याभवति, पञ्चमो विभागः । पश्चादुद्दिष्टं पठतः शिष्यस्य सचित्तादिकं प्रवाचयत आभाव्यं भवति, षष्ठो विभागः ॥ Page #216 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १२५, [भा. ५४१३ ] [भा. ५४१३] २१३ पुव्वं पच्छुद्दि, सीसम्मिय जं तु होइ सच्चित्तं । संवच्छरम्मि ततिए, तं सव्वं पवाययंतस्स ॥ वृ-पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पढति शिष्ये सचित्तादिकं तृतीये वर्षे सर्वमपि प्रवाचयत आभवति, सप्तमो विभागः ॥ [भा. ५४१४] पुव्वुद्दिट्ठे तस्सा, पच्छुद्दिट्ठे पवाययंतस्स । संवच्छरम्मि पढमे, सिस्सिणिए जं तु सच्चित्तं ॥ वृ-शिष्यस्य पूर्वोद्दिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकं कालगताचार्यस्याभवति, पञ्चमो विभागः । पश्चादुद्दिष्टं पठतः शिष्यस्य सचित्तादिकं प्रवाचयत आभाव्यम्, नवमो विभागः ॥ [भा. ५४१५ ] पुव्वं पच्छुद्दिट्ठे, सिस्सिणिए जं तु होइ सच्चित्तं । वच्छरम्मबीए, तं सव्वं पवाययंतस्स ॥ वृ-पूर्वोद्दिष्टंपश्चादुद्दिष्टंवा पठन्त्यां शिष्यिकायां सचित्तादिलाभो द्वितीये वर्षे प्रवाचयत आभवति, दशमो विभागः ॥ [भा. ५४१६] पुव्वं पच्छुद्दिट्टे, पडिच्छिगा जं तु होति सच्चित्तं । संवच्छरम्मि पढमे, तं सव्वं पवाययंतस्स ।। वृ- पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठन्त्यां प्रतीच्छिकायां प्रथम एव संवत्सरे सर्वमपि प्रवाचयत आभवति, एष एकादशो विभागः ॥ एष एक आदेश उक्तः । अथ द्वितीयमाह [भा. ५४१७] संवच्छराई तिनि उ, सीसम्मि पडिच्छए उ तद्दिवसं । एवं कुले गणे या, संवच्छर संघे छम्मासा ॥ वृ- प्रतीच्छकाचार्यास्तेवां कुलसत्को गणसत्कः सङ्घसत्को वा भवेत् । तत्र यदि कुलसत्कः तदा त्रीन् संवत्सरान् शिष्याणां वाच्यमानानां सचित्तादिकं न गृह्णाति, ये पुनः प्रतीच्छकास्तेषां वाच्यमानानां यस्मिन्नेव दिने आचार्य कालगतस्तद्दिवसमेव गृह्णाति । एवमेककुलसत्के विधिरुक्तः । अथ चासौ गणसत्कस्ततः संवत्सरं शिष्याणां सचित्तादिकं नापहरति । यस्तुकुलसत्को गणसत्को वा न भवति स नियमात् सङ्घसत्कः, स च षण्मासान् शिष्याणां सचित्तादिकं न गृह्णाति । तेन च प्रतीच्छकाचार्येण तत्र गच्छे वर्षत्रयमवश्यं स्थातव्यम्, परतः पुनरिच्छा ॥ [भा. ५४१८] तत्थेव य निम्मए, अनिग्गए निग्गए इमा मेरा । सकुले तिन्नि तियाई, गणे दुगं वच्छरं संघे ॥ वृ- 'तत्रैव' प्रतीच्छकाचार्यसमीपे तस्मिन् अनिर्गते यदि कोऽपि गच्छे निर्मातस्तदा सुन्दरम् । अथ न निर्मातः स च वर्षत्रयात् परतो निर्गतः ते वा गच्छीयाः 'एष साम्प्रतमस्माकं सचित्तादिकं हरति' इति कृत्वा ततो निर्गतास्तदा इयं 'मयार्दा' सामाचारी- "सकुले" इत्यादि, 'स्वकुले' स्वकीयकुलस्य समवायं कृत्वा कुलस्य कुलस्थविरस्य वा उपतिष्ठन्ते, ततः कुलं तेषां वाचनाचार्यं ददाति वारकेण वा वाचयति । कियन्तं कालम् ? इत्याह- " तिन्नि तियाइं" ति त्रयस्त्रिका नव भवन्ति, ततो नव वर्षाणि वाचयतीत्युक्तं भवति; यदि कृत्वा गणमुपतिष्ठन्ते, गणोऽपि द्वे वर्षे पाठयति, न च सचित्तादिकं हरति; यद्येवमप्यनिर्मातास्ततः सङ्घमुपतिष्ठन्ते, सङ्घोऽपि वाचनाचार्यं ददाति, स च संवत्सरं पाठयति; एवं द्वादश वर्षाणि भवन्ति । यद्येवमेकोऽपि निर्मातस्तदा Page #217 -------------------------------------------------------------------------- ________________ २१४ बृहत्कल्प - छेदसूत्रम् -३-४/१२५ सुन्दरम्, अथ न निर्मातस्ततः पुनरपि कुलादिषु कुलादिस्थविरेषु वा तेनैव क्रमेणोपतिष्ठन्ते, तावन्तमेव कालं कुलादीनि यथाक्रमं पाठयन्ति, न च सचित्तादिकं हरन्ति, एवमेतान्यपि द्वादश वर्षाणि भवन्ति । पूर्वद्वादशमिश्च मीलितानि जाता वर्षाणां चतुर्विंशति । यदि एतावता कालेनैकोऽपि निर्मातस्तदा विहरन्तु, अथ न निर्मातस्ततो भूयोऽपि कुल-गण-सङ्खेषु तथैवोपतिष्ठन्ते, तेऽपि तथैव पाठयन्ति । एतान्यपि द्वादश वर्षाणि चतुर्विंशत्या मील्यन्ते जाता षटत्रिंशता वर्षेरेकोऽपि निर्मातस्ततो विहरन्तु ॥ अथैकोऽपि न निर्माताः, कथम् ? इति चेद् उच्यतेओमादिकारणेहि व, दुम्मेहत्तेण वा न निम्माओ । [ भा. ५४१९] काऊण कुलसमायं, कुल थेरे वा उवट्ठति ॥ वृ- अवमा-ऽ शिवादिभिः कारणैरनवरतमपरापरग्रामेषु पर्यटतां दुर्मेधस्तया वा नैकोऽपि निर्मातस्ततः कुलसमवायं कृत्वा (कुलं) कुलस्थविरान् वा सर्वेऽप्युपतिष्ठन्ते ततस्तैरुपसम्पदं ग्राहयितव्याः ।। कुत्र पुनः ? इति चेद् उच्यते [मा. ५४२०] पव्वज्जएगपक्खिय, उवसंपय पंचहा सए ठाणे । छत्तीसाऽतिक्कंते, उवसंपय पत्तुवादाए । - यः प्रव्रज्या एकपाक्षिकस्तस्य पार्श्वे उपसम्पदं तान् कुलस्थविरा ग्राहयेयुः । सा च उपसम्पत् पञ्चधा वक्ष्यमाणनीत्या 'स्वकम्' आत्मीयं स्थानम् 'उपादाय' गृहीत्वा तैरुपसम्पत्तव्यम् ॥ इदमेव भावयति [ भा. ५४२१] गुरुसज्झिलओ सज्झंतिओ व गुरुगुरु गुरुस्स वा नत्तू । अहवा कुलिञ्चतो ऊ, पव्वज्जाएगपक्खीओ ।। वृ- 'गुरुसज्झिलकः' गुरुणां सहाध्यायी पितृव्यस्थानीयः 'सज्झन्तिकः' आत्मनः सब्रह्मचारी भ्रातृस्तानीयः, 'गुरुगुरु' पितामहस्थानीयो गुरु-, गुरोः सम्बन्धी 'नप्ता' प्रशिष्य आत्मानो भ्रातृव्यस्थानीयः, एते प्रव्रज्यया एकपाक्षिका उच्यन्ते । अथवा 'कुलसत्कः' समानकुलोद्भवः सोऽपि प्रव्रज्ययैकपाक्षिकः । एतेषां समीपे यथाक्रममुपसम्पत्तव्यम् ॥ पव्वज्जाए सुएण य, चउभंगुवसंपया कमेणं तु । पुव्वाहियवीसरिए, पढमासइ ततियभंगे उ ॥ [भा. ५४२२] वृ- इहैकपाक्षिकः प्रव्रज्यया श्रुतेन च भवति । तत्र प्रव्रज्यैकपाक्षिकोऽनन्तरमुक्तः, श्रुतैकपाक्षिकः - येन सहैकवाचनिकं सूत्रम् । अत्र चतुर्भङ्गी - प्रव्रज्ययैकपाक्षिकः श्रुतेन च १ प्रव्रज्यया न श्रुतेन २ श्रुतेन न प्रव्रज्यया ३ न प्रव्रज्यया न श्रुतेन ४ । एतेषु चामुना क्रमेणोपसम्पत् प्रतिपत्तव्या । “पढमा” इत्यादि, प्रथमतः प्रथमतः प्रथमभङ्गे उपसम्पत्तव्यम्, तदभावे तृतीये भङ्गे । कुतः ? इत्याह- यतः पूर्वाधीतं श्रुतं विस्मृतं सत् तेषु सुखेनैवोज्वालयितुं शक्यते, श्रुतैकपाक्षिकत्वात् ॥ अथ पञ्चविधामुपसम्पदमाह [ भा. ५४२३] सुय सुह- दुक्खे खेत्ते, मग्गे विनओवसंपयाएय । बावीस संधुय वयंस दिट्ठभट्ठे य सव्वे य ॥ वृ - श्रुतोपसम्पत्9 सुख-दुःखोपसम्पत् २ क्षेत्रोपसम्पद् ३ मार्गोपसम्पद् ४ विनयोपसम्पत् ५ एवमेषापञ्चविधा उपसम्पत्। एतासु पञ्चस्वप्याभवव्यवहारमाह- "बावीस" इत्यादि, श्रुतोपसम्पदि Page #218 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १२५, [भा. ५४२३] २१५ द्वाविंशतिर्नालबद्धानि लभ्यन्ते । तद्यथा-माता १ पिता २ भ्राता ३ भगिनी ४ पुत्रो ५ दुहिता ६, मातुर्माता ७ मातुः पिता ८ मातुर्भ्राता ९ मातुर्भगिनी १०, एवं पितुर्माता ११ पिता १२ भ्राता १३ भगिनी १४, भ्रातुः पुत्रो १५ दुहिता १६, भगिन्याः पुत्रः १७ पुत्रिका १८, पुत्रस्य पुत्र १९ पुत्रिका २०, दुहितुः पुत्रः २१ पुत्रिका २२ चेति । एतानि द्वाविंशतिरपि श्रुतोपसम्पदं प्रतिपन्नस्याभवन्ति । सुख-दुःखोपसम्पन्नस्तु एतान् सर्वानपि वयस्यांश्च लभते । मार्गोपसम्पन्न एतान् सर्वानपि लभते, अपरे च ये केचिद् ध्ष्टद्यभाषितास्तानपि प्राप्नोति । विनयोपसम्पदं प्रतिपन्नस्तु 'सर्वानपि' ज्ञाता -ऽज्ञात- दृष्टाऽदृष्टान् लभते, नवरम्-विनयार्हस्य विनयं प्रयुङ्क्ते ॥ "सए ठाणे " त्ति यदुक्तं तस्यायमर्थः पञ्चविधाऽप्युपसम्पत् स्वस्मिन् स्थाने प्रतिपत्तव्या । किमुक्तं भवति ? श्रुतोपसम्पदं प्रतिपित्सोर्यस्य पार्श्वे श्रुतमस्ति तत् तस्य स्वस्यानम्, सुखदुःखार्थिनः स्वस्थानं यत्र वैयावृत्यकराः सन्ति, क्षेत्रोपसम्पदर्थिनो यदीये क्षेत्रे भक्त-पानादिकमस्ति मार्गोपसम्पदर्थिनो यत्र मार्गज्ञः समस्ति, विनयोपसम्पदर्थिनो यत्र विनयकरणं युज्यते, एतानि स्वस्थानानि । अथवा स्वस्थानं नाम-प्रव्रज्यया श्रुतेन च य एकपाक्षिकस्तत्र प्रथममुपसम्पत्तव्यम्, पश्चात् कुलेन श्रुतेन चैकपाक्षिकस्य पार्श्वे, ततः श्रुतेन गणेन चैकपाक्षिकस्य समीपे ततः श्रुतेनैकपाक्षिकस्य सन्निवौ ततः प्रव्रज्ययैकपाक्षिकस्य सकाशे, ततः प्रव्रज्यया श्रुतेन वा नैकपाक्षिकस्यापि पार्श्वे उपसम्पत् प्रतिपत्तव्या ॥ . आह-साधर्मिक वात्सल्याराधनार्थं सर्वेणापि सर्वस्य श्रुताध्यापनादि कर्तव्यं ततः किमर्थं प्रथमं प्रव्रज्या कुलादिभिरासन्नतरेषूपसम्पद्यते ? इत्याह [भा. ५४२४] सव्वस्स वि कायव्वं, निच्छयओ किं कुलं व अकुलं वा । कालसभावममत्ते, गारव - लज्जाहिं काहिंति ।। वृ-निश्चयतः सर्वेण सर्वस्याप्यविशेषेण श्रुतवाचनादिकमात्पनो विपुलतरां निर्जरामभिलषता कर्तव्यम्, किं कुलकुलं वा इत्यादिविचारणया ? ; परं दुष्षमालक्षणो यः कालस्तस्य यः स्वभावःअनुभावस्तेन 'आत्मीयोऽयम्' इत्यादिकं यद् ममत्वम्, यच्च गुर्वादिविषयं गौरवंबहुमानबुद्धिः, या वा तदीया लज्जा, एतैः प्रेरिताः सुखेनैव करिष्यन्तीति कृत्वा प्रथमं प्रव्रज्यादिभिरासन्नतरेषूपसम्पद्यत इति ॥ गतं ज्ञानार्थं गमनम् । अथ दर्शनार्थं गमनगमाह [ भा. ५४२५ ] कालिय पुव्वगए वा, निम्माओ जति य अत्थि से सत्ती । दंसणदीवगहेउं, गच्छइ अहवा इमेहिं तु ॥ वृ- कालिकश्रुते पूर्वगते वा यद् वा यस्मिन् काले श्रुतं प्रचरति तस्मिन् सूत्रेणार्थेन च यदा निर्मातो भवति, यदि च तस्य ग्रहण- धारणशक्तिस्तथाविधा समस्ति ततो दर्शनदीपकानिसम्यग्दर्शनोज्वालनकारीणि यानि सम्मत्यादीनि शास्त्राणि तेषां हेतोरन्यं गणं गच्छति ॥ अथवा एभिः कारणैर्गच्छेत [ भा. ५४२६] भिक्खुगा जहिं देसे, वोडिय-थलि- निण्हएहिं संसग्गी । तेसिं पत्रवणं असहमाणे वीसज्जिए गमनं ॥ वृ-यत्र देशे 'भिक्षुकाः ' बौद्धा बोटिका वा निहवा वा बहवस्तेषां तत्र स्थली तत्र ये आचार्या स्थितास्तैः सार्द्धमाचार्याणा संसर्गिः प्रीतिरित्यर्थः; ते च भिक्षुकादयः स्वसिद्धान्तं प्रज्ञापयन्ति, Page #219 -------------------------------------------------------------------------- ________________ २१६ बृहत्कल्प-छेदसूत्रम् - ३-४/१२५ स चाचार्यो दाक्षिण्येन तर्कग्रन्थाप्रवीणतया वा तूष्णीकस्तिष्ठति, तां च तदीयां प्रज्ञापनामसहमानः कश्चिद् विनेयश्चिन्तयति-अन्यं गणं गत्वा दर्शनप्रभावकानि शास्त्रणि पठामि येनामून् निरुत्तरान् करोमि । एवं विचिन्त्य स तथैव गुरुनापृच्छय तैर्विसर्जितो गच्छति ॥ इदमेव भावयति[भा. ५४२७] लोए विअ परिवादो, भिक्खुगमादी य गाढ चमदिंति । विप्परिणमंति सेहा, ओभाभिजंति सड्डा य ॥ वृ- भिक्षुकादीनां स्वसिद्धान्तं शिर उद्घाट्य प्ररुपयतामपि यदा सूरयो न किमपि ब्रुवते ततो लोकेऽपिच परिवादो जातः- एते ओदनमुण्डा न किमपि जानते, अमी तु सौगताः सर्वमवबुध्यन्ते । एवं ते भिक्षुकादयः परिवादं श्रुत्वा गाढतरं जैनशासनं चमढयन्ति, शैक्षाश्च विपरिणमन्ति, श्राद्धाश्च रक्तपटोपासकैरपभ्राज्यन्ते - एते श्वेतभिक्षवो बठरशिरोमणयश्चाटुकारिणः, यद्यस्ति सामर्थ्य ततोऽस्माकमुत्तरं प्रयच्छन्तु। अथवा तैः भिक्षुकादिभिः स्थलिकायामाचार्यस्यापि वण्टको निबद्धो वर्तते, भाग इत्यर्थः ॥ ततः [ भा. ५४२८] रसगिद्धो व थलीए, परतित्थियतज्जणं असहमाणो । गमनं बहुस्सुतत्तं, आगमनं वादिपरिसा उ ॥ वृ- स आचार्यस्तस्यां स्थलिकायां 'रसगृद्धः' स्निग्ध-मधुराहारलम्पटः सामर्थ्ये सत्यपि न किञ्चिदुत्तरं प्रयच्छति । एवमादिकां परतीर्थिकतर्जनामसहमानः शिष्य आचार्यं विधिना पृष्टवा ‘निर्गतः’ अन्यगणगमनं कृतवान्, तत्र च तर्कशास्त्राणि श्रुत्वा बहुश्रुतत्वं तस्य सञ्जज्ञे, ततो भूयः स्वगच्छे आगमनम् आगतेन च पूर्वमाचार्या द्रष्टव्याः, ततोऽन्यस्यां वसतौ स्थित्वा या तत्र वादमार्गकुशला पर्षत् तां परिचितां कृत्वा राज्ञो महाजनस्य च पुरतः परतीर्थिकान् निष्पिष्टप्रश्रनव्याकरणान् करोति ॥ [भा.५४२९] वायपरायणकुविया, जति पडिसेहंति साहु लठ्ठे च । अह चिरनुगओ अम्हं, मा से पवत्तं परिहवेह ॥ वृ- वादे पराजयेन कुपिताः सन्तो यदि ते भिक्षुकादय आचार्यस्य तं वण्टं प्रतिषेधयन्ति ततः 'साधु' सुन्दरं 'लष्टं च' अभीष्टं जातमिति । अथ तत्र कोऽपि ब्रूयात्-एतस्य को दोषः ? चिरमनुगत एषोऽस्माकम् मा पूर्वप्रवृत्तं दातव्यस्य परिहापयत ॥ ततः को विधिः ? इत्याह [भा. ५४३०] काऊण य प्पणामं, छेदसुतस्सा दलाह पडिपुच्छं । अन्नत्थ वसहि जग्गण, तेसिं च निवेदनं काउं ॥ वृ- गुरोः पदकमलस्य प्रमाणं कृत्वा वक्तव्यम्-छेदश्रुतस्य प्रतिपृच्छां मम प्रयच्छत । अत्र चागीतार्था शृण्वन्ति ततोऽन्यस्यां वसतौ गच्छावः । एवमुक्तोऽपि यदि तस्या वसतेर्न निर्गच्छति तत्राख्यानिकादिकथापनेन चिरं रात्रौ गुरवो जागरणं कारापणीयाः, 'तेषां च' अगीतार्थानाम् 'वमाचार्यमेवं नेष्यामः, भवद्भिर्बोलो न कर्तव्यः' इति निवेदनं कृत्वा गन्तव्यम् ॥ इदमेव व्याचष्टे[ भा. ५४३१] सद्दं च हेतुसत्यं, अहिजओ छेदसुत्त नई मे । एत्थ य मा असुतत्था, सुणिज्ज तो अन्नहिं वसिमो ॥ वृ- 'शब्दशास्त्रम्' ऐन्द्रादिकं 'हेतुशास्त्रं' सम्मत्यादिकम् एवमादिकं शास्त्रमधीयानस्य 'छेदसूत्र' निशीथादिकं सूत्रतोऽर्थतस्तदुभयतो वा मम नष्टं तस्य प्रतिपृच्छां मे प्रयच्छत । 'अत्र च' वसतौ Page #220 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं- १२५, [भा. ५४३१] 'अश्रुतार्था' शैक्षा अपरिणामका वामा शृणुयुः, ततोऽन्यस्यां वसतौ वसामः । एवमन्यव्यपदेशेन निष्काशयति ॥ अथ तस्या वसतेः क्षेत्राद्वा निर्गन्तुं नेच्छति ततोऽयं विधि : [भा. ५४३२] खित्ताऽऽरक्खिनिवेयण, इयरे पुव्वं तु गाहिया समणा । विओ सो अचिरं, जह निज्जूंतो न चेतेती ॥ २१७ वृ-‘आरक्षिकः' दाण्डपाशिकस्तस्य निवेदनं क्रियते "खित्त” त्ति अस्माकं क्षिप्तचितः साधुः समस्ति तं वयमर्धरात्रे वैद्यसकाशं नेष्यामः, स यदि नीयमानः 'ह्रियेऽहं ह्रियेऽहम्' इत्यारटेत् ततो युष्माभिर्न किमपि भणनीयम् । 'इतरे' अगीतार्था श्रमणाः पूर्वमेव ग्राहिताः कर्तव्याःवयमाचार्यमेवं नेष्यामः, मा बोलं कुरुध्वम् । स चाचार्यश्चिरमाख्यायिकाः कथापयित्वा जागरितः सन् यदा निर्भरं सुप्तो भवति तदा नीयते यथा नीयमानो न किञ्चित् चेतयति ॥ [भा. ५४३३] निण्हयसंसग्गीए, बहुसो भन्नंतुवेह सो कुणइ । तुह किं ति वच्च परिणम, गता ऽऽगते नीनिओ विहिणा ॥ वृ- अथ निह्नवानां संसर्ग्याऽऽचार्यो न निर्गच्छति, बहुशो भण्यमानोऽप्युपेक्षां कुरुते, अथवा ब्रूयात्-य‍ - यद्यहं निह्नवसंसर्गं करोमि ततो भवतः किं दुःखयति ? व्रज त्वं यत्र गन्तव्यम् । एवं परिणामं गुरुणां ज्ञात्वा शिष्येण 'गता - SSगतेन' अन्यं गणं गत्वा शास्त्राण्यधीत्य भूय आगतेन निह्नवान् पराजित्याचार्यः 'विधिना' अनन्तरोक्तेन निष्काशितः कर्तव्यः ॥ [भा.५४३४] एसा विही विसज्जिए, अविसज्जिए लहुग दोस आणादी । सिं पि हुंति लहुगा, अविहि विही सा इमा होइ ।। वृ- एष विधिर्गुरुणा विसर्जिते शिष्येमन्तध्यः । अविसर्जितस्य तु गच्छतश्चतुर्लघु दोषाश्चाज्ञादयः । 'तेषामपि' प्रतीच्छतां चतुर्लघुकाः । एषोऽविधिरुक्तोऽतो विधिना गन्तव्यम् ॥ स चायं विधिर्भवति[भा. ५४३५] दंसणनिंते पक्खो, आयरि-उज्झाय-सेसगाणं च । एक्केक पंच दिवसे, अहवा पक्खेण सव्वे वि ॥ वृ- दर्शनप्रभावकाणां शास्त्राणामर्थाय निर्गच्छत एक पक्षमाचार्योपाध्याय शेषसाधूनां आपच्छनकालो भवति । तद्यथा - आचार्य पञ्च दिवसानापृच्छयते, यदि न विसर्जयति तत उपाध्यायेऽपि पञ्च दिवसान्, शेषसाधवोऽपि पञ्च दिवसान् । अथवा पक्षेण सर्वेऽपि पृच्छयन्ते । किमुक्तं भवति ? - दिने सर्वेऽपि पृच्छयन्ते यावत् पक्षः पूर्ण इति ॥ [भा. ५४३७] [भा. ५४३८ ] [भा. ५४३६ ] एतविहिआगतं तू, पडिच्छ अपडिच्छणे भवे लहुगा । अहवा इमेहिं आगत, एगागि (दि) पडिच्छणे गुरूगा || एगे अपरिणए या, अप्पाहारे य थेरए । गिलाणे बहरोगी य, मंदधम्मे य पाहुडे ॥ एतारिसं विओसज्ज, विप्पवासो न कप्पई । सीस-पडिच्छा - SSयरिए, पायच्छित्तं विहिज्जई ॥ बिइयपदमसंविग्गे, संविग्गे चैव कारणागाढे । नाऊण तरसभावं, होइ उ गमनं अनापुच्छा ॥ वृ-गाथाचतुष्टयमपि गतार्थम् ॥ गतं दर्शनार्थं गमनम् । अथ चारित्रार्थमाह [भा. ५४३९] Page #221 -------------------------------------------------------------------------- ________________ २१८ बृहत्कल्प-छेदसूत्रम् -३-४/१२५ [भा. ५४४० ] चरित्तट्ठ देसे दुविहा, एसणदोसा य इत्थिदोसा य । गच्छम्मिय सीयंते, आयसमुत्थेहिं दोसेहिं ॥ वृ-चारित्रार्थं गमनं द्विधा-देशदोषैरात्मसमुत्थदोषैश्च । देशदोषा द्विविधाः - एषणादोषाः स्त्रीदोषाश्च । आत्मसमुत्था अपि द्विधा- गुरुदोषा गच्छदोषाश्च । तत्र गच्छो यदि 'आत्मसमुत्यैः' चक्रवालसामाचारीवितथकरणलक्षणैर्दोषैः सीदेत् तत्र पक्षमापृच्छन्नास्ते, तत ऊर्ध्वं गच्छति ।। इदमेव व्याचष्टे [भा. ५४४१ ] जहियं एसणदोसा, पुरकम्माई न तत्थ गंतव्वं । उदगपउरो व देसी, जहिं व चरिगाइसकिन्नो ॥ वृ-यत्र देशे पुरः कर्मादय एषणादोषा भवेयुः तत्र न गन्तव्यम् । यो वा उदकप्रचुरो देशः सिन्धुविषयवद् यो वा चरिकादिभिः परिव्राजिका-कापालिकी-तञ्च्चनिकादिभिर्बहुमोहाभिराकीर्णो विषयस्तत्रापि न गन्तव्यम् ॥ अथाशिवादिभिः कारणैस्तत्र गता भवेयुस्ततः [भा. ५४४२ ] असिवाईहि गता पुन, तक्कज्जसमाणिया तओ निंति । आयरियमनिंते पुन, आपुच्छिउ अप्पण निंति ॥ वृ- अशिव- दुर्भिक्ष-परचक्रादिभिः कारणैस्तत्र गता अपि "तक्कज्जसमाणिय" त्ति प्राकृते पूर्वापरनिपातस्यातत्वात् समापिततत्कार्या, संयमक्षेत्रे यदाऽशिवादीनि स्फिटितानि भवन्तीति भावः, तदा 'ततः' असंयमक्षेत्राद् 'निर्यन्ति' निर्गच्छन्ति । यद्याचार्या केनापि प्रतिबन्धेन सीदन्तो न निर्गच्छेयुः ततो ये एको द्वौ बहवोऽसीदन्तस्ते गुरुमापृच्छ्य आत्मना निर्गच्छन्ति ॥ तत्र चायं विधिः [भा. ५४४३] दो से सा, इथं वज्जेज अट्ठ दिवसाई । गच्छम्मि होइ पक्खो, आयसमुत्थेगदिवसं तु ॥ वृ- एषणायामशुध्यमानायां यतनयाऽनेषणीयमपि गृह्णन् द्वौ मासौ गुरुमापृच्छन् प्रतीक्षते । अथ स्त्री-शय्यातरीप्रतिका उपसर्गयति आत्मनश्च ध्ढं चित्तं ततोऽष्टौ दिवसान् गुरुनापृच्छ्य ततस्तत् क्षेत्रं वर्जयेत् । यत्र च गच्छः सीदति तत्र पक्षमापृच्छय गन्तव्यम् । अथ स्त्रियां स्वयमध्युपपन्नस्तत ईशो आत्मसमुत्थे आगाढदोषे एकदिवसमापृच्छय गच्छति ॥ [भा. ५४४४] सेज्जयरिमाइ सएज्झए व आउत्थ दोस उभए वा । आपुच्छइ सन्निहियं, सन्नाइगतं व तत्तो उ ॥ वृ- अथात्मना शय्यातर्यादौ स्त्रियां 'सज्झिकायां वा' प्रातिवेश्मिक्यामतीवाध्युपपन्नः, 'उभयं वा' परस्परमध्युपपन्नं ततो यद्याचार्य सन्निहितस्तदा तमापृच्छ्य गच्छति । अथासन्निहितः संज्ञाभूम्याद गत आचार्यस्तदा तत एवानापृच्छया गच्छति, अपरं वा सन्निहितसाधुं भणति-मम वचनेन गुरुणामाप्रच्छनं निवेदनीयम् ॥ [ भा. ५४४५ ] एयविहिमागयं तू, पडिच्छ अपडिच्छणे भवे लहुगा । अहवा इमेहिं आगय, एगागि (दी) पडिच्छणे गुरुगा ॥ एगे अपरिणए या, अप्पाहारे य थेरए । गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे ॥ [भा. ५४४६ ] Page #222 -------------------------------------------------------------------------- ________________ २० उद्देशकः ४, मूलं-१२५, [भा. ५४४७] [भा.५४४७] एयारिसं विओसज्ज, विप्पवासो न कप्पई। सीस-पडिच्छा-ऽऽयरिए, पायच्छित्तं विहिज्जई॥ वृ-गाथात्रयमपि गतार्थम् भवेत् कारणं येन न पृच्छेत्[भा.५४४८] बिइयपदमसंविग्गे, संविग्गे चेव कारणागाढे । नाऊण तस्स भावं, अप्पणो भावंअनापुच्छा। वृ-द्वितीयपदमत्रोच्यते-आचार्यादिरसंविग्नो भवेत्, अथवा संविग्नः परम् अहिदष्टादिकमागाढकारणमवलम्ब्य न पृच्छेत्, ‘तस्य वा' गुरोः ‘भावं' 'सुचिरेणापि न विसर्जयति' इति लक्षणंज्ञात्वा, आत्मीयं च ‘भावम्' 'अहमिह तिष्ठन्नवश्यंविनस्यामि' इति ज्ञात्वाऽनापृच्छयाऽपि व्रजेत् ॥अथ गुरोः चारित्रे सीदतो विधिमाह[भा.५४४९] सेजायरकप्पट्टी, चरित्तठवणाए अभिगया खरिया। . सारुविओ गिहत्थो, सो वि उवाएण हायव्यो। वृ-शय्यातरस्यकल्पस्थिकायांआचार्येणचारित्रस्य स्थापना कृता, तांप्रतिसेवत इति भावः, तस्यां चारित्रस्थापनायां जातायाम्, व्यक्षरिका वा काचिद् ‘अभिगता' जीवाद्यधिगमोपेता श्राविकेत्यर्थः तस्यामाचार्योऽध्युपपन्नः, स च चारित्रवर्जितो वेषधारी भवेत्, सारुपिको वा गृहस्थो वा उपलक्षणत्वात् सिद्धपुत्रको वा । तत्र मुण्डितशिराः शुक्लवासःपरिवायी कच्छामबध्नानोऽभार्यको भिक्षां हिण्डमानः सारुपिक उच्यते । यस्तु मुण्डः सशिखाको वा सभार्यकः स सिद्धपुत्रकः । एवमेषामन्यतर उपायेन हर्तव्यः । कथम् ? इति चेद् उच्यते-पूर्वं तावद् गुरवो भण्यन्ते-वयं युष्मद्विरहिता अनाथा अतः प्रसीद गच्छामोऽपरं क्षेत्रम् । एवमुक्ते यदि नेच्छन्ति ततोयस्यांस प्रतिबद्धः सा प्रज्ञाप्यते-एषबहूनांसाधूनामाधारः, एतेन विना गच्छस्य ज्ञानादीनां परिहानि, अतो मा नरकादिकं संसारमात्मनो वर्धय । यदि सा स्थिता ततः सुन्दरम् । अथ न तिष्ठति ततो विद्या-मन्त्रादिभिरावय॑ते। तदभावे केवयिकाअपितस्या दीयन्ते, गुरुश्चपूर्वक्रमेण रात्री हर्तव्यः। एवंतावद् भिक्षुमङ्गीकृत्य विधिरुक्ताः॥ मू. (१२६) गणावच्छेइए य गणादवक्कम्म इच्छेज्जा अन्नं गणं उवसंपजित्ताणं विहरित्तए, कप्पति गणावच्छेइयस्स गणावच्छेइयत्तं निविखवित्ता अनंगणं उवसंपज्जित्ताणं विहरित्तए। नो सेकप्पइअणापुच्छित्ताआयरियंवाजाव अन्नंगणंउपसंपजिताणंविहरित्तए; कप्पइसेआउच्छित्ता आयरियं वा जाव विहरित्तए । ते य से वितरंति एवं से कप्पइ जाव विहरित्तए; ते य से नो वितरंति एवं से नो कप्पइ जाव विहरित्तए मू. (१२७) आयरिय-उवज्झायगणाओअवक्कम्मइच्छेजा अनंगणंउवसंपज्जित्ताणंविहरित्तए, कप्पइ आयरिय-उवज्झायस्स आयरिय-उवज्झायत्तं निक्खिवित्ता अन्नं गणं उवसंपञ्जित्ताणं विहरित्तए। नो से कप्पइ अनापुच्छित्ता आयरियं वा जाव अन्नं गणं उवसंपज्जित्ताणं विहरित्तए; कप्पति से आपुच्छित्ताजावविहरित्तए। ते य से वितरंति एवं से कप्पति अनंगणंउवसंपज्जित्ताणं विहरित्तए; ते य से नो वियरंति एवं से नो कप्पति अन्नं गणं उवसंपञ्जित्ताणं विहरित्तए॥ वृ-अस्य सूत्रद्वयस्य व्याख्याप्राग्वत्। नवरम्-गणावच्छेदिकत्माचार्योपाध्यायत्वंच निक्षिप्य गन्तव्यमिति विशेषः॥ अथ आष्यम् Page #223 -------------------------------------------------------------------------- ________________ २२० बृहत्कल्प-छेदसूत्रम् -३-४/१२७ [भा.५४५०] एमेव गणावच्छे, गणि-आयरिए वि होइ एमेव । नवरं पुन नाणत्तं, ते नियमा हुँति वत्ता उ॥ वृ-“एवमेव' भिक्षुवद् गणावच्छेदिकस्य ज्ञान-दर्शन-चारित्रार्थमन्यंगणंगच्छतो विधिद्रष्टव्यः। गणिनः-उपाध्यायस्याचार्यस्य चैवमेव विधिः । नवरं पुनरिदं नानात्वम्-नियमात् 'ते' गणावच्छेदिकादयो व्यक्ता एव भवन्ति नाव्यक्ताः॥ [भा.५४५१] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो। नाणजो उ नेई, सच्चित्त न अप्पिणे जाव ॥ वृ-'एष एव' भिक्षुसूत्रोक्तो गमो निर्ग्रन्थीनामप्यपरंगणमुपसम्पद्यमानानांज्ञातव्यः। नवरम्नियमेनैवताः ससहायाः । यः पुनः ज्ञानार्थंताआर्यिका नयतिसयावदद्यापिनवाचनाचार्यस्यार्पयति तावत् सचित्तादिकं तस्यैवाभवति । अर्पितासु पुनर्वाचनाचार्यस्याभाव्यम् ।। कः पुनस्ता नयति? इत्याह[भा.५४५२] पंचण्हं एगयरे, उग्गहवजं तु लभति सच्चित्तं । आपुच्छ अट्ठ पक्खे, इत्थीसत्येण संविग्गो॥ वृ-'पञ्चानाम्' आचार्योपाध्याय-प्रवर्तक-स्थविर-गणावच्छेदकानामेकतरः संयतीर्नयति। तत्रसचित्तादिकं परक्षेत्रावग्रहवर्जसएवलभते।निर्ग्रन्थीचज्ञानार्थव्रजन्तीअष्टौपक्षानापृच्छतितत्राचार्यमेकं पक्षमापृच्छति, यदि न विसर्जयति तत उपाध्यायं वृषभं गच्छं चैवमेव पृच्छति; संयतीवर्गेऽपि प्रवर्तिनी-गणावच्छेदिका-ऽभिषेका-शेषसाध्वीर्यथाक्रममेकैकं पक्षमापृच्छति। ताश्च स्त्रीसार्थेन समं संविग्नेन परिणतवयसा साधुना नेतव्याः॥ मू. (१२८) भिक्खू य गणाओ अवक्कम्म इच्छेज्जा अन्नं गणं संभोगपडियाए उवसंपञ्जित्ताणं विहरित्तए, नो से कप्पइ अनापुच्छिताआयरियं वाजावअनंगणं संभोगवियाए उवसंपज्जित्ताणं विहरित्तए; कप्पइस आपुच्छित्ता आयरियं वा जाव विहरित्तए। ते य से वियरंति एवं से कप्पइ जाव विहरित्तए; ते य से नो नियरेज्जा एवं से नो कप्पइ जाव विहरित्तए । जत्युत्तरियं धम्मविनयं लभेजा एवं से कप्पइअनंगणं संभोगपडियाएउवसंपज्जित्ताणं विहरित्तए, जत्युत्तरियंधम्मविनयं नोलभेजा एवं से नो कप्पइ अन्नं गणंजाव विहरित्तए॥ वृ-अस्य व्याख्याप्राग्वत्। नवरम्-सम्भोगः-एकमण्डल्यांसमुद्देशनादिरूपः तत्प्रत्ययं तन्निमित्तम् । “जत्थुत्तरियं" इत्यादि, 'यत्र' गच्छे उत्तरं-प्रधानतरं 'धर्मविनयं' स्मारणावारणादिरूपां धार्मिकी शिक्षा लभेत एवं "से" तस्य कल्पते अन्यं गणमुपसम्पद्य विहर्तुम् । यत्रोत्तरंधर्मविनयं नो लभेत एवं "से" तस्य नो कल्पते उपसम्पद्य विहर्तुमिति सूत्रार्थः॥अथ भाष्यम्[भा.५४५३] संभोगो विहु तिहि कारणेहि नाणट्ठ दंसण चरिते। संकमणे चउभंगो, पढमो गच्छममि सीयंते॥ वृ-सम्भोगोऽपि त्रिभिः कारणैरिष्यते। तद्यथा-ज्ञानाथ दर्शनार्थं चारित्रार्थं च । तत्र ज्ञानार्थ दर्शनार्थं वा यस्योपसम्पदं प्रतिपन्नस्तस्मिन् सूत्रार्थदानादौ सीदति गमान्तरसङ्क्रमणे स एव विधिर्य पूर्वसूत्रे भणितः । चारित्रार्थं तु यस्योपसम्पन्नस्तत्र चरण-करणक्रियायां सीदति चतुर्भङ्गी भवति-गच्छः सीदति नाचार्य १ आचार्य सीदति न गच्छः२ गच्छोऽप्याचार्योऽपि सीदति ३न Page #224 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १२८, [भा. ५४५३ ] गच्छो नाप्याचार्य ४ इति । अत्र प्रथमो भङ्गो गच्छे सीदति मन्तव्यः । तत्र च गुरुणा स्वयं वा गच्छस्य नोदना कर्तव्या ॥ कथं पुनः स गच्छः सीदेत् ? इत्याह २२१ [भा. ५४५४] पडिलेह दियतुअट्टण, निक्खिव आदान विनय सज्झाए । आलोग-ठवण-भत्तट्ठ-भास- पडल- सेज्जातराईसु ॥ कृ-ते गच्छसाधवः प्रत्युपेक्षणां कालेन कुर्वन्ति, न्यूना ऽतिरिक्तादिदोषैर्विपर्यासेन वा प्रत्युपेक्षन्ते, गरु-ग्लानादीनां वा न प्रत्युपेक्षन्ते । निष्कारणे दिवा त्वग्वर्तयन्ति । दण्डकादिकं निक्षिपन्त आददतो वा न प्रत्युपेक्षन्ते, न वा प्रमार्जयन्ति, दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं वा कुर्वन्ति । यथार्हं विनयं न प्रयुञ्जते । स्वाध्याये - सूत्रपौरुषीमर्थपौरुषी वा न कुर्वन्ति, अकालेऽस्वाध्याये वा कुर्वन्ति । पाक्षिकादिषु आलोचनां न प्रयच्छन्ति, अथवा “आलोय "त्ति "ठाणदिसिपगासणया" इत्यादिकं सप्तविधमालोकं न प्रयुञ्जते, सङ्घडीं वा आलोकन्ते । स्थापनाकुलानि न स्थापयन्ति । 'भक्तार्थं ' मण्डल्यां समुद्देशनं न कुर्वन्ति । गृहस्थभाषाभिर्भाषन्ते, सावद्यं वा भाषन्ते । पटलकेषु आनीतं भुञ्जते । शय्यातरपिण्डं भुञ्जते । आदिग्रहणेन उद्गमाद्यशुद्धं गृह्णन्ति । एतेषु गच्छस्य सीदतो विधिमाह[भा. ५४५५ ] चोयावेइ य गुरुणा, विसीयमानं गणं सयं वा वि । आयरियं सीयंतं, सयं गणेणं च चोयावे ॥ वृ-प्रथमभङ्गे सामाचार्यां विषीदन्तं गच्छं गुरुणा नोदयति, अथवा स्वयमेव नोदयति । द्वितीयभङ्गे आचार्यं सीदन्तं स्वयं वा गणेन वा नोदयति ॥ [ भा. ५४५६ ] दुन्नि वि विसीमाणे, सयं व जे वा तहिं न सीयंति । ठाणं ठाणाSS सज्ज उ, अनुलोमाईहि चोएति ॥ वृ- तृतीयभङ्गे गच्छा-ऽऽचार्यौ द्वावपि सीदन्तौ स्वयमेव नोदयति, ये वा तत्र न सीदन्ति तैर्नोदयति, किंबहुना ? स्थानं स्थानम् ' आसाद्य' प्राप्यानुलोमादिभिर्वचोभिर्नोदयति । किमुक्तं भवति ? - आचार्योपाध्यायादिकं भिक्षु क्षुल्लकादिकं वा पुरुषवस्तु ज्ञात्वा यस्य याध्शी नोदना योग्या यो वा खरसाध्यो मृदुसाध्यः क्रूरोऽक्रूरो वा यथा नोदनां गृह्णाति तं तथा नोदयेत् ॥ [ भा. ५४५७ ] भणमाणे भणाविंते, अयाणमाणम्मि पक्खो उक्कोसो । लज्जा पंच तिन्निव, तुह किं ति व परिणय विवेगो । वृ- गच्छमाचार्यमुभयं वा सीदन्तं स्वयं भणन् अन्यैश्च भाणयन्नास्ते । यत्र न जानाति एते भण्यमाना अपि नोद्यमं करिष्यन्ति तत्रोत्कर्षतः पक्षमेकं तिष्ठति । गुरुं पुनः सीदन्तं लज्जया गौरवेण वा जानन्नपि पञ्च त्रीन् वा दिवसानभणन्नपि शुद्धः । अथ नोद्यमानो गच्छो गुरुरुभयं वा भणेत् तव किं दुःखयति ? यदि वयं सीदामस्तर्हि वयमेव दुर्गतिं गमिष्यामः । एवंविधे भावे तेषां परिणते तेषां ‘विवेकः' परित्यागो विधेयः । ततश्चान्यं गणं सङ्क्रमति । तत्र चतुर्भङ्गी-संविग्नः संविग्नं गणं सङ्क्रामति १ संविग्नोऽसंविग्नम् २ असंविग्नः संविग्नम् ३ असंविग्नोसंविग्नम् ४ ॥ तत्र प्रथमो भङ्गस्तावदुच्यते [भा. ५४५८ ] संविग्गविहाराओ, संविग्गा दुन्नि एज अन्नयरे । आलोइयम्मि सुद्धो, तिविहोवहिमग्गणा नवरिं ॥ वृ- संविग्नविहाराद् गच्छात् संविग्नौ द्वौ 'अन्यतरौ' गीतार्था ऽगीतार्थी संविग्ने गच्छे Page #225 -------------------------------------------------------------------------- ________________ २२२ बृहत्कल्प-छेदसूत्रम् -३-४/१२८ समागच्छेताम्, सच गीतार्थोऽगीतार्थो वा यतो दिवसात् संविग्नेभ्यः स्फिटितः तद्दिनादारभ्य सर्वमप्यालोचयति, आलोचितेचशुद्धः । नवरम्-त्रिविधोपधेः-यथाकृतादिरूपस्यमार्गणा कर्तव्या।। इदमेव व्याचष्टे[भा.५४५९] गीयमगीतो गीते, अप्पडिबद्धे न होइ उवघातो। अविगीयस्स वि एवं, जेन सुता ओहनिजुत्ती ।। वृ-स संविग्नोगीतार्थो वा स्यादगीतार्थो वा। यदि गीतार्थो वजिकादिषु अप्रतिबद्ध आयातः तत उपधेरुपधातो न भवति, न प्रायश्चित्तम् । 'अविगीतस्य' अगीतार्थस्यापि येन जघन्यत ओघनियुक्तिः श्रुता तस्यापि “एवमेव' अप्रतिबध्यमानस्य नोपधिरुपहन्यते ॥ [भा.५४६०] गीयाण विमिस्साणव, दुण्ह वयंताण वइयमाईसु। पडिबझंताणं पिहु, उवहि न हम्मे न वाऽऽरुवणा॥ कृ'द्वयोः' गीतार्थयोर्गीतार्थविमिश्रयोर्वाव्रजतोजिकादिषुप्रतिबध्यमानयोरप्युपधिर्नोपहन्यते, . न वा ‘आरोपणा' प्रायश्चित्तं भवति । एवमेकोऽनेके वा विधिना समागता यत्प्रभृति गणाद् निर्गतास्तत आरभ्यालोचनां ददति ॥अथ त्रिविधोपधिमार्गणामाह[भा.५४६१] आगंतुमहागडयं, वत्थव्वअहाकडस्स असईए। मेलिंतिमज्झिमेहिं, मा गारवकारणमगीए॥ वृ- तस्य गीतार्थस्यागीतार्थस्य वा त्रिविध उपधिर्भवेत् । तद्यथा-यथाकृतोऽल्पपरिकर्मा सपरिकर्मा च । वास्तव्यानामप्येवमेव त्रिविध उपधिर्भवति । तत्र यथाकृतो यथाकृतेन सह मील्यते, अल्पपरिकर्माअल्पपरिकर्मणा, सपरिकर्मा सपरिकर्मणा।अथवास्तव्यानां यथाकृतो नास्ति ततआगन्तुकस्य यथाकृतं वास्तव्यमध्यमैः-अल्पपरिकर्मभिसहमीलयन्ति।किंकारणम्? तिचेद् अत आह-मा सोऽमीलितः सत्रगीतार्थस्य 'मदीय उपधिरुत्तमसम्भोगिकोऽतोऽहमेव सुन्दरः' इत्येवं गौरवकारणं भवेदिति॥ [भा.५४६२] गीयत्थे न मेलिज्जइ, जो पुन गीओ वि गारवं कुणइ। तस्सुवही मेलिज्जइ, अहिकरणंअपचओ इहरा॥ कृ-गीतार्थोयदिअगौरवीततस्तदीयोयथाकृतःप्रतिग्रहोवास्तव्ययथाकृताभावेऽल्पपरिकर्मभिः सहन मील्यनेत किन्तु उत्तमसम्भोगिकः क्रियते।यस्तुगीतार्थोऽपिगौरवंकरोति तस्य यथाकृतो वासत्वायल्पपरिकर्मभि सह मील्यते । किं कारणम् ? इति चेद् अत आह-"इहर"त्ति यदि यथाकृतपरिभोगेन परिभुज्यते तदा केनाप्यजानता अल्पपरिकर्मणासमंमेलितं दृष्ट्वा स गीतार्थः 'अधिकरणम्' असङ्खडंकुर्यात्, किमर्थंमदीय उत्कृष्टोपधिरशुद्धेनसह मीलितः? इति।अप्रत्ययो वा शैक्षाणां भवेत्, अयमेतेषां सकाशादुधततरविहारी येनोपधिमुत्कृष्टपरिभोगेन परिभुङ्क्ते, एते तुहीनतरा इति॥ [भा.५४६३] एवं खलु संविग्गे, संविग्गे संकमं करेमाणे। संविग्गमसंविग्गे, असंविग्गे यावि संविग्गे॥ वृ-एवंखलु संविग्नस्य संविग्नेषु सङ्कमकुर्वाणस्य विधिरुक्तः। अथ संविग्नस्यासंविग्नेषु सङ्कामतोऽसंविग्नस्य वा संविग्नेषुसङ्क्रामतो विधिरुच्यते॥तत्रसंविग्नस्यासंविग्नसङ्क्रमणे Page #226 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १२८, [भा. ५४६३ ] विधिरुच्यते ॥ तत्र संविग्नस्यासंविग्नसङ्क्रमणे तावदिमे दोषाः [ मा. ५४६४ ] सीहगुहं वग्घगुहं, उदहिं व पलित्तगं व जो पविसे । असिवं ओमोयरियं, धुवं से अप्पा परिच्चत्तो ॥ वृ- सिंहगुहां व्याघ्रगुहां 'उदधिं वा' समुद्रं प्रदीप्तं वा नगरादिकं यः प्रविशति, अशिवमवमौदर्य वा यत्र देशे तत्र यः प्रविशति तेन ध्रुवमात्मा परित्यक्तः ॥ [भा. ५४६५ ] चरण-करणप्पहीने, पासत्थे जो उ पविसए समणो । चतमाणए पजहिउं, सो ठाणे परिचयइ तिन्नि || वृ- एवं सिंहगुहादिस्थानीयेषु चरण-करणप्रहीणेषु पारश्वस्थेषु यः श्रमणः 'यतमानान्' संविग्नान् 'प्रहाय' परित्यज्य प्रविशति स मन्दधर्मा 'त्रीणि स्थानानि' ज्ञान-दर्शन- चारित्ररूपाणि परित्यजति । अपि च- सिंहगुहादिप्रवेशे एकभविकं मरणं प्राप्नोति, पार्श्वस्थेषु पुनः प्रविशनन्ननेकानि मरणानि प्राप्नोति ॥ [भा. ५४६६ ] एमेव अहाछंदे, कुसील- ओसन्न-नीय संसत्ते । जं तिन्नि परिच्चयई, नाणं तह दंसण चरितं ॥ २२३ वृ- 'एवमेव' पार्श्वस्थवद् यथाच्छन्देषु कुशीला ऽवसन्न- नित्यवासि संसक्तेषु च प्रविशतो मन्तव्यम् । यच्च त्रीणि स्थानानि परित्यजतीतयुक्तं तद् ज्ञानं दर्शनं चारित्रं चेति द्रष्टव्यम् ॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह [भा. ५४६७ ] पंचन्हं एगयरे, संविग्गे संकमं करेमाणे । आलोइए विवेगो, दो असंविग्गे सच्छंदो ॥ वृ- पार्श्वस्था ऽवसन्न- कुशील- संसक्त-यथाच्छन्दानामेकतरः संविग्नेषु सङ्क्रमं कुर्वन् प्रथममालोचनां ददाति, तत आलोचितेऽविशुद्धोपधेर्विवेकं करोति । स च यदि चारित्रार्थमुपसम्पद्यते ततः प्रतीच्छनीयः । यस्तु 'द्वयोः' ज्ञान-दर्शनयोरर्थायासंविग्न उपसम्पद्यते तस्य 'स्वच्छन्दः ' स्वाभिप्रायः, नासौ प्रतीच्छनीय इति भावः । अथवा “दोसु असंविग्गे”त्ति 'असंविग्नोऽसंविग्ने सङ्क्रामति' इति रूपे द्विधाऽप्यसंविग्ने चतुर्थभङ्गे 'स्वच्छन्दः' स्वेच्छा, अवस्तुभूतत्वाद् न कोऽपि तत्र विधिरिति भावः ॥ [भा. ५४६८ ] पंचेगतरे गए, आरुभियवते जयंतए तम्मि । जं वहिं उप्पाए, संभोइत सेसमुज्झति ॥ वृ-तेषां पञ्चानां पार्श्वस्थादीनामेकतर आगच्छन् यदि गीतार्थस्ततः स्वयमेव महाव्रतान्युच्चार्यारोपितव्रतो यतमानः - व्रजिकादावप्रतिबध्यमानो मार्गे यमुपधिमुत्पादयति स साम्भोगिकः, "सेसमुज्झति" त्ति यः प्राक्तनः पार्श्वस्थोपधिरशुद्धस्तं परिष्ठापयन्ति । यः पुनरगीतार्थस्तस्य व्रतानि गुरवः प्रयच्छन्ति, उपधिश्च तस्य चिरन्तनोऽभिनवोत्पादितो वा सर्वोऽपि परित्यज्यते ॥ तेषु चायमालोचनाविधिः [ मा. ५४६९ ] पासत्थाईमुंडिए, आलोयण होइ दिक्खपभिरं तु । संविग्गपुराणे पुन, जप्पभिई चेव ओसन्नो ।। वृ- यः पार्श्वस्थादिभिरेव मुण्डितः प्रव्राजितस्तस्य दीक्षादिनादारभ्य आलोचना भवति । Page #227 -------------------------------------------------------------------------- ________________ २२४ बृहत्कल्प-छेदसूत्रम् -३-४/१२८ यस्तु पूर्वं संविग्नः पश्चात् पार्श्वस्थो जातः तस्य संविग्नपुराणस्य यत्प्रभृति अवसन्नो जातस्तद्दिनादारभ्याऽऽलोचना भवति ॥ मू. (१२९) गणावच्छेइए य गणादवक्कम्म इच्छेजा अन्नं गणं संभोगपडियाए उवसंपज्जित्ताणं विहरित्तए, नो से कप्पति गणावच्छेइयत्तं अनिक्खिवित्ता संभोगपडियाए जाव विहरित्तए: कप्पति से गणावच्छेइअत्तं निक्खिवित्ता जाव विहरित्तए । नो से कप्पइ अनापुच्छित्ता आयरियं वा जाव विहरित्तए; कप्पति से आपुच्छित्ता आयरियं वाजाव विहरित्तए। ते य से वितरंति एवं से कप्पइ अन्नं गणं संभोगपडियाए जाव विहरित्तए; ते य से नो वितरंति एवं से नो कप्पइ जाव विहरित्तए । जत्थुत्तरियं धम्मविनयं लभेज्जा एवं से कप्पति अन्नं गणं संभोगपडियाए जाव विहरित्तए; जत्थुत्तरियं धम्मविणयं नो लभेजा एवं से नो कप्पति जाव विहरित्तए । मू. (१३०) आयरिय- उवज्झाए य गणादवक्कम्म इच्छेजा अन्नं गणं संभोगपडियाए जाव विहरित्तए, नो से कप्पति आयरिय-उवज्झायत्तं अनिक्खिवित्ता अन्नं गणं सं० जाव विहरित्तए; कप्पति से आयरिय-उवज्झायत्तं निक्खिवित्ता जाव विहरित्तए । नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव विहरित्तए; कप्पति से आंपुच्छित्ता आयरियं वा जाव विहरित्तए । ते य से वितरंति एवं से कप्पति जांव विहरित्तए; ते य से नो वितरंति एवं से नो कप्पति जाव विहरित्तए । जत्थुत्तरियं धम्मविमयं लभेज्जा एवं से कप्पड़ जाव विहरित्तए; जत्थुत्तरियं धम्मविनयं नो लभेजा एवंसे नो कप्पति जाव विहरित्तए । वृ- अस्य सूत्रद्वयस्य व्याख्या पूर्ववत् ॥ अथ भाष्यम् [भा. ५४७० ] एमेव गणावच्छे, गणि-आयरिए वि होइ एमेव । नवरं पुन नामत्तं, एते नियमेन गीया उ ॥ वृ- एवमेव गणावच्छेदिकस्य तथा गणिनः उपाध्यायस्याचार्यस्य च सूत्रं मन्तव्यम् । नवरं पुनरत्र नानात्वम् - एते नियमतो गीतार्थो भवन्ति नागीतार्थाः ॥ मू. (१३१) भिक्खू य इच्छिज्जा अन्नं आयरिय-उवज्झायं उद्दिसावित्तए, नो से कप्पइ अनापुच्छित्ता आयरियं वा जाव गणावच्छेइयं वा अन्नं आयरिय-उवज्झायं उद्दिसावित्तए; कप्पइ से आपुचछित्ता आयरियं वा जाव गणावच्छेइयं वा अनं आयरिय-उवज्झायं उद्दिसावित्तए । ते य से वियरिज्जा एवं से कप्पइ अन्नं आयरिय-उवज्झायं उद्दिसावित्तए; ते य से नो वियरेजा एवं से नो कप्पइ अन्नं आयरिय-उवज्जायं उद्दिसावित्तए । नो से कप्पइ तेसिं कारणं अदीवित्ता अनं आयरिय-उवज्झायं उद्दिसावित्तए; कप्पति से तेसिं कारणं दीवित्ता अन्नं आयरियउवज्झायं उद्दिसावित्तए ॥ वृ- अस्य व्याख्या प्राग्वत् । नवरम्-अन्यम् 'आचार्योपाध्यायमुद्देशयितुम्' आचार्यश्चोपाध्यायश्चाचार्योपाध्यायम् समाहारद्वन्द्वः, यद्वा आचार्ययुक्त उपाध्याय आचार्योपाध्यायः, शाकपार्थिववद् मध्यपदलोपी समासः, आचार्योपाध्यायावित्यर्थः, तावन्यावुद्देशयितुमात्मन इच्छेत् । ततो नो कल्पते अनापृच्छयाचार्यं वा यावद् गणावच्छेदिकं वा इत्यादि प्राग्वद् द्रष्टव्यम् । तथा न कल्पते 'तेषाम्' आचार्यादीनां कारणम् 'अदीपयित्वा' अनिवेद्य अन्यमाचार्योपाध्यायम् 'उद्देशयितुम्' आत्मनो गुरुतया व्यवस्थापयितुम् । कारणं दीपयित्वा तु कल्पते । एष सूत्रार्थ ॥ Page #228 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १३१, [भा. ५४७० ] अथ भाष्यम् [भा. ५४७१] सुत्तम्मि कड्डियम्मी, आयरि-उज्झाय उद्दिसाविंति । तिहऽट्ठ उद्दिसिज्जा, नाणे तह दंसण चरिते ॥ वृ- 'सूत्रे' सूत्रार्थे ' आकृष्टे' उक्ते सति नियुक्तिविस्तर उच्यते- आचार्योपाध्यायमभिनवमुद्देशयन त्रयाणामर्थायोद्दिशेत् । तद्यथा - ज्ञानार्थं दर्शनार्थं चारित्रार्थं चेति ॥ २२५ [भा. ५४७२ ] नाणे महकप्पसुतं, सिस्सत्ता केइ उवगए देयं । तस्स उद्दिसिज्जा, सा कलु सेज्जाण जिनआणा ।। वृ-ज्ञाने तावदभिधीयते - केषाञ्चिदाचार्याणां कुल् गणे वा महाकल्प श्रुतमस्ति, तैश्च गणसंस्थिति कृता-योऽस्माकं शिष्यतयोपगच्छति तस्यैव महाकल्पश्रुतं देयं नान्यस्य । तत्र चोत्सर्गतो नोपसम्पत्तव्यम्, यदि अन्यत्र नास्ति तदा 'तस्य' महाकल्पश्रुतस्यार्थाय तमप्याचार्यमुद्दिशेत्, उद्दिश्य चाधीते तस्मिन् पूर्वाचार्याणामेवान्तिके गच्छेत्, न तत्र तिष्ठेत् । कुतः ? इत्याह-सा खलु तेषामाचार्याणां स्वेच्छा, 'नजिनाज्ञा' न हि जिनैरिदं भणितम्- शिष्यतयोपंगतस्य श्रुतं दातव्यमिति । अथ दर्शनार्थमाह[भा. ५४७३] विज्जा-मंत-निमित्ते, ऊसत्थट्ठ दंसणट्ठाए । चरित्तट्ठा पुव्वगमो, अहव इमे हुंति आएसा ॥ वृ-विद्या-मन्त्र-निमित्तार्थं ' हेतुशास्त्राणां च ' गोविन्दनियुक्तिप्रभृतीनामर्थाय यद् अन्य आचार्य उद्दिश्यते तद् दर्शनार्थं मन्तव्य । चारित्रार्थं पुनरुद्देशने 'पूर्व' प्रागुक्त एव गमो भवति । अथवा तत्रैते 'आदेशाः ' प्रकारा भवन्ति ॥ [भा. ५४७४ ] आयरिय उवज्झाए, ओसन्नोहाविते व कालगते । ओसन छवि खलु, वत्तमवत्तस्स मग्गणया || वृ- आचार्य उपाध्यायो वा अवसन्नः सञ्जातः "अवधावितो वा गृहस्थीभूतः कालगतो वा । यदि अवसन्नस्ततः षड्विधो भवेत् पार्श्वस्थोऽवमग्नः कुशीलः संसक्तो नित्यवासी यथाच्छन्दश्चेति । यश्च तस्य शिष्य आचार्यपदयोग्यः स व्यक्तोऽव्यक्तो वा भवेत् तत्रेयं मार्गणा ।। [भा. ५४७५ ] वत्ते खलु गीयत्थे, अव्वत्ते वएण अहव अगीयत्थे । वत्तिच्छ सार पेसण, अहवाऽऽ सन्ने सयं गमनं ॥ वृ- अत्र चत्वारो भङ्गाः तत्र वयसा व्यक्तः षोडशवार्षिकः श्रुतेन च व्यक्तो गीतार्थः, एष प्रथमो भङ्गः । वयसा व्यक्तः श्रुतेनाव्यक्तः, एषोऽर्थतो द्वितीयः । वयसाऽव्यक्तः श्रुतेन व्यक्तः, अयमर्थतस्तृतीयः । “अव्वत्ते वएण अहव अगीयत्थि "त्ति चतुर्थो भङ्गो गृहीतः, स चायम्वयसाऽप्यव्यक्तः श्रुतेन चाव्यक्त इति ४ । अत्र प्रथमे भङ्गे द्विधाऽपि व्यक्तस्य 'इच्छा' अन्यमाचार्यमुद्दिशति वा न वा । यावन्नोद्दिशति तावत् तमवसन्नीभूतमाचार्य दूरस्थं सारयितुं साधुसङ्घाटकं प्रेषयति । अथासन्ने स आचार्यस्ततः स्वयमेव गत्वा नोदयति ॥ नोदनायां चैवं कालपरिमाणम् [भा. ५४७६ ] एगाह पनग पक्खे, चउमासे वरिस जत्थ वा मिलइ । 2015 Page #229 -------------------------------------------------------------------------- ________________ २२६ बृहत्कल्प-छेदसूत्रम् - ३-४/१३१ चोएइ चोयवेइ व, नेच्छंते सयं तु वट्टावे ॥ वृ- 'एकाहंनाम' दिने दिने गत्वा नोदयति, एकान्तरितं वा । तथा 'पञ्चाहं' पञ्चानां दिवसानामन्ते, एवं पक्षे चतुर्मासे वर्षान्ते वा 'यत्र वा' समवसरणादौ मिलति तत्र स्वयमेव नोदयति, अपरैर्वा स्वगच्छीय-परगच्छीयैर्नोदनां कारयति । यदि सर्वथाऽपि नेच्छति ततः स्वयमेव तं गणं वर्तापयति ।। [भा. ५४७७] उद्दिसइ व अन्नदिसं, पयावणट्ठा न संगहट्ठाए । जइ नाम गारवेण वि, मुएज निच्छे सयं ठाई ॥ वृ- अथवा स उभयव्यक्तः 'अन्यां दिशम्' अपरमाचार्यमुद्दिशति तच्च तस्यावसन्नाचार्यस्य 'प्रतापनार्थम्' उत्तेजनार्थं न पुनर्गणस्य सङ्ग्रहोपग्रहनिमित्तम् । स च तत्र गत्वा भणति - अहमन्यमाचार्यमुद्दिशामि यदि यूयमितः स्थानाद् नोपरमध्वे । ततः स चिन्तयेत् - अहो ! अमी मयि जीवत्यपि अपरमाचार्यं प्रतिपद्यन्ते, मुञ्चामि पार्श्वस्थताम् । यदि नामैवं गौरवेणापि पार्श्वस्थत्वं मुञ्चेत् ततः सुन्दरम्, अथ सर्वथा नेच्छत्युपरन्तुं ततः स्वयमेव गच्छाधिपत्ये तिष्ठति ।। गतः प्रथमो भङ्गः । अथ द्वितीयमाह [भा. ५४७८] सुअवत्तो वतवत्तो, भणइ गणं ते न सारितुं सत्तो । सारेहि सगणमेयं, अन्नं व वयामो आयरियं ॥ वृ- यः श्रुतेन व्यक्तो वयसा पुनरव्यक्तः स स्वयं गच्छं वर्तापयितुमसमर्थ तमाचार्यं भणतिअहमप्राप्तवयस्त्वेन त्वदीयंगणं सारयितुं न शक्तः, अतः सारय स्वगणमेनम्, अहं पुनरन्यस्यशिष्यो भविष्यामि, अथवा अहमेते वाऽन्यमाचार्यं व्रजामः, उद्दिसाम इत्यर्थः ॥ [भा. ५४७९] आयरिय-उवज्झायं, निच्छंते अप्पणा य असमत्थे । तिगवच्छरमद्धं, कुल गण संघे दिसाबंधो ॥ वृ- एवंभणित आचार्य उपाध्यायो वा यदि नेच्छति संयमे स्थातुम्, स चात्मना गणं वर्तापयितुमसमर्थः, ततः कुलसत्कमाचार्यमुपाध्यायं वा उद्दिशति । तत्र त्रीणि वर्षाणि तिष्ठति, तं चाचार्यं सारयति । ततः ‘त्रयाणां वर्षाणां परतः सचित्तादिकं कुलाचार्यो हरति' इति कृत्वा गणाचार्यमुद्दिशति ॥ तत्र संवत्सरं स्थित्वा सङ्घाचार्यस्य दिग्बन्धं प्रतिपद्य 'वर्षार्द्ध' षण्मासान् तत्र तिष्ठति ॥ कुलाद् गणं गणाच्च सङ्घ सङ्क्रामन्नाचार्यमिदं भणति [भा. ५४८०] सच्चित्तादि हरंती, कुलं पि नेच्छामो जं कुलं तुमं । वच्चामो अन्नगणं, संघ व तुमं जइ न ठासि ॥ वृ- यत् त्वदीयं कुलं तदीया आचार्या अस्माकं वर्षत्रयादूर्ध्वं सचित्तादिकं हरन्ति अतः कुलमपि नेच्छामः, यदि त्वमिदानीमपि न तिष्ठसि ततो वयं गणं सङ्घ वा व्रजामः ॥ [भा. ५४८१] एवं पि अठायंते, ताहे तू अद्धपंचमे वरिसे । सयमेव धरेइ गणं, अनुलोमेणं च सारेइ ॥ वृ- एवमर्द्धपञ्चमैर्वर्षै पूर्वाचार्यो नोदनाभि प्रतापितोऽपि यदि न तिष्ठति तत एतावता कालेन श्रुतव्यक्तो वयसाऽपि व्यक्तो जात इति कृत्वा स्वयमेव गणं धारयति । यत्र च पूर्वाचार्यं पश्यति तत्र अनुलोमवचनैस्तथैव सारयति ॥ [ भा. ५४८२ ] अहव जइ अस्थि थेरा, सत्ता परियट्टिऊण तं गच्छं । Page #230 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१३१, [भा. ५४८२] २२७ दुहओवत्तसरिसगो, तस्स उगमओ मुणेयव्यो॥ वृ-अथवा यदि तस्य श्रुतव्यक्तस्य स्थविरास्तंगच्छं परिवर्तयितुंशक्ताः सन्तिततः कुलगणसङ्केषु नोपतिष्ठते किन्तु स स्वयं सूत्रार्थी शिष्याणां ददाति, स्थविरास्तु गच्छं परिवर्तयन्ति । एवं च द्विधाव्यक्तसशस्तस्य गमो ज्ञातव्यो भवति॥गतो द्वितीयभङ्गः। अथ तृतीयभङ्गमाह[भा.५४८३] वत्तवओ उ अगीओ, जइथेरा तत्थ केइ गीयत्था। तेसंतिगे पढंतो, चोएइ स असइ अन्नत्थ ॥ वृ-यो वयसा व्यक्तः परमगीतार्थः, तस्य च गच्छे यदि केऽपि स्थविरा गीतार्थाः सन्ति ततः 'तेषां' स्थविराणामन्तिके पटन् गच्छमपि परिवर्तयति, अवसन्नाचार्य चान्तराऽन्तरा नोदयति। तेषांगीतार्थस्थविराणामभावे गणंगृहीत्वाऽन्यत्रोपसम्पद्यते।गतस्तृतीयोभङ्गः।अथचतुर्थभङ्गमाह[भा.५४८४] जो पुन उभयअवत्तो, वट्टावग असइ सो उ उद्दिसई। सव्वे सि उद्दिसंता, मोत्तूणं उद्दिसंति इमे॥ वृ-यः पुनः उभयथा-श्रुतेन वयसा चाव्यक्तस्तस्य यदि स्थविराः पाठयितारो विद्यन्ते अपरे च गच्छवर्तापकास्ततोऽसावपिनान्यमुद्दिशति स्थविराणामभावेसनियमादन्यमाचार्यमुद्दिशति। 'सर्वेऽपि' भङ्गचतुष्टयवर्तिनोऽप्यन्यमाचार्यमुद्दिशन्तोऽमून मुक्त्वा उद्दिशन्ति । तद्यथा[भा.५४८५] संविग्गमगीयत्थं, असंविग्गंखलु तहेव गीयत्थं । असंविग्गमगीयत्थं, उद्दिसमाणस्स चउगुरुगा॥ वृ-संविग्नमगीतार्थं असंविग्नं गीतार्थं असंविग्नमगीतार्थं चेति त्रीनप्याचार्यत्वेनोद्दिशतश्चतुर्गुरुकाः। एते च यथाक्रमं कालेन तपसा तदुभयेन च गुरुकाः कर्तव्याः॥ अत्रैव प्रायश्चित्तवृद्धिमाह[भा.५४८६] सत्तरत्तं तवो होइ, तओ छेओ पहावई। छेदेन छिन्नपरियाए, तओ मूलं तओ दुगं॥ वृ- एतानयोग्यानुद्दिश्यानावर्तमानस्य प्रथमं सप्तरात्रं दिने दिने चतुर्गुरु, द्वितीयं सप्तरात्रं षड्लघु, तृतीयं षड्गुरु, चतुर्थं चतुर्गुरुकच्छेदः, पञ्चमंषड्लघुकः, षष्ठंषड्गुरुकः, तत एकदिवसे मूलम्, द्वितीयेऽनवस्थाप्यम्, तृतीये पाराञ्चिकम् । अथवा षड्गुरुकतपोऽनन्तरं प्रथमत एव सप्परात्रं षड्गुरुकच्छेदः, ततः मूला-ऽनवस्थाप्य-पाराञ्चिकानि प्राग्वत् । यद्वा तपोऽनन्तरं पञ्चकादिच्छेदः सप्त सप्त दिनानि भवति, शेषं पूर्ववत् । एवं प्रायश्चित्तं विज्ञाय संविग्नो गीतार्थ उद्देष्टव्यः॥ तत्रापि विशेषमाह[भा.५४८७] छट्ठाणविरहियं वा, संविग्गंवा विवयइ गीयत्थं । चउरो य अनुग्घाया,तत्थ विआणाइणो दोसा।। वृ-षड्भिः स्थानैर्वक्ष्यमाणैर्विरहितमपि संविग्नं गीतार्थ यदि 'सदोषं' काथिकादिदोषसहितं 'वदति' आचार्यत्वेन उद्दिशति तदा चत्वारोऽनुद्धाताः। तत्राप्याज्ञादयो दोषाः॥इदमेव व्याचष्टे[भा.५४८८] छट्ठाणा जा नियगो, तविरहिय काहियाइता चउरो। तेविय उद्दिसमाणे, छट्ठाणगयाण जे दोसा॥ वृ-'षट्स्थानानि नाम' पार्श्वस्थोऽवसन्नः कुशीलः संसक्तो यथाच्छन्दो नित्यवासी चेति, Page #231 -------------------------------------------------------------------------- ________________ २२८ बृहत्कल्प-छेदसूत्रम् -३-४/१३१ एतैः षड्भिर्विरहिता ये 'काथिकादयः' काथिक-प्राश्निनकःमामाक-सम्प्रसारकाख्या चत्वारस्तानप्युद्दिशतस्त एव दोषाये षट्स्थानेषु-पार्श्वस्थादिषुगतानां-प्रविष्टानां भवन्ति ॥ एष सर्वोऽप्यवसने आचार्ये विधिरुक्तः। अथावधावित-कालगतयोविधिमाह[भा.५४८९] ओहाविय कालगते, जाधिच्छा ताहि उद्दिसावेइ । अव्वत्तेतिविहे वी, नियमा पुन संगहट्ठाए। वृ-अवदाविते कालगते वा गुरौ 'त्रिविधेऽपि' प्रतमभहावर्जे भङ्गत्रयेऽपि योऽव्यक्तः स यदाइच्छा भवति तदाऽन्यमाचार्यमुद्देशयति।अथवा त्रिविधेऽपि' कुलसत्केगणसत्केसङ्घसत्के चआचार्योपाध्यायेआत्मन उद्देशं कारयति।सचाव्यक्तत्वानियमात्सङ्ग्रहोपग्रहार्थमेवोद्दिशति। आचार्यं गृहीभूतमवसनं वा यदा पश्यति तदेत्यं भणति[भा.५४९०] ओहाविय ओसने, भणइ अनाहा वयं विना तुझे। कमसीसमसागरिए, दुप्पडियरगंजतो तिण्हं । वृ-अवधावितस्यावसनस्यवागुरोः ‘क्रमयोः पादयोःशीर्षमसागारिके प्रदेशेकृत्वा भणतिभगवन्! अना वयं युष्याविना, अतः प्रसीद, भूयः संयमेस्तित्वासनाथीकुरुडिम्भकल्पानस्मान्। शिष्यः पृच्छति-तस्य गृहीभूतस्य अचारित्रिणो वा चरणयोः कथं शिरो विधीयते ? गुरुराह'दुष्प्रतिकरं दुःखेन प्रतिकर्तुं शक्यं यतस्त्रयाणा, तद्यथा-माता-पित्रोः स्वामिनो धर्माचार्यस्य च।यदुक्तम्-"तिण्हंदुप्पडियारंसमणाउसो!-अम्मा-पियस्स भट्टिस्स धम्मायरियस्सय" इत्यादि। तत एवमवसन्नेऽवधाविते वा गुरौ विनयो विधीयते ॥ किञ्च- [भा.५४९१] जोजेन जम्मि ठाणम्मि ठाविओ दंसणे व चरणेवा। सोतंतओ चुतं तम्मिचेव काउं भवे निरिणो॥ वृ-यः 'येन' आचार्यादिना यस्मिन् स्थाने स्थापितः, तद्यथा-दर्शने वा चरणेवा, 'सः शिष्यः 'तं' गुरुं 'ततः' दर्शनात् चरणाद्वा च्युतं तत्रैव' दर्शने चरणे वा 'कृत्वा' स्थापयित्वा निर्ऋणः' ऋणमुक्तो भवति कृतप्रत्युपकार इत्यर्थः॥ .. अथ “कप्पइ तेसिं कारणं दीवित्ता" इत्यादिसूत्रवयवं व्याचष्टे.. [भा.५४९२/१]तीसु वि दीवियकजा, विसज्जिता जइ य तत्थतं नत्यि। कृ-'त्रिष्वपि' ज्ञान-दर्शन-चारित्रेषु व्रजन्तो भिक्षुप्रभृतयः 'दीपितकार्या' पूर्वोक्तविधिना निवेदितस्वप्रयोजना गुरुणा विसर्जिता गच्छन्ति । यदि च 'तत्र' गच्छे 'तद्’ अवसन्नतादिकं कारणं नास्ति तत उपसम्पद्यते, नान्यथेति॥ मू. (१३२) गणावच्छेइए य इच्छिज्जा अनं आयरिय-उवज्झायं उद्दिसावित्तए, नो से कप्पइ गणावच्छेइयत्तं अनिक्खिवित्ता अनंआयरिय-उवज्झायंउदिसावित्तए; कप्पइसे गणावच्छेइयत्तं निक्खिवित्ता अन्न आयरिय-उवज्झायं उदिसावित्तए । नो से कप्पइ अणापुछित्ता आयरियं वा जाव गणावच्छेइयं वा अन्नं आयरिय-उवन्झायं उदिसावित्तए; कप्पइ से आपुच्छित्ता जाव उदिसावित्तए । नो से कप्पति तेसिं कारणं अदीवित्ता अन्नं आयरिय-उवज्झायं उद्दिसोवित्तए; कप्पइसे तेसिं कारणं दीवित्ता अनंजाव उदिसावित्तए॥ मू. (१३३) आयरिय-उवन्झाए इच्छिज्जा अन्न आयरिय-उवज्झायं उद्दिसावित्तए, नो से Page #232 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१३२, [भा. ५४९२] २२९ कम्पइआयरिय-उवज्झायत्तं अनिक्खिवित्ता अन्नंआयरिय-उवज्झायं उद्दिसावित्तए; कप्पइ से आयरिय-उवज्झायत्तं निक्खिवित्ता अन्नं आयरिय-उवज्झायं उद्दिसावित्तए नो से कप्पति अनापुच्छित्ताआयरियं वाजाव गणावच्छेइयंवा अन्नं आयरिय-उवज्झायंउद्दिसावित्तए; कप्पति से आपुच्छित्ताआयरियं वाजाव गणावच्छेइयं वा अनं आयरिय-उवज्झायं उद्दिसावित्तए। तेय से वितरंति एवं से कप्पति जाव उदिसावित्तए; ते य से नो वियरंति एवं से नो कप्पइ जाव उद्दिसावित्तए । नो से कप्पइ तेसिं कारणं अदीवित्ता अन्नं आयरिय-उवज्झायं उदिसावित्तए; कप्पइ से तेसिं कारणं दीवित्ता जाव उदिसावित्तए। वृ-सूत्रद्वयस्य व्याख्या प्राग्वत् ॥अथ भाष्यम्[भा.५४९२/२]निक्खिविय वयंति दुवे, भिक्खू किं दानि निखिवतू॥ वृ-"निक्खिविय वयंति दुवे" इत्यादि पश्चार्द्धम् । 'द्वौ' गणावच्छेदिक आचार्योपाध्यायश्च यथाक्रमं गणावच्छेदिकत्वमाचार्योपाध्यायत्वं च निक्षिप्य व्रजतः । यस्तु भिक्षु स किमिदानीं निक्षिपतु? गणाभावाद्न किमपि तस्य निक्षेपणीयमस्ति, अतएव सूत्रेतस्य निक्षेपणंनोक्तमिति भावः॥अथ गमावच्छेदिका-ऽऽचार्ययोर्गणनिक्षेपणे विधिमाह[भा.५४९३] दुण्हऽट्ठाए दुण्ह वि, निक्खिवणं होइ उज्जमंतेसु । सीअंतेसु असगणो, वच्चइमा ते विनासिज्जा। वृ-'द्वयोः' ज्ञान-दर्शनयोराय गच्छतोः 'द्वयोरपि' गणावच्छेदिका-ऽऽचार्ययोः स्वगणस्य निक्षेपणं ये 'उद्यच्छन्तः' संविग्ना आचार्यास्तेषु भवति । अथ सीदन्तस्ते ततः 'सगणः' स्वगणं गृहीत्वाव्रजतिनपुनस्तेषामन्तिकेनिक्षिपति । कुतः? इत्याह-मा ते शिष्यास्तत्रमुक्ता विनश्येयुः। इदमेव भावयति[भा.५४९४] वत्तम्मि जो गमो खलु, गणवच्छे सो गमो उ आयरिए। निक्खिवणे तम्मि चत्ता, जमुद्दिसे तम्मि ते पच्छा। वृ-यो गम उभयव्यक्ते भिक्षावुक्तः स एव गणावच्छेदिके आचार्ये च मन्तव्यः । नवरम्गणनिक्षेपं कृत्वा तौ आत्मद्वितीयौ आत्मतृतीयौ वा व्रजतः । तत्र स्वगच्छ एव यः संविग्नो गीतार्थआचार्यादिस्तत्रात्मीयसाधून निक्षिपति। अथासंविग्नस्यपाइँ निक्षिपतिततःतेसाधवः परित्यक्ता मन्तव्याः, तस्माद् न निक्षेपणीयाः किन्तु येन तेन प्रकारेणात्मना सह नेतव्याः।ततो यमाचार्यसगणावच्छेदिकआचार्योवा उद्दिशतितस्मिन् ‘तान्' आत्मीयसाधून पश्चानिक्षिपति, यथा अहं युष्माकं शिष्यस्तथा इमेऽपियुष्पदीयाः शिष्या इति भावः ।। इदमेवाह[भा.५४९५] जहअप्पगंतहा ते, तेन पहुप्पंते ते न घेत्तव्वा । अपहुप्पंते गिण्हइ, संघाडं मुत्तु सव्वेवा।। वृ-यथा आत्मानं तथा तानपिसाधून निवेदयति । 'तेनापि' आचार्येणपूर्यमाणेषुसाधुषु 'ते' प्रतीच्छकाचार्यसाधवोन ग्रहीतव्याः, तस्यैव तान्प्रत्यर्पयति।अथ वास्तव्याचार्यस्य साधवोन पूर्यन्ते तत एकं सङ्घाटकं तस्य प्रयच्छति, तं मुक्त्वा शेषानात्मना गृह्णाति । अथ वास्तव्याचार्य सर्वथैवासहायस्ततः सर्वानपि गृह्णाति॥ [भा.५४९६] सहु असहुस्स वि तेन वि, वेयावच्चाइ सव्व कायव्वं । Page #233 -------------------------------------------------------------------------- ________________ २३० बृहत्कल्प-छेदसूत्रम् -३-४/१३३ तेतेसिअनाएसा, वावारेउ न कप्पंति॥ वृ-'तेनापि प्रतीच्छकाचार्यादिनातस्याचार्यस्यसहिष्णोरसहिष्णोर्वावैयावृत्यादिकं सर्वमपि कर्तव्यम् । तेऽपि' साधवः 'तेषां' आचार्याणामादेशमन्तरेण व्यापारयितुंन कल्पन्ते॥ मू. (१३४) भिक्खूयरातो वा वियाले वाआहच वीसुंभिजा, तंच सरीरगंकेइ वेयावच्चकरे भिक्खूइच्छिज्जा एगंतेबहुफासुएपएसेपरिट्ठवित्तए, अस्थियाइंथकेइसागारियसंतिएउवगरणजाए अचित्ते परिहरणारिहे, कप्प से सागारिकडंगहायतंसरीरगंएगते बहुफासुए पएसे परिहवित्ता तत्येव उवनिक्खिवियव्वे सिया॥ दृ-अस्य सम्बन्धमाह[भा.५४९७] तिहिं कारणेहिं अनं, आयरियं उद्दिसिज्ज तहि दुन्नि। मुत्तुंतइए पगयं, वीसुंभणसुत्तजोगोऽयं॥ वृ-'त्रिभिः कारणैः' अवसन्नतादिभिरन्यमाचार्यमुद्दिशेदित्युक्तम् । तत्राद्ये 'द्वे' अवसन्नाऽवधावितलक्षणे मुक्त्वा तृतीयेन' कालगतरूपेणकारणेनप्रकृतम्, तद्विषयोविधिरनेनाभिधीयत इति भावः । एष विष्वग्भवनसूत्रस्य 'योगः' सम्बन्धः॥ [भा.५४९८] अहवा संजमजीविय, भवग्गहणजीवियाउ विगए वा। . अनुद्देसो वुत्तो, इमंतुसुत्तं भवच्चाए। वृ-अथवासंयमजीविताद्भवग्रहणजीविताद्वा विगतेऽन्ययाचार्यस्य उद्देशः पूर्वसूत्रे उक्तः। इदं तु सूत्रं भवजीवितपरित्यागविषयमारभ्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षु चशब्दाद् आचार्योपाध्यायौ वा रात्रौ वा विकाले वा “आहच्च"कदाचिद् विष्वग्भवेत् जीवशरीरयोः पृथग्भावमाप्नुयात्, म्रियत इत्यर्थः। तच्चशरीरकं कश्चिद्' वैयावृत्यकरो भिक्षुरिच्छेत् 'एकान्ते विविक्ते बहुप्राशुके कीटिकादिसत्त्वरहितेप्रदेशे परिष्ठापयितुम् । अस्ति चात्र किञ्चित् सागारिकसत्कं अचित्तं निर्जीवं परिहरणाहँ परिभोगयोग्यमुपकरणजातम्, वहनकाष्ठमित्यर्थः। कल्पते "से" तस्य भिक्षोस्तत् काष्ठं सागारिककृतं' 'सागारिकस्यैवसत्कमिदंनास्माकम्' इत्येवं गृहीत्वा तत् शरीरमेकान्ते बहुप्राशुके प्रदेशे परिष्ठापयितुम् । तच्च परिष्ाप्य यतो गृहीतं तत् काष्ठं तत्रैवोपनिक्षेप्तव्यं स्यादिति सूत्रार्थः ।। सम्प्रति नियुक्तिविस्तरः[भा.५४९९] पुट्विं दव्वोलोयण, नियमा गच्छे उवक्कमनिमित्तं। भत्तपरिन गिलाणे, पुबुग्गहो थंडिलस्सेव ॥ वृ-यत्र साधवो मासकल्पं वर्षावासं वा कर्तुकामास्तत्र पूर्वमेव तिष्ठन्तः द्रव्यस्यवहनकाष्ठादेरवलोकनं नियमाद् गच्छवासिनः कुर्वन्ति । किमर्थम् ? इत्याह-उपक्रमः-मरणं तत् कस्यापि संयतस्य भवेदित्येवमर्थम् । तच्च मरणं कदाचिद् भक्तपरिज्ञावतो भवेत्, कदाचित् तु ग्लानस्य, उपलक्षणमिदम्, तेनाशुकारेण वा मरणं भवेत्, ततः पूर्वमेव महास्थण्डिलस्य वहनकाष्ठादेश्च 'अवग्रहः' प्रत्युपेक्षणं विधेयम् ॥अथ द्वारगाथात्रयमाह[भा.५५००] पडिलेहणा दिसा नंतए य काले दिया व राओ य। जग्गण-बंधन-छेयण, एयंतु विहिं तहिं कुजा ।। [भा.५५०१] कुसपडिमाइ नियत्तण, मत्तग सीसे तणाई उवगरणे। Page #234 -------------------------------------------------------------------------- ________________ २३१ उद्देशकः ४, मूलं-१३४, [भा. ५५०१] काउस्सग्ग पदाहिण, अब्भुट्ठाणे य वाहरणे॥ [भा.५५०२] काउस्सग्गे सज्झाइए य खमणस्स मग्गणा होइ । वोसिरणे ओलोयण, सुभा-ऽसुभगइ-निमित्तट्ठा ॥ वृ- वहनकाष्ठस्य स्थण्डिलस्य च प्रथमत एव प्रत्युपेक्षणं विधेयम् । “दिस"त्ति दिग्भागो निरूपणीयः । "नंतए य"त्ति औपग्रहिकान्तकं मृताच्छादनार्थं गच्छे सदैव धारणीयम्; जातिप्रधानश्चायं निर्देशः, ततो जघन्यतोऽपि त्रीणि वस्त्राणि धारणीयानि । “काले दिया व राओ अ"त्ति दिवा रात्रौ वा कालगते विषादोन विधेयः । रात्रौ च स्थाप्यमाने मृतके जागरणं बन्धनं छेदनंच कर्तव्यम् । एवं विधिं तत्र कुर्यात् ॥तथा नक्षत्रं विलोक्य कुशप्रतिमाया एकस्या द्वयोर्वा करणमकरणं वा । “नियत्तणि"त्ति येन प्रथमतो गताः न तेनैव पथा निवर्तनीयम् । मात्रके पानकं गृहीत्वा पुरत एकेन साधुना गन्तव्यम् । यस्यां दिशि ग्रामस्ततः शीर्षं कर्तव्यम्। तृणानि समानि प्रस्तरणीयानि । 'उपकरणं' रजोहरणादिकं तस्य पार्वे धारणीयम् । अविधिपरिष्ठापनायाः कायोत्सर्गस्थण्डिले स्थितैर्न कर्तव्यः । निवर्तमानैः प्रादक्षिण्यं न विधेयम्। शबस्य चाभ्युत्थाने वसत्यादिकं परित्यजनीयम् । यस्य च संयतस्य 'व्याहरणं' नामग्रहणं स करोति तस्य लोचः कर्तव्यः ।। गुरुसकाशमागतैः कायोत्सर्गो विधेयः । स्वाध्यायकस्य क्षपणस्य च मार्गणा कर्तव्या । उच्चारादिमात्रकाणां व्युत्सर्जनं कर्तव्यम् । अपरेऽह्नि तस्यावलोकनं शुभाऽशुभगतिज्ञानार्थनिमित्तग्रहणार्थंचविधेयमितिद्वारगाथात्रयसमासार्थः।। अथैतदेव विवरीषुराह[भा.५५०३] जंदव्वं घनमसिणं, वावारजढं च चिट्ठए बलियं । वेणुमय दारुगंवा, तं वहणट्ठा पलोयंत ॥ वृ-यद् द्रव्यं वेणुमयं दारुकं वा घनमसृणं 'व्यापारमुक्तम्' अवहमानकं 'बलीयः' दृढतरं सागारिकस्य गृहे तिष्ठतितत् कालगतस्य वहनार्थं प्रथममेव प्रलोकयन्ति, महास्थण्डिलं च प्रत्युपेक्षणीयम् ।। अथ न प्रत्युपेक्षन्ते तत इमे दोषाः[भा.५५०४] अत्थंडिलम्मिकाया, पवयणघाओ य होइ आसन्ने। छड्डावण गहणाई, परुग्गहे तेन पेहिज्जा॥ वृ-अस्थण्डिले परिष्ठापयन्षट्कायाविराधयति।प्रवचनघातश्चग्रामादेरासने परिष्ठापयतो भवति । परावग्रहे च परिष्ठापयतः छर्दापनं भवेत् । छपिनं नाम-ते बलादपि साधुपादिन्यत्र तं शबं परित्याजयेयुः । ग्रहणा-ऽऽकर्षणादयो दोषा भवेयुः । ततो महास्थण्डिलमवश्यं प्रागेव प्रत्युपेक्षेत । गतं प्रत्युपेक्षणाद्वारम् । अथ दिग्द्वारमाह[भा.५५०५]दिस अवरदक्खिणा दक्खिणा य अवरा य दक्खिणापुव्वा । अवरुत्तरा य पुव्वा, उत्तर पुव्युत्तरा चेव॥ वृ-प्रथमम् ‘अपरदक्षिणा' निर्ऋती दिग् निरीक्षणीया, तदभावे दक्षिणा, तस्या अभावेऽपरा, तदप्राप्तौ 'दक्षिणपूर्वा' आग्नेयी, तदलाभे 'अपरोत्तरा' वायवी, तस्या अभावे पूर्वा, तदभावे उत्तरा, तदभावे उत्तरपूर्वा ।। सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषानाह[भा.५५०६] समाही य भत्त-पाने, उवकरणे तुमंतुमा य कलहोय । भेदो गेलनं वा, चरिमा पुन कड्डए अनं ॥ Page #235 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-४/१३४ वृ-प्रथमायां दिशि शबस्य परिष्ठापने प्रचुरान्न-पान-वस्त्रलाभतः समाधिर्भवति । तस्यां सत्यां यदि दक्षिणस्यां परिष्ठापयन्ति तदा भक्त - पानं न लभन्ते, अपरस्यामुपकरणं न प्राप्नुवन्ति, दक्षिणपूर्वस्यां तुमन्तुमा परस्परं साधूनां भवति, अपरोत्तरस्यां कलहः संयत-गृहस्था ऽयन्तीर्थिकिः समं भवति, पूर्वस्यां गणभेदश्चारित्रभेदो वा भवेत्, उत्तरस्यां ग्लानत्वम्, 'चरमा' पूर्वोत्तरा सा कृतमृतकपरिष्ठापना अन्यं साधुमाकर्षति, मारयतीत्यर्थः ॥ २३२ [ भा. ५५०७ ] आसन्न मज्झ दूरे, वाघातट्ठा तु थंडिले तिन्नि । खेत्तुदय-हरिय-पाणा, निविट्ठमादी व वाघाए । वृ- प्रथममायामपि दिशि त्रीणि स्थण्डिलानि प्रत्युपेक्षणीयानि - ग्रामादेरासन्ने मध्ये दूरे च । किमर्थं पुनस्त्रीणि प्रत्युपेक्ष्यन्ते ? इत्याह-व्याघातार्थम्, व्याघातः कदाचिद् भवेदित्यर्थः । स चायम्- क्षेत्रं तत्र प्रदेशे कृष्टम्, उदकेन वा भावितम्, हरितकायो वा जातः, त्रसप्राणिभिर्वा संसक्तं समजनि, ग्रामो वा निविष्टः, आदिग्रहणेन सार्थो वा आवासितः । एवमादिको व्याघातो यदि आसन्नस्थण्डिले भवति तदा मध्ये परिष्ठापयन्ति, तत्रापि व्याघाते दूरे परिष्ठापयन्ति । अथ प्रथमायां दिशि विद्यमानायां द्वितीयायां तृतीयायां वा प्रत्युपेक्षन्ते ततश्चतुर्गुरुकाः । एते च दोषाः[भा. ५५०८] एसणपेल्लण जोगाण व हानी भिन्न मासकप्पो वा । भत्तोवधीअभावे, इति दोसा तेन पढमम्मि ॥ वृ-भक्त- पानालाभाद् उपधेरलाभाच्च एषणाप्रेरणं कुर्युः । अथैषणांन प्रेरयेयुः ततः 'योगानाम्' आवश्यकव्यापाराणां हानि । अपरं वा क्षेत्रं गच्छतां मासकल्पो भिन्नो भवेत् । एवमादयो दोषा भक्तोपध्योरभावे भवन्ति ततः प्रथमे दिग्भागे महास्थण्डिलं प्रत्युपेक्षणीयम् ॥ [भा. ५५०९ ] एमेव सेसियासु वि, तुमंतुमा कलह भेद मरणं वा । जं पावंत सुविहिया, गणाहिवो पाविहिति तं तु ॥ वृ-यथा द्वितीयायां तृतीयायां च दोषा उक्ता एवमेव 'शेषास्वपि' चतुथ्यादिषु यत् तुमन्तुमाकरणं कलहं गणभेदं मरणं वा सुविहिताः प्राप्नुवन्ति तद् गणाधिपः सर्वमपि प्राप्स्यति । अथ प्रथमायां व्याघातस्ततो द्वितीयायामपि प्रत्युपेक्षणीयम् । तस्यां च स एव भक्त - पानलाभलक्षणो गुणो भवति यः प्रथमायामुतः । अथ द्वितीयस्यां विद्यमानायां तृतीयायामां प्रत्युपेक्षन्ते ततः स एव प्रागुक्तो दोषः, एवमष्टमीं दिशं यावद् नेतव्यम् । अथ द्वितीयस्यां व्याघातस्ततस्तृतीयस्यां प्रत्युपेक्षणीयम्, तस्यां च स एव गुणो भवति। एवमुत्तरोत्तरदिक्ष्वपि भावनीयम् ॥ गतं दिग्द्वारम् । अथ नन्तकद्वारमाह [ भा. ५५१० ] वित्थारा-ऽऽयामेणं, जं वत्थं लब्भती समतिरेगं । चोक्ख सुतिगं च सेतं, उवक्कमट्ठा धरेतव्वं ॥ वृ- विस्तारेणायामेन च यद् वस्त्रप्रमाणमर्द्धतृतीयहस्तादिकं तृतीयोद्देशके भणितं ततो यद् वस्त्रं समतिरेकं लभ्यते । कथम्भूतम् ? "चोक्खं" धवलितं 'शुचिकंनाम' सुगन्धि 'श्वेतं' पाण्डुरम्। एवंविधं जीवितोपक्रमार्थं गच्छे धारयितव्यम् ॥ गणनाप्रमाणेन तु तानि त्राणि भवन्ति, तद्यथा[ भा. ५५११] अत्थुरणट्ठा एगं, बिइयं छोढुमुवरिं घनं बंधे । उक्कोसयरं उवरिं, बंधादीछादणट्ठाए । Page #236 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं - १३४, [भा. ५५११] २३३ वृ- एकं तस्य मृतकस्याध आस्तरणार्थं द्वितीयं पुनः प्रक्षिप्योपरि घनं बघ्नीयात् । किमुक्तं भवति ? - द्वितीयेन तद् मृतकं प्रावृत्योपरि दवरकेण घनं बध्यते । तृतीयम् 'उत्कृष्टतरम्' अतीवोज्वलं बन्धादिच्छादनार्थं तदुपरि स्थापनीयम् । एवं जघन्यतस्त्राणि वस्त्राणि ग्रहीतव्यानि । उत्कर्षतस्तु गच्छं ज्ञात्वा बहून्यपि गृह्यन्ते ॥ [ भा. ५५१२] एतेसिं अग्गहणे, चउगुरु दिवसम्मि वन्निया दोसा । रत्तिं च पडिच्छंते, गुरुगा उट्ठाणमादीया ॥ वृ- 'एतेषाम्' एवंविधानां त्रयाणां वस्त्रणामंग्रहणे चतुर्गुरु प्रायश्चित्तम् । मलिनवस्त्रप्रावृते च तस्मिन् दिवसतो नीयमाने 'दोषाः' अवर्णवादादयो वर्णिताः । अथैतद्दोषभयाद् 'रात्री परिष्ठापयिष्यामि' इति बुध्या मृतकं प्रतीक्षापयति ततश्चतुर्गुरुका उत्थानादयश्च दोषाः ॥ कथं पुनरवर्णवादादयो दोषाः ? इत्याह [भा. ५५१३] उज्झाइए अवन्नो, दुविह नियत्ती य मइलवसणाणं । तम्हा तु अहत कसिणं, धरेंति पक्खस्स पडिलेहा ॥ वृ- " उज्झाइए" मलिनकुचेले तस्मिन् नीयमानेऽवर्णो भवति - अहो अमी वराका मृता अपि शोभां न लभन्ते । मलिनवस्त्राणां च दर्शने द्विविधा निवृत्तिर्भवति, सम्यक्त्वं प्रव्रज्यां च ग्रहीतुकामाः प्रतिनिवर्तन्ते । शुचि - श्वेतवस्त्रदर्शने तु लोकः प्रशंसति - अहो ! शोभनो धर्म इति । यत एवं तस्माद् 'अहतम्' अपरिभुक्तं 'कृत्स्नं' प्रमाणतः प्रतिपूर्णं वस्त्रत्रिकं धारणीयम् । पक्षस्य चान्ते तस्य प्रत्युपेक्षणा कर्तव्या, दिवसे दिवसे प्रत्युपेक्षमाणं हि मलिनीभवेत् ॥ गतं नन्तकद्वारम् । अथ “दिवा रात्रौ वा कालगतः" इति द्वारमाह[भा. ५५१४] आसुक्कार गिलाणे, पच्चक्खाए व आनुपुवीए । दिवसरस व रत्तीइ व, एगतरे होजऽवक्कमणं ॥ वृ-आशु-शीघ्रंसजीवस्य निर्जीवीकरणमाशुकारः, तत्कारणत्वाद् अहि-विष-विशूचिकादयोऽप्याशुकारा उच्यन्ते, तैः 'अपक्रमणं' मरणं कस्यापि भवेत् । 'ग्लानत्वेन वा' मान्छेन कोऽपि म्रियेत । 'आनुपूर्व्या वा' शरीरपरिकर्मणाक्रमेण भक्ते प्रत्याख्याते सति कश्चित् कालधर्मं गच्छेत्। एवं दिवस - रजन्योरेकतरस्मिन् काले जीवितादपक्रमणं भवेत् ॥ [ भा. ५५१५] एव य कालगयम्मिं, मुनिना सुत्त - Sत्थगहितसारेणं । न विसातो गंतव्वो, कातव्व विधीय वोसिरणं ।। वृ- 'एवम्' एतेन प्रकारेण कालगते सति साधौ सूत्रा -ऽर्थगृहीतसारेण मुनिना न विषादो गन्तव्यः, किन्तु कर्तव्यं तस्य कालगतस्य विधिना व्युत्सर्जनम् ।। कथम् ? इत्याह [ भा. ५५१६ ] आयरिओ गीतो वा, जो व कडाई तहिं भवे साहू । कायव्वो अखिलविही, न तु सोग भया व सीतेज्जा ॥ वृ- यस्तत्राचार्योऽपरो वा गीतार्थो यो वा अगीतार्थोऽपि 'कृतादि' ईशे कार्ये कृतकरणः आदिशब्दाद् धैर्यादिगुणोपेतः साधुर्भवति तेनाखिलोऽपि विधिः कर्तव्यः, न पुनः शोकाद् भयाद्वा तत्र ‘सीदेत्’ यथोक्तविधिविधाने प्रमादं कुर्यात् । किमालम्ब्य शोक-भये न कर्त्तव्ये ? इत्याह[भा. ५५१७] सव्वे वि मरणधम्मा, संसारी तेन कासि मा सोगं । Page #237 -------------------------------------------------------------------------- ________________ २३४ बृहत्कल्प-छेदसूत्रम् - ३-४/१३४ जं चप्पणो वि होहिति, किं तत्थ भयं परगयम्मि ॥ वृ - सर्वेऽपि संसारिणो जीवा मरणधर्माण इत्यालम्ब्य शोकं मा कार्षीः । यच्च मरणमात्मनोऽपि कालक्रमेण भविष्यति तत्र 'परगते' परस्य सञ्जाते किं नाम भयं विधीयते ? न किञ्चिदित्यर्थः ॥ तं "दिवा रात्रौ वा " इति द्वारम् । अथ जागरण-बन्धन-च्छेदनद्वारमाह[ भा. ५५१८] जं वेलं कालगतो, निक्कारण कारणे भवे निरोधो । जग्गण बंधन छेदन, एतं तु विहिं तहिं कुजा ॥ वृ-दिवा रजन्यां वा यस्यां वेलायां कालगतस्तस्यामेव वेलायां निष्काशनीयः । एवं निष्कारणे उक्तम् । कारणे तु निरोधोऽपि भवेत् । निरोधो नाम - कियन्तमपि कालं प्रतीक्षाप्यते । तत्र च जागरणं बन्धनं छेदनं ‘एतम्' एवमादिकं विधिं वक्ष्यमाणनीत्या कुर्यात् ॥ कैः पुनः कारणैः स प्रतीक्षाप्यते ? इत्याह [भा. ५५१९] हिम- तेन सावयभया, पिहिता दारा महानिनादो वा । ठवणा नियगा व तहिं, आयरिय महातवस्सी वा ॥ वृ- रात्रौ दुरधिसहं हिमं पतति, स्तेनभयात् श्वापदभयाद्वा न निर्गन्तुं शक्यते । नगरद्वाराणि वा तदानीं पिहितानि । 'महानिनादो वा' महाजनज्ञातः स तत्र ग्रामे नगरे वा । 'स्थापना वा' तत्र ग्रामादौ ईध्शी व्यवस्था, यथा- रात्रौ मृतकं न शिष्काशनीयम् । 'निजका वा' संज्ञातकास्तत्र सन्ति ते भणन्ति - अस्माकमनापृच्छया न निष्काशनीयः । आचार्यो वा स तत्र नगरेऽतीव लोकविख्यातः । ‘महातपस्वी वा' प्रभूतकालपालितानशनो मासादिक्षपको वा । एतैः कारणै रजन्यां प्रतीक्षाप्यते ॥ दिवा पुनरेभि कारणैः प्रतीक्षापयेत् [ भा. ५५२० ] नंतक असती राया, वऽतीति संतेपुरो पुरवती तु । नीति व जननिवहेणं, दार निरुद्धाणि निसि तेनं ॥ वृ-‘णन्तकानां शुचि-श्वेतवस्त्राणामभावे दिवा न निष्काश्यते । राजा वा सान्तःपुरः पुरपतिर्वा नगरम् ‘अतियाति’ प्रविशति 'जननिवहेन वा' महता भट-भोजिकादिवृन्देन नगराद् निर्गच्छति ततो द्वाराणि निरुद्धानि तेन निशि निष्काश्यते । एवं दिवाऽपि प्रतीक्षापणं भवेत् ॥ अत्र चायं विधिः [ भा. ५५२१] वातेन अनक्कंते, अभिनवमुक्कस्स हत्य-पादे उ । कुव्वंतऽहापणिहिते, मुह-नयनाणं च संपुडणं ॥ वृ- वातेन यावद् अद्यापि शरीरकम् आक्रान्तं स्तब्धं न भवति तावद् अभिनवजीवितमुक्तस्य हस्त-पादान् ‘यथाप्रणिहितान्' प्रगुणतया लम्बमानान् कुर्वन्ति, मुख- नयनानां च 'सम्पुटनं' सम्मीलनं कुर्वन्ति ॥ जागरणादिविधिमाह [भा. ५५२२ ] जितनिद्दुवायकुसला, ओरस्सबली य सुत्तजुत्ता य । कतकरण अप्पमादी, अभीरुगा जागरंति तहिं ॥ वृ- जितनिद्रा उपायकुशलाः 'औरसबलिनः' महापराक्रमाः 'सत्त्वयुक्ताः' धैर्यसम्पन्नाः कृतकरणा अप्रमादिनोऽभीरुकाश्च ये साधवस्ते तत्र तदानीं जाग्रति ॥ [भा.५५२३] जागरणट्ठाए तहिं, अन्नेसिं वा वि तत्थ धम्मकहा । Page #238 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-१३४, [भा. ५५२३] सुत्तं धम्मक वा, मधुरगिरो उच्चसद्देणं ॥ वृ- जागरणार्थं तत्र तैरन्योन्यं 'अन्येषां वा' श्राद्धादीनां धर्मकथा कर्तव्या । स्वयं वा सूत्रं 'धर्मकथां वा' धर्मप्रतिबद्धामाख्यायिकां मधुरगिर उच्चशब्देन गुणयन्ति ॥ अथ बन्धन-च्छेदनपदे व्याख्याति [भा. ५५२४] कर- पायंगुट्टे दोरेण बंधिउं पुत्तीए मुहं छाए । अक्खयदेहे खननं, अंगुलिविद्ये न बाहिरतो ॥ २३५ वृ- 'कर- पादाङ्गुष्ठान' कराङ्गुष्ठद्वयं पादाङ्गुष्ठद्वयं च दवरकेण बद्ध्वा मुखपोतिकया मुखं छादयेत्, एतद् बन्धनमुच्यते । तथा अक्षतदेहे तस्मिन् “अंगुलीविचे" अङ्गुलीमध्ये चीरके 'खननम्' ईषत्फालनं क्रियते न बाह्यतः, एतत् छेदनं मन्तव्यम् ॥ [भा. ५५२५] अन्नाइट्ठसरीरे, पंता वा देवतऽत्थ उट्ठेज्जा । परिणामि डब्बहत्थेण बुज्झ मा गुज्झगा ! मुज्झ ॥ - एवमपि क्रियमाणे यदि 'अन्याविष्टशरीरः ' सामान्येन व्यन्तराधिष्ठितदेहः 'प्रान्ता वा ' प्रत्यनीका काचिदू देवता 'अत्र' अवसरे तत्कलेवरमनुप्रविश्योत्तिष्ठेत् ततः 'परिणामिनीं' कायिक “डब्बहत्थेणं” ति वामहस्तेन गृहीत्वा तत् कडेवरं सेचनीयम् । इदं च वक्तव्यम्-बुध्यस्व बुध्यस्व गुह्यक! 'मा मुह्य' मा प्रमादीः, संस्तारकाद् मा उत्तिष्ठेति भावः ॥ वित्तासेज रसेज व, भीमं वा अट्टहास मुंचेज्जा । अभि सुविहिणं, कायव्व विहीय वोसिरणं ॥ [भा. ५५२६] वृ- अन्याधिष्ठितं तत् कडेवरं 'वित्रासयेत्' विकरालरूपं दर्शयित्वा भापयेद् 'रसेद्वा' आराि मुञ्चेद् 'भीमं वा' रोमहर्षजनकं अट्टहासं मुञ्चेत् तथापि तत्राभीतेन सुविहितेन 'विधिना' पूर्वोक्तेन वक्ष्यमाणेन च व्युत्सर्जनं कर्तव्यम् ॥ गतं जागरणादिद्वारम् । अथ कुशप्रतिमाद्वारमाह [भा. ५५२७] दोन्निय दिवड्डखेत्ते, दब्भमया पुत्तगऽत्थ कायव्वा । समखेत्तम्मिय एक्को, अवड्ड अभिए न कायव्वो । वृ- कालगते सति संयते नक्षत्रं विलोक्यते । यदि न विलोकयति ततश्चतुर्गुरु । ततो नक्ष विलोकिते यदि सार्द्धक्षेत्रं तदानीं नक्षत्रम्, सार्द्धक्षेत्रं नाम - पञ्चचत्वारिंशन्मुहूर्तभोग्य सार्द्धदिनभोग्यमिति यावत्, तदा दर्भमयौ द्वौ पुत्रकौ कर्तव्यौ । यदि न करोति तदाऽपर साधुद्वयमाकर्षति । तानि च सार्द्धक्षेत्राणि नक्षत्राणि षड् भवन्ति, तद्यथा-उत्तराफाल्गुन्य उत्तराषाढ उत्तराभद्रपदाः पुनर्वसू रोहिणी विशाखा चेति । अथ समक्षेत्रं-त्रिंशन्मुहूर्तभोग्यं यदा नक्षत्रं तत् एकः पुत्तलकः कर्तव्यः 'एष ते द्वितीयः' इति च वक्तव्यम् । अकरणेऽपरमेकमाकर्षति । समक्षेत्राणि चामूनि पञ्चदश- अश्विनी कृत्तिका मृगशिरः पुष्यो मघाः पूर्वाफाल्गुन्यो हस्तश्चित्रा अनुराध मूलं पूर्वाषाढाः श्रवणो धनिष्ठाः पूर्वभद्रपदा रेवती चेति । अथापार्द्धक्षेत्रं पञ्चदशमुहूर्तभोग्यं त नक्षत्रम् अभीचिर्वा तत एकोऽपि पुत्तलको न कर्तव्यः । अपार्द्धक्षेत्राणि चामूनि षट् शतभिष‍ भरणी आर्द्रा स्वातिर्ज्येष्ठा चेति ॥ अथ निवर्तनद्वारमाह [ भा. ५५२८] थंडिलवाघाएणं, अहवा वि अतिच्छिए अनाभोगा । भमिऊण उवागच्छे, तेनेव पहेण न नियत्ते ॥ Page #239 -------------------------------------------------------------------------- ________________ २३६ बृहत्कल्प-छेदसूत्रम् -३-४/१३४ __ वृ-तत्र नीयमाने स्थण्डिलस्योदक-हरितादिभिव्या_तो भवेत्, अनाभोगेन वा स्थण्डिलमतिक्रान्तं भवेत्, ततः 'भ्रमित्वा' प्रदक्षिणामकुर्वाणा उपागच्छेयुः, तेनैव पथा न निवर्तेरन् ।। जइ तेनेव मग्गेण नियत्तंति तो असमायारी, कयाइ उडेजा, सो यजओ चेव उट्ठइ तओ चेव पहावइ, तत्थ जओ गामो ततो धाविजा तत एवं कर्त्तव्यम्[भा.५५२९] वाघायम्मि ठवेउं, पुव्वं व अपेहियम्म थंडिल्ले। तह नेति जहा से कमा, नहोति गामस्स पडिहुत्ता॥ वृस्थण्डिलस्य व्याघाते पूर्व वा स्थण्डिलं न प्रत्युपेक्षितं ततस्तद् मृतकमेकान्ते स्थापयित्वा स्थण्डिलं च प्रत्युपेक्ष्य तथा भ्रमयित्वा नयति यथा तस्य 'क्रमौ' पादौ ग्राम प्रति अभिमुखौ न भवतः॥अथ मात्रकद्वारमाह[भा.५५३०] सुत्त-ऽत्थतदुभयविऊ, पुरतो घेत्तूण पानग कुसे य। . गच्छति जइ सागरियं, परिट्ठवेऊण आयमनं ॥ वृ-सूत्रा-ऽर्थ-तदुभयवेदी मात्रकेऽसंसृषटपानकं 'कुशांश्च दर्भान् ‘समच्छेदान्' परस्परमसम्बद्धान् हस्तचतुरङ्गुलप्रमाणान् गृहीत्वापृष्ठतोऽनपेक्षमाणः पुरतः अग्रतःस्थण्डिलाभिमुखो गच्छति । दर्भाणामभावे चूर्णानि केशराणि वा गृह्यन्ते । यदि सागारिकं ततः शबं परिष्ठाप्य 'आचमनं' हस्त-पादशौचादिकंकर्तव्यम्। आचमनग्रहणेनेदंज्ञापयति-यथा यथा प्रवचनोड्डाहो न भवति तथा तथा अपरमपि विधेयम् ॥अथ शीर्षद्वारमाह[भा.५५३१] जत्तो दिसाए गामो, तत्तो सीसंतु होइ कायव्वं । उठेंतरखणहा, अमंगलं लोगगरिहाय॥ वृ-यस्यां दिशिग्रामस्ततःशीर्षशबस्य प्रतिश्रयाद् नीयमानस्यपरिष्ठाप्यमानस्य च कर्तव्यम्। किमर्थम् ? इत्याह-उत्तिष्ठतो रक्षणार्थम्, यदि नाम कथञ्चिदुत्तिष्ठते तथापि प्रतिश्रयाभिमुखं नागच्छतीति भावः । अपि च-यस्यां दिशि ग्रामस्तदभिमुखं पादयोः क्रियमाणयोरमङ्गलं भवति, लोकश्च गहाँ कुर्यात्-अहो! अमी श्रमणका एतदपिनजानन्ति यद्ग्रामाभिमुखं शबंन क्रियते।। अथ तृणादिद्वारमाह[भा.५५३२] कुसमुट्ठिएण एक्केणं, अव्वोच्छिन्नाए तत्थ धाराए। संथार संथरिजा, सव्वत्थ समो य कायव्वो॥ वृ-यदास्थण्डिलंप्रमार्जितंभवतितदा कुशमुष्टिनैकेनाव्यवच्छिन्नयाधारयासंस्तारकंसंस्तरेत, सच सर्वत्र समः कर्तव्यः॥विषमे एते दोषाः[भा.५५३३] वसमा जति होज्ज तणा, उवरिं मझे तहेव हेट्ठा य। मरणं गेलनं वा, तिण्हं पि उ निद्दिसे तत्थ ।। वृ-'विषमाणि' तृणानि यदि तस्मिन् संस्तारके उपरि वा मध्ये वाऽधस्ताद्वा भवेयुः तदा त्रयाणामपि मरणं ग्लानत्वं वा निर्दिशेत् ॥ केषां त्रयाणाम् ? इत्याह[भा.५५३४] उवरिं आयरियाणं, मज्झे वसभाण हेडिभिक्खूणं । तिण्हं पि रक्खणट्ठा, सव्वत्थ समा य कायव्वा ।। वृ- उपरि विषमेषु तृणेषु आचार्याणां मध्ये वृषभाणामधस्ताद् भिक्षूणां मरणं ग्लानत्वं वा Page #240 -------------------------------------------------------------------------- ________________ २३७ उद्देशक : ४, मूलं-१३४, [भा. ५५३४] भवेत्, अतस्त्रयाणामपि रक्षणार्थं सर्वत्र समानि तृणानि कर्तव्यानि ।। [भा.५५३५] जत्थ य नत्थि तिणाई, चुन्नेहिं तत्थ केसरेहिं वा । कायव्योऽत्थ ककारो, हेट्ठ तकारं च बंधेजा। वृ-यत्र तृणानि न सन्ति तत्र चूर्णैर्वा नागरकेशरैर्वाऽव्यवच्छिन्नया धारया ककारः कर्तव्यः तस्याधस्तात् तकारं च बध्नीयात्, क्त इत्यर्थः । चूर्णानां केशराणां चाभावे प्रलेपकादिभिरपि क्रियते॥अथोपकरणद्वारमाह[भा.५५३६] चिंधट्ठा उवगरणं, दोसा तु भवे अचिंधकरणम्मि। मिच्छत्त सोवराया, कुणति गामाण वहकरणं॥ वृ-परिष्ठाप्यमानेचिह्नार्थंयथाजातमुपकरणंपार्वेस्थापनीयम्। तद्यथा-रजोहरणंमुखपोतिका चोलपट्टकः । यदि एतद् न स्थापयन्तिततश्चतुर्गुरु ।आज्ञादयश्च दोषाः चिह्नस्याकरणे भवन्ति। 'स वा' कालगतो मिथ्यात्वं गच्छेत् । राजा वा जनपरम्परया तं ज्ञात्वा 'कश्चिद् मनुष्योऽमीभिरपद्रावितः' इति बुध्या कुपितः प्रत्यासन्नवर्तिनां द्विव्यादीनां ग्रामाणां वधं कुर्यात् ।। अथैतदेव भावयति[भा.५५३७] उवगरणमहाजाते, अकरणे उज्जेनिभिक्खुदिटुंतो। लिंगं अपेच्छमाणो, काले वइरंतु पाडेत्ति ॥ वृ-यथाजतमुपकरणंयदितस्यपाइँन कुर्वन्तिततोऽसौ देवलोकगतः प्रयुक्तावधि अहमनेन गृहलिङ्गेन परलिङ्गेन वा देवो जातः' इति मिथ्यात्वं गच्छेत् । उज्जयिनीभिक्षुदृष्टान्तश्चात्र भवति, सचावश्यकटीकातोमन्तव्यः । यस्य वा ग्रामस्य पार्वे परिष्ठापितः तत्र तत्पाबें लिङ्गमपश्यन लोको राजानं विज्ञपयेत्। सच 'केनाप्यपद्रावितोऽयम्' इति मत्वा कालेन प्रतिवैरंपातयति, वैरं निर्यातयतीति भावः ॥ कायोत्सर्गद्वारमाह[भा.५५३८] उट्ठाणाई दोसा, हवंति तत्थव काउसग्गम्मि। आगम्मुवस्सयं गुरुसमीव अविहीय उस्सग्गो॥ वृ- 'तत्रैव' परिष्ठापनभूमिकायां कायोत्सर्गे क्रियमाणे उत्थानादयो दोषा भवन्ति, अत उपाश्रयमागम्य गुरुसमीपेऽविधिपरिष्ठापनिकायाः कायोत्सर्ग कर्तव्यः॥ प्रादक्षिण्यद्वारमाह[भा.५५३९] जो जहियं सो तत्तो, नियत्तइपयाहिणं न कायव्वं । उठाणादी दोसा, विराधना बाल-वुड्डाणं॥ वृ-शबं परिष्ठाप्य यो यत्र भवति स ततो निवर्तते, प्रादक्षिण्यं न कर्तव्यम् । यदि कुर्वन्ति तत उत्थानादयो दोषा बाल-वृद्धानां च विराधना भवति ॥अथाभ्युत्थानद्वारमाह[भा.५५४०] जइ पुन अनीनिओवा, नीनिजंतो विविंचिओ वा वि। उडेज समाइट्ठो, तत्थ इमा मग्गणा होति॥ वृ-यदि पुनः स कालगतोऽनिष्काशितो वा निष्काश्यमानो वा 'विविक्तो वा' परिष्ठापितो व्यन्तरसमाविष्ट उत्तिष्ठेत् ततस्तत्रेयं मार्गणा भवति॥ [भा.५५४१] वसहि निवेसन साही, गाममज्झे य गामदारे य। अंतर उज्जानंतर, निसीहिया उहितै वोच्छं। Page #241 -------------------------------------------------------------------------- ________________ २३८ बृहत्कल्प - छेदसूत्रम् - ३-४/१३४ वृ- वसतौ वा स उत्तिष्ठेत्, 'निवेशने वा' पाटके 'साहिकायां वा' गृहपङ्क्तेिरूपायां ग्राममध्ये वा ग्रामद्वारे वा ग्रामोद्यानयोरन्तरा वा उद्याने वा उद्यान - नैषेधिक्योरन्तरा वा 'नैषेधिक्यां वा' शबपरिष्ठापनभूम्याम्, एतेषु उत्थिते यो विधिस्तं वक्ष्यामि ।। प्रतिज्ञातमेव करोति [ भा. ५५४२ ] उवस्सय निवेसन साही, गामद्धे दारे गामो मोत्तव्वो । मंडल कंड से, निसीहियाए य रज्जं तु ॥ वृ- तत् कडेवरं नीयमानं यदि वसतावुत्तिष्ठति तत उपाश्रयो मोक्तव्यः । अथ निवेशने उत्तिष्ठति ततो निवेशनं मोक्तव्यम् । साहिकायामुत्थिते साहिका मोक्तव्या । ग्राममध्ये उत्थिते ग्रामार्द्ध मोक्तव्यम् । ग्रामद्वारे उत्थिते ग्रामो मोक्तव्यः । ग्रामस्य चोद्यानस्य चान्तरा यदि उत्तिष्ठति तदा विषयमण्डलं मोक्तव्यम् । उद्याने उत्थिते 'कण्डं' देशखण्डं मण्डलाद् बृहत्तरं परित्यक्तव्यम् । उद्यानस्य नैषेधिक्याश्चान्तराले उत्तिष्ठति देशः परिहर्तव्यः । नैषेधिक्यामुत्थिते राज्यं परिहरणीयम् ।। एवं तावन्नीयमानस्योत्थाने विधिरुक्तः । परिष्ठापिते च तस्मिन् गीतार्था एकस्मिन् पार्श्वे मुहूर्त प्रतीक्षन्ते, कदाचित् परिष्ठापितोऽप्युत्तिष्ठेत् तत्र चायं विधिः [भा. ५५४३] वच्चंते जो उ कमो, कलेवरपवेसणम्मि वोच्चत्थो । नवरं पुन नाणत्तं, गामद्दारम्मि बोद्धव्वं ॥ वृ- 'व्रजतां' निर्गच्छतां कडेवरस्योत्थाने यः क्रमो भणितः स एव विपर्यस्तः कडेवरस्य परिष्ठापितस्य भूयः प्रवेशने विज्ञेयः । नवरं पुनरत्र नानात्वं ग्रामद्वारे बोद्धव्यम्, तत्र वैपरीत्यं न भवति किन्तु तुल्यतैवेति भावः । तथा चात्र वृद्धसम्प्रदायः- निसीहियाए परिट्ठविओ जइ उट्ठेत्ता तत्थेव पडिज्जा ताहे उवस्सओ मोत्तव्वो । निसीहियाए उज्जानस्स य अंतरा पडइ निवेसनं मोत्तव्वं । उज्जाने पडइ साही मोत्तव्वा । उज्जानस्स य गामस्स य अंतरा पडइ गामद्धं मोत्तव्वं । गामद्दारे पडइ गाम मोत्तव्वो । गाममझे पडइ मंडलं मोत्तव्वं । साहीए पडइ देसखंड मोत्तव्वं । निवेसने पडइ देसी मोत्तव्वो । वसही पडइ रज्जं मोत्तव्वं ॥ अत्र निर्गमने प्रवेशने च ग्रामद्वारोत्थाने ग्रामत्याग एवोक्त इति ग्रामद्वारे तुल्यतैव न वैपरीत्यम् ॥ अथ परिष्ठापितो द्व्यादिवारान् वसतिं प्रविशति ततोऽयं विधिः [भा. ५५४४] बिइयं वसहिमतिंते, तगं च अन्नं च मुञ्चते रज्जं । तिप्पभितिं तिन्नेव उ, मुयंति रज्जाई पविसंते ॥ वृ-निर्यूढो यदि द्वितीयं वारं वसतिं प्रविशति तदा च्चान्यच्च राज्यं मुच्यते, राज्यद्वयमित्यर्थः । अथ 'त्रिप्रभृतीन् ' त्रीन् चतुरो बहुशो वा वारान् वसतिं प्रविशति तदा त्रीण्येव राज्यानि मुञ्चति ॥ [भा. ५५४५] असिवाई बहिया कारणेहिं, तत्थेव वसंति जस्स जो उ तवो। अभिगहिया ऽनभिगहितो, सा तस्स उ जोगपरिवुट्टी ॥ वृ- यदि बहिरशिवादिभिः कारणैर्न निर्गच्छन्ति ततस्तत्रैव वसतां यस्य यत् तपोऽभिगृहीतमनभिगृहीतं वा तेन तस्य वृद्धिः कर्तव्या, सा च योगपरिवृद्धिरभिधीयते । किमुक्तं भवति ? - येन नमस्कारप्रत्याख्यायिनस्ते पौरुषीं कुर्वन्ति, पौरुषीप्रत्याख्यायिनः पूर्वार्द्धं कृत्वा शक्ती सत्यामाचाम्लं पारयन्ति, शक्तेरभावे निर्विकृतिकमेकासनकं यावद् द्व्यासनकमपि । यदाह चूर्णिकृत् सइ सामत्थे आयंबिलं पारिंति, असइ निव्वीयं एक्कासनयं, असमत्था सबीइयं पि त्ति । Page #242 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१३४, [भा. ५५४५] २३९ एवं पूर्वार्द्धप्रत्याख्यानिनश्चतुर्थम्, चतुर्थप्रत्याख्यातारः षष्ठम्, षष्ठप्रत्याख्यायिनोऽष्टमम्, एवं विस्तरेण विभाषा कर्तव्या॥ एवं योगपरिवृद्धिं कुर्वतामपि यदि कदाचिदुत्थाय आगच्छेत् तदाऽयं विधिः[भा.५५४६] . अनाइट्टसरीरे, पंता वा देवतऽत्य उद्विज्जा । काईय डब्बहत्थेण, भणेज मा गुज्झया! मुज्झा॥ वृ-गतार्था ॥अथ व्याहरणद्वारमाह[भा.५५४७) गिण्हइ नामं एगस्स दोण्ह अहवा वि होज सव्वेसि । खिप्पंतु लोयकरणं, परिन्न गणभेद बारसमं ॥ वृ-एकस्य द्वयोः सर्वेषांवा साधूनामसौ नाम गृह्णाति 'भवेत् कदाचिदप्येवं तदा तेषां लोचः कर्तव्यः । “परिन"त्ति प्रत्याख्यानं-तपः, तच्च 'द्वादशम्' उपवासपञ्चकरूपं ते कारापणीयाः । अथद्वादशंकर्तुं कश्चिदसहिष्णुर्न शक्नोतिततो दशममष्टमंषष्ठंचतुर्थं वा काराप्यते । गणभेदश्च क्रियते, गच्छानिर्गत्य ते पृथग् भवन्तीति भावः॥अथ कायोत्सर्गद्वारमाह[भा.५५४८] चेइघरुवस्से वा, हायंतीतो थुतीओ तो बिंति । सारवणं वसहीए, करेति सव्वं वसहिपालो॥ [भा.५५४९] अविधिपरिट्ठवणाए, काउस्सग्गो य गुरुसमीवम्मि। - मंगल-संतिनिमित्तं, थओ तओ अजितसंतीणं ॥ कृ-चैत्यगृहेउपाश्रयेवापरिहीयमानाः स्तुतीस्ततः 'ब्रुवते भणन्ति।यावच्च तेऽद्यापिनागच्छन्ति तावद् वसतिपालो वसतेः 'सारवणं' प्रमार्जनं तदादिकं सर्वमपि कृत्यं करोति । अविधिपरिष्ठापनानिमित्तंचगुरुसमीपेकायोत्सर्गः कर्तव्यः।ततोमङ्गलार्थं शान्तिनिमित्तंचाऽजितशान्तिस्तवो भणनीयः । अत्र चूर्णिः-ते साहुणो चेइयघरे वा उवस्सए वा ठिया होज्जा । जइ चेइयघरे तो परिहायंतीहिंथुईहिंचेइयाइंवंदित्ताआयरियसगासेइरियावहियं पडिक्कमिउं अविहिपरिट्ठावणियाए काउस्सग्गं करिति । ताहे मंगल-संतिनिमित्तं अजियसंतिथओ । तओ अन्ने वि दो थए हायंते कडंति । उवस्सए वि एवं चेव चेइयवंदनवजं ॥ विशेषचूर्णिः पुनरित्थम्-तओ आगम्म चेइयघरं गच्छंति। चेइयानि वंदित्तासंतिनिमित्तंअजितसंतिथओपरियट्टिजइ तिन्निवाथुईओपरिहायंतीओ कहिजंति। तओ आगंतुंआयरियसगासे अविहिपरिट्ठावणियाए काउस्सग्गो कीरइ॥ अथ क्षपण-स्वाध्यायमार्गणाद्वारमाह[भा.५५५०] खमणे य असल्झाए, रातिनिय महानिनाय नितए वा। सेसेसु नत्थि खमणं, नेव असल्झाइयं होइ॥ वृ- यदि ‘रालिकः' आचार्यादि अपरो वा 'महानिनादः' लोकविश्रुतः कालगतो भवति, 'निजका वा संज्ञातकास्तत्र तदीयाः सन्ति तेमहतीमधृतिं कुर्वन्ति, ततएतेषुक्षपणमस्वाध्यायिक चकर्तव्यम् । शेषेषु' साधुषु कालगतेषु क्षपणमस्वाध्यायिकंचन भवति॥व्युत्सर्जनद्वारमाह[भा.५५५१] उच्चार-पासवण-खेलमत्तगा य अत्थरण कुस-पलालादी। संथारया बहुविधा, उज्झंति अणनगेलने॥ . वृ.यानि तस्योच्चार-प्रश्रवण-खेलमात्रकाणि ये चास्तरणार्थं कुश-पलालादिमया बहुविधाः ForFr Page #243 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-४/१३४ संस्तारकास्तान् सर्वानपि उज्झन्ति “अणन्नगेलन्न” त्ति यद्यन्यस्य ग्लानत्वं नास्ति, अथापरोऽपि ग्लानः कश्चिदस्ति ततस्तदर्थं तानि मात्रकादीनि ध्रियन्त इति भावः ॥ २४० [ भा. ५५५२] अहिगरणं मा होहिति, करेइ संधारगं विकरणं तु । सव्वहि विगिंचंती, जो छेवइतस्स छित्तो वि ।। वृ- "छेवइओ' अशिवगृहीतः स यदि मृतः तदा येन संस्तारकेण स नीतः तं विकरणं कुर्वन्ति, खण्डशः कृत्वा परिष्ठापयन्तीत्यर्थः । कुतः ? इत्याह- अधिकरणं गृहस्थेन गृहीते प्रान्तदेवतया वा पुनरप्यानीते भवत् तद् मा भूदिति कृत्वा विकरणीक्रियते । यश्च तदीय उपधिरपरो वा तेन स्ववपुषा छुप्तस्तं सर्वमपि परिष्ठापयन्ति ॥ [भा. ५५५३] असिवम्मि नत्थि खमणं, जोगविवड्डी य नेव उस्सग्गो । उवयोगद्धं तुलितुं नेव अहाजायकरणं तु ॥ वृ- अशिवे मृतस्य क्षपणं न कर्तव्यम्, योगवृद्धिस्तु क्रियते । नचाविधिपरिष्ठापनायाः कायोत्सर्गः क्रियते। उपयोगाद्धां चान्तर्मुहूर्त्तमानां तोलयित्वा यथाजातं तस्य नैव कर्तव्यम् । किमुतं भवति ? - अशिवमृतस्य समीपे यथाजातं न स्थाप्यते, अतो देवलोकं गतो यावदुपयुक्तो भवति तावत् तदीयं वपुः प्रतिश्रय एव प्रतीक्षाप्यते येन प्रतिश्रयस्थितं स्वं वपुर्धष्टवा 'संयतोऽहमभूवम्' इति जानीते ।। अथावलोकनद्वारमाह [ भा. ५५५४] जं दिसि विगड्डितो खलु, देहेणं अक्खुएण संचिक्खे। तं दिसि सिवं वदंती, सुत्त-ऽत्थविसारया धीरा ॥ वृ-यस्यां दिशि स शिवादिभिराकर्षितोऽक्षतेन देहेन सन्तिष्ठेत् तस्यां दिशि सूत्रा - ऽर्थविशारदा धीराः 'शिवं' सुभिक्षं सुखविहारं च वदन्ति ॥ [भा. ५५५६] जति दिवसे संचिक्खति, तति वरिसे धातगं च खेमं च । विवरीए विवरीतं, अकड्डिए सव्वहिं उदितं ।। वृ- 'यति' यावतो दिवसान् यस्यां दिशि अक्षतदेहस्तिष्ठति 'तति' तावन्ति वर्षाणि तस्यां दिशि ध्रातं च क्षेमं च भवति । ध्रातं नाम-सुभिक्षम्, क्षेमं तु-परचक्राद्युपप्लवाभावः । अथ क्षतदेहः सञ्जातः ततः 'विपरीते' क्षतदेहे विपरीतं मन्तव्यम्, यस्यां दिशि क्षतदेहो नीतस्तस्यां दुर्भिक्षादिकं भवतीति भावः । अथ नान्यत्राकृष्टः किन्तु तत्रैवाक्षतस्तिष्ठति ततः सर्वत्र 'उदितं' सुभिक्षं सुखविहारं च द्रष्टव्यम् ॥ एतद् निमित्तं कस्य गृह्यते ? इत्याह [ भा. ५५५७] खमगरसाऽऽयरियस्सा, दीहपरिन्नस्स वा निमित्तं तू । सेसे तधन्नधा वा, ववहारवसा इमा य गती ॥ वृ-क्षपकस्य आचार्यस्य वा ‘दीर्घपरिज्ञावतो वा' प्रभूतकालपालितानशनस्येदं निमित्तं ग्रहीतव्यम् । 'शेषे' एतद्व्यतिरिक्ते तथा वाऽन्यथा वा भवेत्, न कोऽपि नियमः । व्यवहारवशाच्चेयं गति प्रतिपत्तव्या ॥ [भा. ५५५८] थलकरणे वेमानितो, जोतिसिओ वाणमंतर समम्मि । गड्डा भवनवासी, एस गती से समासेणं ॥ वृ-यदि तस्य शरीरकं स्थले कृतं शिवादिभिरारोपितं तदा वैमानिकः सञ्जात इति मन्तव्यम् । Page #244 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१३४, [भा. ५५५८] २४१ समभूभागे नीतस्य ज्योतिष्केषु व्यन्तरेषु वा उपपातो ज्ञेयः । गर्तायां नीते भवनवासिषुगत इति अवमन्तव्यम् । एषा गति समासेन तस्याभिहिता॥ व्याख्यातस्तिस्रोऽपि द्वारगाथाः । अथात्रैव प्रायश्चित्तमाह[भा.५५५९] एकेक्कम्मि उ ठाणे, हुंति विवच्चासकारणे गुरुगा। आणाइणो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-एषां प्रत्युपेक्षणादीनामेकैकस्मिन् स्थाने विपर्यासं कुर्वता चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, संयमा-ऽऽत्मविराधना च द्रष्टव्या॥ [भा.५५६०] एतेन सुत्त न गतं, सुत्तनिवातो तु दव्व सागारे। उट्ठवणम्मि विलहुगा, छड्डणे लहुगा अतियणे य॥ वृ-यद् एतद् द्वारकदम्बकमनन्तरं व्याखातम् एतेन सूत्रं न गतं किन्तु सामाचारीज्ञापनार्थं सर्वमेतदुक्तम् । किं पुनस्तत्रि सूत्रे प्रकृतम् ? इत्याह-सूत्रनिपातः पुनः सागारिकसत्के वहनकाष्ठलक्षणे द्रव्ये भवति। रात्रौ कालगते यदि वहनकाष्ठानुज्ञापनाय सागारिकमुत्थापयन्ति तदा चतुर्लघु अरहट्टयोजनादयश्च दोषाः तस्मानोत्थापनीयः किन्तु यदि एकोऽपि कश्चिद् वैयावृत्यकरः समर्थस्तद्वोढुं ततः काष्ठं नगृह्यते।अथासमर्थस्ततो यावन्तः सक्नुवन्ति तावन्तः तेन काष्ठेन वहन्ति । अथ वहनकाष्ठं तत्रैव परिष्ठाप्यागच्छन्ति तदापि चतुर्लघु, अपरेण च गृहीतेऽधिकरणम्, सागारिको वा तद् अपश्यन् ‘एतैः शबवहनार्थं नीत्वा तत्रैव परित्यक्तम्' इतिमत्वाप्रद्विष्ट व्यवच्छेद-कटकमर्यादिकं कुर्यात्, तस्मादानेतव्यम्।यदिपुनरानीयतेनगृहीतेनैव अतिगमनं-प्रवेशं कुर्वन्ति तदाऽपिचतुर्लघु ॥ एते च दोषाः[भा.५५६१] मिच्छत्तऽदिन्नदानं, समलावन्नो दुगुंछितं चेव । दिय रातो आसितावण, वोच्छेओ होति वसहीए। . वृ-सागारिकस्तत्काष्ठं प्रवेश्यमानंदृष्टवा मिथ्यात्वंगच्छेत्, एतेभणन्ति-अस्माकमदत्तस्यादानं न कल्पते; यथैतदलीकं तथा अन्यदप्यलीकमेव । अथवा ब्रूयात्-समला अमी, अस्थिसरजस्कानामप्युपरिवर्तिनः; एवमवर्णो भूयात् । ‘जुगुप्सितं वा जुगुप्सां स कुर्यात्-मृतकमूढवा मम गृहमानयन्ति।ततो दिवा रात्रौवासाधूनां “आसियावणं"निष्काशनं कुर्यात्, वसतेश्वव्यवच्छेदं 'नातः परं ददामि' इत्येकस्यानेकेषां वा कुर्यात् ।। यत एते दोषाअतोऽयं विधिः[भा.५५६२] अइगमनं एगेणं, अनाए पतिद्वति तत्थेव। नाए अनुलोमण तस्स वयण बितियं उट्ठाण असिवे वा। वृ-एकेन साधुना प्रथमम् 'अतिगमनं' प्रवेशनं कार्यम्, यदि सागारिको नाद्याप्युत्तिष्ठते त एवमज्ञाते काष्ठमानीय ततो गृहीतं तत्रैव प्रतिष्ठापयन्ति । अथ सागारिक उत्थितस्ततस्तस्याग्रे निवेद्यते-यूयं प्रसुप्ता इति कृत्वा नास्माभिरुत्थापिताः, रात्रौ साधुः कालगतः युष्मदीयकाष्ठेन निष्काशितः, साम्प्रतं तदानीयताउत परिष्ठाप्यताम्? । एवमुक्ते यद् असौभणति तत्प्रमाणम्। अथ तैः पूर्वमज्ञायमानैः स्थापितं सागारिकेण च पश्चात् कथमपि ज्ञातं ततः कुपितस्यानुलोमनं विधेयम्।अथ प्रज्ञाप्यमानस्यापि तस्य वक्ष्यमाणं वचनं भवति तदा गुरुभिस साधुनिष्काशनीय 2016/ Page #245 -------------------------------------------------------------------------- ________________ २४२ बृहत्कल्प-छेदसूत्रम् - ३-४/१३४ इति शेषः । द्वितीयपदे उत्थितोऽसौ ग्रामः अशिवगृहीतो वाऽसौ ततस्तत्रैव परिष्ठापयेत्, न सागारिकस्य प्रत्यर्पयेत् ॥ अथ सागारिकवचनं दर्शयति [भा. ५५६५ ] जइ नीयमनापुच्छा, आनिज्जति किं पुनो घरं मज्झ । दुगुणो एसवराधो, न एस पाणालओ भगवं ! ॥ वृ- यदि अस्माकमनापृच्छया नीतं ततः किमर्थमिदानीं पुनपि मदीयगृहमानीयते ? एष द्विगुणोऽपराधः, न चैष भगवन् ! मदीय आवासः पाणानां मातङ्गानामालयो यदेवं मृतकोपकरणमन्त्रानीतम् । एवमुक्ते गुरुभिर्वक्तव्यम् [ भा. ५५६४ ] किमियं सिट्ठम्मि गुरू, पुरतो तस्सेव निच्छुभति तं तू । अविजाणताण कयं, अम्ह वि अन्ने वि णं बेंति ॥ वृ- किमिदं वृत्तान्तजातमभूत् ? । ततः शेषसाधुभिः शय्यातरेण वा गुरूणां शिष्टम्-अमुकेन साधुना अनापृच्छया काष्ठं नीतम् । ततो गुरवः 'तस्यैव' शय्यातरस्य पुरतः 'तं' साधुं 'किमनापृच्छया नयसि ?' इति निर्भर्त्सय कैतवेन निष्काशयन्ति । अन्येऽपि साधवः "ण" मिति तं शय्यातरं ब्रुवते - अस्माकमप्विजानतामेवममुना कृतम्, अन्यथा जानन्तो वयमपि कर्तुं न दद्म इति ॥ [भा. ५५६५ ] वारेति अनिच्छुभणं, इहरा अन्नाए ठाति वसहीए । मम नीतो निच्छुभई, कइतव कलहेन वा बितिओ ॥ वृ-यदि सागारिकः 'वारयति' 'मा निष्काशयत, नैवं भूयः करिष्यति' इति ततः 'अनिष्काशनं' ननिष्काश्यते । 'इतरथा' अवारयति सागारिकेऽन्यस्यां वसतौ तिष्ठति । द्वितीयश्च साधुः 'कैतवेन' मातृस्थानेन भणति मम निजको यदि निष्काश्यते ततोऽहमपि गच्छामि । सागारिकेन वा समं कोऽपि कलहयति ततः कोऽपि कलहयति ततः सोऽपि निष्काश्यते, स च तस्य द्वितीयो भवति । मू. (१३५) भिक्खू य अहिकरणं कट्टु तं अहिगरणं अविओसवित्ता नो से कप्पइ गाहावइकुलं भत्ताए वा पानाए वा निक्खमित्तएवा पविसित्तए वा, बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा, गामानुगामं वा दूइजित्तए, गणातो वा गणं संकमित्तए, वासावास वा वत्थए । जत्थेव अप्पणो आयरिय-उवज्झायं पासेज्जा बहुस्सुयं बब्भागमं तस्संतिए आलोइज्जा पडिक्कमिज्जा निंदिज्जा गरहिज्जा विउद्देज्जा विसोहेजा अकरणयाए अब्भुट्ठिजा आहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा | से य सुएण पट्ठविए आईअव्वे सिया, से य सुएण नो पट्ठविए नो आदिइतव्वे सिया, से य सुएणं पट्ठवेज्रमाणे नो आइयइ से निज्जूहियव्वे सिया ॥ वृ- अस्य सम्बन्धमाह [भा. ५५६६ ] केन कयं कीस कयं, निच्छुब्मऊ एस किं इहानेती । मादि गिहीतुदितो, करेज कलहं असहमाणो । वृ- केनेदं वहनकाष्ठानयनं कृतम् ? कस्माद्वा कृतम् ? निष्काश्यतामेषः, किमर्थमिहानयति?; एवमादिभिर्वचोभिर्गृहिणा तुदितः व्यथितः कश्चिदसहमानः कलहं कुर्यात् । अत इदमधिकरणसूत्रमारभ्यते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'भिक्षु प्रागुक्तः, चशब्दाद् उपाध्यायादिपरिग्रहः, अधिकरणं' कलहं कृत्वा नो कल्पते तस्य तदधिकरणमव्यवशमय्य गृहपतिकुलं भक्ताय वा Page #246 -------------------------------------------------------------------------- ________________ २४३ उद्देशकः ४, मूलं-१३५, [भा. ५५६६] पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा, बहिर्विचारभूमौ वा विहारभूमौ वा निष्क्रमितुं वा प्रवेष्टुं वा, ग्रामानुग्रामंवा 'द्रोतुं' विहर्तुम्, गणाद्वागणं सङ्क्रमितुम्, वर्षावासंवा वस्तुम् । किन्तु तत्रैवात्मन आचार्योपाध्यायं पश्येत् कथम्भूतम्? 'बहुश्रुतं' छेदग्रन्थादिकुशलं 'बागमम्' अर्थतःप्रभूतागमम्; तत्र तस्यान्तिके आलोचयेत्' स्वापराधं वचसा प्रकटयेत्, 'प्रतिक्रामेत्' मिथ्यादुष्कृतं तद्विषये दद्यात्, 'निन्द्याद्' आत्मसाक्षिकंजुगुप्सेत, 'गहेत' गुरुसाक्षिकं निन्द्यात् । इह च निन्दनं गर्हणंवा तात्त्विकं तदा भवति तदा तत्करणतः प्रतिनिवर्तते तत आह-'व्यावर्तेत' तस्मादपराधपदाद् निवर्तेत । व्यावृत्तावपि कृतात् पापात् तदा मुच्यते यदाऽऽत्मनो विशोधिर्भवति तत आहआत्मानं 'विशोधयेत् पापमलस्फेटनतो निर्मलीकुर्यात्।विशुद्धिःपुनरपुनः करणतायामुपपद्यते ततस्तामेवाह-अकरणता-अकरणीयतातयाअभ्युत्तिछेत्। पुनरकरणतयाअभ्युत्थानेऽपिविशोधिः प्रायश्चित्तप्रतिपत्त्या भवति तत आह-'यथार्ह' यथायोग्यं तपःकर्म प्रायश्चित्तं प्रतिपद्येत । तच्च' प्रायश्चित्तमाचार्येण 'श्रुतेन' श्रुतानुसारेण यदि प्रस्थापितं' प्रदत्तं तदा 'आदातव्यं ग्राह्यं स्याद्' भवेत्, अथश्रुतेननप्रस्थापितंतदानादातव्यं स्यात्, 'सच' आलोचकोयदिश्रुतेनप्रस्थाप्यमानमपि तत् प्रायश्चित्तं 'नाददाति' न प्रतिपद्यते ततः सः 'निर्वृहितव्यः' 'अन्यत्र सोधिं कुरुष्व' इति निषेधनीयः स्यादिति सूत्रार्थः ।। अथ भाष्यविस्तरः[भा.५५६७] अचियत्तकुलपवेसे, अतिभूमि अनेसणिज्जपडिसेहे। अवहारऽमंगलुत्तर, सभावअचियत्त मिच्छत्ते॥ वृ-कथमधिकरणमुत्पन्नम् ? इत्यस्यां जिज्ञासायामभिधीयते-कस्मिंश्चित् कुले साधवः प्रविशन्तोऽप्रीतिकराः तत्राजानतामनाभोगाद्वा प्रवेशे स गृहपतिराक्रोशेद्वा हन्याद्वा, साधुरप्यसहमानः प्रत्याक्रोशेत्ततोऽधिकरणमुत्पद्यते। एवमतिभूमिं प्रविष्टे, अनेषणीयभिक्षाया वा प्रतिषेधे, शैक्षस्य वा संज्ञातकस्यापहारे, यात्राप्रस्थितस्य वा गृहिणः साधुं दृष्ट्वाऽमङ्गलमिति प्रतिपत्तौ, समयविचारेण वा प्रत्युत्तरंदातुमसमर्थे गृहस्थे, स्वभावेन क्वाऽपि साधौ ‘अचियत्ते' अनिष्टे ईष्टे, अभिग्रहमिथ्याटेर्वा सामान्यतः साधौ अवलोकिते अधिकरणमुत्पद्येत॥ [भा.५५६८] पडिसेधे पडिसेधो, भिक्ख वियारे विहार गामेवा। दोसा मा होज बहू, तम्हा आलोयणा सोधी॥ वृ-भगवद्भिः प्रतिषिद्धम्-नवर्तते साधूनामधिकरणकर्तुम् ।एवंविधेप्रतिषेधे भूयःप्रतिषेधः क्रियते-कदाचित् तद् अधिकरणंगृहिणा समं कृतं भवेत्, कृत्वा च तस्मिन् अनुशमिते भिक्षायां न हिण्डनीयम्, विचारभूमौ विहारभूमौ वा न गन्तव्यम्, ग्रामानुग्रामवान विहर्तव्यम् । कुतः? इत्याह-मा बहवः' बन्धन-कटकमदयोदोषा भवेयुः । तस्मात्तंगृहस्थमुपशमय्यगुरूणामन्तिके आलोचना दातव्या। ततः शोधिः प्रतीच्छनीया। इदमेव भावयति[भा.५५६९] अहिगरण गिहत्येहि, ओसार विकणा य आगमनं । आलोयण पत्थवणं, अपेसणे होति चउलहुगा॥ . वृ-गृहस्थैः सममधिकरणे उत्पन्ने द्वितीयेन साधुना तस्य साधोरपसारणं कर्तव्यम् । अथ नापसरति ततः "विकडणा य"त्ति बाहौ गृहीत्वाऽऽकर्षणीयः, इदं च वक्तव्यम्-न वर्तते मम त्वया साधिकरणेन समंभिक्षामटितुम् अतः प्रतिश्रयोपरि निस्तावहे। एवमुक्त्वा प्रतिश्रयमागम्य Page #247 -------------------------------------------------------------------------- ________________ २४४ बृहत्कल्प-छेदसूत्रम् -३-४/१३५ गुरूणामालोचनीयम् । ततो गुरुभिरुपशमनार्थं वृषभास्तस्य गृहस्थस्य मूले प्रेषणीयाः । यदि न प्रेषयन्ति तदा चतुर्लुघु ॥ [भा.५५७०] आणादिणो य दोसा, बंधन निच्छुभण कडगमद्दो य । बुग्गाहण सत्येण व, अगनुवगरणं विसंवारे॥ वृ-आज्ञादयश्च दोषाः । स च गृहस्थो येन साधुना सहाधिकरणं जातं तस्य अनेकेषां वा साधूनांबन्धनं निष्काशनं वा कुर्यात् । 'कटकमर्दो नाम' सर्वानपिसाधून कोऽपिव्यपरोपयेत्। व्युद्ग्राहणंवालोकस्यकुर्यात्-नास्त्यमीषांदत्ते परलोकफलम्, यद्वाअमीसंज्ञांव्युत्सृज्य विकिरन्ति नचनिर्लेपयन्ति।खङ्गादिनावाशस्त्रण साधूनाहन्यत्, अग्निकायेन वाप्रतिश्रयंदहेत्, उपकरणं वा अपहरेत्, विष-गरादिकं वा दद्यात्, भिक्षां वा वारयेत्॥ तच्च वारणमेतेषु स्थानेषु कारयेत्[भा.५५७१] रज्जे देसे गामे, निवेसण गिहे निवारणं कुणति । जा तेन विना हानी, कुल गण संघे य पत्थारो ।। वृ-राज्ये सकलेऽपि निवारणं कारयेत्-एतेषां भक्तमुपधिं वसतिं वा मा दद्यात् । एवं देशे ग्रामे निवेशने गृहे वा निवारणं करोति । ततो या 'तेन' भक्तादिना विना परिहाणि तां वृषभान् अप्रेषयन् गुरु प्राप्नोति । अथवा यः प्रभवति स कुलस्य गणस्य सङ्घस्य वा 'प्रस्तारं' विस्तरेण विनाशं कुर्यात् ॥ [भा.५५७२] एयस्स नत्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो। पभु कुज्जा पत्थारं, अपभुवा कारवे पभुणा॥ वृ-गृहस्थश्चिन्तयति-“एतस्य साधोस्ति दोषः किन्तु य एनमपरीक्ष्य दीक्षितवान् तस्यायं दोषः, अतस्तमेव घातयामि' इति विचिन्त्य प्रभुः स्वयमेव प्रस्तारं कुर्यात् । अप्रभुरपि द्रव्यं राजकुले दत्त्वा प्रभुणा कारापयेत् ॥ यत एते दोषाः[भा.५५७३] तम्हा खलु पट्ठवणं, पुव्वं वसभा समंच वसभेहिं। अनुलोमण पेच्छामो, नेति अनिच्छं पितं वसभा॥ वृ-तस्माद् वृषभाणां तत्र प्रस्थापनं कर्तव्यम् । “पुव्वं" ति येन साधुनाऽधिकरणं कृतं तं तावद् न प्रेषयन्ति यावद् वृषभाः पूर्वं प्रज्ञापयन् । किं कारणम् ? उच्यते-स गृहस्थस्तं दृष्ट्वा कदाचिदाहन्यात् । अथ ज्ञायते 'नाहनिष्यति' ततो वृषभैः समं तमपि प्रेषयन्ति । तत्र गताश्चानुकूलवचोमि अनुलोमन' प्रगुणीकरणं तस्य कुर्वन्ति। अथासौ गृहस्थोब्रूयात्-आनयत तावत्तं कलहकारिणं येनैकवारं पश्यामः पश्चात् क्षमिष्ये नवा। ततो वृषभास्तदभिप्रायं ज्ञात्वा तं साधु गृहिणः समीपमानयन्ति । अथासौ साधुर्नेच्छति ततो बलादपिवृषभास्तं तत्र नयन्ति॥ तेच वृषभा ईशगुणयुक्ताः प्रस्थाप्यन्ते[भा.५५७४] तस्संबंधि सुही वा, पगता ओयस्सिणो गहियवक्का । तस्सेव सुहीसहिया, गमेंति वसभा तगंपुव्वं ।। वृ- तस्य-गृहिणः संयतस्य वा सम्बन्धिनः सुहृदो वा ते भवेयुः, 'प्रगताः' लोकप्रसिद्धाः 'ओजस्विनः' बलीयांसः 'गृहीतवाक्याः' आदेयवचसः, ईद्दशा वृषभाः 'तस्यैव' गृहिणः सुहृद्भिः सहिताः ‘तकं' गृहस्थं पूर्वं गमयन्ति' प्रज्ञापयन्ति ॥ कथम्? इत्याह Page #248 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १३५, [भा. ५५७५ ] [भा. ५५७५ ] सो निच्छुब्भति साहू, आयरिए तं च जुज्जसि गमेतुं । नाऊण वत्थुभावं, तस्स जती निंति गिहिसहिया ।। २४५ वृ- येन साधुना त्वया सह कलहितं स साधुराचार्यै साम्प्रतं निष्काश्यते, अस्मदीयं च वचो गुरवो न सुष्ठु शृण्वन्ति, अत आचार्यान् गमयितुं त्वं 'युज्यसे' युक्तो भवसि । एवमुक्ते यद्याचार्यं गमयति क्षामयति च ततो लष्टम् । अथ ब्रूते-पश्यामस्तावत् तं कलहकारिणम्; ततो ज्ञात्वा वस्तुनः- गृहस्थस्य भावं - "किमयं हन्तुकामस्तमानाययति ? उत क्षामयितुकामः ? ' एवमभिप्रायं ज्ञात्वा तस्य ये सुहृदस्तैर्गृहिभिः सहिता यतयस्तं साधुं तत्र नयन्ति ॥ अथासौ गृही तीव्रकषायतय नोपशाम्यति ततस्तस्य सादोर्गच्छस्य च रक्षणार्थमयं विधिः [भा. ५५७६ ] वीसुं उवस्सए वा, ठवेंति पेसंति फड्डुपतिणो वा । देति सहाते सव्वे, व नेति गिहिते अनुवसंते ॥ वृ- 'विष्वग्' अन्यस्मिन्नुपाश्रये तं साधुं स्थापयन्ति, अन्यग्रामे वा यः स्पर्द्धकपतिस्तस्यान्तिके प्रेषयन्ति । निर्गच्छतश्चतस्य सहायान् ददति । अथ मासकल्पः पूर्णस्ततः सर्वेऽपि 'निर्यन्ति' निर्गच्छन्ति ॥ एष गृहस्थेऽनुपशान्ते विधिः । अथ गृहस्थ उपशाम्यति न साधुस्तदा तस्येद प्रायश्चित्तम्[भा.५५७७] अविओसियम्मि लहुगा, भिक्ख वियारे य वसहि गामे य । गणसंकमणेभन्नति, इहं पि तत्थेव वच्चाहि ॥ वृ- अधिकरणेऽव्यवशमिते यदि भिक्षां हिण्डते, विचारभूमिं विहारभूमिं वा गच्छति, वसतेर्निर्गत्यापरसाधुवसतिं गच्छति, ग्रामानुग्राम विहरति; एतेषु सर्वेषु चतुर्लघु । अथापरं गणं सङ्क्रामति ततस्तैरन्यगणसाधुभिर्भण्यते इहापि गृहिणः क्रोधनाः सन्ति ततस्तत्रैव व्रज ॥ इदमेव सुव्यक्तमाह [भा. ५५७८] इह वि गिही अविसहणा, न य वोच्छिन्ना इहं तुह कसाया । अन्नेसिं पाऽऽयासं, जनइस्ससि वच्च तत्थेव ॥ वृ- 'इहापि' ग्रामे गृहिणः 'अविषहणाः' क्रोधनाः सन्ति, न चेह समागतस्य तव कषाया व्यवच्छिन्नाः, अतः 'अन्येषामपि' अस्मदादीनामायासं जनयिष्यसि तस्मात तत्रैव व्रज ॥ [भा. ५५७९ ] सिट्ठम्मिन संगिण्हति, संकंतम्मि उ अपेसणे लघुगा । गुरुगा अजयणकहणे, एगतरपतोसतो जंच ॥ वृ- अनुपशान्ते साधौ गणान्तरं सङ्क्रान्ते मूलाचार्येण साधुसङ्घाटकस्तत्र प्रेषणीयः । तेन च सङ्घाटकेन 'शिष्टे' कथिते सति द्वितीयाचार्यो न सगृह्णीयात् । अथ मूलाचार्यः सङ्घाटकं न प्रेषयति तदा चतुर्लघु । सङ्घाटको यद्ययतनया कथयति ततश्चतुर्गुरु । अयतनाकथनं नामबहुजनमध्ये गत्वा भणति - एष निर्धर्मा गृहिभिः सममधिकरणं कृत्वा समायातः, सकलेनापि गच्छेन भणितो नोपशान्तः । एवमयतनया कथिते स साधुरेकतरस्य गृहिणः साधुसङ्घा मूलाचार्यस्य वा प्रद्वेषतो यत् करिष्यति तन्निष्पन्नं प्रायश्चित्तम् । तस्मादयं विधि [भा. ५५८० ] उवसामितो गिहत्थो, तुमं पि खामेहि एहि वच्चाहि । दोसा हु अनुवसंते, न य सुज्झति तुज्झ सामइगं ॥ वृ- पूर्वं गुरूणामेकान्ते कथयित्वा ततः स्वयमेकान्ते स भण्यते-उपशामितः स गृहस्थः, एहि Page #249 -------------------------------------------------------------------------- ________________ २४६ बृहत्कल्प-छेदसूत्रम् -३-४/१३५ व्रजामः, त्वमपितं गृहस्थं क्षामय, अनुपशान्तस्येह परंत्र च बहवो दोषाः, समभावः सामायिकं तच्चैवं सकषायस्य भवतः 'न शुध्यति' न शुद्धं भवति । एवमेकान्ते भणित यदि नोपशाम्यति ततो गणमध्येऽप्येवमेव भणनीयः ।। ततोऽपि कश्चिन्नोपशाम्येत् प्रत्युत खचेतसि चिन्तयेत् 'तस्य गृहिणो निमित्तेनेहाप्यवकाशंन लभे' ततः[भा.५५८१] तमतिमिरपडलभूतो, पावं चिंतेइ दीहसंसारी। पावं ववसिउकामे, पच्छितेमग्गणा होति ।। -कृष्णचतुर्दशीरजन्यांभास्वरद्रव्याभावस्तमउच्यते, तस्यामवचरात्रौयदारजो-धूमधूमिका भवति तदा तमस्तिमिरं भण्यते, यदा पुनस्तस्यामेव रजन्यां रजःप्रभृतयो मेघदुर्दिनं च भवति तदा तमस्तिमिरपटलमभिधीयते। यथा तत्रैवान्धकारे पुरुषः किञ्चिदपिनपश्यति एवं यस्तीव्रतीव्रतर-तीव्रतमेन कषायोदयेनान्धीभूतःसतमस्तिमिरपटलभूतो भण्यते, भूतशब्दस्यहोपमार्थवाचकत्वात्। एवम्भूतश्चेह-परलोकहितमपश्यन्दीर्घसंसारीतस्य गृहस्थस्योपरि पापम् ‘ऐश्वर्याद् जीविताद्वाभ्रंशयिष्यामि' इति रूपं चिन्तयति । एवंच पापं कर्तुव्यवसिते तस्मिन्नियंप्रायश्चित्ते मार्गणा भवति॥ [भा.५५८२] वच्चामि वच्चमाणे, चउरो लहुगा यहोति गुरुगाय। . उग्गिनम्मिय छेदो, पहरणे मूलं च जंजत्य ।। वृ. 'व्रजामि, तं गृहस्थं व्यपरोपयामि' इति सङ्कल्पे चतुर्लघवः । पदमेदादारस्य पथि व्रजतश्चतुर्गुरवः । यष्टि-लोष्टादिकं प्रहरणं मार्गयतिषडलघवः प्रहरणेलब्धे गृहीते चषड्गुरवः। उद्गीर्णे प्रहारे छेदः । प्रहारे पतिते यदि न म्रियते ततश्छेद एव ।अथ मृतस्ततो मूलम् । यच्च तत्र परितापनादिकं सम्भवति तत् तत्र वक्तव्यम् ॥ एते चापरे दोषाः. [भा.५५८३] तंचेव निट्ठवेती, बंधन निछुब्मण कडगमद्दो य । आयरिए गच्छम्मिय, कुल गण संघे य पत्यारो॥ वृ-स गृहस्थः 'त' संयतं वधार्थमागतं दृष्ट्वा कदाचित् तत्रैव 'निष्ठापयति व्यापादयति, पाणैर्वा बन्धापयति ग्राम-नगरादेर्वा निर्धाटयति, कटकमर्दैन वा मृद्गाति, अथवा 'कटकमद एकस्य रुष्टः सर्वमपि गच्छं व्यापादयति, यथा पालकः स्कन्दकार्यगच्छम् । अथवा बन्धननिष्काशनादिकमाचार्यस्यापरगच्छस्य वा करोति।तथा कुलसमवायं कृत्वाकुलस्य बन्धनादिकं कुर्यात्, एवं गणस्य वा सङ्घस्य वा । एष प्रस्तारः । एवमेकाकिनो व्रजत आरोपणा दोषाश्च भणिताः। अथ सहायसहितस्यारोपणामाह. [भा.५५८४] संजतगणे गिहिगणे, गामे नगरे व देस रज्जे य। __अहिवति रायकुलम्मिय, जा जहि आरोवणा भणिया॥ वृ-बहवः संयता- संयतगणः तं सहायं गृह्णाति । एवं गृहिगणं वा सहायं गृह्णाति । स च गृहिगणो ग्रामं वा नगरं वा देशोवा राज्यं वा भवेत्, ग्रामदिवास्तव्यजनसमुदाय इत्यर्थः। एतेषां वा संयतादीनां येऽधिपतयस्तान् वा सहायत्वेन गृह्णाति, अन्यद्वा राजकुलं गहीत्वा गच्छति, यथा कालकाचार्येण शकराजवृन्दम् । अत्र चैकाकिनो या 'यत्र' सङ्कल्पादावारोपणा भणिता सैवेहापि द्रष्टव्या॥ एतदेव व्याचष्टे Page #250 -------------------------------------------------------------------------- ________________ २४७ उद्देशकः४, मूलं-१३५, [भा. ५५८५] [भा.५५८५] संजयगणो तदधिवो, गिही तु गाम पुर देस रज्जे वा। एतेसिं चिय अहिवा, एगतरजुतो उभयतो वा॥ वृ-'संयतगणः' प्रतीतः। तेषां-संयतानामधिपः तदधिपः, आचार्य इत्यर्थः । येतुगृहिणस्ते ग्राम-पुर-देश-राज्यवास्तव्याः एतेषामधिपतयो वा भवेयुः । तत्र ग्रामादिपति-भोगिकादिकः, पुराधिपति-श्रेष्ठी कोट्टपालोवा, देशाधिपति-देशारक्षिकोदेशव्यापृतकोवा, राज्याधिपति-महामन्त्री राजा वा । एतेषामेकतरेणोभयेन वा युक्तो व्रजति ॥ तत्रेयं प्रायश्चित्तमार्गणा[भा.५५८६] तहि वचंते गुरुगा, दोसुतु छलहुग गहणे छग्गुरुगा। उग्गिणि पहरणे छेदो, मूलं जंजत्थ वापंथे । वृ-संयतगणेन तदधिपेन वा उभयेन वा सहाहं व्रजामि' इति सङ्कल्पे चतुर्लघु । पदभेदमादौ कृत्वा तत्रव्रजतश्चतुर्गुरु । प्रहरणस्यमार्गणे दर्शनेचद्वयोरपिषड्लघु ।प्रहरणस्य ग्रहणे षड्गुरु। उद्गीर्णे प्रहरणे छेदः । प्रहारे दत्ते मूलम् । 'यद् वा परितापनादिकं पृथिव्यादिविनाशनं 'यत्र' पथि ग्रामे वा करोति तन्निष्पन्नमपि मन्तव्यम् । तथा गृहस्थवर्गेऽपि 'ग्रामेण वा ग्रामाधिपतिना यावद् राज्येन वा राज्याधिपतिना वा उभयेन वा सह व्रजामि' इति सङ्कल्पे चतुर्गुरु । पथि गच्छतःप्रहरणंचगृह्णतः षड्लघु ।गृहीतेषड्गुरु शेषं प्राग्वत्। एवं भिक्षोः प्रायश्चित्तमुक्तम्॥ [भा.५५८७] एसेव गमो नयमा, गणि आयरिए य होति नायव्यो। नवरं पुन नाणत्तं, अणवठ्ठप्पोय पारंची॥ वृ-एष एव गमो नियमाद् ‘गणिनः' उपाध्यायस्य आचार्यस्य चशब्दाद् गणावच्छेदिकस्य वा मन्तव्यः । नवरंपुनरत्र नानात्वम्-अधस्तादेकैकपदह्रासेन यत्र भिक्षोर्मूलंतत्रोपाध्यास्यानवस्थाप्यम्, आचार्यस्य पाराञ्चिकम् ॥तपोहँ च प्रायश्चित्तमित्थं शेषयितव्यम्[भा.५५८८] भिक्खुस्स दोहि लहुगा, गणवच्छे गुरुग एगमेगेणं। उज्झाए आयरिए, दोहि विगुरुगंच नाणत्तं ॥ वृ-भिक्षोरेतानिप्रायश्चित्तानि द्वाभ्यामपि तपः-कालाभ्यांलघुकानि, गणावच्छेदिकस्यैकतरेण तपसा कालेन वा गुरुकाणि, उपाध्यायस्याचार्यस्य च 'द्वाभ्यामपि' तपः-कालाभ्यां गुरुकाणि। एतद् 'नानात्वं' विशेषः । [भा.५५८९] काऊण अकाऊण व, उवसंत उवट्ठियस्स पच्छित्तं। सुत्तेण उ पट्ठवणा, असुत्ते रागो व दोसो वा ॥ वृ-गृहस्थस्य प्रहारादिकमपकारंकृत्वाऽकृत्वावायदि उपशान्तः-निवृत्तःप्रायश्चित्तप्रतिपत्यर्थं चालोचनाविधानपूर्वकमपुनः करणेनोपस्थितस्तदा प्रायश्चित्तं दातव्यम् । कथम्? इथ्यह-सूत्रेण प्रायश्चित्तं प्रस्थापनीयम् । असूत्रोपदेशेन तु प्रस्थापयतो रागोवा द्वेषो वा भवति, प्रभूतमापन्नस्य स्वल्पदाने रागः स्तोकमापन्नस्य प्रबूतदाने द्वेषः ।। एवं राग-द्वेषाभ्यां प्रायश्चित्तदाने दोषमाह[भा.५५९०] थोवंजति आवन्ने, अतिरेगं देति तस्सतं होति। सुत्तेण उ पट्ठवणा, सुत्तमनिच्छंते निज्जुहणा॥ वृ-स्तोकं प्रायश्चित्तमापन्नस्य यदि अतिरिक्तं ददाति ततो यावताऽधिकं तावत् 'तस्य' प्रायश्चित्तदातुः प्रायश्चित्तम् आज्ञादयश्च दोषाः, अथोनं ददाति ततो यावता न पूर्यते तावद् Page #251 -------------------------------------------------------------------------- ________________ २४८ बृहत्कल्प-छेदसूत्रम् -३-४/१३५ आत्मनाप्राप्नोति, अतः सूत्रेण प्रस्थापना कर्तव्या। यस्तु सूत्रोक्तंप्रायश्चित्तं नेच्छतिसवक्तव्यःअन्यत्र शोधिं कुरुष्व । एषा नियूहणा भण्यते ॥ अस्या एव पूर्वार्द्ध व्याचष्टे[भा.५५९१] जेनऽधियं ऊनं वा, ददाति तावतिअमप्पणा पावे। अहवा सुत्तादेसा, पावति चतुरो अनुग्घाता॥ वृ-'येन यावताअधिकंऊनंवा ददाति तावद्आत्मना प्राप्नोति।अथवा सूत्रादेशादूनाऽतिरिक्तं ददानश्चतुरोऽनुद्धातान् मासान् प्राप्नोति । तच्चेदं निशीथदशमोद्देशकान्तर्गतं सूत्रम् जे उग्घाइए अनुग्घाइयं देइजेअनुग्घाइए उग्घाइयं देइसे आवज्जइ चाउम्मासियंपरिहारट्ठाणं अनुग्घाइयं ॥अथ द्वितीयपदमाह[भा.५५९२] बितियं उप्पाएउं, सासनपंते असझे पंच विपयाई। आगाढे कारणम्मिं, रायसंसारिए जतणा॥ कृ-द्वितीयपदंनाम-अधिकरणमुत्पादयेदपि।सः 'शासनप्रान्तः' प्रवचनप्रत्यनीकः असाध्यश्च' नयथातथा शासितुं शक्यतेततस्तेनसममधिकरणमुत्पाद्य शिक्षणंकर्तव्यम्।तत्रचस्वयमसमर्थ संयत-ग्राम-नगर-देश-राज्यलक्षणानि पञ्चापि पदानि सहायतया गृह्णीयात् । आगाढे कारणे राजसंसारिका-राजान्तरस्थापनातामपियतनयाकुर्यात् । तथाहि-यदिराजाऽतीवप्रवचनप्रान्तः अनुशिष्टयादिभिरनुकूलोपायैर्नोपशाम्यतिततस्तं राजानंस्फेटयित्वा तद्वंशजमन्यवंशजंवा भद्रकं राजानं स्थापयेत् ॥ यश्चतं स्फेटयति स ईशगुणयुक्तो भवति[भा.५५९३] विजा-ओरस्सबली, तेयसलद्धी सहायलद्धी वा। उप्पादेउं सासति, अतिपंतं कालकज्जो वा ।। वृ-यो विद्याबलेन युक्तोयथाआर्यखपुटः,औरसेन वा बलेनयुक्तोयथाबाहुबली, तेजोलब्ध्या वा सलब्धिको यथा ब्रह्मदत्तः सम्भूतभवे, सहायलब्धियुक्तो वा यथा हरिकेशबलः । ईशोऽधिकरणमुत्पाद्य अतिप्रान्तम्' अतीवप्रवचनप्रत्यनीकंशास्ति, कालिकाचार्य इव' यथा कालकाचार्यो गर्दभिल्लाराजानं शासितवान् । कथानकं सुप्रतीतत्वान्न लिख्यते॥ मू. (१३६) परिहारकप्पट्ठियस्सनंभिक्खुस्स कप्पइआयरियउवज्झाएणंतदिवसं एगगिर्हसि पिंडवायं दवावित्तए, तेन परं नो से कप्पइ असनवा पानं वा खाइमं वा साइमं वा दाउं वा अनुप्पदाउं वा । कप्पइ से अन्नयरं वेयावडियं करित्तए, तं जहा-उठावणं वा निसिआवणं वा तुयट्टावणं वा उच्चारपासवण-खेल-सिंघाणविगिचणं वा विसोहणं वा करित्तए । अह पुन एवं जाणिज्जा-छिन्नावाएसुपंथेसुआउरे झिंझिएपिवासिए, तवस्सीदुब्बले किलंते मुच्छिज्ज वा पवडिज वा एवं से कप्पइ असणं वा ४ दाउंवा अनुप्पदाउं वा। वृ-अस्य सम्बन्धमाह[भा.५५९४] पच्छित्तमेव पगतं, सहुस्स परिहार एव न उ सुद्धो। तंवहतो का मेरा, परिहारियसुत्तसंबंधो॥ वृ-प्रायश्चित्तमेवानन्तरसूत्रे प्रकृतम्, तच्च सहिष्णोः' समर्थस्य प्रथमसंहननादिगुणयुक्तस्य पिहारतपोरूपमेव दातव्यम्, नपुनः शुद्धतपोरूपम्, अतः 'तत्' परिहारतपोवहतः ‘का मर्यादा' का सामाचारी? इति । अस्यां जिज्ञासायामिदं परिहारिकसूत्र मारभ्यते । एष सम्बन्धः । Page #252 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १३६, [भा. ५५९५ ] [मा. ५५९५] २४९ वीसुंभणसुते वा, गीतो बलवं च तं परिट्ठप्पा । चोयण कलहम्मि कते, तस्स उ नियमेण परिहारो ॥ वृ- अथवा 'विष्वग्भवनसूत्रे' मरणसूत्रे गीतार्थ 'बलवांश्च' प्रथमसंहननयुक्तः 'तद्' मृतकं परिष्ठाप्य काष्ठमानयन् गृहस्थेन नोदितो यदि कलहं करोति तदा तस्य नियमेन परिहारो दातव्यः, तस्य च विधिरनेनाभिधीयते । अनेन मस्बन्धेनायातस्यास्य व्याख्या- परिहारकल्पस्थितस्य भिक्षोः कल्पते आचार्योपाध्यायेन तद्दिवसम्' इन्द्रमहाद्युत्सवदिने एकस्मिन् गृहे 'पिण्डपातं ' विपुलमवगाहिमादिभक्तलाभं दापयितुम् । ततः परं "से" तस्य नो कल्पते अशनं वा पानं वा खादिमं वा स्वादिमं वा दातुमनुप्रदातुं वा। तत्र दातुं एकशः, अनुप्रदातुं पुनः पुनः । किन्तु कल्पते “से” तस्य परिहारिकस्यान्यतरद् वैयावृत्यं कर्तुम् । तद्यथा उत्थापनं वा निषादनं वा त्वग्वर्तापनं वा उच्चार-प्रश्रवण- खेल - सिङ्घानादीनांच विवेचनं वा परिष्ठापनं 'विशोधनं वा' उच्चारादिखरण्टितोपकरणादेः प्रक्षालनं कर्तुम् । अथ पुनरेवं जानीयात्- 'छिन्नापातेषु' व्यवच्छिन्नगमा-ऽऽगमेषु पथिषु 'आतुरः' ग्लानः 'झिञ्झितः ' बुभुक्षार्त्त 'पिपासितः' तृषितो न शक्नोति विवक्षितं ग्रामं प्राप्तुम्, अथवा ग्रामादावपि तिष्ठतां सः 'तपस्वी' षष्ठाऽष्टमादिपरिहारतपःकर्म कुर्वन् दुर्बलो भवेत्, ततो भिक्षाचर्यसा क्लान्तः सन् मूर्च्छद्वा प्रपदेद्वा, एवं "से" तस्य कल्पते अशनादिकं दातुमनुप्रदातुं वा । एष सूत्रार्थः ।। अथ निर्युक्तिविस्तरः [ भा. ५५९६ ] कंटगमादीसु जहा, आदिकडिल्ले तहा जयंतस्स । अवसं छलणाऽऽलोयण, ठवणा जुत्ते य वोसग्गो ॥ वृ- ननु स भगवान् 'प्रमादो न कर्तव्यः' इत्युपदेशेन संयमाध्वनि गच्छन् कथं परिहारकत्वं प्राप्तः ? इति उच्यते-यथा कण्टकाकीर्णे मार्गे उपयुक्तस्यापि कण्टको लगति, आदिशब्दाद् विषमे वा यथोपयुक्तोऽ प्यागच्छन् प्रपतति, कृतप्रयत्नो वा यथा नदीवेगेन हियते, सुशिक्षितोऽपि यथा स्वङ्गेन लाञ्छयते; एवं कण्टकादिस्थानीयमादिकडिल्लम् - आद्यगहनं यद् उद्गमोत्पादनैषणारूपं ज्ञानादिरूपं वा तत्र यतमानस्याप्यवश्यं कस्यापि च्छलना भवति, छलितेन चावश्यमालोचना दातव्या । ततो यः संहनना ऽऽगमादिभिर्गुणैर्युक्तः सहितस्तस्य 'स्थापना' परिहारतपः प्रायश्चित्तदानं कर्तव्यम् । तत्र चायं विधिः प्रशस्तेषु द्रय-क्षेत्र - काल-भावेषु तस्य साधोर्निर्विघ्नतपः कर्मसमाप्तये शेषसाधूनां च भयजननार्थं सकलेनापि गच्छेन 'व्युत्सर्गः' कायोत्सर्गः कर्तव्यः । तत्राचार्यो भणति- “एत्स साधुस्स निरवसग्गनिमित्तं ठामि काउस्सग्गं जाव वोसिरामि" ततश्चतुर्विंशतिस्तवमनुप्रेक्ष्य "नमो अरिहंताणं" इति भणित्वा चतुर्विंशतिस्तवं मुखेनोच्चार्य भणति ॥ भा. (५५९७ ] एस तवं पडिवज्जति, न किंचि आलवति मा न आलवहा । अत्तट्ठचिंतगस्सा, वाघातो भे न कायव्वो ॥ वृ- 'एषः ' आत्मविशुद्धिकारकः परिहारतपः प्रतिपद्यते अतो न किञ्चिद् युष्मानालपति, अत्र "सत्सामीप्ये सद्वद्वा" इति सूत्रेण भविष्यदर्थे वर्तमाना, ततो नालप्स्यतीत्यर्थः; यूयमपि “णं” एनं माऽऽलपत । एष युष्मान् सूत्रा ऽर्थौ शरीरोदन्तं वा न पृच्छति, यूयमप्येनं मा पृच्छत । एवमन्येष्वपि परिवर्तनादिपदेषु भावनीयम् । इत्थमात्मार्थचिन्तकस्यास्य ध्यानस्य परिहारतपसश्च व्याघातः “भे” भवद्भिर्न कर्तव्यः ॥ Page #253 -------------------------------------------------------------------------- ________________ २५० बृहत्कल्प-छेदसूत्रम् -३-४/१३६ अथ यानि पदानि तेन साधुभिश्च परस्परं परिहर्तव्यानि तानि दर्शयति[भा.५५९८] आलावण पडिपुच्छण, परियटुट्ठाण वंदनग मते। पडिलेहण संघाडग, भत्तदान संभुंजणा चेव॥ वृ-'आलपन' सम्भाषणमनेन युष्माकं न कर्तव्यं युष्माभिरप्यस्य न विधेयम् । एवं सूत्राऽर्थयोः शरीरवार्ताया वा प्रतिप्रच्छनम्, पूर्वाधीतस्य श्रुतस्य परिवर्तनम्, कालग्रहणनिमित्तं "उट्ठाणं"तिउत्थापनम्, रात्री सुप्तोत्थितैर्वन्दनककरणम्, खेल-कायिका-संज्ञामात्रकाणांसमर्पणम्, उपकरणस्य प्रत्युपेक्षणं भिक्षा-विचारादौ गच्छतां सङ्घाटकेन भवनम्, भक्तस्य वापानकस्य वा दानम्, एकमण्डल्यां वा सम्-एकीभूय भोजनंन कर्तव्यम्॥अथ कुर्वन्तितत इदं प्रायश्चित्तम्[भा.५५९९] संघाडगाओ जावउ, लहुओ मासो दसण्ह उपयाणं । ... लहुगा य भत्तदाणे, संभुंजण होतऽणुग्घाता॥ वृ-एतेषामालपनादीनांदशानांपदानांमध्यादालपनादारभ्ययावत्सङ्घाटकपदंतावद् अष्टानां पदानांकरणे गच्छसाधूनां प्रत्येकंमासलघु।अथ भक्तदानं कुर्वन्ति ततश्चतुर्लघु । एकमण्डल्यां सम्भुञ्जते ततस्तेषामेव चत्वारोऽनुद्धाता मासाः ॥परिहारकस्य इदं प्रायश्चित्तम्[भा.५६००] अट्ठण्हंतु पदाणं, गुरुओ परिहारियस्स मासो उ। भत्तपदाने संभुंजणे य चउरो अनुग्धाया।। वृ.पारिहारिकस्याष्टानां पदानां सङ्घाटकान्तानां करणे मासगुरु । भक्तप्रदानं सम्भोजनं वा कुर्वतश्चत्वारो मासा अनुद्धाताः । इमे च दोषाः[भा.५६०१] कुव्वंताणेयाणि उ, आणादि विराधना दुवेण्हं पि। देवय पमत्त छलणा, अधिगरणादी य उदितम्मि॥ वृ-'एतानि' आलपनादीनि कुर्वतामाज्ञादयोदोषाः,विराधनाच द्वयोरपि पारिहारिकगच्छसाधुवर्गयोर्भवति।प्रमत्तस्य च देवतयाछलनम्।अन्येन वासाधुना भणितः-'किमित्यालपनादीनि करोषि ?' एवं 'उदिते' भणिते सति अधिकरणादयो दोषा भवन्ति॥ अथ “कप्पइ० एगगिहंसि" इत्यादि सूत्रं व्याख्यानयति[भा.५६०२] विउलं व भत्त-पानं, दणं साहुवज्जणंचेव । . नाऊण तस्स भावं, संघाडं देति आयरिया॥ वृ-सङ्खड्यामुत्सवे वा विपुलं भक्त-पानं साधुभिरानीतं दृष्ट्वा तद्विषय ईषदभिलाषो भवेत्, 'साधुवर्जनांच' 'साधुभिः खदुश्चरितैः परित्यक्तोऽहम्' इत्येवं मनसि चिन्तयेत् । एवं ज्ञात्वा तदीयं भावमाचार्या सङ्घाटकं ददति ॥ अथेदमेव भावपदं व्याचष्टे[भा.५६०३] भावो देहावत्था, तप्पडिबद्धो व ईसि भावो से। अप्पातित हयतण्हो, वहति सुहं सेसपछित्तं ।। वृ-भावो नाम 'देहावस्था देहस्य दुर्बलता 'तप्रतिबद्धो वा' विपुलभक्त-पानविषय ईषद् 'भावः' अभिलाषः तस्य सजातः, ततश्च यथाभिलषिताहारेणाप्यायितोहततृष्णश्च सन् सुखेनैव शेषं प्रायश्चित्तं वहतीति मत्वा सङ्घाटको दीयते ॥ अमुमेवार्थमन्याचार्यपरिपाट्या किञ्चिद् विशेषयुक्तमाह Page #254 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं- १३६, [ भा. ५६०४ ] [भा. ५६०४] देहस्स तु दोबल्लं, भावो ईसिं व तप्पडीबंधो । अगलाए सोहिकरणेण वा वि पावं पहीणं से | २५१ वृ- देहस्य दौर्बल्यम् ईषद्वा मनोज्ञाहारविषयप्रतिबन्धः, एष भाव उच्ये । यद्वा अग्लान्या शोधिकरणेन पापं तस्य प्रक्षीणप्रायम् एवंविधं भावमाचार्या जानीयुः ॥ कतं पुनरेतद् जानन्ति ? इति उच्यते [ भा. ५६०५ ] आगंतु एयरो वा, भावं अतिसेसिओ से जाणिज्जा । ऊहि व से भावं, जाणित्ता अनतिसेसी वि ।। वृ- आगन्तुकः 'इतरो वा' वास्तव्यः 'अतिशयी' नवपूर्वधरादिरवधिज्ञानादियुक्तो वा स एवंविधं भावं "से" तस्य जानीयात् । अथवा अनतिशयज्ञान्यपि बाह्यैराकारादिभिर्हेतुमिस्तस्य भावं जानीयात् ॥ ततः [ भा. ५६०६ ] सक्कमहादी दिवसो, पनीयभत्ता व संखडी विपुला । ध्रुवलंभिग एगघरं, तं सागकुलं असागं वा ।। वृ- शक्रमहादेर्दिवसो यदा सञ्जातस्तदा तं क्वापि श्राद्धगृहे नयन्ति, प्रणीतभक्ता वा काचिद् विपुला सङ्घडिस्तत्र वा विसर्जयन्ति । तच्च 'ध्रुवलम्मिकम्' अवश्यसम्भावनीयलाभमेकमेव गृहं विद्यते । इदं च श्रावकगृहमश्रावकगृहं वा भवेत् उभयत्रापि गुरवः स्वयं प्रथमतो गच्छन्ति, तंच पिहारिकं - आर्य ! समागन्तव्यममुकगृहे पात्रकमुद्ग्राह्य त्वयेति । ततस्तत्र प्राप्तस्य विपुलमवगाहिमादिकं भक्तं दापयन्ति । अथासौ तत्र गन्तुं न शक्नोति ततो भाजनानि गृहीत्वा स्वयमानीय गुरवो ददति । एतावता “कप्पइ आयरि-उवज्झाएणं तद्दिवसं एगगिहंसि पिंडवायं दवावित्तए" इति सूत्रं व्याख्यातं मन्तव्यम् । अथ "तेन परं नो से कप्पइ" इत्यादि सूत्रं व्याख्याति - [भा. ५६०७ ] भत्तं वा पानं वा, न दिंति परिहारियस्स न करेंति । कारणे उट्ठवणादी, चोयग गोणीय दिट्टंतो ॥ वृ- भक्तं वा पानकं वा ततः परं परिहारिकस्य निष्कारणेन प्रयच्छन्ति, न वा किमप्यालपनार्दिकं कुर्वन्ति । 'कारणे तु' यदा उत्थानादिकं कर्तुं क्षीणदेहतया न शक्नोति तत उत्थापनादिकं कारयन्ति । अत्र नोदकः प्राह- किं प्रायश्चित्तं राजदण्ड इवावशेन वोढव्यं येनेध्शीमवस्थां प्राप्तस्यापि भक्तपानमानीय न दीयते ? । सूरिराह-गोटान्तोऽत्र क्रियते यथा नवप्रावृषि या गौरुत्थातुं न शक्नोति तां गोप उत्थापयति अटवीं च चारिचरणार्थं नयति, या तु गन्तुं न शक्नोति तस्या गृहे आनीय प्रयच्छति । एवं पारिहारिकोऽपि यत् कर्तुं शक्नोति तत् कार्यते, यत् पुनरुत्थानादिकं कर्तुं न शक्नोति तद् अनुपारिहारिकः करोति ॥ कथं पुनरसौ करोति ? इत्याह [भा. ५६०८] उद्वेज निसीएज्जा, भिक्खं हिंडेज भंडगं पेहे । कुवियपियबंधवस्स व, करेइ इयरो वि तुसिणीओ ॥ वृ-स परिहारिकस्तपसा क्लान्तो ब्रवीति- उत्तिष्ठेयं निषीदेयं भिक्षां हिण्डेयं भाण्डकं प्रत्युपेक्षेयम्; एवमुक्तेऽनुपारिहारिक उत्थापनादिकं सर्वमपि करोति । कथम् ? इत्याह-यथा प्रियबान्धवस्य कुपितः कश्चिद् बन्धुर्यत् करणीयं तत् तूष्णीकः करोति, एवम् 'इतरोऽपि' अनुपारिहारिकः Page #255 -------------------------------------------------------------------------- ________________ २५२ बृहत्कल्प-छेदसूत्रम् -३-४/१३६ सर्वमपि तूष्णीकभावेन करोति ॥अथ भिक्षाहिण्डनादौ विधिमाह[भा.५६०९] नीनेति पवेसेति व, भिक्खगए उग्गहं तउग्गहियं । रक्खतिय रीयमाणं, उक्खिवइ करेय पेहाए। वृ-भिक्षां गतस्य पारिहारिकस्य अवग्रहं प्रतिग्रहं तेन-पारिहारिकेण गृहीतमनुपारिहारिकः पात्रबन्धानिष्काशयति तत्रवाप्रवेशयति, रीयमाणंच पर्यटन्तंश्वान-गवाद्युपद्रवात्प्रपतनादेर्वा रक्षति, भाण्डप्रत्युपेक्षणायामशक्तस्य करौं' हस्तावनुपरिहारिक उत्क्षिपतियेन स्वयमेवप्रत्युपेक्षते। आह-यदि नामाशक्तस्तर्हि कस्मादसौ भिक्षाहिण्डनादिकं विधाप्यते? इत्याह. [भा.५६१०] एवं तु असढभावो, विरियायारोय होति अनुचित्रो। भयजननं सेसाण य, तवोय सप्पुरिसचरियं च ॥ कृ-“एवं' यथाशक्ति कुर्वतस्तस्याशठभावो भवति,वीर्याचारश्चानुचीर्णोभवति, शेषाणामपि' साधूनां भयजननं कृतं भवति, तपः सम्यगनुपालितं भवति, सत्पुरुषचरितं च कृतं भवति ॥ अथ “छिन्नवाएसुपंथेसु" इत्यादि सूतरं व्याचष्टे[मा.५६११] छिन्नावात किलंते, ठवणा खेत्तस्स पालणा दोण्हं । असहुस्स भत्तदानं, कारणेपंथे व पत्तेवा ॥ वृ-छिन्नापातेऽध्वनिगच्छन् परिहारिको यदिबुभुक्षया तृषा चक्लान्तो ग्रामंप्राप्तुं न शक्नोति ततोऽनुपारिहारिको भक्त-पानं गृहीत्वा तस्यान्तरग्रामेददाति।अथवासभगवान्अनिगृहितबलवीर्यो बहिमिभिक्षांपर्यटि, तत्र हिण्डित्वा तपःक्लान्तो यदा नशक्नोत्यागन्तुंतत आगन्तुमसमर्थे तस्मिन् क्षेत्रस्य स्थापना कर्तव्या, मूलग्राम एव स हिण्डते न बहिर्भिक्षाचर्यां गच्छतीत्यर्थः । "पालणा दोण्हं"ति 'द्वयोरपि' पारिहारिका-ऽनुपारिहारिकयोः पालना कर्तव्या । कथम् ? इत्याह-"असहुस्स भत्तदानं कारणे" त्ति यदि स पारिहारिकः स्वग्रामेऽपि हिण्डितुं न शक्नोति ततोऽनुपारिहारिको हिण्डित्वा तस्य प्रयच्छति अनुपारिहारिकस्तु मण्डलीतः समुद्दिशति; अथानुपारिहारिकोऽपि ग्लानत्वेनासहिष्णुर्भिक्षां गन्तुं न शक्नोति तत एवंविधे कारणे द्वयोरपि गच्छसत्काः साधवः प्रयच्छन्ति; एवं द्वावपि पालिती-अनुकम्पिती भवतः। एवं स्थानस्थितानां यतना भणिता । सम्प्रति पूर्णेमासे वर्षावासे वा ग्रामानुग्रामं विहरतां "पंथेवपत्तेव"त्ति पथिवा ग्रामे प्राप्तानां वा यतनाऽभिधीयते॥ [मा.५६१२] उवयंतिडहरगाम, पत्ता परिहारिए अपाते। तस्सऽट्ठा तं गाम, ठविंति अन्नेसु हिंडंति ॥ वृ-पथि व्रजन्तो डहरं-लघुतरं ग्रामं प्राप्ताः परिहारिकश्चाद्यापि न प्राप्नोति ततस्तस्या) तं ग्रामं स्थापयन्ति । स्वयं तु गच्छसाधवोऽन्येषु ग्रामेषुभिक्षां हिण्डन्ते॥ [भा.५६१३] वेलइवाते दूरम्मिय गामे तस्स ठाविउमद्धं । अद्धं अडंति सो विय, अद्धमडे तेहि अडिते वा॥ वृ.अथ यावत् ते गच्छन्ति तावदन्यग्रामेषु वेलाया अतिपातो भवति दूरे वा स ग्रामस्ततः 'तस्यैव' मूलग्रामस्यार्द्ध परिहारिकस्यार्थाय स्थापयित्वा द्वितीयमद्धं स्वयमटन्ति । एवं तावत् पथि वर्तमाने पारिहारिके भणितम्।यत्र तु साधवः पारिहारिकश्चसमकमेव प्राप्तात्राप्य॰ ग्रामे Page #256 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-१३६, [भा. ५६१३] २५३ साधवो हिण्डन्तेऽर्द्ध पारिहारिकः । अथ साधूनामर्दै पर्यटतां न पूर्यते ततस्तैः सर्वस्मिन् ग्रामे पर्यटिते पारिहारिकः पश्चात् पर्यटति ।। अथ पारिहारिको यथा कारणे गच्छसाधूनां वैयावृत्यं करोति तथाऽभिधीयते[भा.५६१४] बिइयपय कारणम्मि, गच्छे वाऽऽगाढे सो तुजयणाए। . अनुपरिहारिओ कप्पद्वितो व आगाढ संविग्गो।। कृ-द्वितीयपदे 'कारणे' कुलादिकार्येपारिहारिकोऽपिसाधूनां वैयावृत्यं करोति, यथापाराञ्चिकः “अच्छउ महानुभागो, जहासुहंगणसयागरो संघो।" इत्यादि भणित्वावैयावृत्यं कृतवान्।तथा गच्छे वा आगाढं कारणं समजनि ततः सोऽपि यतनया' वक्ष्यमाणया भक्त-पानाहरणादिकं वैयावृत्यं करोति । 'अनुपरिहारिय" इत्यादि पश्चार्द्धम्-अथ गच्छसाधवः प्रज्ञप्तिमहाश्रुतादीनामन्यतरमागाढयोगप्रतिपन्ना उपाध्यायश्च ग्लानःकालगतो वा ततोऽनुपारिहारिकः कल्पस्थितो वा वाचनां गच्छस्य ददाति । अथ तावप्यशक्तौ ततः परिहारिकोऽपि वाचनां ददाति । स च तां ददानोऽपिसंविग्नएवमन्तव्यः । इहमाभूत् कस्यापिमति-पूर्वसूत्रेणप्रतिषिद्धं सूत्रार्थदानादिकमनेनानुज्ञातम्, एवंपूर्वापरविरुद्धमाचरन् असंविग्नोऽसावितितन्मतिव्यपोहार्थं संविग्नग्रहणम्।। अथ गच्छस्यागाढकारणं व्याचष्टे[भा.५६१५] मयण च्छेव विसोमे, देति गणे सो तिरो व अतिरो वा। तब्भाणेसु सएसुव, तस्स विजोगंजनो देति॥ वृ-मदनकोद्रवकूरेणगच्छः सर्वोऽपिग्लानःजातः,छेवकम्-अशिवंतेन वागृहीतः,प्रत्यनीकेन वा विषं दत्तम्, अवमौदर्ये वा न संस्तरति; तत एवमागाढे कारणे ‘सः' पारिहरिको भक्तपानमौषधानि वा 'तद्भाजनेषु' गच्छसत्केषु पात्रकेषु तेषामभावे स्वभाजनेषु वा गृहीत्वा तिरोहितमतिरोहितं वा 'गणे' गच्छस्य प्रयच्छति । तिरोहितं नाम-स आनीयानुपारिहारिकस्य ददाति सोऽपिगच्छस्यार्पयति, अथानुपारिहारिकोऽपिग्लानस्तदा कल्पस्थितस्य ददाति सोऽपि तथैव गच्छस्यार्पयति । कल्पस्थितस्यापि ग्लानत्वेऽतिरोहितं-स्वयमेव गच्छस्य ददाति । यच्च तेषां योग्यं जनो ददाति तत् तेषामर्थाय गृह्णाति, यत्तु तस्य योग्यं तद् आत्मनो गृह्णाति॥ [भा.५६१६] एवंता पंथम्मिं, जत्थ विय ठिया तहिं पि एमेव । बाहिं अडती डहरे, इयरे अद्धद्ध अडिते वा॥ वृ. एवं वत् पथि गच्छतामभिहितम् । यत्रापि च ग्रामादौ स्थितास्तत्राप्येवमेव मन्तव्यम् । मार्गेचयत्र गच्छो न प्राप्तस्तत्र डहरे ग्रामे पारिहारिकःप्राप्तोबहिर्गामे पर्यटति। "इतरे"त्तिअथ वेलातिक्रमो दूरे वा स ग्रामः ततस्तत्रैव मूलग्रामेऽढे पारिहारिकः पर्यटति अर्द्ध गच्छसाधवः, तेन वा अटिते गच्छः पर्यटति ॥ किंबहुना? पक्षद्वयस्याप्ययं परमार्थ उच्यते.. [भा.५६१७] कप्पट्ठिय परिहारी, अनुपरिहारी व भत्त-पानेनं । पंथे खेत्ते व दुवे, सो वि य गच्छस्स एमेव ॥ वृ-पथि वा क्षेत्रे वा द्वयोरपि वर्तमानो ग्लानत्वादी कारणे कल्पस्थितोऽनुपारिहारिको वा पारिहारिकस्य भक्त-पानेनोपग्रहं करोति । सोऽपिच पारिहारिको गच्छस्यैवमेवोपग्रहं करोति । मू. (१३७) नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महन्त्रवाओ महानदीओ Page #257 -------------------------------------------------------------------------- ________________ २५४ बृहत्कल्प-छेदसूत्रम् -३-४/१३७ उद्दिट्ठाओगणियाओवंजियाओ अंतामासस्सदुक्खुत्तोवा तिक्खुत्तो वा उत्तरित्तएवासंतरित्तए वा । तंजहा-गंगा जउणा सरऊ कोसिया मही॥ वृ-अस्य सम्बन्धमाह- . [भा.५६१८] अदाणमेव पगतं, तत्य थले पुव्ववन्निया मेरा। जति होज्ज तत्य तोयं, तत्थ उसुत्तंइमं होति॥ वृ-अनन्तरसूत्रे “छिनावाएसुपंथेसु" इति वचनाद् ‘अध्वा' मार्ग एव तावत्प्रकृतः। तत्रच स्थले गच्छतां 'पूर्ववर्णिता' प्रथमोद्देशके अध्वसूत्रे भणिता मर्यादा अवधारणीया। यत्र तुमार्गे तोयं भवति तद्विषयविधिप्रतिपादकमिदं सूत्रं भवति ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या'नो कल्पन्ते' नयुज्यन्ते, सूत्रे एकवचननिर्देशःप्राकृतत्वात्, निर्ग्रन्थानांवा निर्ग्रन्थीनांवा 'इमाः' प्रत्यक्षासन्नाः पञ्च 'महार्णवाः' बहूदकतया महार्णवकल्पा महासमुद्रगामिन्यो वा 'महानद्यः' गरुनिम्नगाः 'उद्दिष्टाः' सामान्येनाभिहिता यथा महानद्य इति, गणिता यथा पञ्चेति, व्यञ्जिताः' व्यक्तीकृता यथा गङ्गेत्यादि, 'अन्तर' मध्ये मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुंवा बाहुजङ्घादिना सन्तरीतुंवा नावादिना । तद्यथा-गङ्गा १ यमुना २ सरयूः३कोशिका४मही ५। एष सूत्रार्थः ॥अष भाष्यकारः कानिचिद् विषमपदानि विवृणोति[भा.५६१९] इमाउ ति सुत्तउत्ता, उद्दिट्ट नदीउ गणिय पंचेव । गंगादि वंजिताओ, बहुओदग महन्नवातो तू॥ ..." वृ-इमा इति प्रत्यक्षवाचिना सर्वनाम्ना सूत्रोक्ता उच्यन्ते। उद्दिष्टा नद्य इति । गणिताः पञ्चेति। व्यञ्जिता गङ्गादिभिः पदैर्व्यक्तीकृताः । यास्तुबहूदकास्ता महार्णवा उच्यन्ते॥ कृता विषमपदव्याख्या भाष्यकृता ।अथ नियुक्तिविस्तरः[भा.५६२०] पंचण्हं गहणेणं,सेसा वि उसूइया महासलिला । तत्य पुरा विहरिंसुय, न यतातो कयाइ सुक्खंति॥ वृ-'पञ्चानां गङ्गादीनां ग्रहणेन शेषा अपियाः महासलिलाः' बहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः। स्याद् बुद्धिः किमर्थं गङ्गादीनां ग्रहणम् ? इत्याह-“तत्थ" इत्यादि, येषु विषयेषु गङ्गादयः पञ्च महानद्यो वहन्ति तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचनापि शुष्यन्ति अतस्तासां ग्रहणम्॥ [भा.५६२१] पंच परूवेतूणं नावासंतारिमे उजंजत्थ। उत्तरणम्मि विलहुगा, तत्थ वि आणाइणो दोसा॥ वृ-पञ्चापिमहानदीःप्ररूप्य या याशी यत्र विषये तांतथा वर्णयित्वा प्रस्तुतमभिधातव्यम् । तच्चेदम्-नौसन्तारिमं यत्रोदकं तत्र यत् षट्कायविराधनामात्मविराधनां वा प्राप्नोति तन्निष्पन्नं प्रायश्चित्तम् । यत्रापि जलादिनोत्तरणं भवति तत्रापि चतुर्लघुकाः, अपिशब्दात् सन्तरणेऽपि चतुर्लघु । 'तत्रापि' उत्तरणे आज्ञादयो दोषाः, किं पुनः सन्तरमे? इत्यपिशब्दार्थः॥ तत्र सन्तरणे तावदोषानाह[भा.५६२२] अनुकंपा पडिनीया, व होज बहवो उपचवाया ऊ। एतेसि नाणत्तं, वोच्छामि अहानुपुबीए॥ Page #258 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं- १३७, [भा. ५६२२] २५५ वृ- अनुकम्पादोषाः प्रत्यनीकदोषा बहवो वा प्रत्यपाया नावमारूढानां भवन्ति । एतेषां च 'नानात्वं' विभागं यथाऽऽनुपूर्व्या वक्ष्यामि ।। तदेवाह [ भा. ५६२३] छुभणं जले थलातो, अन्ने वोयारिता छुभति साहू । ठवणं व पत्थिताए, दट्टु नावं व आनेती ॥ वृ- साधुं तरणार्थिनं ज्ञात्वा नौवाणिजो नाविको वा अनुकम्पया नावं स्थलाद् जले प्रक्षिपेत्, ये वा पूर्व नावमारोपितास्तानुदके तटे वा अवतार्य साधून प्रक्षिपेद् नावमारोपयेदित्यर्थः, सम्प्रस्थितां वा नावं 'साधव उत्तरिष्यन्ति' इति कृत्वा स्थापयेत् साधून् वा दृष्ट्वा परकूलाद् नावमानयेत् ॥ अत्र चामी दोषाः [ मा. ५६२४] नावित- साधुपदोसो, नियत्तणऽच्छंतगा य हरियादी । जं तेन - सावएहि व, पवहण अन्नाए किणणं वा ॥ वृ- ये बेडिकाया अवतारितास्ते नाविकस्य वा साधूनां वा उपरि प्रद्वेषं गच्छेयुः, यद्वा ते निवर्तमानाः तटे वा तिष्ठन्तो हरितादीनां विराधनामन्यद्वाऽधिकरणं यत् कुर्वन्ति, यद्वा स्तेनश्वापदेभ्य उपद्रवं प्राप्नुवन्ति, अवहन्तीं वा नावं यत् प्रवयिष्यन्ति, अन्यस्या वा नावः क्रयणं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् ।। परकूलाद् नावानयने दृष्टान्तमाहतो मुडो, नावं दवण अप्पणा नेति । [भा. ५६२५] कहिगा जति अक्खेवा, तत लहुगा मग्गणा पच्छा ॥ वृ- 'मज्जनगतः' स्नानं कुर्वन् मुरुण्डो राजा साधून् दृष्ट्वा नावमात्मना नयति, ततो नावारूढः साधुः कथिकाः कथयितुं लग्नः, यावन्तश्च तत्रावल्लकक्षेपास्तावन्ति चतुर्लघूनि, पञ्चाञ्च साधूनां मार्गणा तेनान्तःपुरे धर्मकथनार्थं कृता इत्यक्षरार्थः । भावार्थस्त्वयम् - पाडलिपुत्ते मरूंडो राया गंगाए नावारूढो उदगे ण्हायंतो अभिरमइ । साहुणो परकूले पासित्ता सयमेव नावं नेउंसाहुणो विलग्गावित्ता भणइ-कहं कहेह जाव न उत्तरामो। अक्खेवणाइकहालद्धिजुत्तो साहू कहेउमारद्धो । तेन कहिंतेन अक्खित्तो नावियं सन्नेइ-सणियं कड्डेहि जेण एस साहू चिरं कहेइ । साहूण कारणे सणियं गच्छंताणं जत्तिया आवल्लखेवा तत्तिया चउलहु । उत्तिन्त्रेण रन्ना अंतेउरे कहियं, जहासुंदराओ कहाओ तरङ्गवत्याद्याः कथयन्ति साधवः । अंतेउरियां कोउगं जायं । रायाणं विनवेंतिइते साहु इहमाणिजिज्ज तो अम्हे वि सुणेज्जामो । रन्ना गवेसित्ता पवेसिया साहुणो अंतेउरे ॥ तत्र च प्रविष्टानामेते दोषाः [भा. ५६२६ ] सुत्त - ऽत्थे पलिमंथो, नेगा दोसा य निवघरपवेसे । सइकरण कोण व, भुत्ता ऽभुत्ताण गमनादी ।। - सूत्राऽर्थयोः परिमन्थः, स्मृतिकरणेन कौतुकेन च भुक्ताऽभुक्तानां प्रतिगमनादयोऽनेके दोषा नृपगृहप्रवेशे भवन्ति । एते अनुकम्पायां दोषा उक्ताः । अथ प्रत्यनीकतायां दोषानाह[भा. ५६२७] वुब्मण सिंचण बोलण, कंबल-सबला य घाडितिनिमित्तं । अनुसट्टा कालगता, नागकुमारेसु उववन्ना ॥ वृ-वाहनं सेचनं बोलनं वा प्रत्यनीकेन साधूनां क्रियते तत्र सामान्येन दृष्टान्तोऽयम्-मथुरायां भण्डीरयक्षयात्रायां कम्बल- शबली वृषभौ घाटिकेन - मित्रेण जिनदासस्यानापृच्छया वाहितौ, Page #259 -------------------------------------------------------------------------- ________________ २५६ बृहत्कल्प-छेदसूत्रम् - ३-४/१३७ तन्निमित्तं सञ्जातवैराग्यौ श्रावकेणानुशिष्टौ भक्तं प्रत्याख्याय कालगती नागकुमारेषूपपन्नौ ॥ ततस्ताभ्यां किं कृतम् ? इत्याह [भा. ५६२८] वीरवरस्स भगवतो, नावारूढस्स कासि उवसग्गं । मिच्छद्दिट्ठि परद्धो, कंबल - सबलेहिं तारिओ भगवं ॥ वृ- वीरवरस्य भगवतो नावारूढस्य सुदाढो नागकुमार उपसर्गमकार्षीत् । तेन मिथ्यादृष्टिना प्रारब्धो जले बोलयितुं कम्बल-शबलाभ्यां मोचितो भगवान्। कथानकमावश्यकादवधारणीयम् । एवं नावारूढस्य साधोर्बोलनादिकं सम्भवतीति । अथ वाहनादिपदानि व्याचष्टे [भा. ५६२९] सीसगता वि न दुक्खं, करेह मज्झं ति एवमवि वोत्तुं । जा छुमंतु समुद्दे, मुंचति नावं विलग्गेसु ॥ वृ- 'सिद्धार्थका इव शिरसि गता अपि मम दुःखं न कुरुथ' एवमप्युक्त्वा कश्चित् प्रत्यनीको यदा साधवो नावं विलग्नास्तदा । नावं नदीमुखेषु मुञ्चति येन समुद्रे प्रक्षिप्यन्ते, तत्र पतिताः क्लिश्यन्तां म्रियन्तां चेति कृत्वा ।। गतं वाहनम् । अथ सेचनं बोलनं चाह [भा. ५६३०] सिंचति ते उवहिं वा, ते चेव जले छुभेज्ज उवधिं वा । मरणोवधिनिप्फन्नं, अनेसिग तणादि तरपन्नं ॥ वृ- नाविकोऽन्यो वा प्रत्यनीकस्तान् साधूनुपधिं वासिञ्चति, तानेव साधूनुपधिं वा जले प्रक्षिपेत्, बोलयेदित्यर्थः । तत्र चात्मविराधनायां मरणनिष्पन्नम्, उपधिनाशे उपधिनिष्पन्नम् । यच्चानेषणीयमुपधिं ग्रहीष्यन्ति तृणानि वा सेविष्यन्ते तन्निष्पन्नं सर्वमपि प्राप्नोति । तरपण्यं वा स मार्गयेत्, अदीयमाने चिरं निरुन्ध्यात्, दीयमानेऽधिकरणम् ॥ गताः प्रत्यनीकदोषाः । अथ 'बहवः प्रत्यपायाः' इति व्याचष्टे [ भा. ५६३१] संघट्टणाऽऽयसिंचण, उवगरणे पडणं संजमे दोसा । सावत तेने तिण्हेगतर, विराधना संजमा - SSयाए । वृत्रसादीनां सङ्घट्टना, जलेन वा सेचनमुपकरणस्यात्मनो वा, पतनं वा, एते संयमे दोषाः । श्वापदकृता स्तेनकृता वा आत्मविराधना । “तिहेगयर" त्ति अनुकम्पा - प्रत्यनीकतातदुभयादिरूपाणां त्रयाणामेकतरस्मिन् संयमविराधनाऽऽत्मविराधना च भवति । एष सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति [भा. ५६३२] तस - उदग-वणे घट्टण, सिंचण लोगे अ नावि सिंचणता । वुब्मण उवधाऽऽतुभये, मगरादि समुद्दतेना य ॥ वृ- जलोद्भवानां त्रसानाम् उदकस्य वा सेवालादिरूपस्य वनस्पतेर्वा सङ्घट्टनं भवेत् । लोकेन नाविकेन वा साधोरुपकरणस्य वा सेचनं क्रियेत । अतिसम्बाधे वा उपधेरात्मनस्तदुभयस्य वा स्ताधेऽस्ताधे वा जले “वुब्भणं” बोलनं भवति । मकरादयः श्वापदाः समुद्रस्तेनाश्च तत्र भवेयुः । इदमेव व्याचष्टे[भा. ५६३३] - ओहार-मगरादीया, घोरा तत्थ उ सावया । सरीरोवाहिमादीया, नावातेना य कत्थई ॥ वृ- ओहार-मकरादयः 'तत्र' नद्यां घोराः श्वापदा भवन्ति । ओहारः-मस्त्यविशेषः, स किल Page #260 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-१३७, [भा. ५६३३] २५७ नावमधस्तले जलस्य नयति ।शरीरहराउपधिहरावा आदिशब्दादुभयहरा वा नौस्तेनाः कुत्रापि भवेयुः, एतैरात्मन उपधेर्वा विनाशे तन्निष्पन्नंप्रायश्चित्तम्॥अथ “तिण्हेगयर"त्तिपदंव्याख्याति[भा.५६३४] सावय तेने उभयं, अनुकंपादी विराधना तिन्नि। संजम आउभयं वा, उत्तर-नावुत्तरंते वा।। वृ-श्वापदाः १ स्तेनाः २ श्वापदा अपि स्तेना अपि ३ एतत् त्रयम् । अथवा अनुकम्पया १ प्रत्यनीकतया२ अनुकम्पा-प्रत्यनीकार्थतयावा३।अथवा तिस्र विराधनाः, तद्यथा-संयमविराधना १ आत्मविराधना २ उभयविराधना वा ३ । यदि वा उदकमवतरतः १ नावारूढस्य २ नाव उत्तरतश्चेति । एतेषां त्रायाणामेकतरस्मिन् बहवः प्रत्यपाया भवन्ति । उक्तं सन्तरणम् । अथोत्तरणमाह[भा.५६३५] उत्तरणम्मि परुविते, उत्तरमाणस्स चउलहू होति । आणाइणो य दोसा, विराधना संजमा-ऽऽताए। वृ-उत्तरणं नाम-यद्नावं विना वक्ष्यमाणैः सङ्घाट्टादिभिःप्रकारैरुत्तीर्यते, तस्मिन्नुत्तरणेप्ररूपिते सति दमभिधीयते-यदि जादिनाऽप्युत्तरति तदा चतुर्लघु, आज्ञादयश्च दोषाः, संयमाऽऽत्मविराधना च भवति ॥ तस्य चोत्तरणस्यैते भेदाः[भा.५६३६] जंघद्धा संघट्टो, संघटुवरिं तु लेवो जा नाभी। तेन परं लेवोवरि, तुंबोडुव नाववज्जेसु॥ . वृ-यस्मिन्जले उत्तरतांपादतलादारभ्य जवाया अर्द्ध बुडतिस सट्टः । तस्यैव सङ्घट्टस्यपरि यावद् नाभिरेतावद् यत्र प्रविशतिस लेपः । ततः परं' नाभेराभ्योपरि सर्वमपिलेपोपरिभण्यते। तच्च द्विधा-स्ताघमस्तापं च । यत्र नासिका न ब्रुडति तत् स्ताघम्, यत्र तु नासिका ब्रुडति तद् अस्ताघम् । तच्च तुम्बोडुपादिभिर्नीवर्जितैर्य उत्तीर्यते तद् उत्तरणं मन्तव्यम् । तत्रोत्तरणे एते संयमा-ऽऽत्मविराधनादोषाः॥ [भा.५६३७] संघट्टणा य सिंचण, उवगरणे पडण संजमे दोसा। चिक्खल्ल खाणु कंटग, सावत भय वुब्भणे आया। वृ-लोकेन साधोःसट्टनं भवेत्, साधुर्वाजलं सट्टयेत्, सङ्घट्टनग्रहणात् परितापनमपद्रावणं चसूचितम्, एतेषु कायनिष्पन्नंप्रायश्चित्तम्।प्रत्यनीकःसाधुमुपधिवासिञ्चति, स्वयंवा साधुरात्मानं सिञ्चेत्, साधोरुपकरणस्य जलेपतनम्, एते संयमेदोषाः।तथा चिक्खल्लेय निमज्जति, जलमध्ये वाचक्षुरविषयतयास्थाणुना कण्टकेन वा यद्विध्यते, मकरादिश्वापदभयंवा भवति, नदीवाहेन वा वाहनम्, एषा सर्वाऽप्यात्मविराधना॥ मू. (१३८)अह पुन एवंजाणिज्जा-एरवइ कुणालाए जत्थ चक्किया एगं पायंजले किच्चा एगं पायं थले किच्चा एवण्हं कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा; एवं नो चक्किया एवण्हं नो कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा॥ वृ-अथपुनरेवंजानीयात्-ऐरावती नाम नदी कुणालाया नगर्या समीपे जङ्घार्द्धप्रमाणेनोद्वेधेन | 2017 Page #261 -------------------------------------------------------------------------- ________________ २५८ बृहत्कल्प-छेदसूत्रम् -३-४/१३८ वहति तस्यामन्ययां वा यत्रैवं “चक्किया" शक्नुयात् उत्तरीतुमिति शेषः । कथम्? इत्याह-एकं पादं जले कृत्वा एकं पादं 'स्थले' आकाशे कृत्वा, “एवण्ह"मिति वाक्यालङ्कारे, यत्रोत्तरीतुं शक्नुयात् तत्र कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा 'उत्तरीतुं' लयितुं 'सन्तरीतुंवा' भूयः प्रत्यागन्तुम् । यत्र पुनरेवमुत्तरीतुं न शक्नुयात् तत्र नो कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुंवा सन्तरीतुं वा इति सूत्रार्थ ॥अथ भाष्यकृद् विषमपदानि व्याचष्टे[भा.५६३८] एरवइ जम्हि चक्किय, जल-थलकरणे इमं तु नाणत्तं। . एगो जलम्मि एगो, थलम्मि इहइंथलाऽऽगासं॥ कृ-ऐरावतीनाम नदी, यस्यांजल-स्थलयोःपादकरणेनोत्तरीतुंशक्यम्। इदमेव चात्र नानात्वम्यत्पूर्वसूत्रोक्तासु महानदीषु मासान्तौं त्रीन् वा वारान् उत्तरीतुंन कल्पते, अस्यां तु कल्पते। यचात्र ‘एको जले एकश्च पादः स्थले' इत्युक्तं तद् इह स्थलमाकाशमुच्यते ॥ [भा.५६३९] एरवइ कुणालाए, वित्थिन्ना अद्धजोअणं वहति। कप्पति तत्थ अपुन्ने, गंतुंजा वेरिसी अन्ना ॥ कृ-ऐरावतीनदीकुणालानगर्याअदूरेऽर्द्धयोजनं विस्तीर्णावहति, साचोद्वेधेनजवार्द्धप्रमाणा, तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे त्रिकृत्वो भिक्षाग्रहण-लेपानयनादौ कार्ये यतनया गन्तुं कल्पते ।या वाईशी अन्याऽपि नदी तस्यामपि त्रिकृत्वो गन्तुंकल्पते॥ कृता विषमपदव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तरः[भा.५६४०] संकम थले य नोथल, पासाणजले य वालुगजले य। सुद्धदगपंकमीसे, परित्तऽनंते तसा चेव॥ कृनदीमुत्तरतस्त्रयः पन्थानः, तद्यथा-सङ्क्रमः १स्थलंश्नोस्थलं३चातत्रयद्एकाङ्गिकादिना सङ्क्रमेण गम्यते स सङ्क्रमः । स्थलं नाम-नद्याः कूपरण वरणेन वा यद् नदीजलं परिहत्य गम्यते।नोस्थलं चतुर्विधम्-पाषाणजलं वालुकाजलं शुद्धोदकं पङ्कमिश्रजलम् । एतेषु चतुर्वपि गच्छतां यथासम्भवंपरीत्ता-ऽननतकायास्त्रसाश्च विराधनां प्राप्नुवन्ति ॥तथा. [भा.५६४१] उदए चिक्खल्ल परित्त-ऽनंतकाइग तसे तमीसेत। - अकंतमणकंते, संजोए होति अप्पबहुं॥ कृ-उदकेचिक्खल्लादिकः पृथिवीकायः वनस्पतयश्चपरीत्तकायिकाअनन्तकायिकावात्रसाश्च द्वीन्द्रियादयो भवेयुः । एते च सर्वेऽपि यथासम्भवं मिश्रा सचित्ता वा आक्रान्ता अनाक्रान्ता वा स्थिराअस्थिरावासप्रत्यपाया निष्प्रत्यपायावा भवेयुः। एतेषुचबहवः संयोगाउपयुज्यवक्तव्याः। तेषु यत्राल्पबहुत्वं भवति, अल्पतराः संयमा-ऽऽत्मविराधनादोषा बहवश्च गुणा भवन्तीत्यर्थः तत्र कारणे समुत्पन्ने गन्तव्यम् ॥यत्रच सङ्क्रमो भवति तत्रामी भङ्गविकल्पा भवेयुः[भा.५६४२] एगंगिय चल थिर पारिसाडि सालंब वजि सभए। .. पडिपक्खेसुतगमनं, तज्जातियरे व संडेवा॥ वृ-सङ्क्रम एकाङ्गिको वा स्यादनेकाङ्गिको वा । एकाङ्गिकः-य एकेन फलकादिना कृतः, अनेकानिकः-अनेकफलकादिनिर्मितः । अत्रैकाविडेन गन्तव्यं नानेकाहिकेन, एवं स्थिरेणनच चलेन,अपरिशाटिनानपरिशाटिना, सालम्बेनगन्तव्यंन वजितेन निरालम्बेनेत्यर्थः।सालम्बोऽपि Page #262 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१३८, [भा. ५६४२] २५९ द्विधा-एकतः सालम्बो द्विधा सालम्बश्च । पूर्व द्विधा सालम्बेन, तत एकतः सालम्बेनापि तथा निर्भयेनगन्तव्यंनसभयेन।अतएवाह-“पडिपखेसुयगमणं"ति अनेकाङ्गिक-चल-परिशाटिनिरालम्ब-समयाख्यानां पञ्चानां पदानां ये एकाङ्गिकादयः प्रतिपक्षास्तेषु गमनं कर्तव्यम् । अत्र पञ्चभि पदैर्वात्रिंशद् भङ्गाः-एकाङ्गिकः स्थिरोऽपरिशाटी सालम्बो निर्भय इत्यादि । एषु प्रथमो भङ्गःशुद्धःशेषा अशुद्धाः,तेष्वपिबहुगुणरेषुगमनंयतनाच कर्तव्या।सण्डेवकाअपिसङ्क्रमभेद एव, अत आह-तज्जातकाः 'इतरे वा' अथजातकाः सण्डेवका भवेयुः । तत्रैव जातास्तज्जाताः शिलादयः, अन्यतः स्थानादानीय स्थापिता अतज्जाताः इट्टालकादयः । तेष्वपि चा-ऽचलाऽऽक्रान्ता-ऽना-क्रान्तादयो भेदाः कर्तव्याः ।। उक्तः सङ्क्रमः । अथ स्थलमाह[भा.५६४३] निदकोप्पर वरणेण व, थलमुदयं नोथलं तुतं चउहा। उवलजल वालुगजलं, सुद्धमही पंकमुदगंच॥ -नद्याआकुण्टितकूर्पराकारंवलनंनदीकूपरमुच्यते।जलोपरिकपाटानिमुक्त्वापालिबन्धः क्रियते स वरण उच्यते । एताभ्यां यदुदकंपरिहत्य गम्यते तत् स्थलं द्रष्टव्यम् । अथ नोस्थलं तत् चतुर्विधम्-'उपलजलम्' अधः पाषाणा उपरि जलं १ वालुकाजलम्' अधो वालुका उपरि पानीयं २ 'शुद्धोदकं' अधः शुद्धा मही उपरिजलं ३ 'पदोदकं अधः कर्दम उपरिजलम् ४॥ पोदकस्य चामूनि विधानानि[भा.५६४४] लत्तगपहे य खुलए, तहऽद्धजंघाए जानुउवरिंच। लेवेय लेवउवरिं, अक्तादी उसंजोगा। ह-यावन्मात्रमलक्तकेन पादोरज्यतेतावन्मात्रोयत्रपथिकर्दमः सलत्तकपथः।खुलकमात्रःपादघुण्टकप्रमाणः। अर्द्धजजामात्रः-जवाड़यावद्भवति । 'जानूपरि जानुमात्रंयावद्भवति। 'लेपः' नाभिप्रमाणः । तत ऊर्ध्व सर्वोऽपि लेपोपरि । एते सर्वेऽपि कर्दमप्रकाराः। चतुर्विधे नोस्थले कर्दमे चाक्रान्ता-ऽनाक्रान्त-सभय-निर्भयादयः संयोगा यथासम्भवं वक्तव्याः । अमुना दोषेण युक्तः पन्थाः परिहर्तव्यः ।। [भा.५६४५] जो विय होतऽक्कतो, हरियादि-एतेहि चेव परिहीनो। तेन वितुन गंतव्वं, जत्थ अवाया इमे होति॥ वृ-योऽपि च पन्थाः ‘आक्रान्तः' दरमलितो हरितादिमिस्त्रसैश्च परिहीणो भवति तेनापि न गन्तव्यम् । यत्र अमी अपाया भवन्ति॥ [भा.५६४६] गिरिनदि पुत्रा वाला-ऽहि-कंटगा दूरपारमावत्ता। चिखल्ल कल्लुगाणि य, गारा सेवाल उवला य॥ वृ-यत्र पथि गिरिनदी पूर्णा' तीव्रवेगा वहति, मकरादयो व्याला अहयो वा यत्र जलमध्ये भवनत्, कण्टका वा पूरेणानीताः, दूरपारम् आवर्तबहुलं वा जलं भवेत्, चिक्खल्लो वा नदीषु ताशोयत्रपादोनिमज्जति, कल्लुकाः' गाथायांनपुंसकत्वंप्राकृतत्वात्पाषाणेषुद्वीन्द्रियजातिविशेषा . भवन्ति ते पादौ छेदयन्ति, 'गाराः' पाषाणभृङ्गिकाः, “सेवालः' प्रसिद्धः ‘उपलाः' छित्रपाषाणाः एभिरपायैर्वर्जितेन पूर्वंस्थलेन गन्तव्यम्, तदभावे सङ्क्रमेण, तदभावे नोस्थलेनापि ।। तत्र चतुर्विधे नोस्थले पूर्वममुना गन्तव्यम् Page #263 -------------------------------------------------------------------------- ________________ २६० बृहत्कल्प-छेदसूत्रम् - ३-४/१३८ [भा. ५६४७ ] उवलजलेण तु पुव्वं, अक्कंत-निरच्चएण गंतव्वं । तस्सऽसति अनक्कंते, निरञ्च्चएणं तु गंतव्वं ॥ वृ- उपलजले कर्दमो न भवति, स्थिरसंहननं च तद् द्भवति, अतः पूर्वं तेन ‘आक्रान्त-निरत्येन' क्षुन्न- निष्प्रत्यपायेन गन्तव्यम् । तस्याभावे अनाक्रान्त-निरत्ययेनापि गन्तव्यम् ॥ भा (५६४८ ] एमेव सेसएस वि, सिगतजलादीहि होंति संजोगा । पंक महुसित्य लत्तग, खुलऽद्धजंघा य जंघाय ॥ वृ- उपलाद् वालुका अल्पसंहनना, तत उपलजलाभावे वालुकाजलेन गन्तव्यम् । वालुकायाः शुद्धपृथिवी स्वल्पतरसंहनना, ततो वालुकाजलानन्तरं शुद्धोदकेन गम्यते । तेष्वपि सिकताजलादिषु शेषपदेषु 'एवमेव' प्राग्वद् आक्रान्ता ऽनाक्रान्तादयः संयोगा भवन्ति । पङ्कजलं बहुप्रत्यपायम्, अतः सर्वेषामुपलजलादीनामभावे तेन गम्यते । स च यः 'मधुसिक्थाकृति' क्रमतलयोरेव केवलं लगति यो वा अलक्तकमात्रस्तेन पूर्वं गम्यते, पश्चात् खुलकमात्रेण, पश्चादर्द्धजङ्घामात्रेण, ततो जङ्घामात्रेण जानुप्रमाणेनेत्यर्थः । यस्तु जानुप्रमाणादुपरि पङ्कस्तेन न गन्तव्यम्, यत आह[ भा. ५६४९ ] अड्ढोरुतमित्तातो, जो खलु उवरिं तु कद्दमो होति । कंटादिजढो वि य सो, अत्थाहजलं व सावायं ॥ वृ- 'अर्धोरुकमात्राद्' जानुप्रमाणादुपरि यः कर्दमो भवति स कण्टकाद्यपायवर्जितोऽप्यस्ताघजलमिव गन्तुमशक्यत्वात् सापायो मन्तव्यः । एष विधिः सर्वोऽपि सच्चित्तपृथिव्यामक्तः । अथाचित्तपृथिव्यां तमेवाह [भा. ५६५० ] जत्थ अचित्ता पुढवी, तहियं आउ-तरुजीवसंजोगा । जोनिपरित्त - थिरेहि य, अक्कंत-निरच्चएहिं च । वृ-यत्र पृथिवी अचित्ता तत्राप्कायजीवानां तरुजीवानां च संयोगाः कर्तव्याः । तद्यथा- पृथिवी सर्वत्राप्यचित्ता किमप्कायेन गच्छतु ? किं वा वनस्पतिना ? उच्यते - अप्काये नियमाद् वनस्पतिरस्ति तस्मात् तेन मा गात्, वनस्पतिना गच्छतु, तत्रापि परीत्तयोनिकेन स्थिरसंहननेन आक्रान्तेन निरत्ययेन च निष्प्रत्यपायेन । अत्र षोडश भङ्गाः, तद्यथा - प्रत्येकयोनिकः स्थिर आक्रान्त M निप्रत्यपायः, एष प्रथमो भङ्गः, सप्रत्यपायेन द्वितीयः, अनाक्रान्तेऽप्येवमेव द्वौ विकल्पौ, एवं स्थिरे चत्वारो विकल्पाः लब्धाः, अस्थिरेऽप्येवं चत्वारः, एते प्रत्येकयोनिकेनाष्टौ भङ्गा लब्धाः, अनन्तयोनिकेऽप्येवमेवाष्टौ लभ्यन्ते, एवं सर्वसङ्ख्यया वनस्पतिकाये परीत्तादिभिः पदैः षोडश भङ्गा भवन्ति ॥ अथाप्कायस्य त्रसानां च संयोगानाह [ मा. ५६५१] एमेव य संजोगा, उदगस्स चउव्विहेहि तु तसेहिं । अक्कंत-थिरसरीरे - चिरच्चएहि तु गंतव्वं ॥ वृ- चतुर्विधास्त्रसाः द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रयाः पञ्चेन्द्रियाश्चेति । एतैश्चतुर्विधैरपि त्रसैराक्रान्तादिभिः पदैरेवमेव उदकेन सह संयोगाः कार्या, तद्यथा - आक्रान्ताः स्थिरा निप्रत्यपायाः १ आक्रान्ताः स्थिराः सप्रत्यपायाः २ एवं त्रिभिः पदैरष्टौ भङ्गा भवन्ति, एते च द्वीन्द्रियादिषु चतुर्ष्वपि प्रत्येकमष्टावष्टौ लभ्यन्ते, जाता भङ्गकानां द्वात्रिंशत् । अथ सान्तरनिरन्तरविकल्पविवक्षा क्रियते ततश्चतुःषष्टिः संयोगा उत्तिष्ठन्ते । अत्र चाक्रान्त-स्थिरशरीरनिरत्ययैः सान्तरैस्त्रसैर्गन्तव्यं - Page #264 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - १३८, [ भा. ५६५१] नाकायेन ॥ [भा. ५६५२] ऊ- वाउविहूणा, एवं सेसा वि सव्वसंजोगा । उदगस्स उ कायव्वा, जेनऽ हिगारो इहं उदए । वृ- 'तेजो- वायुकाययोर्गमनेन सम्भवति' इति कृत्वा तेजो- वायुविहीना एवं शेषा अपि संयोगाः सर्वेऽपि कर्तव्याः । तत्राप्कायस्य वनस्पतिना त्रसैश्च सह भङ्गका उक्ताः, अथ वनस्पति-त्रसानां द्विकसंयोगेन भङ्गा उच्यन्ते किं वनस्पती गम्यताम् ? उत त्रसेषु ? उच्यते- त्रसेषु सान्तरेषु गन्तव्यम्, पुनर्वनस्पती, तत्र हि नियमेन त्रसा भवेयुः । आह च निशीथचूर्णिकृत् - पुव्वं तसेसु थिराइसु गंतव्वं, जतो वने वि नियमा तसा अत्थि । पृथिव्यप्काय-वनस्पतित्रयसम्भवे कतमेन गम्यताम् ? उच्यते- पूर्वं पृथिवीकायेन, ततो वनस्पतिना, ततोऽप्कायेनापि । पृथिव्युदक-वनस्पतित्रसलक्षणचतुष्कसंयोगसम्भवे कथमेन गन्तव्यम् ? उच्यते- पूर्वमचित्तपृथिव्यां प्रविरलत्रसेषु, ततः सचित्तपृथिव्याम्, ततो वनस्पतिना, ततोऽप्कायेनापि गम्यम् । एवमिह बहुभङ्गविस्तरे बीजमात्रमिदमुक्तम् । ह च उदकपदममुञ्चता ये भङ्गाः प्राप्यन्ते ते कर्तव्याः, येनेह सूत्रे उदकस्याधिकारः । शेषास्तु विनेयव्युत्पादनार्थमभिहिताः ।। "अंतो मासस्स दुक्खुत्तो वा" इत्यादि सूत्रं व्याख्याति [भा. ५६५३] एरवइ जत्थ चक्किय, तारिसए न उवहम्मती खेत्तं । पडिसिद्धं उत्तरणं, पुन्त्रासति खेत्तऽणुन्नायं ॥ २६१ वृ- या एरावती नदी कुणालाजनपदे योजनार्द्धविस्तीर्णा जङ्घार्द्धमानमुदकं वहति तस्याः केचित् प्रदेशाः शुष्का न तत्रोदकमस्ति तामुत्तीर्य यदि भिक्षाचर्यां गम्यते तदा ऋतुबद्धे त्रय उदकसङ्घट्टाः, ते च गता-ऽऽगतेन षड् भवन्ति; वर्षासु सप्त दकसङ्घट्टाः, ते च गता-S T-SSगतेन चतुर्दश भवन्ति । एवमीद्दशे सङ्घट्टप्रमाणे क्षेत्रं नोपहन्यते, इत एकेनाप्यिके सङ्घट्टे उपहन्यते । अन्यत्रापि यत्राधिकतराः सङ्घट्टास्तत्रोत्तरणं प्रतिषिद्धम् । पूर्णे मासकल्पे वर्षावासे वा यद्यनुत्तीर्णानामपरं मासकल्पप्रायोग्यं क्षेत्रमस्ति ततो नोत्तरणीयम् । अथानुत्तीर्णानामन्यत् क्षेत्रं नास्ति ततोऽसति क्षेत्रे उत्तरणमनुज्ञातम् ॥ इदमेव व्याचष्टे [भा. ५६५४] सत्त उवासासु भवे, दगघट्टा तिन्नि होंति उडुबद्धे । जे तु न हणंति खेत्तं, भिक्खायरियं व न हणंति ॥ वृ- सप्तोदकसङ्घट्टा वर्षासु त्रयः शङ्खट्टा ऋतुद्धे भवन्ति एतावन्तः क्षेत्रं नोपघ्नन्ति, न वा भिक्षाचर्यामुपघ्नन्ति ॥ [ भा. ५६५५ ] जह कारणम्मि पुत्रे, अंतो तह कारणम्मि असिवादी । उवहिस्स गहण लिंपण, नावोयग तं पि जतणाए । वृ- यथा कारणे पूर्णे मासकल्पे वर्षावासे वाऽपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभि कारणैरुपधेर्वा ग्रहणार्थं लेपस्यानयनार्थं वा उत्तरणीयम् । कारणे यत्र नावाऽप्युदकं तीर्यते तत्रापि यतनया सन्तरणीयम् ॥ तत्र चायं विधि [भा. ५६५६] नाव थल लेवहेट्ठा, लेवो वा उवरि एव लेवस्स दोन्नी दिवमेकं, अद्धं नावाए परिहाती ॥ Page #265 -------------------------------------------------------------------------- ________________ २६२ बृहत्कल्प-छेदसूत्रम् - ३-४/१३८ वृ- अत्र पूर्वार्द्ध-पश्चार्द्धपदानां यथासङ्घयेन योजना-नावुत्तरणस्थानाद् यदि द्वे योजने वक्रं स्थलेन गम्यते तेन गन्तव्यं न च नौरारोढव्या, "लेवहिट्ठ'' त्ति लेपस्याधस्ताद् दकसङ्घट्टेन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत्, एवं योजनपर्याहारेण लेपेन गच्छतु मा च नावमधिरुहत्, अर्द्धयोजनपर्यवहारेण लेपोपरिणा गच्छेत् न च नावमधिरोहेत्; एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते । एवमेव लेपोपरिस्थानात् सार्द्धयोजन परिहारेण स्थलेन, एकयोजनपरिरयेण सङ्घट्टेन, अर्द्धयोजनपरिहारेण वा लेपेन गम्यतां न च लेपोपरिणा । लेपोत्तरणस्थानादेकयोजनपर्यवहारेण स्थलेन, अर्द्धयोजन परिहारेण वा सङ्घट्टेन गन्तव्यं न लेपेन । सङ्घट्टोत्तरणस्थानादर्द्धयोजनपर्यवहारेण स्थलेन गम्यतां न च सङ्घट्टेन । एतेषां परिहारपरिमाणानामभावे नावा लेपोपरिणा लेपेन सङ्घट्टेन वा गम्यते न कश्चिद्दोषः ॥ अत्र " नाव थल "त्ति पदं व्याचष्टे [ भा. ५६५७ ] दो जोयणाइं गंतुं, जहियं गम्मति थलेण तेन वए । माय दुरूहे नावं, तत्थावाया बहू वुत्ता ॥ वृ द्वे योजने गत्वा यत्र स्थलेन गम्यते तेन पथा व्रजेद् माच नावमारोहत् । यतस्तत्र बहवोऽपायाः पूर्वमेवोक्ताः । कारणे तु तत्रापि गम्यते । तत्र सङ्घट्टे गच्छतां तावद् यतनामाह [ भा. ५६५८ ] थलसंकमणे जयणा, पलोयणा पुच्छिऊण उत्तरणं । परिपुच्छिऊण गमनं, जति पंथो तेन जतनाए । वृ- स्थलसङ्क्रमणे यतना कार्या, एकं पादं जले एकं च पादं स्थले कुर्यादित्यर्थः । प्रलोकना नाम - लोकमुत्तरन्तं प्रलोकयति, यस्मिन् पार्श्वे जङ्घार्द्धमात्रमुदकं तत्र गच्छति । अथोत्तरतो न पश्यति ततः प्रातिपथिकमन्यं वा पृच्छति, ततो यत्र नीचतरमुदकं तत्रोत्तरणं विधेयम् । "परिपुच्छिऊण" इत्यादि, यदि तस्योदकस्य परिहारेण पन्था विद्यते तदा तं परित्यज्य यतनया तेन गन्तव्यम् ।। अथ स्थलपथेऽमी दोषा भवेयुः [ भा. ५६५९ ] समुदानं पंथो वा, वसही वा थलपथेण जति नत्थि । सावत- तेनभयं वा, संघदेणं ततो गच्छे ॥ वृ- 'समुदानं' भिक्षा तत्र नास्ति, स्थलपथ एव वा नास्त, वसतिर्वा स्थलपथे यदि न समस्ति, श्राव भयं स्तेनभयं वा तत्र विद्यते ततः स्थलपथं मुक्त्वा सङ्घट्टेन प्रथमतो गच्छेत्, तदभावे लेपेन । तत्रेयं यतना[भा. ५६६० ] 4 निभये गारत्थीणं, तु मग्गतो चोलपट्टमुस्सारे । सभ अथग्घे वा, उत्तिनेसुं घनं पट्टं ॥ वृ- यदि स साधुर्गृहिसार्थसहायस्तत उदकसमीपं गत्वोर्द्धकायं मुखवस्त्रिकयाऽघः कार्य रजोहरणेन प्रमाज्योर्पकरणमेकतः कृत्वा यदि निर्भयं चौरभयं नास्ति ततो गृहस्थानां 'मार्गतः' सर्वपश्चादुदकमवतरति । यथा यथा चोण्डमुण्डतरं जलमवगाहते तथा तथोपर्युपरि चोलपट्टकमुत्सारयेद् येन न तीम्यते । अथ तत्र सभयम् अस्ताधं वा जलं ततो यदा कियन्तोऽपि गृहस्था अग्रतोऽवतीर्णास्तदा मध्ये साधुनाऽवतरणीयम् चोलपट्टकं च 'घनं' ढं बघ्नीयात् ॥ एतेन विधिनोत्तीर्णस्य यदि चोपट्टकोऽन्यद्वा किञ्चिदुपकरणजातं तीमितं तदाऽयं विधिः Page #266 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१३८, [भा. ५६६१] २६३ [भा.५६६१] दगतीरे वा चिट्टे, निप्पगलो जाव चोलपट्टोतु। .. सभए पलंबमाणं, गच्छति काएण अफुसंतो॥ वृ-'दकतीरे' स्निग्धपृथिव्यामप्कायरक्षणार्थंतावत् तिष्ठेत्यावत् चोलपट्टकोऽन्यद्वोपकरणं निष्प्रगलं भवति।अथ तत्र तिष्ठतः सभयंततः प्रगलन्तमेवतंचोलपट्टकं कायेनास्पृशन्बाहायां प्रलम्बमानं नयन् गच्छति ॥ यत्र सार्थविरहित एकाकी समुत्तरति तत्रायं विधिः[भा.५६६२] असइ गिहि नालियाए, आणक्खेउं पुनो विपडियरणं । एगाभोगंच करे, उवकरमंलेव उवरिंवा॥ कृ-गृहिणामभावेसर्वोपकरणमवतरणतीरे मुक्त्वा नालिकां-आत्मप्रमाणात्चतुरङ्गुलातिरिक्तां यष्टिं गृहीत्वा तया “आनक्खेउं" अस्ताघतामनुमीय परतीरात् पुनरपिजले प्रतिचरणं करोति, प्रत्यागच्छतीत्यर्थः; आगत्य च तदुपकरणमेकाभोगं करोति, एकत्र नियन्त्रयतीत्यर्थः; ततस्तद् गृहीत्वा तेन परीक्षितजलपथेनोत्तरति । एष लेपे लेपोपरौ वा विधिरुक्तः॥ अथ नावं यैः कारणैरारोहेत् तानि दर्शयति[भा.५६६३] बिइयपय तेन सावय, भिक्खेवा कारणे व आगाढे। कज्जवहि मगर छुब्मण, नावोदगतं पिजतनाए। वृ-द्वितीयपदमत्रोच्यते-स्थल-सट्टादिपथेषु शरीरोपधिस्तेनाः सिंहादयोवाश्वापदा भवेयुः, भैक्षं वा न लभ्यते, आगाढं वा कारणम्-अहिदष्ट-विष-विसूचिकादिकं भवेत् तत्र त्वरितमौषधान्यानेतव्यानि, कुलादिकार्यं वा अक्षेपेण करणीयमुपस्थितम्, उपधेरुत्पादनाथवा गन्तव्यम्, लेपे लेपोपरौ वा मकरभयं ततो नावमारोहेत् । तत् च प्रथममेवोपकरणमेकाभोगं कुर्यात् । कुतः? इत्याह-“छुब्मण"त्ति कदाचित्प्रत्यनीकन उदके प्रक्षिप्येत, तत एकाभोगकृतेषुभाजनेषु विलग्नस्तरतीति । “नावोदगतंपिजयणाए"त्तियदिबलाभियोगेन नावुदकस्योत्सेचापन कार्यत तदा तदपि यतनया कर्तव्यम् । कथं पुनरेकाभोगमुपकरणं करोति? इत्याह[भा.५६६४] पुरतो दुरुहणमेगतो, पडिलेहा पुव्व पच्छ समगंवा । सीसे मग्गतो मज्झे, बितियं उवकरण जयणाए। वृ-गृहिणांपुरत उपकरणं न प्रत्युपेक्षते, न वा एकाभोगं करोति । "दुरुहण"तिनावमारो दुकामेन एकान्तमपक्रम्योपकरणं प्रत्युपेक्षणीयम् । “पडिलेह"त्ति ततोऽधःकायं रजोहरणेन उपरिकार्यमुखानन्तकेन प्रमृज्य भाजनान्येकत्रबध्नाति, तेषामुपरिष्टादुपधिं सुनियन्त्रितं करोति। "पुव्व पच्छ समगं व" ति किं गृहिभ्यः पूर्वमारोढव्यम् ? उत पश्चात् ? उताहो समकम् ? अत्रोत्तरम्-यदि भद्रका नाविकादयो यदि च स्थिरा नौर्न दोलायते ततः पूर्वमारोढव्यम्; अथ प्रान्ताः ततः पूर्वं नारुह्यते, मा 'अमङ्गलम्' इति कृत्वा प्रद्वेषं गमन्, तेषां प्रान्तानां भावं ज्ञात्वा समकंपश्चाद्वाआरोहणीयम् । “सीसे"त्ति नावः शिरसिनस्थातव्यम्, देवतास्थानंतदितिकृत्वा; मार्गतोऽपि न स्थातव्यम्, निर्यामकस्तत्तर तिष्ठतीति कृत्वा; मध्येऽपि यत्र कूपकस्थानं तत्र न स्थातव्यम्, तद् मुक्त्वा यद् अपरंमध्ये स्थानं तत्रस्येयम् । अथ मध्ये नास्ति स्थानं ततः शिरसि पृष्ठतोवायत्रतेस्थापयन्तितत्र निराबाधे स्थीयते।साकारंसक्तंप्रत्याख्याय नमस्कारपरस्तिष्ठति। उत्तरन्नपि न पूर्वमुत्तरति न वा पश्चात् किन्तु मध्ये उत्तरति । सारोपधिश्च पूर्वमेवाल्पसागारिकः Page #267 -------------------------------------------------------------------------- ________________ २६४ बृहत्कल्प-छेदसूत्रम् -३-४/१३८ क्रियते, यद् अन्तप्रान्तं चीवरं तत् प्रावृणोति । यदि च तरपण्यं नाविको मार्गयति तदा धर्मकथाऽनुशिष्टिश्च क्रियते।अथ न मुञ्चति ततोद्वितीयपदे यद्अन्तप्रान्तमुपकरणं तद्द्यतनया दातव्यम् । अथ तद् नेच्छति निरुणद्धि वा ततोऽनुकम्पया यदि अन्यो ददाति तदा न वारणीयः। मू. (१३९) से तणेसु वा तणपुंजेसु वा पलालेसु वा पलालपुंजेसु वा अप्पडेसु अप्पपाणेसु अप्पबीएसुअप्पहरिएसु अप्पुस्सेसुअप्पुत्तिंग-पणग-दगमट्टिय-मक्कडगसंताणएसुअहेसवणमायाए नो कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उवस्सए हेमंतगिम्हासु वत्थए॥ . मू. (१४०) से तणेसु वा जाव संताणएसु उप्पिंसवणमायाए कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उवस्सए हेमंत-गिम्हासु वत्थए । मू. (१४१) से तणेसु वा जाव संताणएसु अहेरयणीमुक्कमउडेसु नो कप्पइ निग्गंधाण वा निग्गंथीण वा तहप्पगारे उवस्सए वासावासं वत्थए। मू. (१४२) सेतणेसु वाजावसंताणएसुउपिरयणीमुक्कमउडेसुकप्पइनिग्गंथाणयनिग्गंथीण यतहप्पगारे उवस्सए वासावासं वत्थए । वृ-अस्य सूत्रचतुष्टयस्य सम्बन्धमाह[भा.५६६५] अद्धाणातो निलयं, उविति तहियं तु दो इमे सुत्ता। तत्थ वि उडुम्मि पढमं, उडुम्मि दूइज्जणा जेनं। वृ-पूर्वसूत्रे अध्वा' जलपथलक्षणः प्रकृतस्तत उत्तीर्णा 'निलयम्' उपाश्रयमुपागच्छन्ति । तद्विषयेच ऋतुबद्ध-वर्षावासयोःप्रत्येकमिमेद्वे सूत्रेआरभ्येते।तत्रापिप्रथमंसूत्रद्वयमूतुबद्धविषयं द्वियंवर्षावासविषयम्।कुतः? इत्याह-ऋतुबद्धेयेनकारणेन “दूइज्जणा"विहारोभवतेनवर्षावासे, पूर्वसूत्रेचविहारोऽधिकृतः,अतः सम्बन्धानुलोम्येनपूर्वमृतुबद्धसूत्रद्वयंततोवर्षावाससूत्रद्वयमिति। [भा.५६६६] अहवा अद्धाणविही, वुत्तो वसहीविहिं इमं भणई। सावी पुव्वं वुत्ता, इह उ पमाणं दुविह काले॥ वृ-अथवाऽध्वनि विधिः पूर्वसूत्रे उक्तः, इमंतुपरस्तुतसूत्रे वसतिविधि भणति । साऽपिच वसति 'पूर्व प्रथमोद्देशकादिष्वनेकशः प्रोक्ता, इह तु द्विविधेऽपि' ऋतुबद्ध-वर्षावासलक्षणे काले तस्याः प्रमाणमुच्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ तृणेषु वा तृणपुजेषुवा पलालेषु वा पलालपुओषु वा अल्पाण्डेषु अल्पप्रणाणेषु । इह अण्डकानि पिपीलिकादीनाम्, प्राणाः-द्वीन्द्रियादयः, बीजम्-अनङ्गुरितम्, तदेवाङ्गुरितोद्भिन्नहरितम्, अवश्यायः-स्नेहः, उत्तिङ्गकीटिकानगरम्, पनकः-पञ्चवर्ण-साङ्कुरोऽनडरोवाऽनन्तवनस्पतिविशेषः, दकमृत्तिका-सचित्तो मिश्रो वा कर्दमः, मर्कटकः-कोलिकस्तस्य सन्तानकं-जालकम् ।अल्पशब्दश्चेह सर्वत्राभावचनः, ततोऽण्डरहितेषुप्राणरहितेषु इत्यादि मन्तव्यम् । “अहेसवणमायाए"त्ति "अधःश्रवणमात्रया श्रवणयोरधस्ताद् यत्र छादनतृणादीनि भवन्ति तथाप्रकारे उपाश्रये नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्त-ग्रीष्मेषु वस्तुम्, अष्टावृतुबद्धमासानित्यर्थः॥ एवंप्रतिषेधसूत्रमभिधायप्रपञ्चितज्ञविनेयानुग्रहार्थं विधिसूत्रमाह-अथ तृणेषुवायावदल्प० सन्तानकेषु उपरिश्रवणमात्रया युक्तेषु तथाविधोपाश्रये कल्पते हेमन्त-ग्रीष्मेषु वस्तुम् ॥ एवमृतुबद्धसूत्रद्वयं व्याख्यातम्।अथ वर्षावाससूत्रद्वयं व्याख्यायते-अथ तृणेषुवातृणपुजेषु Page #268 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-१४२, [भा. ५६६६] वा यावदल्प-सन्तानकेषु “अधेरयणीमुक्कमउडेसु"त्ति अञ्जलिमुकुलितं बाहुद्वयमुच्छ्रितं मुकुट उच्यतेस च हस्तद्वयप्रमाणः । यदाह बृहद्भाष्यकृत्मउडोपुनदोरयणी, पमाणतोहोइ हूमुणेयव्यो। ___ रनिभ्यां-हस्ताभ्यां मुक्ताभ्यां-उच्छ्रिताभ्यां यो निर्मितो मुकुटः स रलिमुक्तमुकुटः । एतावप्रमाणमधस्तादुपरिच यत्रान्तरालंन प्राप्यतेतेष्वघोरलिमुक्तमुकुटेषुतृणादिषुन कल्पते वर्षावासे वस्तुम् ॥अथ तृणेषुवायावदल्प० सन्तानकेषुउपरिरलिमुक्तमुकुटेषुयथोक्तप्रमाणेषु मुकुटोपरिवर्तिषु संस्तारके निविष्टस्य साधोरर्धतृतीयहस्ताद्यपान्तरालयुक्तेष्वित्यर्थः । ईश्यां वसतौ कल्पते वर्षावासे वस्तुमिति सूत्रचतुष्टयार्थः॥अथ भाष्यकारः प्रथमसूत्र विवरीषुराह[भा.५६६७] तणगहणाऽऽरन्नतणा, सामगमादी उ सूइया सव्वे । . सालीमाति पलाला, पुंजा पुन मंडवेसुकता॥ वृ-तृणग्रहणाद् आरण्यकानि श्यामाकादीनि सर्वाण्यपि तृणानि सूचितानि । पलालग्रहणेन शाल्यादीनि पलालानि गृहीतानि ।पुआःपुनस्तृणानांपलालानांवा उपरिमण्डपेषुकृता भवन्ति। येषु हि देशेषु स्वल्पानि तृणानि तेषु पुञ्जरूपतया तानि मण्डपेषु सङ्गृह्यन्ते, अधस्ताद्भूमौ स्थापितानि मा विनश्येयुरिति कृत्वा । [भा.५६६८] पुंजा उ जहिं देसे, अप्पप्पाणा य होंति एमादी। अप्प तिगपंच सत्त य, एतेन य वच्चती सुत्तं॥ वृ-एवं यत्र देशे मण्डपेषु पुजाः कृता भवन्ति तत्र विवक्षितायां वसती ते पुजा अल्पप्राणा अल्पबीजा एवमादिविशेषयुक्ता भवेयुः, अत्र कस्याप्येवं बुद्धि स्यात्-अल्पाः प्राणास्त्रयः पञ्च सप्त वा मन्तव्याः, अत आह-न ‘एतेन' परोक्तेनाभिप्रायेण सूत्रं व्रजति, किं तर्हि ? अल्पशब्दोऽत्राभाववाचको द्रष्टव्यः, प्राणादयस्तेषुन सन्तीति भावः ॥अत्र परः प्राह[भा.५६६९] वत्तव्वा उ अपाणा, बंधनुलोमेणिमं कयं सुत्तं । पाणादिमादिएसुं, ठंते सहाणपच्छित्तं॥ वृ-यदिअभावार्थोऽल्पशब्दस्तत एवंसूत्रालापकावक्तव्याः-“अपानेसुअबीएसुअहरिएसु" इत्यादि। गुरुराह-बन्धानुलोम्येनेत्थं सूत्रकृतम् “अप्पपानेसु" इत्यादि, एवंविधोहि पाठः सुललितः सुखेनैवोच्चरितुं शक्यते । यदि पुनौं त्रयः पञ्च वा द्वीन्द्रियादयः प्राणिन आदिशब्दादण्डादीनि वा यत्र भवन्ति तत्र तिष्ठन्ति ततस्तेषां विराधनायां स्वस्थानप्रायश्चित्तं द्रष्टव्यम्॥ कथं पुनरल्पशब्दोऽभावे वर्तते? तत आह[भा.५६७०] थोवम्मिअभावम्मिय, विनिओगो होति अप्पसद्दस्स। थोवे उ अप्पमाणो, अप्पासी अप्पनिदोय ॥ वृ-स्तोकेऽभावेच अल्पशब्दस्य 'विनियोगः' व्यापारो भवति । तत्र स्तोकार्थवाचको यथाअल्पमानो अल्पाशी अल्पनिद्रोऽयम् ।।अभाववाचको यथा[भा.५६७१] निस्सततस्स उ लोए, अभिहाणं होइ अप्पसत्तोत्ति। लोउत्तरे विसेसो, अप्पाहारो तुअट्टिजा ॥ वृ-यः किल निसत्त्वः पुरुषस्तस्य लोकेऽल्पसत्त्वोऽयमित्यभिधानं भवति।लोकोत्तरेऽप्ययं विशेषः समस्ति, यथा-अल्पाहारोभवेद्अल्पंचत्वग्वर्तयेत्।अभावेऽपिश्यते, यथा-"अप्पायंके' Page #269 -------------------------------------------------------------------------- ________________ २६६ - बृहत्कल्प-छेदसूत्रम् -३-४/१४२ नीरोग इत्यर्थः ॥अथ बीजादियुक्तेषु तिष्ठतां प्रायश्चित्तमाह[मा.५६७२] बिय-मट्टियासु लहुगा, हरिए लहुगाव होति गुरुगावा। पानुत्तिंग-दएसुं, लहुगा पनए गुरूचउरो॥ वृ-बीज-मृत्तिकायुक्तेषुतृणादिषुतिष्ठतां चतुर्लघुकाः । हरितेषु प्रत्येकेषु चतुर्लघु, अनन्तेषु चतुर्गुरु । प्राणेषु-द्वीन्द्रियादिषु अत्तिगोदकयोश्चतुर्लघु । पनके चतुर्गुरवः॥ उक्तः सूत्रार्थः। अथ नियुक्तिविस्तरः[भा.५६७३] सवणपमाणा वसही, अधिठंते चउलहुंच आणादी। मिच्छत्त अवाउड पडिलेह वाय साणेय वाले य॥ वृ-श्रवणप्रमाणा वसतिः कर्णयोरधस्तात् तृणादियुक्ताय भवति तस्यामधःश्रवणमात्रायां तिष्ठतश्चतुर्लघु, आज्ञादयश्च दोषा मिथ्यात्वं च बवति । कथम् ? इति चेद् इत्याह-येषांसाधूनां सागारिकमपावृतं वैक्रियंवा तान्प्रविशतो दृष्ट्वालोको ब्रूयात्-अहो! हीप्रच्छादनमपितीर्थकरेण नानुज्ञातम्, लज्जामयश्चपुरुष-स्त्रियोरलङ्कारः, तद्नूनमसर्वज्ञ एवासी; एवं मिथ्यात्वगमनं भवेत्। "पडिलेह"त्ति उपर्यप्रत्युपेक्षिते शीर्षमास्फिटति, तत्र प्राणविराधनानिष्पन्नम्। अवनतानां च प्रविशतां निर्गच्छतांच कटी पृष्ठं वा वातेन गृह्यते । अवनतस्य च प्रविशतः सागारिकं लम्बमानं पृष्ठतः श्वानो मार्जारो वा त्रोटयेत् । “वाले य" त्ति उपरि सीर्षे आस्फिटिते सर्पो वृश्चिको वा दशेत् । यत एते दोषा अतोऽधःश्रवणमात्रायां वसतौ न स्थातव्यम् । द्वितीयपदे तिष्ठेयुरपि ।। [भा.५६७४] सवणपमाणा वसही, खेते ठायंते बाहि वोसग्गो। पाणादिमादिएसुं, वित्थिन्नाऽऽगाढ जतनाए। वृ-परेषुक्षेत्रेष्वशिवादीनि भवेयुः ततः क्षेत्राभावेऽधःश्रवणमात्रायामप्यल्पप्राणादियुक्तायां तिष्ठतामियं यतना-वसतेर्बहिरावश्यकं कुर्वन्ति । अन्योऽपि य-'व्युत्सर्ग' कायोत्सर्गः स बहिः क्रियते । द्वितीयपदे सप्राणेषु आदिसब्दाद् बीजादिष्वपि वसतौ विद्यानेषु तिष्ठेयुः तत्र यतनया विस्तीर्णायां तिष्ठन्ति।सायेष्ववकाशेषुसंसक्ता तान् क्षारेण लक्षयन्ति, कुटमुखेन वा हरितादिकं स्थगयन्ति,दकमृत्तिका-बीजादीन्येकान्तेवृषभाःस्थापयन्ति। एवमागाढेकारणेस्थितानांयतनाविज्ञेया॥ - [भा.५६७५] वेउव्व-ऽवाउडाणं, वुत्ता जयणा निसिज कप्पो वा। उवओग नितऽइंते, हुछिंदना नामना वा वि॥ वृ-येविकुर्विता-ऽपावृतसागारिकास्तेषांप्रथमोद्देशकोक्ता यतनाऽवधारणीया।प्रविशन्तो निर्गच्छन्तश्च पृष्ठतो निषद्यां कल्पं वा कुर्वन्ति । श्वानादीनामुपयोगं ददाना नित्यं निर्गच्छन्ति प्रविशन्ति च । यान्युपरितृणान्यवलम्बन्ते तेषां प्रमाM च्छेदनं नामनं वा कुर्वन्ति ॥व्याख्यातं ऋतुबद्धसूत्रद्वयम् । अथ वर्षावाससूत्रद्वयं विवृणोति[भा.५६७६] अंजलिमलिकयाओ, दोत्रिविबाहा समूसिया मउडो। हेट्ठा उवरिं च भवे, मुक्कंतु तओ पमाणाओ। अञ्जलिमुकुलीकृतौ द्वावपि बाहू समुच्छ्रितौ मुकुट उच्यते।मुक्तमुकुटं पुनः 'ततः प्रमाणात् तावप्रमाणमङ्गीकृत्य संस्तारकनिविष्टस्थ उपरि च यत्रान्तरालं प्राप्यते ईश्यामुपरिरलिमुक्तमुकुटायां वसतौ वर्षाकाले स्थातव्यम् । कुतः ? इति चेद् उच्यते Page #270 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं - १४२, [ भा. ५६७७] [भा. ५६७७] २६७ हत्थो लंबइ हत्थं, भूमीओ सप्पो हत्थमुट्ठेति । सप्परस य हत्यरस य, जह हत्थो अंतरा होइ ॥ वृ- फलकादी संस्तारके सुप्तस्य 'हस्तः' हस्तमेकं अधो लम्बते, भूमितश्च सर्पो हस्तमुत्तिष्ठति, ततः सर्पस्य च हस्तस्य च यथा हस्तो अन्तरा भवति तथा कर्तव्यम् ।। तथा [भा. ५६७८ ] माला लंबति हत्यं, सप्पो संथारए निविट्ठस्स । सप्पस्सय सीसस्स य, जह हत्थो अंतरा होइ ॥ वृ- संस्तारके निविष्टस्य मालात् सर्पो हस्तं लम्बते, ततः सर्पस्य च शीर्षस्य च यता हस्तो अन्तरा भवति तथा विधेयम्, ईद्दक्प्रमाण उपाश्रयो ग्रहीतव्य इत्यर्थः ॥ [भा. ५६७९ ] काउस्सग्गं तु ठिए, मालो जइ हवइ दोसु रयणीसु । कप्पर वासावासो, इय तणुंजेसु सव्वेसु ॥ वृ- कायोत्सर्ग स्थितस्य मालो यदि द्वयो रत्नोरुपरि भवति तदा कल्पते तस्यां वसतौ वर्षावासः कर्तुम् । “इय” एवं सर्वेष्वपि तृणपुञ्जेषु विधिर्द्रष्टव्यः ॥ [ भा. ५६८० ] उप्पिं तु मुक्कमउडे, अहि ठंते चउलहुं च आणाई । मिच्छत्ते वालाई, बीयं आगाढ संविग्गो ॥ वृ- अत उपरिमुक्तमुकुटेप्रतिश्रये स्थातव्यम् । अथाधोमुक्तमुकुटे तिष्ठति ततश्चतुर्लघु आज्ञादयो मिथ्यात्वं व्यालादयश्च दोषाः पूर्वसूत्रोक्ता भवन्ति । द्वितीयपदमप्यागाढे कारणे तथैव मन्तव्यम् । तत्र च तिष्ठन् संविग्न एव भवति ॥ अत्रेयं यतना [भा.५६८१] दीहाइमाईसु उ विजबंधं, कुव्वंति उल्लोय कडं च पोत्तिं । कप्पाऽसईए खलु सेसगाणं, मुत्तुं जहन्त्रेण गुरुस्स कुज्जा ॥ वृ-दीर्घजातीयादिषु वसतौ विद्यमानेषु तेषां विद्यया बन्धं कुर्वन्ति । विद्याया अभावे उपरिष्टादुल्लोचं कुर्वन्ति । उल्लोचाभावे कटम् । कटाभावे “पोत्तिं”ति चिलिमिलिकां सर्वसाधूनामुपरि कुर्वन्ति । अथ तावन्तः कल्पा न विद्यन्ते ततः शेषाणां मुक्त्वा जघन्येन गुरोरुपरिष्टादुल्लोचं कुर्यात् ॥ श्रीचूर्णिकारवदनानवचोमरन्दनिष्यन्दपारणकपीवरपेशलश्रीः । उद्देशके मम मतिभ्रमरी तुरीये, टीकामिषेण मुखरत्वमिदं वितेने ॥ उद्देशकः-४ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत् कल्पसूत्रे चतुर्थोद्देशकस्य (भद्रबाहु स्वामि रचिता नियुक्ति युक्त) संघदासगणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिताटीका परिसमाप्ता । उद्देशक:-५ व्याख्यातश्चतुर्थोद्देशकः । सम्प्रति पञ्चम आरभ्यते । तस्य चेदमादिसूत्रचतुष्टयम्मू. (१४३) देवे य इत्थिरूवं विउव्वित्ता निग्गंधं पडिगाहिज्जा, तं च निग्गंथे साइजेज्जा, मेहुणपडिसेवणप्पत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥ मू. (१४४) देवी य इत्थिरूवं विउव्वित्ता निग्गंधं पडिगाहिज्जा, तं च निग्गंथे साइजेज्जा, Page #271 -------------------------------------------------------------------------- ________________ २६८ बृहत्कल्प-छेदसूत्रम् -३-५/१४४ मेहुणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परिहारहाणं अनुग्घाइयं॥ मू. (१४५) देवी य पुरिसस्त्वं विउवित्ता निग्गंथिं पडिगाहेजा, तं च निग्गंथी साइजेजा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अनुग्घाइयं॥ मू. (१४६) देवे य पुरिसरूवं विउब्वित्ता निर्गथिं पडिगाहिज्जा, तं च निग्गंथी साइजिज्जा, मेहुणपडिसेवणपत्ता आवजइ चाउम्मासियं अनुग्घाइयं ॥ वृ-अथास्य सूत्रचतुष्टयस्य कः सम्बन्धः? इत्याह[भा.५६८२] पाएण होति विजणा, गुज्झगसंसेविया य तणपुंजा। होज मिह संपयोगो, तेसुय अह पंचमे जोगो।। वृ-प्रायेण तृणपुजाः 'विजनाः' जनसम्पातरहिताः गुह्यकैश्च-व्यन्तरैः सेविताः-अधिष्ठिता भवन्ति, ततस्तेषु तिष्ठतां तैः सह मिथः सम्प्रयोगोऽपि भवेत्, अत इदं सूत्रमारभ्यते। 'अथ' एष पञ्चमोद्देशके आधसूत्रचतुष्टयस्य सम्बन्धः ॥ [भा.५६८३] अविय तिरिओवसग्गा, तत्थुदिया आयवेयणिज्जा य । . इमिगा उहंति दिव्वा, ते पडिलोमा इमे इयरे ॥ वृ-'अपि च' इति सम्बन्धस्य प्रकारान्तराभ्युच्चये। 'तत्र' इति अनन्तरसूत्रे 'तिर्यगुपसर्गा' व्यालादिकृताः ‘आत्मसंवेदनीयाश्च वातेन कटीग्रहणादयः “उदिताः' भणिताः, एतेषुप्रस्तुतसूत्रेषु दिव्या उपसर्गा उच्यन्ते। उपसर्गाश्च द्विधा- प्रतिलोमाः' प्रतिकूलाः 'इतरे च' अनुकूलाः । तत्र प्रतिकूलाः पूर्वसूत्रोक्ताः, इहानुकूला भण्यन्ते॥ [भा.५६८४] अहवा आयावाओ, चउत्थचरिमम्मि पवयणे चेव । इमओ बंभावाओ, तस्स उ भंगम्मि कि सेसं॥ वृ-अथवा चतुर्थोद्दशकचरमसूत्रे आत्मापायः प्रवचनापायाश्चोक्तः, अयंपुनः प्रस्तुतसूत्रेषु ब्रह्मवतापाय उच्यते।तस्य हि भङ्गेकिंनामशेषमभग्नम् ? अतस्तद्भङ्गोमाभूदितिप्रकृतसूत्रारम्भः। अथवा चतुर्थेन प्रकारेण सम्बन्धः, तमेवाह[भा.५६८५] सरिसाहिकारियं वा, इमंचउत्थस्स पढमसुत्तेणं । अन्नहिगारम्मि विपत्थुतम्मि अन्नं पि इच्छंति।। वृ-अथवा इदं सूत्रं चतुर्थोद्देशकस्य 'प्रथमसूत्रेण "तओअनुग्घाइया पन्नत्ता" इत्यादिरूपेण समं सध्शाधिकारिकम्, तत्राप्यनुद्धातिकाधिकार उक्त इहापि स एवाभिधीयत इति भावः । आह-चतुर्थप्रथमसूत्रानन्तरमपराणिभूयांसि सूत्राणि गतानि तेषुचापरापरेऽधिकारास्ततः कथमयं सम्बन्धो घटते? इत्याह-अन्यस्मिन्नधिकारे प्रस्तुतेऽप अन्यमधिकारमिच्छन्ति सूरयः ।। तथा चात्र दृष्टान्तः[भा.५६८६] जह जाइरूवधातुं, खणमाणो लभिज्ज उत्तमंवयरं। तंगिण्हइ न य दोसं, वयंति तहियं इमं पेवं ॥ वृ-यथाजातरूपं-सुवर्णं तस्य धातुंखनमानोयदि उत्तमवजं लभेत ततस्तंगृह्णातिनच तस्य वज्रं गृह्णतः कमपि दोषं वदन्ति । एवम् ‘इदमपि' प्रस्तुतमपराधिकारे प्रस्तुतेऽपराधिकारग्रहणं Page #272 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं- १४६, [भा. ५६८६ ] न विरुध्यते ।। अत्र परः प्राह ननु चानेन सुवर्ण-वज्रध्ष्टान्तेनेदमापत्रम्-अधस्तनसूत्रेभ्यः पञ्चमस्यादिसूत्रं प्रधानतरम् । सूरिराह - नैवम्, प्राधान्यस्योभयोरप्यापेक्षिकतया तुल्यत्वात् । तथाहिकणएण विना वरं, न भायए नेव संगहमुवेइ । न य तेन विना कणगं, तेन र अन्नोन पाहन्नं ॥ [भा. ५६८७ ] २६९ वृ-कनकेन विना वज्रं ‘न भाति' न शोभते न च 'सङ्घहं' सम्बन्धमुपैति, आश्रयाभावात्; न च 'तेन' वज्रेण विना कनकं शोभते, तेन कारणेन 'र' इति निपातः पादपूरणे उभयोरप्यन्योन्यं प्राधान्यम् । एवमधस्तनसूत्राणां कनकतुल्यानां पञ्चमोद्देशकादिसूत्रस्य च वज्रतुल्यस्य पापप्रतिषेधकत्वात् तुल्यमेव प्राधान्यम् ।। अनेन सम्बन्धचतुष्टयेनापतितस्यास्य व्याख्या-देवश्च स्त्रीरूपं विकुर्व्य निर्ग्रन्थं प्रतिगृह्णीयात, तच्च निर्ग्रन्थो मैथुनप्रतिसेवनप्राप्तो यदि 'स्वादयेद्' अनुमोदयेत् तत आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ॥ एवं द्वितीयसूत्रं देवी स्त्रीरूपं विकुर्व्य निर्ग्रन्थं प्रतिगृह्णीयादित्याद्यपि मन्तव्यम् ।। तृतीयसूत्रम्देवी पुरुषस्य रूपं विकुर्व्यं निर्ग्रन्थीं प्रतिगृह्णीयात् तच्च निर्ग्रन्थी स्वादयेद्, मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकमनुद्धातिकं स्थानम् । एवं देवः पुरुषरूपं विकुर्व्य निर्ग्रन्थीं प्रतिगृहणीयादित्याद्यपि चतुर्थसूत्रं वक्तव्यम् । सूत्रचतुष्टयार्थः । अथाद्यसूत्रद्वयं यावद् विवरीषुराह[भा. ५६८८ ] देवे य इथिरूवं, काउं गिण्हे तहेव देवी य । दोसु वि य परिणयाणं, चाउम्मासा भवे गुरुगा ॥ वृ-देवो देवी वा स्त्रीरूपं कृत्वा निर्ग्रन्थं गृह्णीयात् । ततः किम् ? इत्याह- 'द्वयोरपि' देवदेवीस्त्रियोः प्रतिसेवने परिणतानां चत्वारो मासा गुरुकाः प्रायश्चित्तं भवेत् ॥ अथैतयोः सूत्रयोर्विषयसम्भवमाह[ भा. ५६८९ ] गच्छगय निग्गए वा, होज तगं तत्थ निग्गमो दुविहो । उवएस अनुवएसे, सच्छंदेणं इमं तत्थ ।। वृ- गच्छगतस्य गच्छनिर्गतस्य वा 'तद्' अनन्तरोक्तं वृत्तान्तजातं भवेत् । तत्र गच्छाद् निर्गमो द्विविधः-उपदेशेन अनुपदेशेन च । अनुपदेशः स्वच्छन्द इति चैकोऽर्थः । तत्र स्वच्छन्देन इदं गच्छाद् निर्गमनमभिधीयते ॥ [भा. ५६९० ] सुतं अत्यय बहु, गहियाइं नवरि मे झरेयव्वं । गच्छम्मिय वाघायं, नाईऊण इमेइिं ठाणेहिं ॥ वृ: कश्चिद् गृहीतसूत्रार्थश्चिन्तयति सूत्रमर्थश्च मया 'बहू' प्रभूतौ गृहीती, नवरमिदानीं मया पूर्वगृहीतं "झेरयव्वं" ति 'स्मर्तव्यं' परिजितं कर्तव्यम्, गच्छे च स्मरणस्यामीभि 'स्थानैः ' कारणैव्यार्घातं ज्ञात्वा निर्गमने मतिं करोति । कानि पुनस्तानि स्थानानि ? इत्याह [ भा. ५६९१ ] धम्मकह महिड्डीए, आवास निसीहिया य आलोए । डिपुच्छ वादि पाहुण, महान गिलाणे दुलभभिक्खं ॥ वृ- स धर्मकथालब्धिसम्पन्नस्ततो भूयान् जनः श्रोतमागच्छतीति धर्मकथया व्याघातः । 'महर्द्धिकः' राजादिर्धर्मश्रवणाय समायाति तस्य विशेषतः कथनीयम्, तदावर्जने भूयसामावर्जनात्। तथा महति गच्छे बहवो निर्गच्छन्त आवश्यकीं कुर्वन्ति प्रविशन्तो नैषेधिकीं कुर्वन्ति ते सम्यग् निरीक्षणीयाः । चशब्दाद् असङ्खडव्यवशमनादौ वा भूयसी वेला लगेत् । “आलोए” ति भिक्षामटित्वा Page #273 -------------------------------------------------------------------------- ________________ २७० बृहत्कल्प-छेदसूत्रम् -३-५/१४६ समागतानामन्यसाधूनामालोचयतां यदि परावर्त्यते तत आलोचनाव्याघातः । तथा गच्छे वसतो बहवः प्रतिपृच्छानिमत्तमागच्छन्ति तेषां प्रत्युत्तरदाने व्याघातः । तं च बहुश्रुतं तत्र स्थितं श्रुत्वा वादिनः समागच्छन्ति ततस्तेऽपि निग्रहीतव्याः, अन्यथा प्रवचनोपघातः । तथा "महानि"त्ति 'महाजने महति गणेबहवः प्राघूर्णकाः समागच्छन्ति तेषां विश्रामणयापर्युपासनया च व्याघातः। तथा बहवो महति गणे ग्लानास्तदर्थमौषधादिकमानेतव्यम् । दुर्लभं वा तत्र क्षेत्रे भैक्षं तदर्थं चिरमटनीयम् । एवंविधो व्याघातो गच्छे भवतीति सङ्ग्रहगाथासमासार्थः।। साम्प्रतं विस्तरार्थ-मभिधित्सुर्धर्मकथाद्वारं सुगममित्यनाध्त्य महर्द्धिकद्वारं व्याख्याति-तत्र योराजा राजामात्योऽपरोवामहर्द्धिकोधर्मश्रवणायागच्छति तस्यावश्यं विशेषेणचधर्मकथनीयः । परः प्राह-किं कारणं महर्द्धिकस्य विशेषतो धर्मकथा क्रियते ? ननु भगवद्भिरित्थमुक्तम्"जहा पुनस्स कत्थई तहा तुच्छस्स कत्थई" अत्रोच्यते[भा.५६९२] कामंजहेव कत्थति, पुन्ने तह चेव कत्थई तुच्छे । वाउलणाय न गिण्हइ, तम्मि य रुढे बहू दोसा ।। वृ- 'कामम्' अनुमतमिदं यथैव 'पूर्णस्य' महर्द्धिकस्य धर्म कथ्यते तथैव 'तुच्छस्य' अल्पर्धिकस्यापि कथ्यते, परं स महर्द्धिको व्याकुलनातो यथातथा धर्म कथ्यमानं सम्यग् 'न गृह्णाति' न प्रतिपद्यते रोषं च गच्छति, 'तस्मिंश्च' राजेश्वर-तलवरादिके रुष्टे 'बहवः' निर्विषयाज्ञापनादयो दोषाः, अतोऽवश्यं विशेषेण वातस्यधर्मकथनीयः; एवं सूत्रार्थस्मरणव्याघातः। अथवा गुरवोमहर्द्धिकायधर्मकथयन्तितदानीमपितूष्णीकैभवितव्यम्,माभूत् कोलाहलतस्तस्य सम्यग्धर्माप्रतिपत्तिरिति कृत्वा ॥आवश्यिकी-नषेधिकीपदे चशब्दसूचितं चार्थं व्याचष्टे[भा.५६९३]आवासिगा-ऽऽसज्ज-दुपहियादी, विसीयते चेव सवीरिओ वि। विओसणे वा वि असंखडाणं, आलोयणं वा वि चिरेण देती॥ वृ-आवश्यकीकरणे उपलक्षणत्वाद् नैषेधिकीकरणे आसज्जकरणे दुःप्रत्युपेक्षित-दुःप्रमाणनादिकरणेच 'सवीर्योऽपि' समर्थोऽपियःप्रमादबहुलतया विधीदतिससम्यगनिरीक्ष्यशिक्षणीयः। असङ्कडानिचसाधूनामुत्पधेरन्तेषां व्युपशमने भूयसी वेला लगति।प्रतिक्रमणेवाप्रभूतसाधुसमूहः क्रमेणालोचयन् चिरेणालोचनां ददाति॥ [भा.५६९४] मेरं ठवंति थेरा, सीदंते आवि साहति पवत्ती। थिरकरण सड्डहेउं, तवोकिलंते य पुच्छंति॥ .. वृ- 'स्थविराः' आचार्या यावद् 'मर्यादां' सामाचारी स्थापयन्ति तावत् चिरीभवति । यो वा कोऽपि सामाचार्यां सीदति तस्य प्रवृत्तिर्यावद् आचार्याणां निवेद्यते तावत् स्वाध्यायपरिमन्थः । अभिनवश्राद्धस्य वा स्थिरीकरणार्थं धर्म कथनीयः । ये च तपस्विनो विकृष्टतपसा क्लान्तास्ते 'सुखतपः समस्ति भवताम् ?' इति भूयोभूयः प्रष्टव्याः॥ . - [भा.५६९५] आवासिगा निसीहिगमकरेंते असारणे तमावजे । परलोइगंचन कयं, सहायगत्तं उवेहाए॥ वृ-अत्रावश्यिकी-नैषेधिक्यादिसामाचारीमकुर्वतामाचार्यसारणांनकरोतिततोयत्तदकरणे प्रायश्चित्तं तद् उपेक्षमाण आचार्य आपद्यते । उपेक्षायां च पारलौकिकं सहायत्वं तेषामाचार्येण Page #274 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं- १४६, [ भा. ५६९५ ] कृतं न भवति । तदकरणाच्च नासौ तत्त्वतस्तेषां गुरु । तथा चोक्तम्अशासितारं च गुरुं मन्दस्नेहं च बान्धवम् । अदातारं च भर्तारं, जनस्थाने निवेशयेत् ॥ "आलोए" त्ति पदं व्याख्याति २७१ [ भा. ५६९६ ] सम्मोहो मा दोण्हवि, वियडिज्जंतम्मि तेन न पढंति । पडिपुच्छे पलिमंथो, असंखडं नेव वच्छल्लं ॥ वृ-ये भिक्षाचर्यां गतास्ते आगत्य यावद् आलोचयन्ति तावत् पूर्वागतानां परिवर्तनव्याघातः । अथालोचयतामपि परिवर्तयन्तितत आचार्या आलोच्यमानं नावधारयन्ति । आलोचकोऽपि सम्यग् हस्तं मात्रकं व्यापारं वा तेन व्याक्षेपेण न स्मरति । एवं 'द्वयेषामपि सम्मोहो मा भूत्' इति कृत्वा 'विकट्यमाने' आलोच्यमाने यन्न पठन्ति एष व्याघातः । “पडिपुच्छ" त्ति द्वारं व्याख्यायतेतस्यान्तिके ये सूत्रार्थप्रतिपृच्छां कुर्वते तेषां प्रत्युत्तरं ददतः स्वाध्यायपरिमन्थः । अथ प्रत्युत्तरं न ददाति ततस्ते रुष्येयुः - 'स्तब्धस्त्वम्, कस्तवान्तिके प्रश्नयिष्यति ?' इत्यादिच जल्पन्ति; ततोऽसङ्घडं भवति । न च प्रतिवचनमप्रयच्छता साधर्मिकवात्सल्यं कृतं भवति ॥ अथ वादि- प्रागुणक-महाजन-ग्लान-दुर्लभभैक्षद्वाराणि व्याचष्टे [भा. ५६९७ ] चिंतेइ वादसत्थे, वादिं पडियरति देति पडिवायं । महइ गणे पाहुणगा, वीसामण पज्जुवासणया ।। .वृ-वादिनमागच्छन्तं श्रुत्वा वादशास्त्राणि चिन्तयति । तं च वादितं यावत् प्रतिचरतिप्रतिवादं च यावत् तस्य प्रयच्छति तावद् व्यागातः । तथा महति गणे प्राघुणका आगच्छेयुः तेषां विश्रामणा पर्युपासना च कर्तव्या ॥ [भा. ५६९८ ] आलोयणा सुणिज्जति, जाव य दिज्जइ गिलाण - बालाणं । हिंडंति चिरं अन्ने, पाओगुभयस्स वा अट्ठा ॥ वृ- आलोचना च यावत् तेषां श्रूयते, यावच्च ग्लान वालानां दीयते, तथा प्राघुणकादीनां प्रायोग्यस्य उभयस्य भक्तस्य पानकस्य चार्थाय चिरमेके पर्यटन्ति, 'अन्ये च' निवृत्ता अपि तानागच्छतो यावत् प्रतीक्षन्ते ॥ [ भा. ५६९९ ] पाउग्गोसह उव्वत्तणादि अतरंति जं च वेज्जस्स । किमहिज्जउ खलुभिक्खे, केसवितो भिक्ख- हिंडीहिं ॥ वृ- 'अतरतः' ग्लानस्य प्रायोग्यौषधादिकं यावद् आनयन्ति, उद्वर्तनादिकं वातरय कुर्वन्ति, वैद्यस्य वा 'यद्' मञ्जनादिकं परिकर्म कुर्वन्ति तावद् व्याघातः । खलुक्षेत्रे वा स्वल्पया भिक्षया बाह्यया च हिण्डया चिरं क्लेशितः सन् किमधीताम् ? न किञ्चिदित्यर्थः ॥ [भा. ५७०० ] ते गंतुमना बाहिं, आपुच्छंती तहिं तु आयरियं । भणिया भणति भंते!, न ताव पज्जत्तगा तुब्भे ॥ वृ- एतैः कारणैः 'तत्र' गच्छे व्याघातं मत्वा 'ते' गृहीतसूत्रार्था साधवो बहिर्गन्तुमनस आचार्यमापृच्छन्ति । तत आचार्येण वारिता दिव्य मानुष्य-तैरश्चोपसर्गसहने विहारे च न तावद् अद्यापि यूयं पर्याप्ताः । एवं भणितास्ते भणन्ति भदन्त ! युषमच्चरणप्रसादेनेध्शा भविष्यामः ॥ Page #275 -------------------------------------------------------------------------- ________________ २७२ बृहत्कल्प-छेदसूत्रम् -३-५/१४६ [भा.५७०१] उप्पन्ने उवसग्गे, दिब्बे माणुस्सए तिरिक्खे य। हंदि ! असारं नाउं, मानुस्सं जीवलोगं च ॥ वृ-दिव्य-मानुष्य-तैरश्चान् उपसर्गान् उत्पन्नान् सम्यगधिसहिष्याम इत्युपस्कारः । कुतः? इत्याह-‘हन्दि' इति हेतूपदर्शने, वयं मानुष्यं जीवलोकं चासारमेव जानीमस्ततस्दद् ज्ञात्वा कथमुपसर्यान्न सहिष्यामः?॥ [भा.५७०२] ते निग्गया गुरुकुला, अन्नं गामं कमेण संपत्ता। काऊण विद्दरिसणं, इत्थीसवेणुवस्सग्गो॥ वृ-एवमुक्त्वा 'ते' साधवः स्वच्छन्देन गुरुकुलाद् निर्गताः क्रमेणान्यं ग्रामं सम्प्राप्ताः, तत्र चैकस्यां देवकुलिकायां स्थिताः । तेथां मध्ये यो मुख्यः स प्रतिश्रयपालः स्थितः, शेषा भिक्षार्थ प्रविष्टाः । ततःकयाचिदेवतया 'विदर्शनं' विशेषेण दर्शनीयं रूपंकृत्वा स्त्रीरूपेणोपसर्ग कृतः। इदमेव सुव्यक्तमाह[भा.५७०३] पंता वनं छलिज्जा, नाणादिगुणा व होंतु सिं गच्छे। ननियत्तिहिंतऽछलिया, भद्देयर भोग वीमंसा ॥ वृ-सम्यग्दृष्टिरेका देवता चिन्तयति-एते तावद् अनुपदेशेन प्रस्थिताः अतो माऽमून् प्रान्ता देवता छलयेद्, ज्ञानादयो वा गुणाः “सिं" अमीषां गच्छे वसतां भवन्तु इति कृत्वा केनाप्युपसर्गेणाच्छलिताः सन्तोन निवर्तिष्ते इतिबुध्या भद्रिका समागच्छति । इतरा तु प्रान्ता भोगार्थिनी 'विमर्श वा परीक्षां कर्तुकामा छलयेत् ।। कतंपुनः स्त्रीरूपेणोपसर्गयेत् ? इत्याह[भा:५७०४]भिक्ख गय सत्थ चेडी, गुज्झक्खिणी अम्ह साविया कहणं। विहवारूवविउव्वण, किइकम्माऽऽलोयणा इणमो॥ कृ-सादेवताभिक्षांगतेषूसाधुषुसार्थं विकुळतांदेवकुलिकांपरिक्षिप्यावासिता।ततश्चेटिकारूपं विकुळ प्रतिश्रयमागत्य साधुं वन्दित्वा भणति-'गोज्झक्खिणी' स्वामिनी मदीया श्राविका, सा नजानाति अत्र साधून स्थितान्, ततोऽहं स्वामिन्याः कथयामि येन सा युष्मान्वन्दितुमायाति। ततः सा निर्गत्य विधवारूपं विकुळ चेटिकाचक्रवालपरिवृता प्रतिश्रयमागत्य ‘कृतिकर्म वन्दनं कृत्वा पर्युपास्ते ततः साधुना भणिता-कुतः श्राविका समायाता? । ततः सा इमामालोचनां ददाति॥ [भा.५७०५] पाडलिपुत्ते जम्मं, साएतगसेट्ठिपुत्तभज्जत्तं। पइमरण चेइवंदनछोम्मेण गुरू विसज्जणया॥ [भा.५७०६] पव्वजाए असत्ता, उज्जेनि भोगकंखिया जामि । तत्थ किर बहू साधू, अवि होज्ज परीसहजिय त्था॥ __-पाटलिपुत्रेनगरेममजन्मसमजनि, साकेतवास्तव्यस्य श्रेष्टिपुत्रस्य च भार्यात्वम, पतिमरणे , च सञ्जाते चैत्यवन्दनच्छद्मना ‘गुरुभ्यः' श्वशुरादिभ्य आत्मनो विसर्जनं कृत्वा सम्प्रति प्रव्रज्यायामशक्ता सती उज्जयिन्यां भोगानां काङ्क्षिका गच्छामि । 'तत्र' उज्जयिन्यां किल इति श्रूयते-बहवः साधवः परीषहपराजिताः सन्ति, 'थ' इति निपातः पादपूरणे, अमुनाऽभिप्रायेण निर्गताऽहम्, साम्प्रतंतुयुष्मासु एष्टेषु मदीयं मनो नाग्रतो गन्तुंददाति ।। ततः Page #276 -------------------------------------------------------------------------- ________________ २७३ उद्देशक : ५, मूलं-१४६, [भा. ५७०७] [भा.५७०७] दूरे मज्झ परिजणो, जोव्वणकंडं चऽतिच्छए एवं । पेच्छह विभवं मे इमं, न दानि एवं सलाहामि ॥ [भा.५७०८] पडिरूववयत्थाया, किणा वि मज्झं मणिच्छिया तुब्भे । भुंजामु ताव भोए, दीहो कालो तव-गुणाणं॥ वृ-दूरे तावद्मदीयः परिजनः, यौवनकाण्डं च' तारुण्यावसर आवयोरेवमतिकाम्द वर्तते, पश्यत मदीयम् ‘एनम्' एतावत्परिस्पन्दरूपं विभवम्, रूपं पुनरात्मीयं नेदानीमहं श्लाघे प्रत्यक्षोपलभ्यमानत्वान्न तद् वर्णयितुमुचितमित्यर्थः, यूयं च मम प्रतिरूपवयस्थायाः केनापि कारणेनात्यन्तंमनस ईप्सितास्ततो भुञ्जीवहि तावद्भोगान्, तपो-गुणानांतु पालने दीर्वपश्चादपि कालो वर्तते॥ [भा.५७०९] भणिओ आलिद्धो या, जंघा संफासणाय ऊरूयं । ___ अवयासिओ विसन्नो, छट्ठो पुन निप्पकंपो उ॥ वृ-एवं तया भणितमात्रे एव प्रथमः विषन्नः' पराभग्नः,प्रतिसेवितुंपरिणत इत्यर्थः। द्वितीयो भणितोऽपि यदा नेच्छति तदा सुकुमारहस्तैराश्लिष्टस्ततो विषन्नः। तृतीय आश्लिष्टोऽप्यनिच्छन् जवाभ्यां संस्पृटो विषन्नः।एवं चतुर्थऊरुभ्यांसंस्पृष्टो विषन्नः । पञ्चमः 'अवतासितः' बलामोटिकया आलिङ्गितो विषन्नः। षष्ठःपुनःसर्वप्रकारैः क्षोभ्यमानोऽपि निष्प्रकम्पः॥अथएषुप्रायश्चित्तमाह[भा.५७१०] पढमस्स होइ मूलं, बितिएछेओ य छग्गुरुगमेव । छल्लहुगा चउगुरुगा, पंचमए छट्ठ सुद्धो उ॥ वृ-अत्र प्रथमस्य मूलम्, द्वितीयस्य च्छेदः, तृतीयस्य षड्गुरु, चतुर्थस्य षड्लघु, पञ्चमस्य चतुर्गुरु, अत्र च सूत्रनिपातः । षष्ठस्तु शुद्धः ।। [भा.५७११] सव्वेहि पगारेहि, छंदणमाईहि छट्ठओ सुद्धो। तस्स वि न होइ गमनं, असमत्तसुए अदिने य॥ वृ-सर्वैरपिप्रकारैः छन्दनादिभिर्निष्पकम्पत्वात् षष्ठोयद्यपि शुद्धस्तथापितस्याप्यसमाप्तश्रुतस्य गुरुभि 'अदत्ते' अननुज्ञाते गणाद् निर्गमनं न भवति' न कल्पते ॥ यैः प्रथमादिभिः पञ्चमान्तैनाधिसोढं ते भद्रिकया देवतया भणिताः-अहो ! भवद्भि प्रतिज्ञा निर्वाहिता, गर्जित्वा निर्गतानां दृष्टा भवदीयाऽवस्था?, मयैतद् युष्माकमनुशासनाय कृतम् ‘मा प्रान्ता देवता छलयिष्यति' इति कृत्वा, ततो नाद्यापि किमपि विनष्टम्, गच्छत भूयोऽपिगच्छम् । एवमुक्त्वा सा प्रतिगतेति। [भा.५७१२] एए अन्ने यबहू, दोसा अविदिन्ननिग्गमे भणिया। मुच्चइ गणममुयंतो, तेहिं लभते गुणा चेमे॥ वृ-एते अन्ये च बहवो दोषाः अवितीर्णस्य-अननुज्ञातस्य गणाद् निर्गमे भणिताः। यस्तु गणं न मुञ्चति स तैर्दोषैर्मुच्यते, गुणांश्चामून् लभते ।। [भा.५७१३] नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना गुरुकुलवासं, आवकहाए न मुंचंति ।। वृ-'ज्ञानस्य' अपूर्वश्रुतस्य आभागी भवति, दर्शने च सम्मत्यादिशास्त्रवगाहनादिना चरणे [20] 181 Page #277 -------------------------------------------------------------------------- ________________ २७४ बृहत्कल्प-छेदसूत्रम् -३-५/१४६ च सारणादिना स्थिरतरो भवति, अत एव 'धन्याः' धर्मधनं लब्धारः शिष्या गुरुकुलवासं 'यावत्कथया' यावजीवं न मुञ्चन्ति॥किञ्च[भा.५७१४] मीतावासो रई धम्मे, अनाययणवज्जणा। निग्गहो य कसायाणं, एयं धीराण सासनं ॥ वृ- गच्छे 'मीतावासो भवति' आचार्यादिभयमीतैः सदैवाऽऽसितव्यम्, न किमप्यकृत्यं प्रतिसेवितुं लभ्यत इति भावः । 'धर्मे च' वैयावृत्य-स्वाध्यायादिरूपे रतिर्भवति, 'अनायतनस्य च' स्त्रीसंसर्गप्रभृतिकस्य वर्जनं भवति, कषायाणां चोदीर्णानां आचार्यादीनामनुशिष्टया 'निग्रहः' विध्यापनं भवति। धीराणां तीर्थकृतामेतदेव शासनम्' आज्ञा, यथा-गुरुकुलवासोनमोक्तव्यः। अपिच[भा.५७१५] जइमं साहुसंसग्गि, न विमोक्खसि मोक्खसि। उज्जतो व ते निच्चं, न होहिसिन होहिसि॥ वृ-यदि एनां साधुसंसर्गि 'न विमोक्ष्यसि न परित्यक्ष्यसि ततः 'मोक्ष्यसि' मुक्तो भविष्यसि। यदिच 'तपसि' अनशनादौ सुखलम्पटतयानोधतोभविष्यसिततोऽव्याबाधसुखीन भविष्यसि। [भा.५७१६] सच्छंदवत्तिया जेहिं, सग्गुणेहिं जढा जढा। अप्पणो ते परेसिंच, निचं सुविहिया हिया॥ वृ-यैः साधुभिः स्वच्छन्दवर्तिता जढा' परित्यक्ता । कथम्भूता? सद्भि-शोभनानादिभिर्गुणैः 'जढा' रहिता, आत्मनः 'परेषांच' षण्णांजीवनिकायानांनित्यंते सुविहिता हिताइतिप्रकटार्थम्। [मा.५७१७] जेसिंचाऽयं गणे वासो, सज्जणानुमओ मओ। दुहाऽवाऽऽराहियं तेहिं, निव्विकप्पसुहं सुहं॥ वृ- 'येषां च साधूनाम् 'अयम्' इत्यात्मनाऽनुभूयमानो गणे वासः 'मतः' अभिरुचितः कथम्भूतः? सज्जनाः-तीर्खतरादयस्तेषामनुमतः सज्जनानुमतः । तैः' साधुभिः 'निर्विकल्पसुखं' निरुपमसौख्यं सुखम्' इति सुखेनैव द्विधाऽप्याराधितम्, तद्यथा-श्रमणसुखं निर्वाणसुखं च । अत्र श्रमणसुखं निरुपममित्थं मन्तव्यम् नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ।। निर्वाणसुखं तु निरुपमंप्रतीतमेवेति॥ [भा.५७१८] नवधम्मस्स हि पाएण, धम्मे न रमती मती। ___ वहए सो वि संजुत्तो, गोरिवाविधुरंधुरं॥ वृ-नवधर्मणो हि प्रायेण धर्मे' श्रुत-चारित्ररूपे न रमते मति, परं गच्छे वसतस्तस्यापि धर्मे रतिर्भवति । तथा चाह- सोऽपि' नवधर्मा साधुभिः संयुक्तः संयमधुरामविधुरां वहेति । गौरिव द्वितीयेन गवा संयुक्तः ‘अविधुरां' अविषमां 'धुरं' शकटभारंवहति, एकस्तु वोढुं न शक्नोति। [भा.५७१९] एगागिस्स हि चित्ताई, विचित्ताइंखणे खणे। उप्पजंति वियंते य, वसेवं सज्जने जने ॥ वृ- एकाकिनो हि 'चित्तानि' मनांसि "विचित्राणि' शुभा-ऽशुभाध्यवसायपरिणतानि क्षणे Page #278 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-१४६, [भा. ५७१९] २७५ क्षणे उत्पद्यन्ते व्ययन्तेच, यत एवमतः ‘सज्जने सुसाधुजनसमूहरूपेजने वसेदिति। एते गुणागच्छे वसतामुक्ताः॥एवं गच्छनिर्गतस्य प्रस्तुतसूत्रसम्भव उक्तः । सम्प्रति गच्छान्तर्गतस्य तमाह[भा.५७२०] अहवा निग्गयस्सा, भिक्ख वियारे य वसहि गामे य । जहि ठाणे साइज्जति, चउगुरु बितियम्मि एरिसगो॥ वृ-'अथवा' इति न केवलं गच्छाद निर्गतस्य प्रायश्चित्तं किन्तु गच्छादनिर्गतस्यापि भिक्षाचर्यां विचारभूमिं वा गतस्य वसतौ वा तिष्ठतो ग्रामबहिर्वा यत्र स्थाने देवः स्त्रीरूपेण निर्ग्रन्थं गृह्णाति तत्र वद्यसौ स्यादयति तदा तस्यापि चतुर्गुरु । एतावता प्रथमसूत्रं व्याख्यातम् । द्वितीयसूत्रेऽपि यत्र देवी स्त्ररूपं विकुळ निर्ग्रन्थं गृह्णीयादित्युक्तं तत्राऽपीश एव गमः॥ अथ निर्ग्रन्थीसूत्रद्वयं व्याख्याति[भा.५७२१] एसेव गमो नियमा, निग्गंथीणं पिहोइ नायव्यो। नवरं पुन नाणत्तं, पुव्वं इत्थी ततो पुरिसो॥ वृ- एष एव गमो निर्ग्रन्थीनामपि ज्ञातव्यः । नवरमत्र नानात्वम्-पूर्वं “देवी य पुरिसरूवं विउव्वित्ता निग्गंथिं पडिगाहेजा" इति स्त्रसूत्रम्, ततः “देवे य पुरिसरूवं" इत्यादिकं द्वितीयं पुरुषसूत्रम् । अनयोरपि सम्भवो धर्मकथादिभिव्यातैिर्गणानिर्गमने तथैव मन्तव्यो यावत्ता अप्यार्यिका देवकुलिकायां स्थिताः । ततः- [भा.५७२२] विगुरुब्बिऊण रूवं, आगमनं डंबरेण महयाए। जिन-अज्ज-साहुभत्ती, अज्जपरिच्छा विय तहेव ॥ वृ-सम्यग्दृष्टिदेवतायाः पुरुषरूपं विकुळआगमनम् । ततो महताआडम्बरेण देवकुलिकायाः पार्वेसार्थमावास्य मायया श्राद्धवेषं विधाय वन्दनकं विस्तरेण कृत्वा भणति-युष्माभिः काचित् पुराणिका संयती वा विषयपराजिता दृष्टा? युष्माकंवा यद्यर्थस्ततो भोगान् भुञ्जीमहि, भुञानाश्च जिनचैत्यानामार्यिकाणां साधूनांच भक्ति करिष्यामस्ततो निस्तरिष्यामः । एवमार्यापरीक्षाऽपि तथैव मन्तव्या यथा निर्ग्रन्थानामुक्ता॥ अथ किमर्थं निर्ग्रन्थेषु प्रथमं देवसूत्रं निर्ग्रन्थीषु च प्रथमं देवीसूत्रम् ? इत्याह[भा.५७२३] वीसत्थया सरिसए, सारुप्पं तेन होइ पढमंतु। पुरिसुत्तरिओ धम्मो, निग्गंथो तेन पढमंतु॥ वृ- ‘सशे' स्वपक्षजातौ 'विश्वस्तता' विश्वासो भवति तेन प्रथममुभयोरपि पक्षयोः सारूप्यसूत्रमभिहितम् । 'पुरुषोत्तरो धर्म' इति कृत्वा च प्रथमं निर्ग्रन्थानां सूत्रद्वयमुक्तम्, ततो निर्ग्रन्थीनाम् ॥ एतेषु विशेषतो विराधनामाह[भा.५७२४] खित्ताइ मारणं वा, धम्माओ भंसणं करे पंता। भद्दाए पडिबंधो, पडिगमनादी व नितीए। वृ-याप्रान्तदेवतासातंसाधुंप्रतिसेवनापरिणतंक्षिप्तचित्तादिकं कुर्यात्, मारणंधर्माभ्रंशनं वा कुर्वीत । या भद्रा तस्यामसौ प्रतिबन्धं कुर्यात्, निर्गच्छन्त्यां वा तस्यां प्रतिगमनादीनि स विदधीत । अत्रेदं द्वितीयषदम्__ [भा.५७२५] वितियं अछित्तिकरो, बहुवक्खेवे गणम्मि पुच्छित्ता । ___ Page #279 -------------------------------------------------------------------------- ________________ २७६ बृहत्कल्प-छेदसूत्रम् -३-५/१४६ सुत्त-ऽत्थझरणहेतुं, गीतेहि समंस निग्गछे॥ वृ-योऽव्यवच्छित्तिकरो भविष्यति ससूत्रार्थो गृहीत्वा बहुव्याक्षेपे 'गणे' गच्छे गुरूनापृच्छय तेषामुपदेशेन गीतार्थे साधुभि समं सूत्रा-ऽर्थस्मरणहेतोर्गणाद् निर्गच्छेत् । एतद् द्वितीयपदमत्र मन्तव्यम् ॥ मू. (१४७) भिक्खू य अहिगरणं कट्ठ तं अहिगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उवसंपञ्जित्ताणं विहरित्तए, कप्पइ तस्स पंचराइंदियंछेयंकटु, परिनिव्वविय परिनिव्वविय दोच्चं पितमेव गणं पडिनिज्जाएअव्वेसिया, जहा वा तस्स गणस्स पत्तियं सिया॥ -अस्य सम्बन्धमाह[भा.५७२६] एगागी मा गच्छसु, चोइजंते असंखडं होजा। ऊणाहिगमारुवणे, अहिगरणं कुञ्ज संबंधो ।। वृ- एकाकी मा गच्छ इत्येवं नोद्यमानो यदा न प्रतिपद्यते तदाऽसङ्खडं भवेत् । अथवा स निर्ग्रन्थो भूयो गच्छं प्रविशन् ऊनायामधिकायांवाऽऽरोपणायां दीयमानायामधिकरणं कुर्यात्। एष सम्बन्धः ॥अनेनायातस्यास्य व्याख्या-भिक्षु चशब्दाद् आचार्य उपाध्यायो वाऽधिकरणं कृत्वा तदधिकरणमव्यवशमय्य इच्छेद् अन्यं गणमुपसम्पद्य विहर्तुम्, ततः कल्पते 'तस्य' अन्यगणसङ्क्रान्तस्यपञ्चरात्रिन्दिवंछेदंकर्तुम्, ततः परिनिर्वाप्यपरिनिर्वाप्य' कोमलवचः-सलिलसेकेन कषायाग्निसन्तप्तं सर्वतः शीतलीकृत्य द्वितीयमपि वारं तमेव गणं सः 'प्रतिनिर्यातव्यः' नेतव्यः स्यात्। यथा वा तस्य गणस्य प्रीतिकं स्यात्तथा कर्त्तव्यम्।एष सूत्रार्थः॥अथ भाष्यविस्तरः[भा.५७२७] सच्चित्तऽचित्त मीसे, वओगत परिहारिए य देसकहा। सम्ममणाउट्टते, अधिकरण ततो समुप्पज्जे ॥ [भा.५७२८] आभव्वमदेमाणे, गिण्हते तमेव मग्गमाणे वा। सच्चित्तेयरमीसे, वितहापडिवत्तितो कलहो॥ [भा.५७२९] विचामेलण सुत्ते, देसीभासा पवंचणे चेव। अन्नम्मि यवत्तव्बे, हीनाहिय अक्खरे चेव ।। [भा.५७३०] परिहारियमठविते, ठविते अनट्ठाइ निविसंते वा । कुच्छितकुले व पविसति, चोदितऽनाउट्टणे कलहो ।। [भा.५७३१] देसकहापरिकहणे, एक्के एक्के व देसरागम्मि। मा कर देसकहं वा, को सि तुम मम त्ति अधिकरणं ॥ [भा.५७३२] अह-तिरिय-उड्डकरणे, बंधन निव्वत्तणा य निक्खिवणं। उवसम-खएण उर्ल्ड, उदएण भवे अहेकरणं ।। [भा.५७३३] जो जस्स उ उवसमती, विज्झवणं तस्स तेन कायव्वं । जो उ उवेहं कुजा, आवजति मासियं लहुगं ।। [भा.५७३४] लहुओ उ उवेहाए, गुरुओ सो चेव उवहसंतस्स। उत्तुयमाणे लहुगा, सहायगत्ते सरिसदोसो॥ [भा.५७३५] एसो वि ताव दमयतु, हसति व तस्सोमताइ ओहसणा। Page #280 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-१४७, [भा. ५७३५ ] [मा. ५७३६ ] उत्तरदानं मा ओसराहि अह होइ उत्तुयणा ॥ वायए हत्थेहि व, पाएहि व दंत-लउडमादीहिं । जो कुणति सहायत्तं, समाणदोसं तगं बेंति ॥ [भा. ५७३७] परपत्तिया न किरिया, मोत्तु परटुं च जयसु आयट्ठे । अवि उवेहा वुत्ता, गुणो वि दोसायते एवं ।। जति परो पडिसेविज्जा, पावियं पडिसेवनं । मज्झ मोनं करेंतस्स के अट्ठे परिहायई । नागा ! जालवासीया !, सुणेह तस - थावरा ! । सरडा जत्थ भंडंति, अभावो परियत्तई ॥ [भा. ५७३८] [भा. ५७३९] [भा. ५७४०] वनसंड सरे जल-थल - खहचर वीसमण देवता कहणं । वारेह सरडुवेक्खण, धाडण गयणास मूरणता ॥ [ भा. ५७४१] तावो भेदो अयसो, हानी दंसण-चरित्त नाणाणं । साहुपदोसो संसारवड्डणो साहिकरणस्स ॥ [भा. ५७४२] अतिभणित अभणिते वा, तावो भेदो य जीव चरणे वा । रूवसरिसं न सीलं, जिन्हं व मने अयसो एवं | [भा. ५७४३] अक्कुट्ठ तालिए वा, पक्खापक्खि कलहम्मि गणमेदो । तर सूयहि व, रायादीसिट्ठे गहणादी ॥ [भा. ५७४४] वत्तकलहो उ न पढति, अवच्छलत्ते य दंसणे हानी । जह कोहादिविवड्डी, तह हानी होइ चरणे वि ॥ २७७ [मा. ५७४५ ] आगाढे अहिगरणे, उवसम अवकड्डणा य गुरुवयणं । उवसमह कुणह झायं, छड्डणया सागपत्तेहिं ॥ [ भा. ५७४६ ] जं अज्जियं समीखल्लएहि तव-नियम- बंभमइएहिं । तं दाई पच्छ नाहिस छड़ेंतो सागपत्तेहिं ॥ जं अज्जियं चरित्तं, देसूणाए वि पुव्वकोडीए । तं पि कसाइयमेतो, नासेइ नरो मुहुत्तेणं ॥ [मा. ५७४७] [भा. ५७४८ ] आयरिओ एग न भणे, अह एग निवारे मासियं लहुगं । राग-दोसविमुक्को, सीतघरसमो उ आयरिओ ।। [ भा. ५७४९ ] वारेति एस एतं, ममं न वारेति पक्खराएणं । बाहिरभावं गाढतरगं च मं पेक्खसी एक्कं ॥ वृ- एताः सर्वा अपि गाथा यथा प्रथमोद्देशके व्याख्यातास्तथैव द्रष्टव्याः ॥ एवमधिकरणं कृत्वा यः प्रज्ञापितोऽपि नोपशाम्यति स किं करोति ? इत्याह [ भा. ५७५० ] खर- फरुस - निडुराई, अध सो भणिउं अभाणियव्वाइं । निगमण कलुसहियए, सगणे अट्ठा परगणे वा ।। वृ- अथासौ खर- परुष-निष्ठुराणि अभणितव्यानि वचनानि भणित्वा कलुषितहृदयः स्वगच्छाद् Page #281 -------------------------------------------------------------------------- ________________ २७८ बृहत्कल्प-छेदसूत्रम् -३-५/१४७ निर्गमनं करोति ततो निर्गतस्य तस्य स्वगणे परगणे च प्रत्येकमष्टौ स्पर्द्धकानि वक्ष्यमाणानि भवन्ति ॥ खर-परुष-निष्ठुरपदानि व्याख्याति[भा.५७५१] उच्चं सरोस भणियं, हिंसग-मम्मवयणं खरं तंतू। ___अक्कोस निरुवचारिं, तमसमं निट्ठरं होती॥ वृ-'उच्चं' महता स्वरेण सरोषं यद् भणितं हिंसकंमर्मघट्टनवचनं वा तत् तु खरं मन्तव्यम् । जकारादिकं यद् आक्रोसवचनं यच्च निरुपचारि' विनयोपचाररहितंतत्परुषम्। यद् 'असभ्यं' सभाया अयोग्यं 'कोलिकस्त्वम्' इत्यादिकंवचनंत निष्ठुरंभण्यते॥ईशानि भणित्वा गच्छाद् निर्गतस्याचार्य प्रायश्चित्तविभागं दर्शयितुकाम इदमाह[भा.५७५२] अट्ठऽट्ठ अद्धमासा, मासा होतऽट्ट अट्ठसु पयारो। वासासु असंचरणं, न चेव इयरे विपेसंति॥ वृ- स्वगणे यान्याचार्यसत्कानि अष्टौ स्पर्धकानि तेषु पक्षे पक्षे अपरापरस्मिन् स्पर्द्धके संचरतोऽष्टावर्द्धमासाभवन्ति, परगणसत्केष्वप्यष्टसुस्पर्द्धकेषुपक्षेपक्षे संचरतोऽष्टावर्द्धमासाः, एवमुभयेऽपि मीलिता अष्टौ मासा भवन्ति । अष्टसु च ऋतुबद्धमासेषु साधूनां 'प्रचारः' विहारो भवतीति कृत्वा अष्टग्रहणं कृतम् । वर्षासु चतुरोमासान् तस्याधिकरणकारिणः साधोः संचरणं नास्ति, वर्षाकाल इति कृत्वा । 'इतरेऽपि' येषां स्पर्द्धके सान्तस्तेऽपितं प्रज्ञाप्य वर्षावास इति कृत्वा यतो गणादागतस्तत्र न प्रेषयन्ति । तत्र यानि स्वगणेऽष्टौ स्पर्द्धकानि तेषु सङ्क्रान्यस्य तैः स्वाध्याय-भिक्षा-भोजन-प्रतिक्रमणवेलासु प्रत्येकं सारणा कर्तव्या-आर्य ! उपशमं कुरु । यदि एवं न सारयन्ति ततो मासगुरुकम् ॥ तस्य पुनरनुपशाम्यत इदं प्रायश्चित्तम्[भा.५७५३] सगणम्मि पंचराइंदियाइं दस परगणे मणुनेसू । अन्नेसु होइ पनरस, वीसा तु गयस्स ओसने ।। वृ- स्वगणस्पर्द्धकेषु सङ्क्रान्तस्यानुपशाम्यतो दिवसे दिवसे पञ्चरात्रिन्दिवच्छेदः । परगणे 'मनोज्ञेषु' साम्भोगिकेषु सङ्क्रान्तस्य दशरात्रिन्दिवः, अन्यसाम्भोगिकेषु पञ्चदशरात्रिन्दिवः । अवसनेषुगतस्य विंशतिरात्रिन्दिवच्छेदः ॥एवं भिक्षोरुक्तम्।अथोपाध्याया-ऽऽचार्ययोरुच्यते[भा.५७५४] एमेव य होइ गणी, दसदिवसादी उ भिन्नमासंतो। पन्नरसादी तु गुरू, चतुसु वि ठाणेसुमासंतो॥ वृ- एवमेव 'गणिनः' उपाध्यायस्यापि अधिकरणं कृत्वा परगणं सङ्क्रान्तस्य मन्तव्यम् । नवरम्- दशरात्रिन्दिवमादौ कृत्वा भिन्नमासान्तस्तस्य च्छेदः । एवमेव 'गुरोरपि' आचार्यस्य 'चतुर्यु' स्वगण-परगण साम्भोगिका- ऽन्यसाम्भोगिका-ऽवसन्नेषु पञ्चदशरात्रिन्दिवादिको मासिकान्तश्छेदः ॥ एतत् पुरुषाणां स्वगणादिस्थानविभागेन प्रायश्चित्तमुक्तम् । अथैतेष्वेव स्थानेषु पुरुषविभागेन प्रायश्चित्तमाह[भा.५७५५] . सगणम्मि पंचराइंदियाइं भिक्खुस्स तद्दिवस छेदो। दस होंति अहोरत्ता, गणि आयरिए य पन्नरस ॥ वृ- स्वगणे सङ्क्रान्तस्य भिक्षोस्तद्दिवसादारभ्य दिने दिने पञ्चरात्रिन्दिवच्छेदः । 'गणिनः' उपाध्यायस्य दशरात्रिन्दिवः । आचार्यस्य पञ्चदशरात्रिन्दिवः॥ Page #282 -------------------------------------------------------------------------- ________________ उद्देशकः ५, मूलं-१४७, [भा. ५७५६] २७९ [भा.५७५६] अन्नगणे भिक्खुस्सा, दसेव राइंदिया भवे छेदो। पन्नरस अहोरत्ता, गणि आयरिए भवे वीसा ।। वृ- अन्यगणे साम्भोगिकेषु सङ्क्रान्तस्य भिक्षोर्दशरात्रिन्दिवच्छेदः, उपाध्यायस्य पञ्चदशरात्रिन्दिवः,आचार्यस्य विंशतिरात्रिन्दिवः । एवमन्यसाम्भोगिकेषु अवसन्नेषुच प्रागुक्तानुसारेण नेयम् ।। अथैवं प्रतिदिनं छिद्यमाने पर्याये पक्षण कियन्तो मासाअमीषां छिद्यन्ते? इति जिज्ञासायां छेदसङ्कलनामाह[भा.५७५७] अड्डाइजा मासा, पक्खे अट्ठहि मासा हवंति वीसं तू। पंच उ मासा पक्खे, अट्ठहि चत्ता उ भिक्खुस्स।। वृ-स्वगणेसङ्क्रान्तस्य भिक्षोःप्रतिदिनंपञ्चकच्छेदेनच्छिद्यमानस्य पर्यायस्य पक्षणअर्द्धतृतीया मासाश्छिद्यन्ते । तथाहि-पक्षे पञ्चदश दिनानि भवन्ति, तैः पञ्च गुण्यन्ते चाष्टौ स्पर्द्धकानि, तेषु पक्षे पक्षे सञ्चरतः पञ्चकभिर्गुणितं जातानि षट् शतानि, तेषां त्रिंशता भागे हृते विंशतिर्मासा लभ्यन्ते। एवमुत्तरत्रपि गुणकार-भागाहारप्रयोगेण स्वबुध्या उपयुज्यमासाआनेतव्याः। परगणे सङ्क्रान्तस्य भिक्षोर्दशकेनच्छेदेन च्छिद्यमानस्य पर्यायस्य पक्षेण पञ्च मासाश्छिद्यन्ते, दशकेनैव च्छेदेनाष्टभि पक्षैश्चत्वारिंशद् मासाश्छिद्यन्ते ॥ एवं भिक्षोरुक्तम् । उपाध्यायस्य पुनरिदम्[भा.५७५८] पंच उमासा पक्खे, अट्टहि मासा हवंति चत्ता उ। अद्धऽट्ठ मास पक्खे, अट्ठहि सद्धिं भवे गणिणो॥ वृ- उपाध्यायस्यापि स्वगणे दशकेन च्छेदेन पक्षेण पञ्च मासाः, अष्टभिः पक्षश्चत्वारिंशद मासाश्छिद्यन्ते। तस्यैव परगणेपञ्चदशकेनच्छेदेनार्द्धाष्टममासाः पक्षणच्छिद्यन्ते।परगणएवाष्टभिः पक्षैः षष्टिसा गणिनश्छिद्यन्ते। [भा.५७५९] अद्धट्ठ मास पक्खे, अट्ठहि मासा हवंति सहिंतु। दस मासा पक्खेणं, अहहऽसीती उ आयरिए॥ वृ-आचार्यस्य स्वगणे सङ्क्रान्तस्य पञ्चदशकेनच्छेदेनच्छिद्यमाने पर्याये पक्षणार्धाष्टमासाः, अष्टभिः पक्षैः षष्टिर्मासाश्चिद्यन्ते । तस्यैव परगणे सङ्क्रान्तस्य विंशेन छेदेन पक्षण दश मासाः अष्टभिः पक्षरशीतिर्मासाश्छिद्यन्ते॥ एवंस्वगणेपरगणेचसाम्भोगिकेषुसङ्क्रान्तस्यच्छेदसङ्कलनाऽभिहिता । अन्यसाम्भोगिकेषु अवसनेषु च सङ्क्रान्तस्य भिक्षोरुपाध्यायस्याचार्यस्य चानयैव दिशा छेदसङ्कलना कर्तव्या[भा.५७६०] एसा विही उ निग्गए, सगणे चत्तारि मास उक्कोसा। चत्तारि परगणम्मिं, तेन परं मूल निच्छुभणं॥ वृ-एष विधिर्गच्छाद् निर्गतस्योक्तः ।अत्रच स्वगणेऽष्टसुस्पर्द्धकेषु पक्षेपक्षे सञ्चरतश्चत्वारो मासा उत्कर्षतो भवन्ति, परगणेऽप्येवं चत्वारोमासाः, अवसन्नेष्वपि चत्वारोमासाः। ततः परं यदि उपशान्तस्ततो मूलम् । अथ नोपशान्तस्तदा निष्काशनं कर्तव्यम्, लिङ्गमपहरणीयमित्यर्थः। [भा.५७६१] चोएइ राग-दोसे, सगण परगणे इमं तु नाणतं । पंतावण निच्छुभणं, पर-कुलधर घाडिए न गया। वृ-शिष्यःप्रेरयति-राग-द्वेषिणोयूयम्, यत्स्वगणेस्तोकंछेदप्रायश्चित्तंदत्तपरगणेतुप्रभूतम्, Page #283 -------------------------------------------------------------------------- ________________ - २८० बृहत्कल्प-छेदसूत्रम् -३-५/१४७ एवं हि स्वगणे भवतांरागः परगणे द्वेषः । गुरुराह-इदं छेदनानात्वं कुर्वन्तो वयं न राग-द्वेषिणः । तथा चात्र दृष्टान्तः- एगस्स गिहिणो चउरो भज्जाओ। तातोय तेन सरिसे अवराहे पंतावित्ता ‘मम गिहा ओ नीह' त्ति निच्छूढा । तत्थेगा कम्हिइ परघरम्मि गया। बिइया कुलघरं । तईया 'भत्तुणो एगसरीरो वयंसो' त्ति तस्स घरं गया । चउत्थी निच्छुभंती बारसाहाए लग्गा हम्ममाणी विन गच्छइ, भणई य-कतो वच्चामि? नत्थि मे अन्नो गइविसओ, जइ वि मारेसि तहावितुमंचेव गई सरणं ति तत्थेव ठिया॥ - इदमेवाह-“पंतावण" इत्यादि । केनापि गृहिणा चतसृणां भार्याणां 'प्रान्तापन कुट्टनं कृत्वा गृहाद् निष्काशनं कृतम् । तत्रैका परगृहं द्वितीया कुलगृहं तृतीया 'घाटिकः' मित्रं तद्ध हंगता, चतुर्थी तुन कापि गता ॥ तओ तुडेण चउत्थी घरसामिणी कया। तइयाएघाडियघरंजंतीए सो चेव अनुवत्तितो, विगतरोसेण खरंटिता आणिता य । बिइयाए कुलघरं जंतीए पिउगिहबलं गहियं, गाढतरंरुटेणअन्नेहिं भणिए विगतरोसेण खरंटितादंडियाय। पढमा 'दूरे नट्ठत्तिन ताए किंचिपओयणं महंतेन वा पच्छिदंडेणदंडिउंआणिज्जइ। एवंपरट्ठाणीयाओसन्ना, कुलघरठाणीया अन्नसंभोइया, गाडियसमा संभोइया, अनिग्गमे सघरसमोसगच्छो । जाव दूरतरं ताव महंततरो दंडो भवइ॥अथ गच्छादनिर्गतस्य विधिमाह[भा.५७६२] गच्छा अनिग्गयस्सा, अनुवसमंतस्सिमो विही होइ। सज्झाय भिक्ख भत्तट्ठ वासए चउर एक्कक्के ।। वृ-गच्छादनिर्गतस्यानुपशाम्यतोऽयंविधिर्भवति-सूर्योदयकाले यःस्वाध्यायः क्रियते तदवसरे प्रथममसौ नोद्यते, द्वितीयं भिक्षावतरणवेलायाम्, तृतीयं भक्तार्थनाकाले, चतुर्थं प्रादोविकावश्यकवेलायाम् । एवं चतुरो वारानेकैकस्मिन् दिने नोद्यते ॥ तच्चाधिकरणं प्रभाते प्रतिक्रान्तानां स्वाध्यायेऽप्रस्थापिते एवमादौ कारणे उत्पद्येत[भा.५७६३] दुप्पडिलेहियमादिसु, चोदिए सम्मं तु अपडिवजंते। नवि पट्ठवेंति उवसम, कालो न सुद्धो जियं वा सिं ।। वृ-दुष्प्रत्युपेक्षितं कुर्वन् आदिशब्दाद् अप्रत्युपेक्षमाणोऽसामाचार्या वा प्रत्युपेक्षमाणोनोदितः सम्यग् यदि न प्रतिपद्यते ततोऽधिकरणं भवेत् । उत्पन्ने चाधिकरणं यदि स्वाध्यायेऽप्रस्थापिते स्वयमेवोपशान्तस्ततो लष्टम् । अथन नोपशान्तस्ततो यः प्रस्थापनार्थमुपतिष्ठते स वारणीयः, यथा-तिष्ठतु तावद्यावत् सर्वेऽपि मिलिताः। तत आगतेषु सर्वेषु सूरयो ब्रुवते-आर्य! उपशाम्य, इमे साधवः स्वाध्यायंन प्रस्थापयन्ति।स वष्टोत्तरंप्रयच्छति-अवश्यं कालो न शुद्धः परिजितंवा एषांसाधूनां सूत्रश्रुतं ततोन प्रस्थापयन्ति। एवं भणतोमासगुरु ।साधवश्च सर्वेऽपि प्रस्थापयन्ति स्वाध्यायं च कुर्वन्ति ॥काले प्रतिक्रान्ते भिक्षावेलायां जातायामिदमाचार्या भणन्ति[भा.५७६४] नोत्तरणे अभतट्ठी न व वैला अभुंजणे न जिन्नं सिं। न पडिक्कमंति उवसम, निरती यारानु पच्चाह । वृ-आर्य ! साधवस्त्वदीयेनानुपशमनेन भिक्षां नावतरन्ति । स प्राह-नूनमभक्तार्थिनो न वा भिक्षावेला । एवमुक्ते सर्वेऽप्यवतरन्ति । तस्यानुपशान्तस्य द्वितीयं मासगुरु । भिक्षानिवृत्तेषु साधुषु गुरवो भणन्ति-आर्य ! साधवो न भुञ्जते । स प्राह-नूनं साधूनां न जीर्णम् । एवमुक्ते Page #284 -------------------------------------------------------------------------- ________________ उद्देशक ः ५, मूलं-१४७, [भा. ५७६४] २८१ सर्वेऽपि समुद्दिशन्ति । तस्य पुनस्तृतीयं मासगुरु । भूयोऽपि प्रतिक्रमणवेलायां भणन्ति-आर्य! साधवो न प्रतिक्रामन्ति, उपशमं कुरु । स वष्टोत्तरं प्रत्याह-'नुः' इति वितर्के, सम्भावयाम्यहम्निरतीचाराःश्रमणास्तेन नप्रतिक्रामन्ति। एवमुक्तेसर्वेऽपिप्रतिक्रामन्ति । तस्य पुनश्चतुर्गुरुकम्। एवं प्रभातकाले अधिकरणे उत्पन्ने विधिरुक्तः॥ [भा.५७६५] अन्नम्मि वि कालम्मिं, पढंत हिंडंत मंडली वासे । तित्रि व दोन्नि व मासा, होति पडिक्कते गुरुगा उ॥ वृ-अथान्यस्मिन् कालेऽधिकरणमुत्पन्नम् । कदा? इत्याह-'पठतां' हीना-ऽधिकादिपठने भिक्षां हिण्डमानानां मण्डल्यांवा समुद्दिशतामावश्यकेवा। तत्र यदि द्वितीयवेलायामधिकरणमुत्पन्न तदा चतुर्थवेलायामनुपशान्तस्य त्रयो गुरुमासाः, तृतीयवेलायामुत्पनेऽनुपशान्तस्य द्वौ गुरुमासौ, एवं विभाषा कर्तव्या । अथ 'प्रतिक्रान्ते' प्रतिक्रमणे कृतेऽपि नोपशान्तस्ततश्चतुर्गुरुकाः॥ [भा.५७६६] एवं दिवसे दिवसे, चाउक्कालं तु सारणा तस्स। जति वारे न सारेती, गुरुगो गुरुगो तती वारे॥ वृ-एवमनुपशान्तस्य दिवसे दिवसे 'चतुष्कालं' स्वाध्यायप्रस्थापनादिसमयरूपंतस्य सारणा कर्तव्या । 'यति' यावतो वारान् आचार्यो न सारयति 'तति' तावतो वारान् मासगुरुकाणि भवन्ति। [भा.५७६७] एवं तुअगीतत्थे, गीतत्थे सारिए गुरू सुद्धो। जति तं गुरून सारे, आवत्ती होइ दोण्हं पि ।। वृ-एवं दिने दिने सारणाविधिरगीतार्थस्य कर्तव्यः ।यस्तुगीतार्थस योकंदिनं स्वाध्यायभिक्षाभक्तार्थना-ऽऽवश्यकलक्षणेषु चतुर्तास्थानेषुसारितः तदापरतस्तमसारयन्नपि गुरुशुद्धः । यदि पुनः ‘तम्' अगीतार्थं गीतार्थं वा गुरुर्न सारयति ततः 'द्वयोरपि' आचार्यस्यानुपशाम्यतश्च प्रायश्चित्तस्यापत्ति।अन्ये ब्रुवते-अगीतार्थस्यानुपशाम्यतोऽपिनास्तिप्रायश्चित्तम्, यस्तुगुरुरगीतार्थं न नोदयति तस्य प्रायश्चित्तम् ॥ [भा.५७६८] गच्छो य दोनि मासे, पक्खे पक्खे इमं परिहवेति। भत्तहण सज्झायं, वंदन लावंततो परेणं । वृ-एवमनुपशाम्यन्तं तं गच्छो द्वौ मासौ सारयति, इदं पुनः पक्षे पक्षे परिहापयति । तद्यथाअनुपशान्तस्य पक्षे गते गच्छस्तेन सार्द्धं भक्तार्थनं न करोति, न गृह्णाति वा न वा किमपि तस्य ददातीत्यर्थः । द्वितीये पक्षे गते स्वाध्यायं तेन समंन करोति । तृतीये पक्षे गते वन्दनं न करोतिन वा प्रतीच्छति । चतुर्थोऽपि पक्षो यदा गतो भवति ततः परमालापमपि तेन सार्द्ध वर्जयन्ति॥ [भा.५७६९] आयरिय चउरो मासे, संभुंजति चउरो देइ सज्झायं । वंदन लावं चउरो, तेन परं मूल निच्छुहणा॥ वृ-आचार्य पुनश्चतुरोमासान् सर्वैरपि प्रकारैस्तेन समंसम्भुङ्केततः परं चतुरोमासान् भक्तार्थनं वर्जयति स्वाध्यायं तु ददाति । ततश्चतुरो मासान् स्वाध्यायं परिहत्य वन्दना-ऽऽलापौ ददाति। ततः परं वर्षे पूर्मे सांवत्सरिके प्रतिक्रान्ते उपशान्तस्य मूलम्, अनुपशान्तस्य तुगणाद् निष्काशनं कर्तव्यम्॥ Page #285 -------------------------------------------------------------------------- ________________ २८२ बृहत्कल्प-छेदसूत्रम् -३-५/१४७ [भा. ५७७०] एवं बारस मासे, दोसु तवो सेस भवे छेदो । परिहायमाण तद्दिवस तवो मूलं पडिकंते ॥ वृ एवं द्वादशमास्यामप्यनुपशाम्यतः 'द्वयोः' आदिममासयोर्यावद् गच्छेन विसर्जितः तावत् तपः प्रायश्चित्तमेव, 'शेषेषु' दशसु मासेषु पञ्चरात्रिन्दिवच्छेदः यावत् सांवत्सरिकं पर्व प्राप्तं भवति । पर्युषणारात्रौ प्रतिक्रान्तानामधिकरणे उत्पन्ने एष विधिरुक्तः । “परिहायमाण तद्दिवस" त्ति पर्युषणापारणकदिनादेकैकदिवसेन परिहीयमानेन तावद् नेयं यावत् 'तद्दिवसं' पर्युषणादिवस एवाधिकरणमुत्पन्नं तत्र च तपो मूलं वा भवति न च्छेदः । "पडिक्कंते" त्ति अथ प्रतिक्रमणं कुर्वतामुत्पन्नं ततः सांवत्सरिके कायोत्सर्गे कृते मूलमेव केवलं भवति । एतदेव सुव्यक्तमाह[भा. ५७७१] एवं एक्केक्कदिने, हवेत्तु ठवणादिणे वि एमेव । चेइयवंदन सारे, तम्मि वि काले तिमासगुरू । वृ-भाद्रपद शुद्धपञ्चम्यां अनुदित आदित्ये यद्यधिकरणमुत्पद्यते तः पर्युषणायामप्यनुपशान्ते संवत्सरो भवति, षष्ट्यामुत्पन्ने एकदिवसोनः संवत्सरः, सप्तम्यां दिवसद्वयोनः, एवमेकैकं दिनं हापयित्वा तावद् नेयं यावत् स्थापनादिनं पर्युषणादिवसः । तत्र चानुदिते रवौ कलहे उत्पन्ने एवमेव नोदना कर्तव्या प्रथमं स्वाध्यायप्रस्थापनं कर्तुकामैः सारणीयः, ततश्चैत्यवन्दनार्थं गन्तुकामाः सारयेयुः, तत्राप्यनुपशान्ते प्रतिक्रमणवेलायां सारयन्ति । एवं तस्मिन्नपि पर्युषणाकालदिवसे त्रिषु स्वाध्यायप्रस्थापनादिषु स्थानेषु नोदितस्यानुपशान्तस्य त्रीणि मासगुरुकाणि भवन्ति ॥ [भा. ५७७२] पडिकंते पुन मूलं, पडिक्कमंते व होज अधिकरणं । संवच्छरमुस्सग्गे, कयम्मि मूलं न सेसाई ॥ वृ- पर्युषणादिने सर्वेषामधिकरणानां व्यवच्छित्ति कर्तव्येति कृत्वा 'प्रतिक्रान्ते' समाप्ते आवश्यके यदि नोपशान्तस्ततो मूलम् । “पडिक्कमंते व" त्ति अथ प्रतिक्रमणे प्रारब्धे यावत् सांवत्सरिको महाकायोत्सर्गस्तावद् अधिकरणे कृते मूलमेव केवलम्, न शेषाणि प्रायश्चित्तानि ॥ [भा. ५७७३] संवच्छरं च रुट्ठ, आयरिओ रक्खए पयत्तेण । जति नाम उवसमेजा, पव्वयरातीसरिसरोसो ॥ वृ-एवमाचार्यस्तं रुष्टं संवत्सरं प्रयलेन रक्षति । किमर्थम् ? इत्याह-‘यदि नाम' कथञ्चिदुपशाम्येत। अथ संवत्सरेणापि नोपशाम्यति ततः पर्वतराजीसद्दशरोषः स मन्तव्यः ॥ तस्य च वर्षादूर्ध्वं को विधि: ? इत्याह [भा. ५७७४] अने दो आयरिया, एक्केक्कं वरिसमेत्तमे अस्स । तेन परं गिहि एसो, बितियपदं रायपव्वइए । वृ- तं वर्षादूर्ध्वं मूलाचार्यसमीपाद् निर्गतमन्यौ द्वावाचार्यौ क्रमेणैकैकं वर्षमेतेनैव विधिना प्रयत्नेन संरक्षतः, तन्मध्याद् येनोपशमितस्तस्यैवासौ शिष्यः । 'ततः परं' वर्षत्रयादूर्ध्वमेष गृही क्रियते, सङ्घस्तदीयं लिङ्गमपहरतीत्यर्थः । द्वितीयपदे राजप्रव्रजितस्य लिङ्गं प्रस्तरदोषभयान्न ह्रियते । एवं भिक्षोरुक्तम् ॥ [भा. ५७७५] एमेव गणा-ऽऽयरिए, गच्छम्मि तवो उतिन्नि पक्खाई । दो पक्खा आयरिए, पुच्छा य कुमारदिट्ठतो ॥ Page #286 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं- १४७, [भा. ५७७५ ] २८३ वृ- एवमेव गणिन आचार्यस्य च मन्तव्यम् । नवरम्-उपाध्यायस्यानुपशाम्यतो गच्छे वसतस्त्रीन् पक्षान् तपः प्रायश्चित्तम्, परतश्छेदः; आचार्यस्यानुपशाम्यो द्वौ पक्षौ तपः, परतश्छेदः । शिष्यः पृच्छति - किं सध्शापराधे विषमं प्रायश्चित्तं प्रयच्छथ राग-द्वेषिणो यूयम् ? । आचार्य प्राहकुमारष्टान्तो ऽत्र भवति, स चोत्तरत्राभिधास्यते ॥ ये ते उपाध्यायस्य त्रयः पक्षास्ते दिवसीकृताः पञ्चचत्वारिंशद्दिवसा भवन्ति, ततः [ भा. ५७७६ ] पणयाल दिना गणिणो, चउहा काऊण साहिएक्कारा । भत्तट्ठण सज्झाए, वंदन लावे य हावेति ॥ वृ-गणिनः सम्बन्धिनः पञ्चचत्वारिंशद् दिवसाश्चतुर्धा क्रियन्ते, चतुर्भागे च साधिकाः - सपादा एकादश दिवसा भवन्ति । तत्र गच्छ उपाध्यायेन सममेकादश दिनानि भक्तार्थनं करोति, एवं स्वाध्याय-वन्दना-ऽऽलापानपि प्रत्येकमेकादश दिनानि यथाक्रमं करोति, परतस्तु परिहापवति । पञ्चचत्वारिंशद्दिवसानन्तरं चोपाध्यायस्य दशकच्छेदः । आचार्यस्तथैवोपाध्यायमपि चतुर्भिश्चतुर्भिर्मासैर्भक्तार्थनादीनि परिहापयन संवत्सरं सारयति ।। आचार्यस्य द्वौ पक्षौ दिवसीकृतौ त्रिंशद् दिवसा भवन्ति, ततः [भा. ५७७७] तीस दिने आयरिए, अद्धट्ठ दिने य हावणा तत्थ । गच्छेण चउपदेहि तु, निच्छूढे लग्गती छेदो ॥ वृ-त्रिंशद्दिवसाश्चतुर्भागेन विभक्ता अर्द्धष्टमा दिवसा भवन्ति । तत्र गच्छ आचार्येण सहार्द्धाष्टमानि दिनानि भक्तार्थनं करोति, एवं स्वाध्याय वन्दना ऽऽलापानपि यथाक्रममर्द्धाष्टमैर्दिवसैःप्रत्येकं हापयति । ततः परं गच्छेन चतुर्भिरपि भक्तार्थनादिभिः पदैर्निष्काशित आचार्य पञ्चदशके च्छेद लगति । ततः [ भा. ५७७८] संकंतो अन्नगणं, सगणेण य वज्जितो चतुपदेहिं । आयरिओ पुन नवरिं, वंदन-लावेहि नं सारे । वृ- स्वगणेन भक्तार्थनादिभिश्चतुर्भिः पदैर्यदा वर्जितस्तदा अन्यगणं सङ्क्रान्तः । स पुनरन्यगणस्याचार्य 'नवरं' केवलं वन्दना -ऽऽलापाभ्यां द्वाभ्यां पदाभ्यां सम्भुञ्जानः सारयति यावद् वर्षम् ॥ [भा. ५७७९] सज्झायमाइएहिं दिने दिने सारणा परगणे वि । नवरं पुन नाणत्तं तवो गुरुस्सेतरे छेदो ॥ वृ- परगणेऽपि सङ्क्रान्तस्याचार्यस्य स्वाध्यायादिभि पदैर्दिने दिने सारणा क्रियते । नवरं परगणे सङ्क्रान्त्येदं 'नानात्वं' विशेषः - अन्यगणसत्कस्य गुरोरसारयतस्तपः प्रायश्चित्तम्, 'इतरस्य पुनः अधिकरणकारिण आचार्यस्यानुपशाम्यतश्छेदः ॥ अत्र परः प्राह-रागद्वेषिणे यूयम्, आचार्यं शीघ्रं छेदं प्रापयथ, उपाध्यायं बहुतरेण कालेन, भिक्षं ततोऽपि चिरतरेण, एवं हि भिक्षूपाध्याययोर्भवतां रागः आचार्ये द्वेषः । अत्र सूरि प्रागुद्दिष्टं कुमार दृष्टान्तमाह [भा. ५७८० ] सरिसावराधेदंडो, जुवरन्नो भोगहरण-बंधादी । मज्झिम बंध- वहादी, अवत्ति कन्नादि खिंसा वा ॥ वृ- एगस्स रन्नो तिन्नि पुत्ता- जेट्ठो मज्झिमो कनिट्ठो य । तेहि य तिहि वि सामच्छियं पितरं Page #287 -------------------------------------------------------------------------- ________________ २८४ बृहत्कल्प-छेदसूत्रम् -३-५/१४७ मारित्ता रज्जं तिहा विभजामो।तंच रन्ना नायं । तत्थ जेट्टो 'जुवराया तुमंपमाणभूओ कीस एवं करेसि?' तितस्स भोगहरण-बंधण-ताडणादियासव्वेदंडप्पगाराकया।मज्झिमो एयप्पहाणो'त्ति काउं तस्स भोगहरणं न कयं बंध-वह-खिंसाईया कया। कनीयसो ‘एएहिं वियारिउत्ति काउं तस्स कन्नविवोडदंडो खिंसादंडो य कओ न भोगहरणाईओ। अक्षरगमनिका-सशेऽप्यपराधे युवराजस्य भोगहरण-बन्धनादिको महान् दण्डः कृतः, मध्यमस्य बन्ध-वधादिकोन भोगहरणम्, अव्यक्तः-कनिष्ठस्तस्य कर्णामोटिकादिकः खिंसा च कृता । अयमर्थोपनयः-यथा लोके तथा लोकोत्तरेऽप्युत्कृष्ट-मध्यम-जघन्येषुपुरुषवस्तुषुबृहत्तमो लघुर्लघुतरश्च यथाक्रमंदण्डः क्रियते।। प्रमाणभूते च पुरुषेऽक्रियासु वर्तमाने एते दोषाः[भा.५७८१] अप्पञ्चय वीसत्थत्तणं च लोगगरहा दुरहिगम्मो । आणाए य परिभवो, नेव भयं तो तिहा दंडो॥ वृ-लोकः सकषायमाचार्यं दृष्ट्वा ब्रूयात्-एत एवाचार्या भणन्ति-अकषायं चारित्रं भवति, स्वयंपुनरित्थंरुष्यन्ति। एवंसर्वेषूपदेशेष्वप्रत्ययो भवति।सेषसाधूनामपिकषायकरणेविश्वस्तता भवति । लोको वा गहाँ कुर्यात्-प्रधान एवामीषां कलहं करोतीति । रोषणश्च गुरु शिष्याणां प्रतीच्छानांच दुरधिगमो भवति । रोषणस्य चाज्ञां शिष्याः परिभवन्ति, न च भयं तेषां भवति । अतो वस्तुविशेषकारणात् त्रिधा दण्डः कृतः॥ [भा.५७८२] गच्छम्मि उ पट्टविए, जम्मि पदे स निग्गतो ततो बितियं । भिक्खु-गणा-ऽऽयरियाणं, मूलं अणवट्ठ पारंची। वृ-गच्छे यस्मिन् पदे प्रस्थापिते निर्गतस्ततो द्वितीयं पदंपरगणे सङ्क्रान्तः प्राप्नोति। तद्यथातपसि प्रस्थापितेयदि निर्गतस्ततश्छेदंप्राप्नोति, चेदेप्रस्थापितेनिर्गतस्ततोमूलम् ।एवं भिक्षोरुक्तम्। गणावच्छेदिकस्यानवस्थाप्ये आचार्यस्यपाराञ्चिके पर्यवस्यति । अथवा येन भक्तार्थनादिना पदेन गच्छाद् निर्गतस्ततो द्वितीयपदमन्यगणे गतस्य प्रारम्यते । यथा-गच्छाद् भक्तार्थनपदेन निर्गतस्ततोऽन्यंगणंगतस्य सगणस्तेन समंनभुङ्क्तेस्वाध्यायंपुनः करोति, एवं स्वाध्यायपदेन निर्गतस्य वन्दनकं करोति, वन्दनपदेन निर्गतस्यालापं करोति, आलापपदेन निर्गतस्य परगच्छश्चतुर्भिरपिपदैः परिहारं करोति, वन्दनपदे निर्गतस्यालापं करोति, आलापपदेन निर्गतस्य परगच्छश्चतुर्भिरपिपदैः परिहारं करोति । "भिक्खु-गणा-ऽऽयरियाणं" इत्यादिनातुत्रयाणामपि अन्त्यप्रायश्चित्तानि गृहीतानि ॥ द्वितीयपदमाह[भा.५७८३] कारणे अनले दिक्खा, समत्ते अनुसहितेन कलहो वा। कारणे सद्दे ठिताणं, कलहो अन्नोन तेनं वा॥ वृ-कारणे 'अनलस्' अयोग्यस्य दीक्षा दत्ता । समाप्ते च तस्मिन् कारणे तस्यानुशिष्टि क्रियते। तथाऽप्यनिर्गच्छता तेन समं कलहोऽपि कर्तव्यः । कारणे वा शब्दप्रतिबद्धायां वसतौ स्थितास्ततोऽन्योन्यं तेन वा' मैथुनशब्दकारिणा समं कलहः क्रियते येन शब्दो न श्रूयेत ॥ मू. (१४८) भिक्खू य उग्गयवित्तीए अनत्यमियसंकप्पे संथडिए निव्वितिगिंछे असनं वा४ पडिग्गाहित्ता आहारं आहारेमाणे अह.पच्छा जाणिज्जा-अनुग्गए सूरिए अत्थंमिए वा, से जंच मुहे जं च पाणिसि जंच पडिग्गहए तं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा Page #288 -------------------------------------------------------------------------- ________________ - उद्देशक : ५, मूलं-१४८, [भा. ५७८३] २८५ भुंजमाणे अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥ म. (१४९) भिक्खू य उग्गयवित्तीए अनत्यमियसंकप्पे संथडिए वितिगिंछासमावन्ने असनं वा ४ पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥ मू. (१५०) भिक्खूय उग्गयवित्तीए अनत्थमियसंकप्पे असंथडिए निव्वितिगिच्छे असनं वा ४पडिगाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्धाइयं॥ मू (१५१)भिक्खूय उग्गयवित्तीएअणत्यमियसंकप्पे असंथडिए वितिगिच्छासमावनेअसनं वा/पडिगाहित्ता आहारमाहारेमाणे जावअन्नेसिंवादलमाणे राईभोयणपडिसेवणप्पत्ते आवाइ चाउम्मासियं परिहारहाणं अनुग्घाइयं॥ वृ-अस्य सूत्रचतुष्टयस्य सम्बन्धमाह[भा.५७८४] अन्नगणं वचंतो, परिनिव्ववितो व तं गणं एंतो। विह संथरेतरे वा गेण्हे सामाए जोगोऽयं ॥ वृ-अधिकरणं कृत्वाऽनुपशान्तोऽन्यगणं व्रजन्परिनिर्वापितो वा भूयस्तमेव गणं आगच्छन् 'विहे' अध्वनि संस्तरणे इतरस्मिन् वा-असंस्तरणे 'श्यामायां' रजन्यामाहारं गृह्णीयात् । एष 'योगः' सम्बन्धः॥ अनेनायातस्यास्य व्याख्या-'भिक्षु' पूर्ववर्णितः, चशब्दाद् आचार्य उपाध्यायश्च परिगृह्यते, उद्गते आदित्ये वृत्ति-जीवनोपायो यस्य स उद्गतवृत्तिकः; पाठान्तरं वा-“उग्गयमुत्तीए"ति, मूर्तिः-शरीरम्, उद्गते रवौ प्रतिश्रयावग्रहाद् बहि प्रचारवती मूर्तिरस्य इति उद्गतमूर्तिकः, मध्यपदलोपी समासः ।अनस्तमिते सूर्ये सङ्कल्पः-भोजनाभिलाषो यस्य सोऽनस्तमितसङ्कल्पः । संस्तृतो नाम-समर्थस्तदिवसं पर्याप्तभोजी वा। “निव्वितिगिछे" त्ति विचिकित्सा-चित्तविप्लुति सन्देह इत्येकोऽर्थः, सा निर्गता यस्मात् स निर्विचिकित्सः, उदितोऽनस्तमितो वा रविरित्येवं निश्चयवानित्यर्थः । एवंविधविशेषणयुक्तोऽशनं वा पानं वा स्वादिमं वा स्वादिमं वा प्रतिगृह्य आहारम् ‘आहरन्' भुञ्जानोऽथ पश्चादेवं जानीयात्-अनुद्गतः सूर्योऽस्तमितो वाः एवं विज्ञाय "से" तस्य यच्चमुखे प्रक्षिप्तं यच्च पाणावुत्पाटितं यच्च प्रतिग्रहे स्थितंतद् ‘विविञ्चन्वा' परिष्ठापयन् 'विशोधयन्वा' निरवयवंकुर्वन् 'नो' नैवभगवतामाज्ञामतिकामति । 'तद्' अशनादिकंआत्मना भुजानोऽन्येषांवाददानोरात्रिभोजनप्रतिसेवनप्राप्त आपद्यतेचातुर्मासिकंपरिहारस्थानमनुद्धातिकम्। ___ एवमपरमपि सूत्रत्रयं मन्तव्यम् ।नवरं द्वितीयसूत्रे-संस्तृतोविचिकित्सासमापन्नश्चयोभुङ्क्ते। विचिकित्सासमापनो नाम-'किमुदितोऽनुदितो वा रवि' अथवा-'अस्तमितोऽनस्तमितो वा?' इति सन्देहदोलायमानमानसः । एवं भुञानस्यान्येषां वा ददानस्य चतुर्गुरुकम् । तृतीयसूत्रे"असंथडिए"त्ति 'असंस्तृतः' अध्वप्रतिपन्नः क्षपको ग्लानो वा भण्यते, सः 'निर्विचिकित्सः' 'नियमादनुद्गतोऽस्तमितो वा रवि' इत्येवं निसन्देहं जानानो यदि भुङ्क्ते तदापि चतुर्गुरुकम्। शेषंप्रथमसूत्रवत्॥चतुर्थसूत्रे-असंस्तृतोवचिकित्सासमापनश्चयोभुङ्क्तेस आपद्यते चातुर्मासिकं Page #289 -------------------------------------------------------------------------- ________________ २८६ बृहत्कल्प-छेदसूत्रम् -३-५/१५१ - परिहारस्थानमनुद्धातिकम् । एष सूत्रचतुष्टयार्थः ॥अथ नियुक्तिविस्तरः[भा.५७८५] संथडमसंथडे या, निव्वितिगिच्छे तहेव वितिगिच्छे। काले दव्वे भावे, पच्छित्ते मग्गणा होइ॥ वृ-प्रथमं सूत्रं संस्तृते निर्विचिकित्से, द्वितीयं संस्तृते विचिकित्सासमापने, तृतीयसंस्तुते निर्विचिकित्से, चतुर्थमसंस्तृते विचिकित्सासमापने मन्तव्यम् । तत्र प्रथमसूत्रे तावत् त्रिधा प्रायश्चित्तमार्गणा भवति-कालतो द्रव्यतो भावतश्च ॥ तत्र कालतस्तावदाह[भा.५७८६] अनुग्गय मणसंकप्पे, गवेसणे गहण भुंजणे गुरुगा। अह संकियम्मि जति, दोहि वि लहु उग्गते सुद्धो॥ वृ-अनुद्गतः-नाद्यायुद्गतो रविरित्येवं निशङ्कितेन मनःसङ्कल्पेन यो भक्त-पानस्य गवेषणं ग्रहणं भोजनं च करोति तस्य चतुर्गुरवः 'द्वाभ्यामपि तपः-कालाभ्यां गुरुकाः । अ शङ्कितेन मनःसङ्कल्पेन भुङ्क्ते ततस्त एव चतुर्गुरुका द्वाभ्यामपि लघवः । उद्गतः सूर्य इति निसन्धिग्धे मनःसङ्कल्पे भुलानः शुद्धः॥ [भा.५७८७] अत्थंगयसंकप्पे, गवेसणे गहणे भुंजणे गुरुगा। अह संकियम्मि भुजइ, दोहि विलहऽनत्यमिए सुद्धो॥ वृ-'अस्तङ्गतोरवि' इत्येवंविधेन सङ्कल्पेन गवेषणे ग्रहणे भोजने च चतुर्गुरुकाः तपसा कालेन च गुरवः । अथ 'अस्तङ्गतोऽनस्तङ्गतो वा' इति शङ्किते भुङ्क्ते ततश्चतुर्गुरुकाः 'द्वाभ्यामपि' तपः-कालाभ्यां लघवः । यः पुनरनस्तमितो रविरित्येवं निसन्दिग्धेनचेतसा भुङ्क्ते स शुद्धः॥ अथ "उग्गयवित्ती" इत्यादिपदव्याख्यानमाह[भा.५७८८] उग्गयवित्ती मुत्ती, मनसंकप्पे य होति आएसा । एमेव अनत्थमिए, धाए पुन संखडी पुरतो॥ वृ-उद्गते रवौ वृत्ति-वर्तनं यस्य स उद्गतवृत्ति। पाठान्तरेण 'उद्गतमूर्ति' इति वा, उद्गते सूर्ये मूर्ति-शरीरं वृत्तिनिमित्तं बहिः सप्रचारं यस्य स उद्गतमूर्ति । मनःसङ्कल्पे चामी आदेशा भवन्ति-अनुदितमप्यादित्यं यो मनःसङ्कल्पेन उदितं मन्यते स भुजानोऽपि न दोषभाग भवति, यः पुनरुदितेऽपिरवौ 'नाद्याप्युदितः' इतिचेतसामन्यमानोभुङ्क्तेससदोषः। एवमेवानस्तमितेऽपि मन्तव्यम् । किमुक्तं भवति?-अस्तमितेऽपि रवौ 'नाद्याप्यस्तङ्गतः' इतिबुध्या भुआनोऽपिन प्रायश्चित्ती, अनस्तमितेऽपिच 'अस्तङ्गतः' इत्यभिप्रायेण मुआनः सदोषः। अथवा-"मनसंकप्पे अहोति आदेस"त्तिअनुदितमनःसङ्कल्पा-ऽस्तमितमनःसङ्कल्पयोः कतरो गुरुतरोलघुतरो वेति चिन्तायांद्वावादेशौ भवतः, तौचोत्तरत्राभिध्यास्येते।अनुदितेऽस्तमितेवा कथं ग्रहणं सम्भवति? इत्याह-“घातेपुन संखडी पुरतो' त्ति ध्रातंसुभिक्षमिति चैकोऽर्थः, तत्र सङ्खडी सम्भवति।साच द्विधा-पुरःसङ्घडी पश्चात्सङ्खडी च । तत्र पूर्वाह्ने या क्रियते सा पुरःसङ्खडी, अपराह्ने तु क्रियमाणा पश्चात्सङ्खडी । इह पुनरनुदिते रवौ पुरःसङ्खडी, पुनःशब्दग्रहणाद् अस्तमिते पश्चात्सङ्खडीति॥ [भा.५७८९] सूरे अनुग्गतम्मिं, अनुदित उदिओ व होति संकप्पो। एवं अत्यमियम्मि वि, एगतरे होति निस्संको॥ वृ-सूर्येऽनुद्गतेऽनुदितसङ्कल्प उदितसङ्कल्पो वा भवेत्, उपलक्षणं चैतत्, उदितेऽप्यनुदित Page #290 -------------------------------------------------------------------------- ________________ उद्देशक ः ५, मूलं-१५१, [भा. ५७८९] २८७ उदित इति वा सङ्कल्पो भवेत् । एवमेवाऽस्तमितेऽपि 'एकतरः' अनस्तमितोऽस्तमितो वा निशङ्को मनःसङ्घल्पो भवति, उपलक्षणत्वाद् अनस्तमितेऽप्यस्तमितसङ्कल्पोऽनस्तमितसङ्कल्पोवाभवेत्। इहानुदितोदितविषयाऽनस्तमिता-ऽस्तमितविषया च प्रत्येकं षोडशभङ्गी भवति । तद्यथाअनुदितमनःसङ्कल्पो अनुदितगवेषी अनुदितग्राही अनुदितभोजी, एवं चतुर्भिः पदैः सप्रतिपक्षैभङ्गरचनालक्षणेन षोडश भङ्गा रचयितव्याः। रचितेषुच भङ्गेषु यत्र द्वयोर्मध्यपदयोः परस्परं विरोधो दृश्यते मध्यपदेषु वा द्वयोरेकस्मिन् वा उदितो दृष्टो अन्त्यपदेषु पुनरनुदितस्ते भङ्गा विरुध्यमानत्वेन वर्जनीयाः शेषाग्राह्याः। तथाअनस्तमितसङ्कल्पोऽनस्तमितगवेषीअनस्तमितग्राही अन्सतमितभोजी, एवमपि षोडश भङ्गाः कर्तव्याः । अत्रापि यत्रमध्यमपदेषु परस्परं विरोधो दृश्यते यत्र वा मध्यमपदेषु द्वयोरेकस्मन् वा अस्तमितो दृष्टोऽन्त्यपदे चानस्तमितस्ते भङ्गा अघटमानकत्वेन वर्जनीयाः शेषा ग्राह्याः । अनुदितोदिता-ऽस्तमिता-ऽनस्तमितेषु चतुर्वपि स्थानेषु यावन्तो भङ्गा घटमानकास्त प्रदर्शनार्थमाह[भा.५७९०] अनुदियमनसंकप्पे, गहण गवेसी य भुंजणे चेव । - उग्गयऽनत्थमिए या, अत्थंपत्ते वि चत्तारि॥ वृ- अनुदितमनःसङ्कल्पे गवेषण-ग्रहण-भोजनाख्यैस्त्रभि पदैर्येऽष्टौ भङ्गास्तेषु 'चत्वारः' प्रथमद्वितीय-चतुर्था-ऽष्टामभङ्गा घटन्ते, शेषाश्चत्वारोऽघटमानकाः । उद्गतमनःसङ्कल्पेऽप्येत एव चत्वारो घटन्ते न शेषाः। अनस्तमितसङ्कल्पे अस्तंप्राप्तसङ्कल्पेऽपि चैत एव चत्वारो ग्राह्याः, शेषास्तु तृतीय-पञ्चम-षष्ठ-सप्तमा असम्भवित्वाद् वर्जनीयाः॥ अथैतेषामेव गटमानकभङ्गानां विभागतः प्ररूपणामाह[भा.५७९१] अनुदितमनसंकप्पे, गवेस-गह-भोयणम्मि पढमलता। बितियाए तिसुअसुद्धो, उग्गयभोई उ अंतिमओ॥ वृ-अनुदितमनःसङ्कल्पोऽनुदितगवेषी अनुदितग्राही अनुदितभोजी १, एषा प्रथमा लता, प्रथमो भङ्ग इत्यर्थः। द्वितीयस्यांतुलतायां साधुस्त्रषुपदेषुअविशुद्धः, तद्यथा-अनुदितसङ्कल्पोऽनुदितगवेषी अनुदितग्राही उद्गतभोजी, इयं हि लता सङ्कल्प-गवेषण-ग्रहणपदैस्त्रिभिरशुद्धा उद्गतभोजित्वरूपेणान्त्यपदेन तु शुद्धा ।। [भा.५७९२] तइयाए दो असुद्धा, गहणे मोती य दोन्नि उ विसुद्धा । संकप्पम्मि असुद्धा, तिसु सुद्धा अंतिमलया उ॥ वृ-तृतीयस्यां लतायां 'द्वे' सङ्कल्प-गवेषणपदे अशुद्धे ग्रहण-भोजनपदे तु द्वे विशुद्धे । तद्यथाअनुदितसङ्कल्पोऽनुदितगवेषी उदितग्राही उदितभोजी चेति । 'अन्त्यलता नाम' अनुदितसङ्कल्पस्य चरमा लता चतुर्थीत्यर्थः, सा सङ्कल्पपदेऽविशुद्धा शेषैः त्रिभि पदैः शुद्धा ।तद्यथा-अनुदितसङ्कल्प उदितगवेषी उदितग्राही उदितभोजी ॥ एवमनुदितमनःसङ्कल्पस्य चतस्रो लता उक्ताः । अथोदितमनःसङ्कल्पस्य चतस्रो लता आह. [भा.५७९३] उग्गयमनसंकप्पे, अनुदिते गवेसी य गहण भोगी य। - एमेव य बितियलता, सुद्धा आदिम्मि अंते य ।। [मा.५७९४] ततियलताए गवेसी, होइ असुद्धो उ सेसगा सुद्धा। Page #291 -------------------------------------------------------------------------- ________________ २८८ बृहत्कल्प-छेदसूत्रम् -३-५/१५१ सम्वविसुद्धा उ भवे, चउत्थलतिया उदियचित्ते ॥ वृ-आदित्य उद्गतोऽनुग्दतोवा भवतु सनियमादुद्गतं मन्यत इत्युद्गतमनःसङ्कल्प उच्यते। तस्य प्रथमलता-उद्गतमनःसङ्कल्पोऽनुदितगवेषी अनुदितग्राही अनुदितभोजी १ । एवमेव च द्वितीयलताऽपि द्रष्टव्या, नवरमादिपदे अन्त्यपदे च सा शुद्धा मध्यमे पदद्वयेऽशुद्धा २॥ दृतीयलतायामेक गवेषणापदमशुद्धम् शेषाणि' सङ्कल्प-ग्रहण-भोजनपदानि त्रीण्यपि शुद्धानि ३।चतुर्थीतुलता सर्वेषुपदेषुशुद्धा४। एताश्चतस्रऽप्युदितचित्तविषया लताभावस्य विशुद्धतया शुद्धाः प्रतिपत्तव्याः। एवमस्तमिता-ऽनस्तमितसङ्कल्पयोरप्यष्टौ लता भवन्ति ।। तासामेव विभागमुपदर्शयति[भा.५७९५] अत्थंगयसंकप्पे, पढम धरेंतेसि गहण भोगी य । दोसंतेसु असुद्धा, बितिया मज्झे भवे सुद्धा ।। वृ-इहास्तमितमनस्तमितं वारविंयो नियमादस्तमितंमन्यते सोऽस्तङ्गतसङ्कल्पः, तस्य प्रथमा लता-अस्तमितसङ्कल्पोऽनस्तमितगवेषीअनस्तमितग्राहीअन्स्तमितभोजी १;अतएवाह-प्रथमायां लतायां “धरेंतेसि"त्ति ध्रियमाणे सूर्ये भक्त-पानस्य एषणं ग्रहणं भोजनं च 'अस्तङ्गतो रवि' इतिबुध्या करोति । द्वितीया तुलता 'द्वयोः' आद्यन्तरपदयोरशुद्धा 'मध्ये गवेषणाग्रहणपदयोः शुद्धा २॥ [भा.५७९६] ततिया गवसणाए, होति विसुद्धा उ तीसु अविसुद्धा। चत्तारि वि होति पदा, चउत्थलतियाए अत्थमिते ।। वृ- तृतीया गवेषणायां विशुद्धा 'त्रिषु' शेषेषु सङ्कल्पादिष्वविशुद्धा ३ । चतुर्थलतायां चास्तमितविषयत्वात्चत्वार्यपि पदान्यविशुद्धानि । अस्तमितमनःसङ्कल्पः' इतिकृत्चतस्रोऽप्येता अविशुद्धाः ४॥ अथ विशुद्धलता आह[भा.५७९७] अनत्थंगयसंकप्पे, पढमा एसीय गहण भोगी य। मन एसि गहणसुद्धा, बितिया अंतम्मि अविसुद्धा ॥ वृ- अस्तमितमनस्तमितं वा सूर्यं यो नियमादनस्तमितं मन्यते तस्य प्रथमा लता, अनस्तमितसङ्कल्पोऽनस्तमितगवेषी अनस्तमितग्राही अनस्तमितभोजी । अत एवाह-“पढमा एसी व गहणे भोगी य" त्ति प्रथमायामनस्तमितैषी अनस्तमितग्रहण-भोजी चेति । द्वितीया तु लता मनःसङ्कल्पैषण-ग्रहपदेषु त्रिषु वशुद्धा अन्त्यपदे अविशुद्धा॥ [भा.५७९८] मन एसणाए सुद्धा, ततिया गह-भोयणेसु अविसुद्धा । संकप्पे नवरि सुद्धा, तिसुवि असुद्धा उ अंतिमिया॥ वृ-तृतीयलता मनःसङ्कल्पे एषणेच शुद्धा ग्रहणे भोजने चाविशुद्धा । अनत्या नाम' चतुर्थी लता सा नवरं सङ्कल्पपदे विशुद्धा रोषेषु 'त्रिषु' गवेषण-ग्रहण-भोजनपदेषु अशुद्धा ॥ अतराष्टास्वप्यविशुद्धलतासु प्रायश्चित्तमाह[भा.५७९९] पढमाए बितियाए, ततिय चउत्थीए नवम दसमाए। एक्कारस बारसीए, लताए चउरो अनुग्घाता॥ वृ- प्रथमायां द्वितीयस्यां चतुझं नवम्यां दशम्यामेकादश्यां द्वादश्यां चेत्यष्टासु लतासु Page #292 -------------------------------------------------------------------------- ________________ - २८९ उद्देशकः ५, मूलं-१५१, [भा. ५७९९] भावस्याविशुद्धतया चत्वारोऽनुद्धाता मासाः॥ [भा.५८००] पंचम छ स्सत्तमिया, अट्ठमिया तेर चोद्दसमिया य । पन्नरस सोलसा विय, लतातो एया विसुद्धाओ॥ वृ-पञ्चमी षष्ठी सप्तमी अष्टमी त्रयोदशी चतुर्दशी पञ्चदशी षोडशी चेत्यष्टौ लता विशुद्धाः प्रतिपत्तव्याः, सर्वत्रापि भावस्य विशुद्धत्वात् ॥अत्र शिष्यः पृच्छति[भा.५८०१] दोण्ह विकतरो गुरुओ, अनुग्गतऽत्थमिय/जमाणाणं । आदेस दोनिकाउं, अनुग्गए लहुगुरू इयरे॥ वृ-अनुद्गता-ऽस्तमितभुञानयोर्द्वयोर्मध्ये कतरो गुरुतरः-महादोषः? ।सूरिराह-आदेशद्वयं कर्तव्यम् । एके आचार्या ब्रुवते-अनुद्गतभोजिनोऽस्तमितभोजी गुरुतरः । कुतः ? इति चेद् उच्यते स संक्लिष्ट परिणामः, दिवसतो भुक्त्वा भूयो रजन्याः प्रमुख एव भुङ्क्ते, तदानीं चाविशुध्यमानः कालः; अनुदितभोजीपुनःसकलांरजनीमधिसह्य क्लान्तोभुङ्क्ते, विशुध्यमानश्च तदानीं कालः, अतोऽसौ लघुतरः । अपरो भणन्ति-अस्तमितभोजिनोऽनुदितभोजी गुरुतरः, यस्मादसौसर्वां रात्रिमधिसह्य स्तोकंकालंनप्रतीक्षतेततःसंक्लिष्टपरिणामः इतरस्तुचिन्तयतिभूयान् मया कालः सोढव्य अतो भुङ्क्ते, एवमसौ लघुतरः । एवमादेशद्वयं कृत्वा स्थितपक्ष उच्यते-अनुद्गते सूर्य प्रतिसमयं विशुध्यमानः कालो भवतीति कृत्वाऽनुदितभोजी लघुतरः 'इतरः पुनः' अस्तमितभोजीसतदानीं प्रतिसमयमविशुध्यमानःकालो भवतीति कृत्वागुरुतरः।। उक्तं कालनिष्पन्नं प्रायश्चित्तम् । अथ द्रव्य-भावनिष्पन्नमभिधित्सुराह[भा.५८०२] गेण्हण गहिए आलोयण, नमोक्कारे भुंजणे यसलेहे। ___ सुद्धो विगिंचमाणो, अविगिंचण सोहि दव्व भावे य॥ वृ-अनुदितो वाऽस्तमितो वा रविरेतेषु स्थानेषु ज्ञातो भवेत्-"गेण्हण" त्ति कृते उपयोगे पदमेदे कृते ज्ञातम्, यथा-नाद्याप्युद्गतोऽस्तमितो वा; तदा तत एव निवर्तमानः शुद्धः । अथ ग्रहणं-गवेषणं कुर्वता ज्ञातं तदापि निवर्तमानः शुद्धः । अथ गृहीते ज्ञातं ततो यद् गृहीतं तत् परिष्ठापयन् शुद्धः । अथालोचयता ज्ञातं तदापि विविञ्चन् शुद्धः । अथ भोक्तुकामेन नमस्कार भणता ज्ञातं ततोऽपि विविञ्चन् शुद्धः । भुञानेन ज्ञातं शेषं परित्यजन् शुद्धः । अथ सर्वस्मिन् भुक्ते संलेखनाकल्पं कुर्वता ज्ञातं तथापि विविञ्चन् 'शुद्धः' न प्रायश्चित्ती । अथ न विविनक्ति ततो द्रव्यतो भावतश्च 'शोधि' प्रायश्चित्तं भवति ॥ तत्र द्रव्यनिष्पन्नं तावदाह[भा.५८०३] संलेह पण तिभाए, अवड दोभाए पंच मोत्तु भिक्खुस्स। ____ मास चउ छच्च लहु-गुरु, अभिक्खगहणे तिसू मूलं ॥ - वृ-'संलेखः' कवलत्रयप्रमाणः तमवशेषमनुद्गतेऽस्तमिते वा ज्ञातेऽपि भुङ्क्ते मासलघु । पञ्चकवलानवशिष्यमाणान्भुङ्क्ते मासगुरु। त्रिभागः' दशकवलास्तान्शेषान् भुङ्क्ते चतुर्लघु। 'अपार्थः' पञ्चदशकवलास्तानवशेषान् भुञानस्य चतुर्गुरु । “दोभाग" त्ति द्वौ त्रिभागौ विंशति कवलास्तान्भुञानस्यषड्लघु । "पंचमोत्तुं"तित्रिंशतोमध्यात्पञ्च मुक्त्वायेशेषाः पञ्चाविंशति कवलास्तान्यदिभुङ्क्ते तदा षड्गुरु।एवं यथा यथा द्रव्यवृद्धिस्तथा तथा प्रायश्चित्तमपि वर्धते। 2019 Page #293 -------------------------------------------------------------------------- ________________ २९० बृहत्कल्प-छेदसूत्रम् -३-५/१५१ अभीक्ष्णग्रहणं पुनः पुनरासेवांप्रतीत्य द्वितीयं वारमेवंभुञानस्य मासगुरुकादारब्धं छेदे तिष्ठति। तृतीयंवारं चतुर्लघुकादारभ्यमूलंयावद्नेतव्यम्। एवंत्रिषुवारेषुमूलं यावत्प्रायश्चित्तंभिक्षोरुक्तम्। [भा.५८०४] एमेव गणा-ऽऽयरिए, अणवट्ठप्पो यहोति पारंची। तम्मि विसो चेव गमो, भावे पडिलोम वोच्छामि॥ . वृ- एवमेव गणिनः-उपाध्यायस्याचार्यस्य च चारणिकागमः स एव कर्तव्यः । नवरम्उपाध्यायस्य प्रथमवारं मासगुरुकादारब्धं छेदे, द्वितीयवारं चतुर्लघुकारब्धं मूले, तृतीयवारं चतुर्गुरुकादारब्धं अनवस्थाप्ये तिष्ठति । एवमाचार्यस्यापि प्रथमवारं चतुर्लघुकादारब्धं मूले, द्वितीयवारं चतुर्गुरुकादारब्धमनवस्थाप्ये, तृतीयवारंषड्लघुकादारब्धं पाराञ्चिके पर्यवस्यति। गतं द्रव्यनिष्पन्नम्। अथ भावे प्रतिलोमंप्रायश्चित्तंवक्ष्यामि-पूर्वद्रव्यवृद्धौ प्रायश्चित्तवृद्धिरुक्ता, सम्प्रति यथा यथा द्रव्यपरिहाणिस्तथा तथा परिणामसंक्लेशवृद्धिभङ्गीकृत्य प्रायश्चित्तवृद्धिमभिधास्ये ॥ तामेवाह[भा.५८०५] पंचून तिभागऽद्धे, तिभाग सेसे य पंच मोत्तु संलेहं। .. तम्मिवि सोचेव गमो, नायंपुन पंचहि गतेहिं।। वृ-'तत्रापि' भावप्रायश्चित्ते यो द्रव्यनिष्पन्ने चारणागम उक्तः स एव द्रष्टव्यः । नवरम्"पंचून"तिपञ्चभिः कवलैरूनायांत्रिंशतिशेषाः पञ्चविंशतिकवला भवन्ति, ततः पञ्चसुकवलेषु गतेषुयदिज्ञातम् ‘अनुदितोऽस्तमितो वारवि' एवं ज्ञात्वाशेषान्पञ्चविंशतिकवलान् भुञानस्य मासलघु । "तिभाग"त्ति त्रिंशत् त्रिभागेन हीना विंशतिकवलास्तान भुलानस्य मासगुरु । "अद्धि"त्ति 'अर्द्ध' पञ्चदश कवलास्तान् भुआनस्य चतुर्लघु । 'त्रिभागः' दश लम्बनास्तान् मुञानस्य चतुर्गुरु । त्रिंशतः पञ्च लम्बनान् मुक्त्वा शेषाः पञ्चविंशतिरज्ञाते भुक्ताः, ज्ञातेतु पञ्च शेषान् भुञानस्य षड्लघुकाः । संलेखनाशेषं भुआनस्य षड्गुरवः । इह प्रभूत-प्रभूततरकवले अधिका-ऽधिकतरायामितृप्तौ सञातायां शेषं स्तोकस्तोकतरमपिज्ञातेसति भुङ्क्तेतत्र परिणामः संक्लिष्टः संक्लिष्टतर इति कृत्वा बहु-बहुतरं प्रायश्चित्तम्॥ [भा.५८०६] एमेवऽभिक्खगहणे, भावे ततियम्मि भिक्खुणो मूलं । एमेव गणा-ऽऽयरिए, सपया सपदं हसति इक्कं ॥ वृ- एवमेवाभीक्ष्णग्रहणेऽपि भावनिष्पन्नं प्रायश्चित्तं भिक्षोर्द्रष्टव्यम् । नवरम्-द्वितीयवरा मासगुरुकादारब्धं छेदे तिष्ठति, तृतीयवारं चतुर्लघुकादारब्धं मूलं यावद् नेयम् । एवमेव गणिन आचार्यस्य च द्रष्टव्यम्।नवरम्-स्वपदात् स्वपदमेकमुभयोरपि हसति।तत्रोपाध्यायस्यप्रथमवारं मासगुरुकादारब्धंतृतीयवारायामनवस्थाप्ये, आचार्यस्यप्रथमवारं चतुर्लघुकादारब्धंतृतयवारायां पाराधिकेतिष्ठति।इहपूर्वमुद्गतवृत्तिपदमनस्तमितसङ्कल्पपदंचव्याख्यातंन शेषाणिसंस्तृतादीनि अतस्तानि व्याचष्टे[भा.५८०७] संथिओ संथरेती, संतयभोजी व होइ नायव्यो । पज्जत्तं अलभंतो, असंथडी छिन्नभत्तो य॥ वृ-संस्तृतो नाम पर्याप्तं भक्त-पानं लभमानः संस्तरति, अथवा यः ‘सन्ततभोजी' दिने दिने पर्याप्तमपर्याप्तं वा भुङ्क्ते स संस्तृतो ज्ञातव्यः । यस्तु पर्याप्तं भक्त-पानं न लभते चतुर्थादिना Page #294 -------------------------------------------------------------------------- ________________ २९१ उद्देशकः ५, मूलं-१५१, [भा. ५८०७] छिन्नभक्तो वा सोऽसंस्तृतः । निर्विचिकित्सपद व्याख्याति[भा.५८०८] निस्संकमनुदितोऽतिच्छितो व सूरो त्ति गेण्हती जो उ। उदित धरेते विहु सो, लग्गति अविसुद्धपरिणामो॥ वृनर्विचिकित्सो नाम निशङ्कमनुदितोऽतिक्रान्तो वा सूर्य इति मन्यते । एवं यो निशङ्कितेन चेतसा गृह्णातिसयद्यपि उदिते ध्रियमाणेवा' अनस्तमितिरवौगृह्णातितथाप्यविशुद्धपरिणामतया प्रायश्चित्ते लगति॥ __ [भा.५८०९] एमेव य उदिउत्ति व, धरइ त्ति व सढमुवगतं जस्स। स विवज्जए विसुद्धो, विसुद्धपरिणामसंजुत्तो॥ कृएवमेवयस्य सोढं' निसन्दिग्धंचित्तेउपगतम्-यदुतादित्य उदितः ध्रियतेवा' नाद्याप्यस्तमेति सयद्यपि 'विपर्यये' विपर्यासज्ञाने वर्ततेतथापिविशुद्धपरिणाम इतिकृत्वा विशुद्धः' नप्रायश्चित्ती॥ अथ यदुक्तं सूत्रे-“अहपुन एवंजाणेजा-अनुग्गए सूरिए अत्थमिएव"तितत्रोद्गतमनस्तमितं वाविंचेतसि कृत्वा गृहीतं पश्चात् पुनतिं यथा-अनुद्गतोऽस्तमितोवा; कथं पुनस्तद् ज्ञातम्? इत्याह[भा.५८१०] समि-चिंचिणिमादीणं, पत्ता पुष्फा य नलिनिमादीणं। उदय-ऽत्थमणं रविणो, कहिंति विगसंत-मउलिंता ।। वृ-शमी-चिञ्चिणिकादीनां तरूणां पत्राणि निलीनीप्रभृतीनां च पुष्पाणि विकसन्ति सन्ति रवेरुदयं कथयन्ति । एतान्येव मुकुलयन्ति सन्तिरवेरस्तमयनं कथयन्ति॥ कथं पुनरादित्य उदितोऽस्तमितो वा न दृश्यते? इत्याह[भा.५८११] अब्म-हिम-वास-महिया-महागिरी-राहु-रेणु-रयछनो। मूढदिसस्स व बुद्धी, चंदे गेहे व तेमिरिए। वृ-अम्रसंस्तृते गगने, हिमनिकरेवापतति, वर्षेणवामहिकयावापतन्याछादिते, महागिरिणा वा अन्तरिते, राहुणा वा सर्वग्रहणेनोदया-ऽसतमनयोर्गृहीते रवी, रेणुः-कटकगमनाद्युत्खाता धूलि रजः-औत्पादिकं ताभ्यां चा छन्न उदितोऽस्तमितो वा रविन ज्ञायते । दिग्मूढो वा कश्चिद् अपरां दिशंपूर्वांमन्यते, सनीचमादित्यं विलोक्य 'उद्कतमात्रआदित्यः' इतिबुध्या भक्त-पानं गृहीत्वा वसतिं प्रविष्टो यावद् मुक्तस्तावदन्धकारं जातम्, ततो जानाति- अस्तमितेऽहं भुक्त इति । अथवा 'गेहे' गृहाभ्यन्तरे कारणजाते दिवा सुप्तः, प्रदोषे चन्द्रे उदिते विबुद्धो विवरण ज्योत्स्ना प्रविष्टां दृष्ट्वा चिन्तयति-एष आदित्यातपः प्रविष्टः; स च तैमिरिको मन्दं मन्दं पश्यति ततो गृहिणा निमन्त्रितो भुक्तः । एवमादिभिः कारणैरनुदितमुदितं मन्येत उदितं वाऽनुदितम्, अस्तमितमप्यनस्तमितं अनस्तमितमप्यस्तमितम्॥ततः[भा.५८१२] सुत्तं पडुच्च गहिते, नातुं इहरा उ सो न गेहंतो। जो पुन गिण्हति नातुं, तस्सेगट्ठाणगं वड्डे ॥ वृ- यद्युद्गतोऽनस्तमितो वा इतिबुध्या सूत्रे प्रतीत्य “उग्गयवित्तीए अनत्थमियसंकप्पे" इति सूत्रप्रामाण्येन गृहीतं पश्चाच्च ज्ञातम् ‘अनुद्गतोऽस्तमितो वारवि' ततो यद् मुखे यच्च पाणौ यच्च प्रतिग्रहे तत् सर्वमपि व्युत्सृजेत् । 'इतरथा' यद्यसौ पूर्वमेवानुदितमस्तमितं वा अज्ञास्यत् __ Page #295 -------------------------------------------------------------------------- ________________ २९२ बृहत्कल्प-छेदसूत्रम् -३-५/१५१ ततो नाग्रहीष्यत् । यः पुनरनुद्गतमस्तमितं वा ज्ञात्वा गृह्णाति गृहीत्वा वा भुङ्क्तेऽन्येषां वा ददातितस्यैकंस्थानकंवर्द्धयेत्, तंप्रतीत्य "तं जमाणे अन्नेसिंवादलमाणेआवजइ चाउम्मासियं परिहारट्ठाणं अनुग्धाइयं" इत्युत्तरं सूत्रखण्डं वर्धयेदिति भावः ॥ अथ विवेचन-विशोधनपदे व्याचष्टे[भा.५८१३] सव्वस्स छड्डण विगिंचणा उमुह-हत्य-पादछूढस्स। फुसण धुवणा विसोहण, सकिं व बहुसो व नाणतं॥ वृ-अनुदितमस्तमितं वा ज्ञात्वा यद् मुखे प्रक्षिप्तं तस्य ज्ञाते सति खेलमल्लके यत् प्रक्षेपणम्, यच हस्ते-पाणौ तस्य प्रतिग्रहे, यत् पात्रे-प्रतिग्रहे तस्य स्थण्डिले, एवं सर्वस्यापि यत् परिष्ठापनं सा विवेचना । यत् तु "फुसणं" हस्तेनामर्शनं 'धावनं' कल्पकरणं सा विशोधना । अथवा 'सकृत् एकशः परिष्ठापन-स्पर्शन-धावनानांकरणंविवेचना, एतेषामेव बहुशः करणं विशोधनम्। एतद् विवेचन-विशोधनयो नात्वमुक्तम् ॥अथ “नो अइक्कमइ"त्ति पदं व्याख्याति[भा.५८१४] नातिकमती आणं, धम्म मेरं वरातिभत्तंवा। अत्तटुंगागी वा, सय मुंजे सेस देजा वी॥ वृ-एवं विविञ्चविशोधयन्वातीर्थकृतामाज्ञांनातिक्रामति।अथवा श्रुतधर्मचारित्रमर्यादां रात्रिभक्तव्रतं वा नातिकामति । "तं भुंजमाणे अनेसि वा दलमाणे" त्ति पदद्वयं व्याख्यायते"अत्तट्टे" इत्यादि, 'आत्मार्थिकः' आत्मलाभाभिग्रही कारणे वा य एकाकी स स्वयं भुङ्क्ते नान्येषां ददाति । 'शेषः पुनः' अनात्मलाभी अनेकाकी वा स अन्येषामपि दद्यात् स्वयमपि भुञ्जीत ॥गतंप्रथमं संस्तृतनिर्विचिकित्ससूत्रम् । अथ द्वितीयंसंस्तृतविचिकित्ससूत्रं व्याख्याति[भा.५८१५] एवं वितिगिच्छो वी, दोहि लहू नवरितेतु तव-काले। तस्स पुन हवंति लता, अट्ठ असुद्धा न इतरातो॥ वृ-विचिकित्सते-'किं उदितो रवि? उतअनुदितः?' इत्यादिसंशयंकरोतीति विचिकित्सः, सोऽप्येवमेव वक्तव्यः । नवरम्-यानि तस्य तपोऽर्हाणि प्रायश्चित्तानि तानि तपसा कालेन च लघुकानि । 'तस्य च' विचिकित्सस्य पुनरशुद्धा एव केवला अष्टौ लता भवन्ति न 'इतराः' शुद्धाः, सङ्कल्पस्य शङ्कितत्वेन प्रतिपक्षाभावात् ॥ कथं पुनरसौ शङ्कां करोति? इत्याह[भा.५८१६] अनुदिय उदिओ किं नुहु, संकप्पो उभयहा अदिटेउ। धरति न वत्ति व सूरो, सो पुन नियमा चउण्हेक्को। कृ'उभयथा उदयकालेऽस्तमनकालेवाअभ्र-हिमादिभिकारणैरष्टैआदत्ये सङ्कल्पोभवति, किमनुदितउदितो वा रवि? अस्तमनकालेऽपि-सूर्योध्रियतेन वा? इतिशङ्का भवति । स पुनः सूर्यो नियमादनुदित उदितोऽस्तमितोऽनस्तमितो वा ? इति चतुर्णा विकल्पानामेकतरस्मिन् वर्तते। भङ्गाः पुनरत्रेत्थमुच्चारणीयाः-उदयं प्रतीत्यविचिकित्सेमनःसङ्कल्पेसतिविचिकित्सितगवेषी विचिकित्सितग्राही विचिकित्सितभोजी, एवमष्टौ भङ्गाः; अस्तमनमपि प्रतीत्यैवमेवाष्टौ भङ्गाः। द्वयोरप्यष्टभङ्गयोःप्रथम-द्वितीय-चतुर्था-ऽष्टमा भङ्गाघटमानकत्वाग्राह्याः, शेषाश्चत्वारोऽग्राह्याः। गतं द्वितीयं संस्तृतविचिकित्ससूत्रम् । अथ तृतीयमसंस्तृतनिर्विचिकित्ससूत्रं व्याचिख्यासुराह [भा.५८१७] तव-गेलन-ऽद्धाणे, तिविहो तु असंथडी विहे तिविहो। Page #296 -------------------------------------------------------------------------- ________________ २९३ उद्देशकः ५, मूलं-१५१, [भा. ५८१७] तवऽसंथड मीसस्सा, मासादारोवणा इणमो।। वृ-असंस्तृतो नाम षष्ठा-ऽष्टमादिना तपसा क्लान्तो १ ग्लानत्वेन वाऽसमर्थो २ दीर्घाध्वनि वा गच्छन् पर्याप्तं न लभते ३, एष त्रिविधोऽसंस्तृतः । 'विहे तिविहो" ति 'विहे" अध्वनि योऽसंस्तृतः स त्रिविधः, तद्यथा-अध्वप्रवेशेऽध्वमध्येऽध्वोत्तारे च । तत्र तपोऽसंस्तृतस्य निर्विचिकित्सस्य मासादिका इयमारोपणा भवति। "मीसस्स"त्ति मिश्रो नाम-विचिकित्सासमापन्नस्तस्यापि मासादिरारोपणा कर्तव्या। साचोत्तरत्राभिधास्यते । इहापि पूर्वक्रमेणषोडश लताः कर्तव्याः, कालनिष्पन्नंच प्रायश्चित्तंप्राग्वत्॥द्रव्य-भावप्रायश्चित्तयोस्त्वयं विशेषः-तपोऽसंस्तृतो विकृष्टतपःक्लान्तः पारणकेऽनुद्गतेऽस्तमिते वा उदिता-ऽनस्तमितुध्या भक्त-पानीये भुञानो यदाऽनुद्गतमस्तमितं वा जानाति ततः परं भुआनास्येद् प्रायश्चित्तम्[भा.५८१८] एक्क-दुग-तिनि मासा, चउमासा पंचमास छम्मासा। सव्वे वि होंति लहुगा, एगुत्तरवड्डिया जेणं ॥ वृ-संलेखनाशेषं यदिज्ञातेभुङ्क्तेतत एकमासिकम्।पञ्चकवलान् समुद्दिशति द्विमासिकम्। दश लम्बनान् समुद्दिशति त्रैमासिकम् । पञ्चदश कवलान् भुानस्य चतुरमासिकम् । विंशतिं भुञानस्य पञ्चमासिकम् ।अथपञ्च कवला विशुद्धभावेन समुद्दिष्टाः शेषान् पञ्चविंशतिकवलान् ज्ञाते भुङ्क्ते ततः पाण्मासिकम् । एतानि सर्वाण्यपि लघुकानि प्रायश्चित्तानि भवन्ति । कुतः? इत्याह-येन कारणेनैकोत्तरवृद्धया द्विव्यादिरूपया अमूनि वर्द्धितानि ॥इदमेव व्यनक्ति[भा.५८१९] दुविहाय होइ वुट्टी, सहाणे चेव होइ परठाणे । - सट्ठाणम्मि उ गुरुगा, परठाणे लहुग गुरुगावा।। वृ-द्विविधाच भवति वृद्धिः। तद्यथा-स्सस्थानवृद्धि परस्थानवृद्धिश्च । स्वस्थानवृद्धिर्नियमाद् गुरुका भवति, तथाहि-यदामासलघुकामासमेवस्वस्थानंसङ्कामतितदा नियमामासगुरुकमेव, एवं द्विमासलघुकाद्विमासगुरुकम्, यावत्षण्मासलघुकात्षण्मासगुरुकम्। परस्थानवृद्धिस्तु विसशसङ्खायाका वृद्धि, यथा-मासाद् द्वौ मासौद, द्वाभ्यां मासाभ्यां त्रयो मासाः, एवं यावत् पञ्चमासात्षण्मासाः। एषापरस्थानवृद्धिलघुकावागुरुका वा भवेत्।तत्र लघुकस्थानादारब्धा लघुका गुरुकस्थानादारब्धा गुरुका भवति । अत्र च मासलघुकादारब्धा अतः सर्वाण्यपि लघूनि द्रष्टव्यानि॥ [भा.५८२०] भिक्खुस्स ततियगहमे, सट्ठाणं होइ दव्वनिष्फन । भावम्मि उ पडिलोमं, गणि-आयरिय विएमेव॥ वृ-भिक्षोर्द्धितीयवारंवैमासिकाद्वारब्धंछेदेतिष्ठति, तृतीयवरंग्रहणे त्रैमासिकादारब्धं स्वस्थानं' मूलं यावद् नेयम् । एवंद्रव्यनिष्पन्नंप्रायश्चित्तमुक्तम्। भावनिष्पन्नं पुनरेतदेवप्रतिलोममन्तव्यम्। गणिन आचार्यस्यापि द्रव्य-भावयोरुभयोरप्येवमेव प्रायश्चित्तम् । नवरम्- उपाध्यायस्य द्वैमासिकादारब्धं त्रिभिवारैरनवस्थाप्ये, आचार्यस्य त्रैमासिकादारब्धं त्रिभिवारैः पाराचिके पर्यवस्यति ॥गतस्तपोऽसंस्तृतः । अथ ग्लानासंस्तृतमाह[भा.५८२१] एमेव य गेलने, पट्ठवणा नवरि तत्थ भिन्नेणं। ___ चउहि गहमेहि सपदं, कास अगीतत्थ सुत्तं तु॥ Page #297 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-५/१५१ वृ-ग्लानासंस्तृतस्याप्येवमेव प्रायश्चित्तम्। नवरम्-तत्र “भिन्त्रेणं" ति भिन्नमासात् प्रस्थापना कर्तव्या । प्रथमं वारं पञ्चमासलघुके, द्वितीयं षन्नासलघुके, तृतीयं छेदे, चतुर्थं वारं मूले तिष्ठति । अत एवाह- 'चतुर्भिर्ग्रहणैः' अभीक्ष्णसेवारूपै 'स्वपदं ' मूलं भिक्षु प्राप्नोति । उपाध्यायस्य लघुमासादारब्धं चतुर्विभ्राररैनवस्थाप्ये, आचार्यस्य द्विमासलघुकादारब्धं चतुर्भिवरैिः पाराञ्चिके पर्यवस्यति । शिष्यः पृच्छति कस्यैतत् प्रायश्चित्तम् ? सूरिराह-यद् उक्त यच्च वक्ष्यमाणम् एतत् सर्वमगीतार्थस्य सूत भवति, प्रस्तुतसूत्रोक्तं प्रायश्चित्तमित्यर्थः । स हि कार्यमकार्य वा यतनामयतनां वा न जानाति अतस्तस्य प्रायश्चित्तम् ॥ गतो ग्लानासंस्तृतः । अथाध्वासंस्तृतमाह[ भा. ५८२२] अद्धाणासंथडिए, पवेस मज्झे तहेव उत्तिन्ने । मज्झम्मि दसगवुड्डी, पवेस उत्तिन्नि पणएणं ॥ २९४ वृ- 'अध्वनि' मार्गे योऽसंस्तृतः स त्रिविधः । तद्यथा-अध्वनः प्रवेशे मध्ये उत्तारे च । तत्र प्रथमं मध्ये भाव्यते - भिक्षोः संलेखनादिषु षट्सु स्थानेषु दशरात्रिन्दिवमातौ कृत्वा प्रायश्चित्तवृद्धिः कर्तव्या, उपाध्यायस्य पञ्चदशरात्रिन्दिवादिकम्, आचार्यस्य विंशतिरात्रिन्दिवादिकं प्रायश्चित्तम् । भावे एतदेव प्रतिलोमं वक्तव्यम् । अथ प्रवेशे उत्तरणे च भण्यते "पवेस उत्तिन्न पणएणं" ति प्रवेशे तथा उत्तरणमुत्तीर्णं तत्र च पञ्चकेन स्थापना क्रियते, संलेखनादिषु षट्सु पदेषु पञ्चरात्रिन्दिवान्यादौ कृत्वा मासलघुकं यावद् नेतव्यमिति भावः । तथा उभयोरपि अष्टभिवरैिर्मूलं प्राप्नोति, उपाध्यायस्य दशरात्रिन्दिवादिकमष्टमवारायामनवस्थाप्यम्, आचार्यस्य पञ्चदशरात्रिन्दिदिकं पाराञ्चिकान्तम् । बावे एतदेव प्रतिलोमं प्रायश्चित्तम् । शिष्यः पृच्छति - अधावसंस्तृतो मध्ये क्षिप्रमेव स्वपदं प्रापितः प्रवेशे उत्तरणे च चिरेण तदेतत् कथम् ? अत्रोच्यते-अध्वनः प्रवेशे भयमुत्पद्यते ‘कथमध्वानं निस्तरिष्यामि ?' उत्तरणेऽपि बुभुक्षा तृषादिभिरत्यन्तं क्लान्तः, अत एवौ चिरेण स्वपदं प्रापितौ, अध्वमध्ये पुनर्जितभयो नातिक्लान्तश्च अतः शीघ्रं स्वपदं प्रापितः । अत्रैकैकस्मिन् पदे आज्ञादयो रात्रिभोजनदोषाश्च । अगीतार्थस्य चैतन्मन्तव्यम्, न गीतार्थस्य ॥ कुतः ? इति चेद् उच्यते [ भा. ५८२३] उग्गयमनुग्गते वा, गीतत्यो कारणे नऽ तिक्कमति । दूताऽऽ हिंड विहारी, ते वि य होंती सपडिवक्खा ।। वृ-गीतार्थ अध्वप्रवेशादौ कारणे उत्पन्ने उद्गतेऽनुद्गते सूर्ये यतनयाऽरक्तोऽष्टो भुञ्जानो भगवतामाज्ञा धर्म वा नातिक्रामति । ते चाध्वप्रतिपन्नास्त्रिविधाः-द्रवन्त आहिण्डका विहारिणश्च । तत्र द्रवन्तः- ग्रामानुग्रामं गच्छन्तः, आहिण्डकाः सततपरिभ्रमणशीलाः, विहारिणः - मासं मासेन विहरन्तः । तेऽपि प्रत्येकं सप्रतिपक्षाः । तद्यथा [भा. ५८२४ ] दूइजंता दुविधा, निक्कारणिगा तहेव कारणिगा । सिवादी कारणिता, चक्के थूभाईता इतरे ॥ - द्रवन्तो द्विविधाः - निष्कारणिकाः कारणिकाश्च । तत्राशिवाऽवमदर्य-राजद्विष्टादिभि कारणैः, उपधेर्पस्य वा निमित्तं, गच्छस्यवा बहुगुणतरमिति कृतवा, आचार्यादीनां वा आगाढे कारणे ये द्रवन्ति ते कारणिकाः । ये पुनरुत्तरापथे धर्मचक्रं मथुरायां देवनिर्मितस्तूप आदिशब्दात् कोशायां जीवन्तस्वामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिदर्शनार्थं द्रवन्तो निष्कारणिकाः ॥ Page #298 -------------------------------------------------------------------------- ________________ २५ उद्देशकः ५, मूलं-१५१, [भा. ५८२५] [मा.५८२५] उवदेस अनुवदेसा, दुविहा आहिंडगा मुणेयव्वा । विहरंता विय दुविधा, गच्छगता निग्गता चेव ।। वृ-आहिण्डका अपि द्विधा-उपदेशाहिण्डकाअनुपदेशाहिण्डकाश्च।तत्रये सूत्रा-ऽर्थगृहीत्वा भविष्यदाचार्या गुरूणामुपदेशेनविषया-ऽऽचार-भाषोपम्भनिमित्तमाहिण्डन्तेतेउपदेशाहिण्डकाः, ये तु कौतुकेन देशदर्शनं कुर्वन्ति तेऽनुपदेशाहिण्डकाः । विहरन्तोऽपि द्विविधाः-गच्छगता गच्छनिर्गताश्च । तत्र 'गच्छगताः' गच्छवासिनः ऋतुबद्धे मासं मासेन विहरन्ति । गच्छनिर्गता द्विविधाः-विधिनिर्गता अविधिनिर्गताश्च । विधिनिर्गताश्चतुर्धा-जिनकल्पिकाः प्रतिमाप्रतिपन्ना यथालन्दिकाः शुद्धपारिहारिकाश्चेति । अविधिनिरगताः सारणादिभिस्त्याजिता एकाकीभूताः। एतेषां भेदानामिभेऽनुदिता-ऽस्तमितयोः प्रायश्चित्ते लगन्ति[भा.५८२६] निक्कारणिगाऽनुवदेसिगा य लग्गंतऽनुदिय अत्थमिते । - गच्छा विनिग्गता विहु, लग्गेजति ते करेज्जेवं ॥ कृ-निष्कारणिकाद्रवन्तोअनुपदेशाहिण्डकाअविधिनिर्गताश्चानुदितेऽस्तमिते वायदि गृह्णन्ति भुञ्जते वा ततः पूर्वोक्तप्रायश्चित्ते लगन्ति। ये तुकारणिका द्रवन्त उपदेशाहिण्डका गच्छगताश्च ते कारणे यतनया गृह्णाना भुञ्जानाश्च शुद्धाः । ये तु गच्छनिर्गता जिनकल्पिकादयस्तेऽपि यद्येवमनुदितेऽस्तमिते वा ग्रहणं कुर्युस्ततो लगन्ति परं ते नियमात् तदानी न गृह्णन्ति, त्रिकालविषयज्ञानसम्पन्नत्वात् ॥ [भा.५८२७] अहवा तेसिं ततियं, अप्पत्तो अनुदितो भवे सूरो। पत्तोतु पच्छिमं पोरिसिंच अत्थंगतो होति॥ कृ-अथवाशब्दःप्रकारान्तरवाची। तषां जिनकल्पिकादीनांतृतीयांपौरुषीमप्राप्तः सूर्योऽनुदितो भण्यते, पश्चिमां चपौरु, प्राप्तोऽस्तङ्गत उच्यते । अत एव भक्तंपन्थाश्च तेषां तृतीयपौरुष्यामेव भवति नान्यथा ॥ गतमसंस्तृतनिर्विचिकित्ससूत्रम् । अथासंस्तृतविचिकित्ससूत्रं व्याचष्टे[भा.५८२८] वितिगिच्छ अब्भसंथड, सत्थो उपहावितो भवे तुरियं । अनुकंपयाए कोई, भत्तेण निमंतणं कुज्जा ।। वृ-अभ्रसंस्तृत-हिमानीसम्पातादिभिर्दश्यमाने सूर्ये विचिकित्साभवति ।तेचसाधवःसार्थेन अध्वानं प्रतिपन्नाः,अन्तरा चाऽभिमुखोऽपरः सार्थ आगतः, द्वावप्येकस्थाने आवासितौ, अभिमुखागन्तुकसार्थिकश्च कोऽप्यनुकम्पया साधूनां भक्तेन निमन्त्रणं कुर्यात्, यस्मिंश्च सार्थे साधवःसचलितः अतःसूर्योदयवेलायामुदितोऽनुदित इतिशङ्कया गृह्णीयुः ।इहापि त्रिविधेऽसंस्तृते तथैवाष्टौ लताः । नवरम्-असंस्तृते निर्विचिकित्से तपःप्रायश्चितान्युभयगुरुकाणि, असंस्तुते विचिकित्से पुनरुभयलघूनि, शेषं सर्वमपि प्राग्वत्॥ मू. (१५२)इह खलु निग्गंथस्स वा निग्गंथीए वारातो वा वियाले वा सपाणे सभोयणे उग्गाले आगच्छेज्जा, तं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ । तं उग्गिलित्ता पच्चोगिलमाणे राईभोयणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं॥ वृ-अस्य सम्बन्धमाह[भा.५८२९] निसिभोयणंतु पगतं, असंथरंतो बहुंच भोत्तूणं । Page #299 -------------------------------------------------------------------------- ________________ २९६ बृहत्कल्प-छेदसूत्रम् -३-५/१५२ उग्गालमुग्गिलिज्जा, कालपमाणा वदव्वं तु॥ वृ-निशिभोजनपूर्वसूत्रे प्रकृतम्, इहापितदेवाभिधीयते।यद्वाऽसंस्तरन् 'बहु' प्रभूतं भुक्त्वा रजन्यामुद्गारमागतमुद्गिलेत् तनिषेधार्थमिदं सूत्रम् । अथवा कालप्रमाणमनन्तरसूत्रे उक्तम्, इहतुकालप्रमाणादनन्तरं द्रव्यप्रमाणमुच्यते॥अनेनसम्बन्धेनायातस्यास्यव्याख्या-'इह' अस्मिन् मौनीन्द्रप्रवचने ग्रामादौ वा वर्तमानस्य 'खलुः' वाक्यालङ्कारे निर्ग्रन्थस्य वा निर्ग्रन्थ्यावा रात्रौ वा विकाले वा सह पानेन सपानः सह भोजनेन सभोजन उद्गार आगच्छेत् । किमुक्तं भवति?. सिक्थविरहितमेकंपानीयमुद्गारेण सहागच्छति, कूरसिक्थं वा केवलमागच्छति, कदाचिदुभयं वा । 'तम्' उद्गारं 'विविञ्चन् वा' सकृत् परित्यजन् ‘विशोधयन् वा' बहुशः परित्यजन् नो आज्ञामितकामति। तमुदीर्य 'प्रत्यवगिलन्' भूयोऽप्यास्वादयन्आपद्यतेचातुर्मासिकंपरिहारस्थानं अनुद्धातिकम् । एष सूत्रार्थः ।। सम्प्रति नियुक्तिविस्तरः[भा.५८३०] उद्दद्दरे वमित्ता, आतिअणे पणगवुडिजा तीसा। चत्तारिछच्च लहु-गुरु, छेदो मूलं च भिक्खुस्स॥ वृ. 'ऊर्ध्वंदरे' सुभिक्षे पर्याप्तमशनादिकं मुक्त्वा वमित्वा च यो विशिष्टभक्तलोभेन भूयः प्रत्यापिबतिततोयदि दिवसस्ततएकंलम्बनमादौकृत्वायावत्पञ्च लम्बनास्तावआपिबतश्चत्वारो लघवः । ततः पञ्चकवृद्धिस्त्रिशतं यावत् कर्तव्या, तद्यथा-षट् प्रभृति यावद् दश लम्बना एतेषु चतुर्गुरवः, एकादशादिषु पञ्चदशान्तेषु षड्लघवः, षोडशादिषु विंशत्यन्तेषु षड्गुरवः, एकविंशत्यादिषु पञ्चविंसत्यन्तेषुच्छेदः, षडविंशत्यादिषुत्रिंशदन्तेषु लम्बनेषु प्रत्यवगिल्यमानेषु मूलम् । एवं भिक्षोरुक्तम्॥ [भा.५८३१] गणि आयरिए सपदं, एगग्गहणे वि गुरुग आणादी। मिच्छत्तऽमञ्चबडुए, विराधना तस्स वऽनस्स ।। वृ-गणि-उपाध्यायस्तस्य चतुर्गुरुकादगारब्धं स्वपदमनस्थाप्यं यावद् नेयम् । आचार्यस्य षडलगुकादारब्धं स्वपदं पाराञ्चिकं यावद् द्रष्टव्यम् । एवं दिवसत् उक्तम् । रात्रौ तु यद्येकमपि सिक्थं गृह्णाति' प्रत्यादत्ते ततश्चतुर्गुरु, आज्ञादयश्च दोषाः । मिथ्यात्वं चासावन्येषा जनयतियथा वादिनस्तथा कारिणो न भवन्त्यमी इति । राजा वा तं ज्ञात्वा भिक्षादीनां प्रतिषेधं कुर्यात्, 'मा वा कोऽप्यमीषां मध्ये प्रव्राजीत्' इति । तस्य वा' वान्ताशिनः ‘अन्यस्य वा' तं पश्यतो विराधना भवति।अत्रामात्यबटुकष्टान्तः-एगोरंकबडुतोसंखडीमज्जियाकूरंअइप्पमाणंजिमितो। निग्गयस्स य रायमग्गमोगाढस्स हिययमुच्छल्लं । अमच्चपासायस्स हिट्ठा वमिउमारद्धो, अमञ्चेण यवायायणट्ठिएण दिट्ठो। सोयवमित्ता तमाहारवणिटुंपासित्ता लोभेण भुंजिउमारद्धो। तंदळूण अमच्चस्स अंगाणि उद्बुसियाई, उद्धं च जातं ।अमनो दिनेदिनेजेमणवेलाए समुद्दिसंतो संभरेत्ता उड्डं करेइ। एव तस्स वग्गुली वाही जातो, तओ मओ। सो विधिजाईओ एवमेव विनट्ठो।जम्हा एते दोसा तम्हा पमाणपत्तं मोत्तव्वं ॥ [भा.५८३२] एवं ताव दिवसतो, रातो सित्ये विचउगुरू होति। उद्दद्दरगहणा पुन, अववाते कप्पए ओमे॥ वृ-एवंतावत् कवलपञ्चकमादौ कृत्वा पञ्चकवुध्या चतुर्लघुकादिकंप्रायश्चित्तंदिवसतउक्तम्। Page #300 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-१५२, [भा. ५८३२] २९७ रात्रोवेकसिक्थस्यापि ग्रहणे चतुर्गुरवो भवन्ति । यच्च नियुक्तिगाथायामूर्ध्वदरग्रहणं कृतं तदेवं ज्ञापयति-अपवादपदे अवमे प्रत्यवगिलनमपि कल्पते ॥अत्र शिष्यः प्राह[भा.५८३३] रातो व दिवसतो वा, उग्गाले कत्थ संभवो होजा। गिरिजन्नसंखडीए, अट्ठाहिय तोसलीए वा ॥ वृ- रात्रौ वा दिवसतो वा कुत्रोद्वारस्य सम्भवो भवेत् ? सूरिराह-गिरियज्ञादिषु सङ्खडीषु तोसलिविषये वा अष्टाहिकादिमहिमासु प्रमाणातिरिक्तं भुक्तानामुद्गारः सम्भवति ।। तत्र प्रायश्चित्तमभिधित्सुः प्रस्तावनार्थं तावदिदमाह[भा.५८३४] अद्धाणे वत्थव्वा, पत्तमपत्ता यजोअण दूगेय । पत्ता य संखडिं जे, जतणमजतणाए ते दुविहा॥ वृ-ते सङ्घडीभोजिनः साधवो द्विविधाः-अध्वप्रतिपन्ना वास्तव्याश्च । तत्र ये वास्तव्यास्ते द्विविधाः-सङ्खड्याः प्रेक्षिणोऽप्रेक्षिणश्च ।अध्वप्रतिपन्ना वास्तव्याश्च।तत्रयेवास्तव्यास्ते द्विविधाःसङ्घडयाः प्रेक्षिणोऽप्रेक्षिणश्च अध्वप्रतिपन्ना अपिद्विधा-तत्रैवगन्तुकामाअन्यत्र वागन्तुकामाः। येऽन्यत्र गन्तुकामास्ते द्विधा-प्राप्तभूमिका अप्राप्त भूमिकाश्च ।प्राप्तभूमिका नाम-ये सङ्खडीग्रामस्य पार्श्वतो गन्तुकामाः सङ्खडीमभिधार्य अर्धयोजनादागच्छन्ति। अप्राप्तभूमिका नाम-ये योजनाद् योजनद्विकाद्उपलक्षणत्वाद्यावद्वादशयोजनेभ्यः सङ्खडीनिमित्तमागताः।येतत्रैव गन्तुकामाः सङ्खडीग्रामे प्राप्तास्ते 'द्विविधाः' द्विप्रकाराः- यतना प्राप्ता अयतनाप्राप्ताश्च । ये पदभेदमकुर्वन्तः सूत्रार्थपौरुष्यौ विदघानाआगतास्ते यतनाप्राप्ताः। येतुसङ्खडीं श्रुत्वासूत्रार्थीहापयन्तउत्सूकीभूता आगतास्ते अयतनाप्राप्ताः॥ [भा.५८३५] वत्थव्व जत्तणपत्ता एगगमा दो वि होति नेयव्वा । - अजयण वत्थव्वा, विय, संखडि पेही उ एक्कगमा॥ वृ-तत्र ये वास्तव्याः सङ्खड्यप्रलोकिनो ये च तत्रैव गन्तुकामा यतनाप्राप्ताः एते द्वयेऽपि प्रायश्चित्तचारणिकायामेकगमा भवन्ति ज्ञातव्याः।ये तुतत्रैव गन्तुकामा अयतनाप्राप्ताः ये च वास्तव्याः सङ्खडीप्रलोकिनः एते द्वयेऽपि चारणिकायामेकगमा भवन्ति ॥ “पत्ता य सङ्घडिं जे" इति पदं व्याख्याति[भा.५८३६] तत्थेव गंतुकामा, वोलेउमना व तं उवरिएणं । पदभेद अजयणाए, पडिच्छ उव्वत्त सुतभंगे। वृ. यत्र ग्रामे सङ्खडिस्तत्रैव ये गन्तुकामाः ये वा तस्य ग्रामस्योपरि वोलयितुमनसस्ते यदि स्वभावगतेः पदभेदं कुर्वन्ति, एकद्व्यादीनि वा दिनानि प्रतीक्षन्ते, अवेलायामुद्वर्तन्ते वा, सूत्रार्थपौरुषीभङ्गेन वा प्राप्ता भवन्ति तदाऽयतनाप्राप्ताः।इतरथा यतनाप्राप्ताः॥ प्राप्तभूमिकान् अप्राप्तभूमिकांश्च व्याख्याति[भा.५८३७] संखडिमभिधारेता, दुगाउया पत्तभूमिगा होति । . जोयणमाई अप्पत्तभूमिया बारस उ जाव। वृ- सङ्खडिग्रामपार्श्वतो ये गन्तुकामास्ते यदि सङ्खडीमभिधार्य गव्यतद्वयादागच्छन्ति तदा प्राप्तभूमिका भवन्ति । ये पुनर्योजनाद् योजनद्वयाद् यावद् द्वादशयोजनेभ्य आगच्छन्ति ते Page #301 -------------------------------------------------------------------------- ________________ २९८ बृहत्कल्प-छेदसूत्रम् -३-५/१५२ सर्वेऽप्राप्तभूमिकाः॥ [भा.५८३८] खेत्तंतो खेत्तबहिया, अप्पत्ता बाहि जोयण दुगे य । . चत्तारि अट्ठ बारसऽजग्ग सुव विगिचणाऽऽदियणा॥ - वृ-सङ्घडी श्रुत्वा क्षेत्रान्तः क्षेत्रबहिर्वा आगछेयुः । ये क्षेत्रान्तः सार्धक्रोशद्वयादागच्छन्ति ते प्राप्तभूमिकाः । ये पनः क्षेत्रबहि योजनाद् योजनद्वयात् चतुर्योजनादष्टयोजनाद् यावद् द्वादशयोजनादागच्छन्तितेऽप्राप्तभूमिकाः। एतेसर्वेऽपि सङ्घड्यामतिमात्रंभुक्त्वा प्रदोषे “जग्ग"त्ति अकारप्रश्लेषाद् न जाग्रति, “सुव" त्ति वैरात्रिककालवेलायामपि 'स्वपन्ति' नोत्तिष्ठन्ते, “विगिचण"त्ति उद्गारमुद्गीर्यपरित्यन्ति, “आइयण"तितमेव 'आपिबन्ति' प्रत्यवगिलन्त।। . एतेषु चतुर्षु पदेषु इयमारोपणा[भा.५८३९] वत्थव्व जयणपत्ता, सुद्धा पणगंच भिन्नमासो य। तव-कालेहि विसिट्टा, अजतणमादी विउ विसिट्ठा॥ • वृ-सङ्खड्यप्रलोकिनोवास्तव्यायतनयाप्राप्ताश्चागन्तुकाः सङ्घड्यांयावद्वंमुक्त्वाप्रादोषिकी पौरुषीं न कुर्वन्ति ‘मा न जरिष्यति' इति कृत्वा तत आचार्यानापृच्छय स्वपन्तः शुद्धाः। त एव यदि वैरात्रिकं स्वाध्यायं न कुर्वन्ति तदा पञ्चरात्रिन्दिवानि तपोलघूनि कालगुरूणि । अथोद्वार आगतस्तं च यदि विविञ्चन्तिततो भिन्नमासस्तपोगुरु काललघुः । अथ तमुद्गारमापिबन्ति ततो मासलघु तपसा कालेन च गुरुकम् । येऽयतनाप्राप्ता ये च वास्तव्याः सङ्घडिप्रलोकिनः एते द्वयेऽपि सङ्खड्यांभुक्त्वा प्रादोषिकंस्वाध्यायंन कुर्वन्तिमासलघुद्वाभ्यामपि लघुकम् । वैरात्रिकं स्वाध्यायं न कुर्वन्ति मासलघुकालगुरुकम् । उद्गारमागतं परित्यजन्ति मासलघुतपोगुरुकम्। उद्गारं प्रत्यवगिलन्ति मासगुरु तपसा कलेन च गुरुकम्॥अत एवाह[भा.५८४०] तिसुलहुओ गुरुं एगो, तीसुय गुरुओ उ चउलहू अंते। तिसुचउलहुगा चउगुरु, तिसुचउगुरु छल्लहू अंते॥ वृ-'त्रिषु स्थानेषु' प्रादोषिकस्वाध्याय-वैरात्रिकाकरणोद्गारविवेचनरूपेषु लघुको मासः, 'एकस्मिन्’ चतुर्थे प्रत्यवगिलनाख्ये स्थाने मासगुरु । येऽन्यत्र गन्तुकामाः प्राप्तभूमिकाः सङ्घडिहेतोरीयोजनादागतास्तेषां प्रादोषिकस्वाध्यायाकरणादिषुत्रिषुस्थानेषुमासगुरु, अन्त्यस्थाने चतुर्लघु।येऽप्राप्तभूमिकाः सङ्घडिनिमित्तं योजनादागतास्तेषांपादोषिकादिषुत्रिषुपदेषु चतुर्लघु, अन्त्यपदे चतुर्गुरु। ये तु योजनद्वयादायातास्तेषामादिपदेषु त्रिषु चतुर्गुरु, अन्त्यपदे षडलघु ॥ [भा.५८४१] तिसु छल्लहुगा छग्गुरु, तिसु छग्गुरुगा य अंतिमे छेदो। छेदादी पारंची, बारसगा दीसुत चउक्कं ॥ __ वृ. ये योजनचतुष्टयादागतास्तेषां त्रिष्वाद्यपदेषु षडलघु, अन्त्यपदे षड्गुरु । ये योजनाष्टकादागतास्तेषां त्रिषु षड्गुरु, अन्त्यपदे च्छेदः । ये द्वादशयोजनादागतास्ते प्रादोषिकं स्वाध्यायं न कुर्वन्तिच्छेदः,आदिशब्दावैरात्रिकमकुर्वतां मूलम्, उद्गारंविविञ्चतामनवस्थाप्यम्, प्रत्यापिबतां पाराञ्चिकम् । “बारसगादी य चउक्कं" तिप्रतीपक्रमेण यानि द्वादशयोजनप्रभृतीनि स्थानानि तेषु सर्वेष्वपि प्रत्येकं प्रत्येकं प्रादोषिकादिचतुष्कं मन्तव्यम् । चतुर्वपि पदेषु तपोर्हाणि प्रायश्चित्तानि प्राग्वत् तपः-कालविशेषितानि कर्तव्यानि॥ Page #302 -------------------------------------------------------------------------- ________________ २९९ २९९ उद्देशक ः ५, मूलं-१५२, [भा. ५८४१] अस्यैवार्थस्य सुखावबोधार्थमिमा प्रस्ताररचनामाह[भा.५८४२] खेतंतो खेत्तबहिया, अप्पत्ता बाहि जोयण दुगेय। चत्तारि अट्ठ बारसऽजग्ग सुव विगिंचणाऽऽदियणा ।। वृ-इहोधिःक्रमेणाष्टौ गृहाणि स्थापनीयानि, तिर्यक् पुनश्चत्वारि, एवं द्वात्रिंशद् गृहकाणि कर्तव्यानि। प्रथमगृहाष्टकपङ्क्त्यामधोऽधएतेऽष्टौ पुरुषविभागालेखितव्याः-येतत्रैवगन्तुकामा यतनाप्राप्ता ये च वासत्वाय यतनाकारिण एष एकः पुरुषविभागः १।ये तु तत्रैव गन्तुकामा एवायतनयाप्राप्ता वासत्वायश्चायतनाकारिण एष द्वितीयः॥येतुअन्यत्र गन्तुकामास्ते क्षेत्रान्तः क्षेत्रबहिर्वा आगता भवेयुः । ये क्षेत्रान्तस्ते प्राप्तभूमिका उच्यन्ते एष तृतीयः ३ । ये तु क्षेत्रबहिस्तेऽप्राप्तभूमिका उच्यन्ते, तेच योजनादागताः षष्ठः । अष्टयोजनादायाताः सप्तमः७। द्वादसयोजनादागताअष्टमः ८ उपरितनतिर्यगायाचतुष्कपङ्ख्या उपरिक्रमेणामी चत्वारो विभागा लेखितव्याः-प्रदोषेऽजागरणं १ वैरात्रिकस्वाध्यायवेलायां स्वपनम् २ उद्गारविवेचनम् ३ उद्गारप्रत्यवगिलनम् ४॥ आदिमचतुष्कपङ्क्त्यांयां द्वितीयगृहादमूनि प्रायश्चित्तानि क्रमेण स्थापयितव्यानि[भा.५८४३] पनगच भिन्नमासो, मासो लहुओ उ पढमतो सुद्धो। मासो तव-कालगुरू, दोहि विलहुओ अ गुरुओय ।। वृ-द्वितीयगृहे पञ्चकम्, तृतीयगृहे भिन्नमासः, चतुर्थे मासलघु । 'प्रथमगृहे शुद्धः, चतुर्थे तु पदे मासःतपसा कालेन चगुरुकः ।यत्र चादिपदेऽपिप्रायश्चित्तं भवति तत्र द्वाभ्यामपि लघुकम्, मध्यपदयोर्द्वयोरपि यथासङ्घयं तपसा कालेन च गुरुकम्॥ [भा.५८४४] लहुओ गुरुओ मासो, चउरो लहुगा यहोति गुरुगाय। छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच ॥ वृ-द्वितीयादिचतुर्पु गृहपङ्क्त्यः सर्वा अमुना प्रायश्चित्तेन पूरयितव्याः- द्वितीयस्यां पहको त्रिषुगृहेषुलघुमासः, चतुर्थे गुरुमासः। तृतीयस्यां त्रिषु गुरुमासः, चतुर्थे चतुर्लघु ।चतुर्थ्यां त्रिषु चतुर्लघु, चतुर्थे चतुर्गुरु । पञ्चम्यां त्रिषु चतुर्गुरु, चतुर्थे षड्लघु । षष्ठयां त्रिषु षड्लघु, चतुर्थे षड्गुरु । सप्तम्यां त्रिषुषड्गुरु, चतुर्थे छेदः । अष्टम्यां पकौ चतुर्पु गृहेषु च्छेद-मूल-ऽनवस्थाप्यपाराञ्चिकानि ॥ तथा चाह[भा.५८४५] जह भणिय चउत्थस्स य, तह इयरस्स पढमे मुणेयव्वं । पत्ताण होइ भतणा, जे जतणा जंतु वत्थव्वे ॥ वृ-यथा पूर्वस्यां पङ्क्तौ चतुर्थे स्थाने भणितम्, गाथायां सप्तम्यर्थे षष्ठी, तथा 'इतरस्याः' अग्रेतन्यः पङ्क्तेः प्रथमेषु त्रिषु स्थानेषु प्रायश्चित्तं ज्ञातव्यम्, अन्त्यपदे पुनस्ततोऽग्रेतनम् । यथा-यतनाप्राप्ता येऽध्वप्रपन्ना ये च वास्तव्या यतनाकारिणः तेषां चतुर्थे स्थाने मासलघुरूपं 'यत्तु' यत् पुनः प्रायश्चित्तमुक्तं तदेव तेषामेवायतनावतामायेषु त्रिषु स्थानेषु भवति, अन्त्यपदे तु मासगुरुकमिति । एवं प्राप्तभूमिकादिष्वपि 'भजना' प्रायश्चित्तरचना विज्ञेया। नवरम्अन्त्यपङ्क्त्यां छेद-मूला-ऽनवस्थाप्य-पाराञ्चिकानि भवन्ति॥ [भा.५८४६] एएण सुत्तन गतं, सुत्तनिवाते इमे तुआदेसा। Page #303 -------------------------------------------------------------------------- ________________ ३०० बृहत्कल्प-छेदसूत्रम् -३-५/१५२ लोही अ ओम पुन्ना, केइ पमाणं इमं बेंति । वृ- एतत् सर्वमपि प्रसङ्गतो विनेयानुग्रहार्थमुक्तम्, नैतेन सूत्रं गतम् । यत्र च सूत्रस्य निपातो भवति तत्रामी आदेशा भवन्ति "लोही अ ओम पुत्र'' त्ति गुरुर्भणति -गुणकारित्वाद् अवमं भोक्तव्यं यथोद्गारो नागच्छति । तथा चात्र लोही - कवल्ली तद् दृष्टान्तः यथा कवल्लयां यद्यवमं स्वप्रामाणादूनमाद्रह्यते ततोऽन्तरन्तः उद्गर्तते, उपरिमुखं न निर्गच्छति; अथ 'पूर्णा' आकण्ठं भृता तत उद्वर्तिता सर्वमपि परित्यजति, अग्निमपि विध्यापयति। एवमेव यद्यवममाहियते ततो वातः शरीरान्तः सुखेनैव प्रविचरति, प्रविचरिते च तस्मिन्नुद्गारो नायाति; अथातिमात्रं समुद्दिश्यते ततोऽन्तर्वायुपूरप्रेरित उद्गार आगच्छति ।। तस्मनादवममेव भोक्तव्यम् । केचित् पुनराचार्यदेश्याः 'इदं' वक्ष्यमाणं प्रमाणं ब्रुवते तत्रानन्तरोक्तं कवल्लीदृष्टान्तं भावयति ॥ [भा. ५८४७] अतिभुत्ते उग्गालो, तेनोमं भुंज जन्न उग्गिलसि । छड्डिज्जति अतिपुन्ना, तत्ता लोही न पुन ओमा ॥ वृ- गतार्था । नैगमपक्षाश्रिताः पुनराचार्यदेशीया इत्थं वदन्ति [भा. ५८४८] तत्तऽत्थमिते गंधे, गलग पडिंगते तहा अणाभोए । - एते न होंति दोन्नि वि, मुहनिग्गत नातुमोगिलणा ॥ वृ- एको नैगमपक्षाश्रितो भणति तप्ते कविल्ले बिन्दुः पतितो यथा तत्क्षणादेव नश्यति तथा यद् भुक्तमात्रं जीर्यति ईशमवमाहरणीयम् । एवमपरः-अस्तमिते रवौ यद् जीर्यते । तृतीयःगन्धेन रहितः सहितो वा यथोद्गार एते । चतुर्थ-गलकं यावदुद्गार आगम्य 'अनाभोगेन' अजानत एव 'प्रतिगच्छति' भूयः प्रविशति ईशं समुद्दिश्यताम् । गुरुराह - एते द्वयेऽपि प्रकारा न भवन्ति । द्वये नाम-ये प्रथम-द्वितीया दिवाऽप्युद्गारं प्रतिषेधयन्ति येच तृतीय-चतुर्था रात्रावुद्गारमनुमन्यते एते द्वयेऽपि न घटते, किन्तु येनाऽऽवश्यकयोगानां न हानिस्तावदाहारयितव्यम् । मुखनिर्गतं वोद्गारं ज्ञात्वा यः प्रत्यवगिलति तत्र सूत्रनिपातः । एनां सङ्ग्रहगाथां विवरीषुराह [भा. ५८४९] भणति जति ऊणमेवं, तत्तकवल्ले य बिंदुनासणता । बितिओन संथरेवं तं भुंजसु सूरे जं जिज्जे ॥ - एको नैगमनयाश्रितो भणति यद्यूनं भोक्तव्यं ततस्तप्ते कवल्ले प्रक्षिप्तस्योदकबिन्दोस्तत्कालमेव यथा नशनं भवति तथा यद् भुक्तमात्रमेव जीर्यति ईशं भोक्तव्यम् । द्वितीयः प्राह- 'एवम्' ईद्दशे भुक्ते न संस्तरति तस्मात् तदीदृशं भुक्ष्व यत् सूर्येऽस्तमयति जीर्यते ॥ [भा. ५८५० ] निग्गंधी उग्गालो, ततिए गंधो उ एति न उ सित्थं । अविजाणंत चउत्थे, पविसति गलगं तु जो पप्प ॥ वृ-गन्धे द्वावादेशौ । एको भणति सूर्यास्तमने जीर्णे आहारे रात्रावसंस्तरणं भवति तस्मादी शं भुङ्क्तां येनास्तमितेऽपि 'निर्गन्धः' अन्नगन्धरहित उद्गार एति । द्वितीयः प्राह-यदि गन्ध उद्गारस्य 'एति' आगच्छति तत आगच्छतु यथा सिक्थं नागच्छति तथा भुङ्क्ताम् । एतौ द्वावप्येक एव तृतीय आदेशः । चतुर्थो भणति ससिक्थ उद्गारो गलकं प्राप्याविजानत एव यावद् भूयः प्रविशति तावद् भुङ्क्ताम् । एते चत्वारोऽप्यनादेशाः ॥ तथा चाह [भा. ५८५१] पढम- बितिए दिया वी, उग्गालो नत्थि किं पुन निसाए । Page #304 -------------------------------------------------------------------------- ________________ ३०१ उद्देशकः ५, मूलं-१५२, [भा. ५८५१] गंधे य पडिगते या, ते पुन दो वी अनाएसा ॥ वृ-प्रथम-द्वितीययोरादेशयोर्दिवाऽप्युद्गारो नास्ति किंपुनर्दिशायाम् ? इत्यतस्यावनादेशौ। यस्तृतीयो गन्धादेशो यश्च चतुर्थ उद्गारस्य गलके प्रतिगमनादेशः एतौ द्वावपि सूत्रार्थभिप्रायबहिर्भूतत्वादनादेशौ ॥कः पुनरादेशः? इत्याह[भा.५८५२] पडुपन्नऽनागते वा, संजमजोगाण जेन परिहानी। नवि जायति तं जाणसु, साहुस्स पमाणमाहारे॥ वृ-'प्रत्युत्पने' वर्तमानेऽनागते वाकाले येन यावताभुक्तेन संयमयोगानां प्रत्युपेक्षणादीनां परिहाणिर्न जायत तदाहारस्य प्रमाणं साधोर्जानीहि ॥ [भा.५८५३] एवं पमाणजुत्तं, अतिरेगंवा विभुंजमाणस्स। वायादीखोभेण व, एजाहि कहंचि उग्गालो॥ वृ एवंविधं प्रमाणयुक्तं कारणे वाऽतिरिक्तमपि आहारं भुआनस्य वातादिक्षोभेण वा कथञ्चिदुद्गार आगच्छेत्॥ततः किम् ? इत्यत आह[भा.५८५४] जो पुन सभोयणं तं, दवं व नाऊण निग्गतं गिलति। तहियं सुत्तनिवाओ, तत्थाऽऽएसा इमे होति।। वृ-पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-यः 'तम्' उद्गारमागतं परित्यजति तस्य न प्रायश्चित्तम् । यस्तु 'तम्' उद्गारं सभोजनमच्छंवा द्रवमागतं ज्ञात्वा मुखाद् निर्गतं गिलति तत्र 'सूत्रनिपातः' प्रस्तुतसूत्रस्यावतारः । तत्र चेमे आदेशाः भवन्ति॥ [भा.५८५५] अच्छे ससित्थ चव्विय, मुहनिग्गतकवल भरियहत्थे य।. अंजलि पडिते दिटे, मासादारोवणा चरिमं॥ वृ- अच्छं द्वमागतं यदि परेणादृष्टमापिबति ततो मासलघु, अथ दृष्टं ततो मासगुरु । ससिक्थमागतं परेणादृष्टमाददानस्य मासगुरु, ईष्टे चतुर्लघु । अथ तं ससिक्थमदृष्टं चर्वयति ततश्चतुर्लघु, दृष्टे चतुर्गुरु । मुखाद् निर्गतं कवलमेकहस्तेन प्रतीष्यादृष्टमापिबति चतुर्गुरु, दृष्टे षड्लघु । अथैकं हस्तपुटं भरितमध्ष्टमापिबति ततः षड्लघु, ६ष्टे षड्गुरु । अथाञ्जलिं भरितमदृष्टमापिबतिच्छेदः, दृष्टे मूलम् । एवं भिक्षोरुक्तम् । उपाध्यायस्य मासगुरुकादारब्धमनवस्थाप्ये तिष्ठति।आचार्यस्य चतुर्लघुकादारब्धंचरमे तिष्ठति। एवंमासादिका चरमं यावदारोपणामन्तव्या। प्रकारान्तरेण प्रायश्चित्तमाह[भा.५८५६] दिय रातो लहु-गुरुगा, बितियं रयणसहितेन दिलुतो। . अद्धणसीसए वा, सत्यो व पहावितो तुरियं ॥ वृ-अथवा ससिक्थमसिक्थं वा दृष्टमष्टं वा दिवा प्रत्यवगिलतश्चतुर्लघु, रात्री चतुर्गुरु । द्वितीयपदमत्र भवति-कारणे वान्तमप्यापिबेनचप्रायश्चित्तमाप्नुयात्।तत्रचरलसहितवणिजा दृष्टान्तः कर्तव्यः । कथं पुनरिदंसम्भवति? इत्याह-अध्वशीर्षके मनोज्ञं भक्तं भुक्तंतच वान्तम् अन्यच्च न लभ्यते, सार्थो वा त्वरितं प्रधावितः, ततस्तदेव सुगन्धिद्रव्येण वासयित्वा भुङ्क्ते । - अथ रत्नसहितवणिग्दृष्टान्तमाह[भा.५८५७] जल-थलपहेसु रयणाणुवजणं तेन अडविपच्चंते । Page #305 -------------------------------------------------------------------------- ________________ ३०२ बृहत्कल्प-छेदसूत्रम् -३-५/१५२ निक्खणण फुट्टपत्थर, मा मे यणे हर पलावो । [भा. ५८५८ ] घेत्तूण निसि पलायण, अडवी मडदेहभावितं तिसितो । पिबिउ रयणाण भागी, जातो सयणं समागम्म ॥ वृ - जहा एगो वणिओ कहिंचि जलपहेण कहिंचि थलपहेण महता किलेसेण सतसहस्समोल्लाई पंच रयणाई उवजिणित्ता परदेसे पच्छा सदेसं पत्थितो । तत्थ य अंतरा पच्चंतविसए एगा अडवी सबर- पुलिंद - चोराकिन्ना। सो चिंतेति-कहमविग्घेण तित्थरिज्जामि ? त्ति । ते रयणे एक्कम्मि विजणे पदेसे निक्खणति, अन्ने फुट्टपत्थरे घोत्तुं उम्मत्तगवेसं करेति, चोराकुलं च अडविं पवज्जइ, तक्करे जमाणे पासित्ता भणेति - अहं सागरदत्तो नाम रयणवाणिओ, मा मे दुक्कह, मा मे रयणे हरीहह । . सो पलवंतो चोरेहिं गहितो पुच्छितो - कतरे ते रयणा ? । सो फुट्टपत्थरे दंसेति । चोरेहिं नातं - केनावि एयरस रयणा हरिता तेन उम्मत्तगो जातो। मुक्को य। एवं तेन तण पत्त- पुप्फ-फल-कंदमूलहारेण सा अडवी पंथो य आगम-गर्म करेंतेन जाते भाविता ताहे ते रयणे निसाए घेत्तुं अडविं पवनो । जाहे अडवीए बहुमज्झदेसभागं गतो ताहे तण्हाए पारब्भमाणो एगम्मि सिलातलकुंडे गवयादिमडयदेहभावितं विवन्न-गंध-रसं उदगं दद्धुं चिंतेति-जति एयं नातियामि तो मे रयन्नोवज्जणं सव्वं निरत्थयं कामभोगाण य अनाभागी भवामि । ताहे तं पिबित्ता अडविं निच्छिन्नो, सयणधण कामभोगाण य सव्वेसिं आभागी जाओ ॥ अक्षरगमनिका कस्या वणिजो जल-स्थलपथयो रत्नानमुपार्जनं कृत्वा 'प्रत्यन्तविषयेऽटव्यां बहवः स्तेनाः सन्ति' इति कृत्वा रत्नां कचित् प्रदेशे निखननं स्फुटित्प्रस्तराणां च ग्रहणम् । 'मा मदीयानि रत्नानि हरत' इति प्रलापेन च भावयित्वा निशि रात्रौ रत्नानि गृहीत्वा पलायनम् । अटव्यां तृषितो मृतदेहभावितं जलं पीत्वा स्वजनवर्गं समागम्य रत्नामाभागी जातः ॥ एष दृष्टान्तः, अयमर्थोपनयः[भा. ५८५९] वणियत्थाणी साहू, रतनत्थाणी वता तु पंचेव । उदयसरिसं च वंतं, तमादितुं रक्खते तानि ॥ वृ-वणिक्स्थानीयाः साधवः, रत्नस्थानीयानि पञ्च महाव्रतानि, तुशब्दस्यानुक्तसमुच्चयार्थत्वात् तस्करस्थानीया उपसर्गा अटवीस्थानीया द्रव्यापदादय इत्यपि द्रष्टव्यम्, मृतोदकसध्शं वान्तम्, तत् कारणे आपिबन् 'तानि' महाव्रतान्यात्मानं च रक्षति । कथं पुनरापिबेद् ? इत्याहभा.य (५८६०] दियरातो अन्न गिण्हति असति तुरंते व सत्ये तं चेव । निसि लिंगेणऽन्नं वा, तं चैव सुगंधदव्वं वा ॥ वृ- अध्वशीर्षके मनोज्ञं भुक्तं परं वान्तं ततो दिवा सत्रो वाऽन्यद गृह्णाति । अलभ्यमानेवा 'निशि' रात्रावन्यलिङ्गेनान्यद् गृह्णाति । तस्याप्यभावेसार्थे वा त्वरमाणे 'तदेव' वान्तं गृहीत्वा चातुर्जातकादिना सुगन्धिद्रव्येण वासयित्वा भङ्क्ते, न कश्चिद् दोषः ॥ मू. (१५३) निग्गंधस्स य गाहावइकुलं पिंडवायपडियाए अनुष्पविट्ठस्स अंतोपडिग्गहंसि पाणाणि वा बीयाणि वा रए वा परियावज्जेज्जा, तं च संचाएइ विगिंचित्तए वा विसोहित्तए वा तं पुव्वामेव लाइया विसोहिया विसोहिया ततो संजतामेव भुंभेज्ज वा पिबेज वा । तं च नो संचाएइ विगिंचित्तए वा विसोहित्तए वा तं नो अप्पणा भुंजेज्जा नो अन्नेसिं दावए, एगंते बहुफासुए पएसे Page #306 -------------------------------------------------------------------------- ________________ ३०३ उद्देशकः ५, मूलं-१५३, [भा. ५८६०] पडिलेहित्ता पमञ्जित्ता परिठ्ठवियब्बे सिया॥ वृ-अस्य सम्बन्धमाह[भा.५८६१] वंतादियणं रत्तिं, निवारितं दिवसतो वि अत्थेणं । वंतमनेसियगहणं, सिया उ पडिवक्खओ सुत्तं॥ कृ-रात्रौ वान्तापानंपूर्वसूत्रे निवारितम्, दिवसतोऽपिअर्थेन निवारितम्।अनेषणीयग्रहणमपि साधुभिर्वान्तमेव, अतस्तदिह प्रतिषिध्यते । “सियाउ पडिवक्खओ सुत्तं"ति स्याद्' भजनया प्रतिपक्षतो वा एतत् सूत्रं भवति अप्रतिपक्षतो वा। थथअर फअरथइफक्षतो यथा-पूर्वसूत्रे रात्री वान्तापानं निवारितम्, इदं तु दिवाऽनेषणीयंवान्तं निवार्यते।अप्रतिपक्षतो यथा-पूर्वसूत्रे वान्त न वरतते प्रत्यापातुमित्युक्तम्, इहाप्यनेषणीयं वान्तं न वर्तते ग्रहीतुमित्युच्यते । अनेन सम्बन्धेनायातस्यास्यव्याख्या-निर्ग्रन्थस्यगृहपतिकुलंपिण्डपातप्रतिज्ञया अनुप्रविष्टस्यान्तःप्रतिग्रहे प्राणा वा बीजानि वा रजो वा परि-समन्तादापतेयुः। तच्च प्राणादिकं यदिशक्नोति विवेक्तुंवा विशोधयितुंवाततः 'तत् प्राणादितादिकं लात्वा हस्तेनगृहीत्वा विशोध्यविशोध्य' सर्वथैवापनीय ततः ‘संयत एव' प्रयत्नपर एव भुञ्जीत वा पिबेद्वा तच्च न शक्नोति विवेक्तुंवा विशोधयितुंवा तद् नात्मना भुञ्जीत न वाऽन्येषां दद्यात्, किन्तु एकान्ते बहुप्राशुके प्रदेशे प्रत्युपेक्ष्य प्रमृज्य परिष्ठापयितव्यं स्यादिति सूत्रार्थः ॥अथ भाष्यकृद् विषमपदानि विवृणोति[भा.५८६२] पाणग्गहणेण तसा, गहिया बीएहि सव्व वणकाओ। रतगहणा होति मही, तेऊ वन सोचिरहाई ॥ कृ-इह प्राणग्रहणेन त्रसाःगृहीताः।बीजग्रहणेनतुसर्वोऽपिवनस्पतिकायः सूचितः।रजोग्रहणेन च 'मही' पृथिवीकायो गृहीतः, तेजःकायोवा, परंसचिरस्थायी नभवतीति कृत्वा विवेचनादिकं तत्र न घटते॥ - [भा.५८६३] ते पुन आनिजंते, पडेज पुचि व संसिया दव्वे। आगंतु तुब्भवावा, आगंतूहिं तिमं सुत्तं ॥ . वृ-'तेपुनः' त्रसादय आनीयमाने वा भक्तेपतेयुः, पूर्व वा तत्र 'द्रव्ये भक्त-पाने 'संश्रिताः' स्थिताः। ते च द्विविधाः-आगन्तुकास्तदुद्भवा वा । तत्रागन्तुकत्रसादिविषयम् इदं प्रस्तुतसूत्रं मन्तव्यम् ॥अथ के तदुद्भवाः? के वा आगन्तुका भवेयुः ? इत्याह[भा.५८६४] रसता पणतो व सिया, होज्ज अनागंतुगा न पुन सेसा। एमेवय आगंतू, पनगविवजा भवे दुविहा॥ वृ. ये 'रसजाः' तक-दधि-तीमनादिरसोत्पन्नाः कृम्यादयस्त्रसा यश्च पनकः स्याद् एते 'अनागन्तुकाः' तदुद्भवा भवन्ति, नपुनः 'शेषाः' पृथिवीकायादयः । एवमेव च येपनकविवर्जा 'द्विविधाः' त्रसा-स्थावराश्च जीवाः ते सर्वेऽप्यागन्तुकाः सम्भवन्ति । [भा.५८६५] सुत्तम्मि कड्डियम्मिं, जयणा गहणं तुपडितो दट्ठव्यो। ___ लहुओ पएक्खणम्मिं, आणादि विराधना दुविहा ।। वृ-एवं सूत्रमुच्चार्य पदच्छेदं कृत्वा य एष सूत्रार्थो भणितः एतत् सूत्रमाकर्षितमिति भण्यते। एवं सूत्रेआकर्षिते सतिनियुक्तिविस्तरउच्यते-तेनसाधुनायतनयाभक्त-पानस्य ग्रहणंकर्तव्यम्। Page #307 -------------------------------------------------------------------------- ________________ ३०४ बृहत्कल्प-छेदसूत्रम् -३-५/१५३ का पुनर्यतना ? इत्याह-पूर्वमेव गृहस्थहस्तगतः पिण्डो निरीक्षणीयः, यदि शुद्धस्ततो गृह्यते । एवं यतनया गृहीतोऽपि प्रतिग्रहे पतितो द्रष्टव्यः । यदि न प्रेक्षते ततो लघुको मासः, ज्ञादयश्च दोषाः । विराधना च द्विविधा तत्र संयमे त्रसादय उष्णे वा द्रवे वा पतिता विराध्यन्ते, आत्मविराधना तु मक्षिकादिसम्मिश्रे भुक्ते वल्गुलीव्याधिर्मरणं वा भवेत् । तस्मात् प्रथममेव प्रतिग्रहपतितः पिण्डो द्रष्टव्यः ॥ अहिगारो असत्ते, संकष्पादी तु देस संसत्ते । संसज्जिमं तु तहियं, ओदन - सत्तू - दधि- दवाई ॥ वृ- अत एव यस्मिन् देशे त्रसप्राणादिभिः संसक्तं भक्त- पानं न भवति तत्रासंसक्तेऽधिकारः, तस्मिनेव देशे विहरणीयमिति भावः । यस्तु संसक्ते देशे सङ्कल्पादीनि पदानि करोति तस्य प्रायश्चित्तम्, तच्चोत्तरत्र वक्ष्यते । तत्र च 'संसजिमं' संसक्तियोग्यमोदन सक्तु- दधि-द्रवादिकं द्रव्यम मन्तव्यम् । अथ संसक्तदेशे सङ्कल्पादिषु प्रायश्चित्तमाह [भा. ५८६७] [भा. ५८६६] संकप्पे पयभिंदण, पंथे पत्ते तहेव आवने । चत्तारि छच्च लह गुरु, सट्टाणं चेव आवन्ने । वृ- यस्मिन् विषये भक्तादिकं प्राणिभिः संसज्यते तत्र 'सङ्कल्पं ' गमनाभिप्रायं करोति चतुर्लघु, पदभेदं करोति चतुर्गुरु, संसक्तविषयस्य पन्थानं गच्छतः षड्लघु, तं देशं प्राप्तस्य षड्गुरु । तथैव द्वीन्दिरियादेः सङ्घट्टनादिकमापन्नस्य स्वस्थानप्रायश्चित्तम् । तद्यथा द्वीन्द्रियं सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयति षड्लघु, त्रीन्द्रियाणां सङ्घट्टनादिषु पदेषु चतुर्गुरुकादारब्धं षड्गुरुके तिष्ठति, चतुरिन्द्रियाणां सङ्घट्टनादिषु षड्लघुकादिकं छेदान्तमिति ॥ [भा. ५८६८] असिवादिएहिं तु तहिं पविट्ठा, संसज्जिमाई परिवज्जयंति । भूइट्ठसंसज्जिमदव्वलंभे, गेण्हंतुवाएण इमेण जुत्ता ॥ वृ- अथाशिवादिभिः कारणैः 'तत्र' संसक्तदेशे प्रविष्टास्ततः 'संसजिमानि' सक्थु दधिप्रभृतीनि द्रव्याणि परिवर्जयन्ति । अथ 'भूयिष्ठानि' प्रभूततराणि संसजिमद्रव्याणि लभ्यन्ते ततोऽमुनोपायेन 'युक्ताः' प्रयत्नपरा गृह्णन्ति ॥ [ भा. ५८६९ ] गमनाऽऽगमने गहणे, पत्ते पडिए य होति पडिलेहा । अगहिय दिट्ठ विवज्रण, अह गिण्हइ जं तमावजे ॥ वृ- भिक्षार्थ दायको मध्ये गमनं कुर्वन् कीटिका मम्डुकीप्रभृतिजन्तुसंसक्तायां भूमौ मा विराधनां कुर्यादिति सम्यग् निरीक्षणीयः । एवमागमने भिक्षाया हस्तेन ग्रहणे च विलोकनीयः । प्राप्ते च दायके तदीयहस्तगतः पिण्डः प्रत्युपेक्षणीयः । पात्रे च पतितः प्रत्युपेक्षितव्यः । ततो यद्यगृहीते त्रसादिकं प्राणजातं पश्यति ततस्तस्मिन् दृष्टे विवर्जयति, न गृह्णातीत्यर्थः । अथ गृह्णाति ततो येन द्वीन्द्रियादिना संसक्तं गृह्णाति तन्निष्पन्नं प्रायश्तित्तमापद्यते ॥ अथ पुनरेवं न प्रत्युपेक्षते तत इमे दोषा [भा. ५८७०] पाणाइ संजमम्मिं, आता मयमच्छि कंटग विसं वा । मूइंग-मच्छि-विच्छुग-गोवालियमाइया उभए । वृ- संयमे त्रसप्राण- पनकादयो विराध्यन्ते । आत्मविराधनायां मृतमक्षिकासम्मिश्रे भुक्ते Page #308 -------------------------------------------------------------------------- ________________ ३०५ उद्देशकः ५, मूलं-१५३, [भा. ५८७०] वल्गुलीव्याधिः, ततश्च क्रमेण मरणं भवेत्, कण्टको वा विष वा समागच्छेत् । उभयविराधनायां 'मुइङ्गाः' पिपीलिका मक्षिका-वृश्चिक-गोपालिकादयो वाभवन्ति। गोपालिका-अहिलोडिकाख्यो जीवविशेषः । एते हि जीवा भक्तेन सह भुक्ताः संयमोपघातमात्मनश्च मेधाधुपघातं कुर्वन्ति। [भा.५८७१] पवयणघातिंव सिया, तं वियर्ड पिसियमट्ठजातं वा। आदान किलेसऽयसे, दिटुंतो सेट्ठिकब्बडे॥ वृ-प्रवचनोपघाति वा स्यात् तद् विकटम्, पिशितं वा तत् ‘स्याद्' भवेत्, ‘अर्थजातं वा' सुवर्णसङ्कलिका-मुद्रिकादिकं कश्चिदनुकम्पयाप्रत्यनीकतयावादद्यात्, ततःपतितंपिण्डंप्रत्युपेक्षेत। तच्चाप्रत्युपेक्ष्य गृहीतं मन्दधर्म कस्याप्युप्रव्रजितुकामस्य आदानम्' आजीविकाकारणं भवति, तद् आदायोप्रव्रजतीत्यर्थः । अर्थजाते च गृहीते साधूनां रक्षणादिको महान् परिक्रेशोऽयशो वा भवेत्। तथा चार् “सिट्टिकब्बडे"त्ति राज्यपदोपविष्टकल्पस्थकोपलक्षितस्य काष्ठश्रेष्ठिनोदृष्टान्तः, सच आवश्यकटीकातो मन्तव्यः॥ [भा.५८७२] तम्हा खलु दट्ठव्वो, सुक्खग्गहणं अगिण्हणे लहुगा। आणादिणो य दोसा, विराधना जा भणिय पुब्बिं ॥ वृ-यत एते दोषास्तस्तमात् 'खलु' नियमात् पात्रकपतितः पिण्डो द्रष्टव्य । संसक्ते च देशे शुष्कस्य कूरस्य पृथग्मात्रके ग्रहणं कार्यम् । अथ पृथग् न गृह्णाति ततश्चतुर्लघु आज्ञादयश्च दोषाः, विराधनाच द्विधा संयमा-ऽऽत्मविषयाया पूर्वम् अनन्तरमेव भणिता॥इदमेवभावयति[भा.५८७३] संसजिमम्मि देसे, मत्तग सुक्ख पडिलेहणा उवरिं। एवं ताव अनुण्हे, उण्हे कुसणंच उवरिंतु॥ वृ-संसजिमे देशे यः शुष्कः पौद्गलिकोऽनुष्णो लभ्यते स मात्रके गृहीत्वा प्रत्युपेक्ष्य यद्यसंसक्तस्तदा प्रतिग्रहोपरि प्रक्षिप्यते। एवं तावदनुष्णे विधिरुक्तः।यः पुनरुष्णः कूरः कुसणं वा तद् नियमादसंसक्तमित कृत्वा प्रतिग्रहस्यैवोपरि गृह्यते ॥ [भा.५८७४] गुरुमादीन व जोग्गं, एगम्मितरम्मि पेहिउं उवरिं। दोसु वि संसत्तेसुं, दुल्लह पुव्वेतरं पच्छा।। वृ-गुरु-ग्लानादीनां वा योग्यमेकस्मिन् मात्रके गृह्यते, 'इतरस्मिन् द्वितीये मात्रके संसक्तं प्रत्युपेक्ष्य पतिग्रहोपरि प्रक्षिप्यते । एवं तावद् यत्रैकं भक्तंपानकं वा संसक्तं तत्र विधिरुक्तः। यत्र तु द्वे अपि-भक्त-पानके संसक्ते भवतः तत्र यद् भक्तं पानकं वा दुर्लभं तत् पूर्वं गृह्णन्ति 'इतरत्' सुलभं पश्चाद् गृह्णन्ति॥ [भा.५८७५] एसा विही तु दिखे, आउट्टियगेण्हणे तु जंजत्थ । अणभोगगह विगिचण, खिप्पमविविंचति यजं जत्थ ॥ वृ- एष विधि दृष्टे गृह्यमाणे भणितः । अथाकुट्टिकया संसक्तं गृह्णाति ततो यद् यत्र द्वीन्द्रियपरितापनादिकं करोति तत् तत्र प्राप्नोति । अथानाभोगेन संसक्तं गृहीतं ततः क्षिप्रमेव विवेचनम् । अथ क्षिप्रं न विविनक्ति ततो यावत् परिष्ठापयति तावद् तत्र यद् विनाशमश्नुते तनिष्पन्नं प्रायश्चित्तम् । कः पुनः क्षिप्रकालः ? इत्याह[20] 20 Page #309 -------------------------------------------------------------------------- ________________ ३०६ बृहत्कल्प-छेदसूत्रम् - ३-५/१५३ [भा. ५८७६ ] सत्त पदा गम्मंते, जावति कालेण तं भवे खिप्पं । कीरंति व तालाओ, अद्दुयमविलंबितं सत्ता ॥ वृ- यावता कालेन सप्त पदानि गम्यन्ते तत् क्षिप्रं मन्तव्यम् । यावता वा कालेनाद्रुतमविलम्बितं सप्त तालाः क्रियन्ते तावान् कालविशेषः क्षिप्रम् ॥ [भा. ५८७७ ] तम्हा विविंचितव्वं, आसन्ने वसहि दूर जयणाए । सागारिय उन्ह ठिए, पमञ्जणा सुत्तग दवे य ॥ वृ- तस्मात् तद् जन्तुसंसक्तमनन्तरोक्तक्षिप्रकालमध्य एव विवेचनीयम् । यदि च वसतिरासन्ना ततस्तत्र गत्वा परित्यक्तव्यम् । अथ दूरे वसति ततः शून्यगृहादिषु यतनया परिष्ठापयति । अथ सागारिके पश्यति उष्ण वा भूभागे 'स्थितो वा' ऊर्ध्वस्थितः परिष्ठापयति ततो वक्ष्यमाणं प्रायश्चित्तम् । यत्र च परिष्ठाप्यते तत्र प्रमार्जना कर्तव्या । एवमोदनस्य विधिरुक्तः । सक्तूनांद्रवस्य चैवमेवाल्पसागारिके प्रमृज्य छायायां परिष्ठापनं विधेयम् ॥ इदमेव व्याचष्टे [भा. ५८७८ ] जावइ काले वसहिं, उवेति जति ताव ते न विद्दति । तं पि अनुण्हमदवं तो, गंतूणमुवस्सए एडे ॥ वृ- यावता कालेन वसतिमुपैति तावता कालेन यदि 'ते' प्राणिनः 'न विद्रान्ति' न विनश्यन्ति तदा तद् वसतिं नीयते । तदप्यनुष्णमद्रवं च यदि भवति ततः प्रतिश्रयं नेतव्यम् । किमुक्तं भवति ? - यदि उष्णः कूरो द्रवं वा संसक्तं ततः प्रतिश्रयं न नीयते, मा यावत् प्रतिश्रयं नीयते तावत् प्राणजातीया उष्णे द्रवे वा मिरष्यन्तीति कृत्वा । अथानुष्णमद्रवं च तत उपाश्रये गत्वा 'एडयेत्' परिष्ठापयेत् । यत् पुनरुष्णं द्रवं वा तत् तत्रैव शून्यगृहादौ परिष्ठापनीयम् । अथ दूरे वसतिस्ततोऽनुष्णमपि शून्यगृहादिषु परिष्ठापयितव्यम् ॥ [ भा. ५८७९ ] सुन्नघरादीणऽसती, दूरे कोण वतिअंतरीभूतो । उक्कुडु पमज्ज छाया, वति-कोणादीसु विक्खिरणं ।। वृ- अथ शून्यगृहादीनि न सन्ति ततो दूरे एकान्तं गत्वा यत्र कोणस्थितो वृत्याऽन्तरितीभूतो वा सागारिको न पश्यति तत्रोत्कृटको भूत्वा प्रमृज्य छायायां वृतेः कोणके प्रक्षिपति, आदिग्रहणेन वृतेर्मध्येऽपि विकिरति, परिष्ठापयतीत्यर्थः । एवमोदनस्य सक्तूनां द्रवस्य वा परिष्ठापनं कर्तव्यम् । [ भा. ५८८०] सागारिय उण्ह ठिए, अपमज्जंते य मासयं लहुगं । _वोच्छेदुड्डाहादी, सागारिय सेसए काया ।। - अथ सागारिके उष्णे वा प्रदेशे भूत्वा 'स्थितो बा' ऊर्द्धभूतोऽप्रमार्ण्य वा परिष्ठापयति ततश्चतुर्ष्वपि लघुमासिकम् । सागारिके च पश्यति यदि भक्तं परिष्ठाप्यते तदा स भक्तपानदानव्यवच्छेदमुडाहादिकं वा कुर्यात् । 'शेषे तु' उष्णादित्रये परिष्ठापयतः पृथिव्यादिकाया विराध्यन्ते । [ भा. ५८८१] इइ ओअण सत्तुविही, सत्तू तद्दिनकतादि जा तिन्नि । वीसुं वसुं गहणं, चतुरादिदिनाइ एगत्थ ॥ वृ- 'इति' एवोदनस्य संसक्तस्य विधिरुक्तः । अथ सक्तूनां संसक्तानां विधिरुच्यते-यत्र सक्तवः संसक्ता लभ्यन्ते तत्र नैव गृह्यन्ते । अथ न संस्तरन्ति ततस्तद्दिवसकृतान् सक्तून् गृह्णन्ति। आदिशब्दात् तैरप्यसंस्तरन्तो द्वितीय-तृतीयदिनकृतानपि सक्तून् गृह्णन्ति, ते पुनः पृथक् पृथग् Page #310 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं - १५३, [भा. ५८८१ ] ३०७ गृह्यन्ते । चतुर्दिवसकृतादयस्तु सर्वेऽप्येकत्र गृह्यन्ते तेषामयं प्रत्युपेक्षणाविधि-रजस्त्रणमधः पस्तीर्य तस्योपरि पात्रकबन्धं कृत्वा तत्र सक्तवः प्रकीर्यन्ते, तत ऊर्ध्वमुखं पात्रकबन्धं कृत्वा एकस्मिन् पार्श्वे नीत्वा यास्तत्र ऊरणिका लग्नास्ता उद्धृ त्य कर्पर प्रक्षिप्यन्ते, एवं प्रत्युपेक्ष्य भूयोऽपि तथैव प्रत्युपेक्षन्ते ॥ ततः [ भा. ५८८२ ] नव पेहातो अदिट्टे, दिट्ठे अन्नाओ होंति नव चैव । एवं नवगा तिन्नी, तेन परं संथरे उज्झे । वृ- नववाराः प्रत्युपेक्षणां कृत्वा यदि प्राणजातीया न दृष्टास्तो भोक्तव्यास्ते सक्तवः, अथ दृष्टास्ततो भूयोऽप्यन्या नववारा प्रत्युपेक्षणा भवति, तथापि यदि ध्ष्टास्ततः पुनरपि नववाराः प्रत्युपेक्षन्ते । ततो यद्येवं त्रिभिर्नवकैः शुद्धास्ततो भुञ्जताम् । अथ न शुद्धास्तदा ततः परं 'उज्झेत्' परिष्ठापयेत् । अथासंस्तरणं ततस्तावत् प्रत्युपेक्षन्ते यावत् शुद्धीभवन्ति ॥ प्राणजातीयानां च परिष्ठापने विधिरयम्[भा. ५८८३ ] आगरमादी असती, कप्परमादीसु सुत्तए उरणी । पिंडमलेवाडाण य, कातूण दवं तु तत्थेव ॥ वृ- या ऊरणिकाः प्रत्युपेक्षमाणेन दृष्टास्ता आकरादिषु परिष्ठापनीयाः । इह घरट्टादिसमीपे प्रभूता यत्र तुषा भवन्ति स आकर उच्यते । तस्याभावे कर्परादिषु स्तोकान् सक्तून् प्रक्षिप्य तोरणिकाः स्थापयित्वा बहिरनाबाधे प्रदेशे स्थाप्यन्ते । यदि च द्रवभाजनं नास्ति ततो ये सक्तवः शुद्धा अलेपकृताश्च ते 'पिण्डं कृत्वा' भाजनस्यैकपार्श्वे चम्पयित्वा तत्रैव च द्रवं 'कृत्वा ' गृहीत्वा भुञ्जते ॥ यत्र च काञ्जिकं संसज्यते तत्रायं विधिः [भा. ५८८४ ] आयामु संसद्बुसिणोदगं वा, गिण्हंति वा निव्वुत चाउलोदं । गित्यभाणे व पेहिऊणं, मत्ते व सोहेत्तुवरिं छुभंति ॥ वृ- आयामं संसृष्टपानकमुष्णोदकं वा 'निर्वृतं वा' प्राशुकीभूतं 'चाउलोदकं' तण्डुलधावनं गृह्णन्ति । एतेषामभावे तदेवकाञ्जिकं गृहस्थभाजनेषु प्रत्युपेक्ष्य मात्रके वा सोधयित्वा यद्यसंसक्तं तदा प्रतिग्रहोपरि प्रक्षिपन्ति ।। द्वितीयपदमाह [भा. ५८८५ ] बिइयपद अपेक्खणं तू, गेलन - ऽद्धाण- ओममादीसु । तं चेव सुक्खगहणे, दुल्लभ दव दोसु वी जयणा ।। - द्वितीयपदे ग्लानाSध्वा ऽवमादि कारणेषु 'अप्रेक्षणं' पिण्डस्याप्रत्युपेक्षणमपि कुर्यात् । 'तदेव च' ग्लानत्वादिकं द्वितीयपंद 'शुष्कस्य' ओदनस्य ग्रहणे मन्तव्यम् । दुर्लभं वा द्रवं पश्चान्न लभ्यते ततः पूर्वं तद् गृहीतमिति कृत्वा नास्ति तद् भाजनं यत्र पृथक् शुष्कं गृह्यते । “दोसु वी जयण'' त्ति 'द्वयोरपि' अप्रत्युपेक्षणा-शुष्कग्रहणयोरेषा यतना कर्तव्या । एष सङ्ग्रहगाथासमासार्थः । साम्प्रतमेनामेव विवृणोति [भा. ५८८६ ] अच्चाउर सम्मूढो, वेलाऽतिक्कमति सीयलं होइ । असढो गिहण गहिते, सुज्झेज्ज अपेक्खमाणो वि ।। वृ- कश्चिदतीव 'आतुरत्वेन' ग्लानत्वेन 'सम्मूढः' सम्मोहं समुद्धातमुपगतस्ततो यावत् प्रत्युपेक्षते तावद् वेलाऽतिक्रामति शीतलं वा तावता कालेन भवति, तत एवम् 'अशठः' विशुद्धभावो Page #311 -------------------------------------------------------------------------- ________________ ३०८ बृहत्कल्प-छेदसूत्रम् -३-५/१५३ गृह्णानो वा गृहीते वा पिण्डे प्रत्युपेक्षणामकुर्वाणोऽपि 'शुध्येत' प्रायश्चित्तभाग न भवेत् ॥ [भा.५८८७] ओमाणपेल्लितो वेलऽतिक्कमो चलिउमिच्छति भयं वा । एवंविहे अपेहा, ओमे सतिकाल ओमाणे॥ वृ-अध्वनि वा गच्छतांसार्थः 'अवमानप्रेरितः प्रभूतभिक्षाचराकीर्ण, यावच्च प्रत्युपेक्षतेतावद् वेलातिक्रमोभवति, सच सार्थश्चलितुमिच्छति, पृष्ठतोगच्छतांचभयम्, ततएवंविधेकारणेऽप्रेक्षा, प्रत्युपेक्षामन्तरेणापि पिण्डं गृह्णीयादित्यर्थः । अवमे च प्रत्युपेक्षमाणानां 'सत्कालः' भिक्षाया देशकालः स्फिटतिसूर्योवाऽस्तमेति अवमानं वा-भिक्षाचराकीर्णं ततोऽप्रत्युपेक्षितमपिगृह्णीयात्। [भा.५८८८] तो कुजा उवओगं, पाने दह्ण तं परिहरेजा। कुजा न वा व पेहं, सुज्झइ अतिसंभमा सो तु॥ वृ-यदि अनन्तरोक्तकारणैः प्रत्युपेक्षणं न भवति तत उपयोगं कुर्यात् । कृते चोपयोगे यदि प्राणिनः पश्यतिततस्तान् दृष्टवा तद् भक्त-पानंपरिहरेत्।अथवाअत्यातुरः प्रेक्षाम् उफयोगमपि च कुर्याद् वा न वा । अनुपयुआनोऽपि चातिसम्भ्रमादसौ साधुः शुध्यति । यचाधस्तादुक्तं “संसक्तः शुष्कौदनः पृथग् गृह्यते" तत्राप्येतेष्वेव ग्लाना-ऽध्वा-ऽवमेषु कारणेषु द्वितीयपदं मन्तव्यम्। तथा चाह[भा.५८८९] वीसुंघेप्पइ अतरंतगस्स बितिए दवं तु सोहेति। तेन उ असुक्खगहणं, तं पि य उण्हेयरे पेहे॥ कृ-'अतरन्तगस्य' ग्लानस्य योग्यं विष्वग्' एकस्मिन् मात्रके गृह्यते, द्वितीये च मात्रके द्रवं शोधयति, ततो यत्र शुष्कौदनः पृथग गृह्यते तत् तृतीयं मात्रकं नास्तीति कृत्वा शुष्कमा वा एकत्रैव प्रतिग्रहे गृह्णीयात् । ग्लानस्यापि यद् ओदन-द्वितीयाङ्गादिकमेकस्मिन् मात्रके गृह्णाति तदपि उष्णं ग्रहीतव्यम् । 'इतरत् तु' शीतलं प्रत्युपेक्षेत, यदि असंसक्तं ततो गृह्णीयादन्यथा तु नेति भावः॥ [भा.५८९०] अद्धाणे ओमेवा, तहेव वेलातिवातियं नातुं। दुल्लभदवे व मा सिं, धोवण-पियणा न होहिंति॥ वृ-अध्वनि वाऽवमौदर्ये वा वेलाया अतिपातम्-अतिक्रमं ज्ञात्वा तथैव शुष्कं विष्वग्न गृह्णीयात् । दुर्लभं वातत्र ग्रामे द्रवं-पानकं ततो मा "सिं" एषां साधूनां भाजनधावन-पाने न भविष्यति इति कृत्वा पूर्वं मात्रके द्रवं गृहीतं ततो नास्ति भाजनं यत्र शुष्कं पृथग् गृह्यते अत एकत्रैव गृह्णीयात् । उक्तमोदनविषयं द्वितीयपदम् । अथ पानकविषयमाह[भा.५८९१] आउट्टिय संसत्ते,देसे गेलनऽद्धाण कक्खडे अखिपं। __ इयराणिय अद्धाणे, कारण गहिते य जतणाए॥ वृ-यथा कारणे 'आकुट्टिकया' जानन्तोऽपि संसक्ते देशे गच्छन्ति तथा तत्र गताः सन्तः संसक्तमपि पानकं गृह्णन्ति । गृहीत्वा च ग्लानत्वेऽध्वनि 'कर्कशे वा' अवमे क्षिप्रं न परित्यजे युरपि। तथाहि-ग्लानत्वेयावत् संसक्तं परिष्ठापयन्तितावद् ग्लानस्य वेलातिक्रमो भवति, अध्वनि सार्थात् परिभ्रश्यन्ति, अवमौदर्ये भिक्षाकालः स्फिटति, ततोन क्षिप्रं परित्यजेयुः। 'इतराणिच' सागारिकस्यपश्यतः परिष्ठापनम् इत्यादीनि यानि पूर्वप्रतिषिद्धानि तान्यष्यध्वनिवर्तमानः कुर्यात्। Page #312 -------------------------------------------------------------------------- ________________ उद्देशकः ५, मूलं-१५३, [भा. ५८९१] ३०९ एष कारणे यतनया गृहीतस्य संसक्तस्य विवेचने विधिरवगन्तव्य इति सङ्ग्रहगाथासमासार्थः॥ अथैनामेव विवृणोति[भा.५८९२] आउट्टि गमन संसत्त गिण्हणं न य विविंचए खिप्पं । ओम गिलाणे वेला, विहम्मि सत्यो वइक्कमइ ।। वृ- यथाऽऽकुट्टिकया संसक्तदेशे गमनं तथा तत्र गतः संसक्तमपि गृह्णीयात् न च क्षिप्रं 'विविञ्चयात्' परिष्कायेत् । कुतः? इत्याह-अवमे भिक्षाकालः स्फिटति, ग्लान्ये वा ग्लानस्य वेलाऽतिक्रमेत्, 'विहे' अध्वनि सार्थो व्यतिक्रामति, ततः क्षिप्रं न परित्यजेत् ॥ [भा.५८९३] असिवादी संसत्ते, संकप्पादी पदा तुजह सुझे। संसठ्ठसत्तुचाउल, संसत्तऽसती तहा गहणं॥ वृ-असिवादिभिः कारणैर्यथा संसक्ते देशे सङ्कल्पादीनि पदानि कुर्वाणोऽपि शुध्यति तथा तत्र गतो यदि असंसक्तं पानकं न लभते ततः संसृष्टपानकं तन्दुलोदकं वा संसक्तं सक्तून् वा संसक्तान्तथैव गृह्णीयात् ॥ तेषां पुनः गृहीतानामयं विधिः[भा.५८९४] ओवग्गहियं चीरं, गालणहेउं घनं तु गेण्हंति। तह वियअसुज्झमाणे, असती अद्धाणजयणा उ॥ वृ-औपग्रहिकं 'घन' निश्छिद्रंचीवरं तेषां संसक्तपानकानां गालनाहेतोगुह्णन्ति । तथापि' तेनापिगाल्यमानंयदिन शुध्यतिनवातण्डुलधावनादिकमपिलभ्यते, ततोया प्रथमोद्देशकेऽध्वनि गच्छतां “तुवरे फले य रुक्खे०" इत्यादिना पानकयतना भणिता सा कर्तव्या ।। अथ दधिविषयं विधिमाह[भा.५८९५] संसत्त गोरसस्सा, न गालणं नेव होइ परिभोगो। कोडिदुग-लिंगमादी, तहि जयणा नोय संसत्तं ।। वृ-यदि क्वापि संसक्तो गोरसो लभ्यते ततस्तस्य न गालनं न वा परिभोगः कर्तव्यः, किन्तु "कोडिदुग-लिंगमाइ" त्ति कोटिद्वयेन-विशोधिकोट्या विशोधिकोट्या अविशोधिकोट्या च भक्त-पानग्रहणे यतितव्यं यावदाधाकर्मापि गृह्यते, अन्यलिङ्गमपि कृत्वा भक्त-पानमुत्पाद्यते, न पनः संसक्तो गोरसो ग्रहीतव्यः ।। अथ "इयराणिय" इत्यादिपश्चार्द्ध व्याचष्टे[भा.५८९६] सागारिय सव्वत्तो, नत्थिय छाया विहम्मि दूरे वा। वेला सत्थो व चले, न निसीय-पमजणे कुजा॥ वृ-अध्वनि गच्छतां सर्वतोऽपि सागारिकम्, छाया च तत्र नास्ति, अस्ति वा परं दूरे, तत्रच गच्छतां वेलाऽतिक्रामति, सार्थोवाचलति, तत्र उष्णेऽपिभूभागेपरिष्ठापयेत् । यत्र चोपविशतः सागारिकं शङ्कादयो वा दोषाः अशुचिकं वा स्थानं तत्र निषदन-प्रमार्जने अपि न कुर्यात् ।। मू. (१५४) निग्गंथस्स य गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठस्स अंतोपडिग्गहगंसि दगेवा दगरएवादगफुसिए वा परियावजेजा, से य उसिणे भोयणजाते भोत्तव्ये सिया; से य सीए भोयणजातेतंनोअप्पणा भुंजेजा, नो अन्नेसिंदावए, एगंते बहुफासुए पदेसे परिट्टवेयव्वेसिया। वृ-अस्य सम्बन्धमाह[भा.५८९७] आहारविही वुत्तो, अयमनो पानगस्स आरंभो। Page #313 -------------------------------------------------------------------------- ________________ ३१० बृहत्कल्प-छेदसूत्रम् -३-५/१५४ कायचउक्काऽऽहारे, कायचउक्कं च पानस्मि ॥ वृ- आहारविधि पूर्वसूत्रे उक्तः, अयं पुनरन्यः पानकस्य विधिप्रतिपादनाय सूत्रारम्भः क्रियते । तथा आहारेऽनन्तरसूत्रे प्राणग्रहणेन त्रसा बीजग्रहणेन वनस्पतिकायाः रजोग्रहणेन पृथिव्यग्निकायौ गृहीताविति कायचतुष्कमुक्तम् । इहापि पानके कायचतुष्कमुच्यते तत्र शीतोदकमप्कायः, उष्णोदकमग्निकायः, नालिकेरपानकादिकं वनस्पतिकायः, दुग्धं त्रसकायः । एवं चत्वारोऽपि काया अत्रापि सम्भवन्तीति । अनेन सम्बन्धेनायातसयास्य व्याख्या- निर्ग्रन्थस्य गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टयान्तः प्रतिग्रहे भक्त - पानमध्ये 'दकं वा' प्रभूताप्कायरूपं 'दकरजो वा' उदकबिन्दुः 'दकस्पर्शितं वा' उदकशीकराः पर्यापतेयुः । तच्चोष्णं भोजनजातं ततो भोक्तव्यं स्यात् । अथ शीतं तद् भोजनजातं ततस्तन्नात्मना भुञ्जीत, नान्येषां दद्यात्, एकान्ते बहुप्राशुके प्रदेशे परिष्ठापयितव्यं स्यादिति सूत्रार्थ ॥ अथ भाष्यम् [ भा. ५८९८ ] परिमाणे नाणत्तं, दगबिंदु दगरयं वियाणाहि । भरमोदसितं, सेसं तु दगं दव खरं वा ॥ वृ-दकरजःप्रभृतीनां परिमाणकृतं नानात्वम् । तथाहि यस्तावद् दकबिन्दुस्तं दकरजो विजानीहि । ये तु 'सीभराः' पानीयेऽन्यत्र प्रक्षिप्यमाणे उदकसीकरा आगत्य प्रपतन्ति ते दकस्पर्शितम् । 'शेषं तु' यत् प्रभूतमुदकं तद् दकमिति भण्यते । तच्च द्रवं वास्वरं वा भवति इति विषमपदव्याख्यानं भाष्यकृता कृतम् ।। सम्प्रति निर्युक्तिविस्तरः [ भा. ५८९९ ] एमेव बितियसुत्ते, पलोगणा गिण्हणे य गहिते य । अनभोगा अनुकंपा, पंतत्ता वा दगं देखा || वृ- अधस्तनाहारसूत्रादिदं द्वितीयसूत्रमुच्यते । तत्र द्वितीयसूत्रेऽप्येवमेव विधिर्द्रष्टव्यः । ग्रहणे गृहीते च पानके 'प्रलोकना' प्रत्युपेक्षणा पिण्डस्येव मन्तव्या । तच्च उदकं त्रिभि कारणैर्दद्यात् । तद्यथा- "अनभोगा" इत्यादि । अनाभोगेन काचिदगारी एकत्रैव काञ्जिकं पानीयं चास्तीति कृत्वा 'काञ्जिकं दास्यामि' इति बुध्या विस्मृतिवशाज्जलं दद्यात् । अनुकम्पया वा ग्रीष्मसमये तृषाक्रान्तं साधुं दृष्टवा ' शीतलं जलं पिबेद्' इति बुध्या काचिदुदकं दद्यात् । प्रान्ततया प्रत्यनीकतया वा काचिद् भिक्षुकाद्युपासिका 'एतेषामुदकं न कल्पते अतो व्रतभङ्गं करोमि इति बुध्या साधूनामुदकं दद्यात् ।। अथात्रैव विधिमाह [ भा. ५९०० ] सुद्धम्मिय गहियम्मी, पच्छा नाते विगिंचए विहिणा । मीसे परूविते उन्ह- सीतसंजोग चउभंगो ॥ वृ-यदि तदुदकं 'शुद्धे' रिक्ते प्रतिग्रहे गृहीतं 'पश्चाच्च' ग्रहणानन्तरं ज्ञातम्, यथा-उदकमिदम्; ततः ‘विधिना' वक्ष्यमाणेन 'विविञ्चयात्' परिष्ठापयेत् । "मीसे"त्ति मिश्रं नाम यत्र प्रतिग्रहे पूर्वमन्यद् द्रवं गृहीतं पश्चाच्च पानीयं पतितम् एतद् मिश्रमुच्यते, तत्र 'मिश्र' उष्णशीतसंयोगे चतुर्भङ्गयाः प्ररूपणा कर्तव्या ।। तत्र रिक्ते प्रतिगृहे यद् गृहीतं तस्यायं परिष्ठापनाविधिःतत्थेव भायणम्मी, अलब्भमाणे व आगरसमीवे । [ भा. ५९०१] सपडिग्गहं विगिंचइ अपरिस्सव उल्लभाणे वा ॥ वृ-यतो भाजनादविरतिकया दत्तं तत्रैव तदुदकं प्रक्षिपति । अथ सा तत्र प्रक्षेप्तुं न ददाति तत Page #314 -------------------------------------------------------------------------- ________________ उद्देशकः ५, मूलं-१५४, [भा. ५९०१] ३११ एवमलभ्यमाने मा पृच्छ्यते-कुतस्त्वयेदमानीतम्? । ततो यस्मात् कूप-सरःप्रभृतेराकरादानीतं तस्य समीपे गत्वा परिष्ठापनिकानियुक्तिभणितेन विधिना परिष्ठापयेत् । अथवा सप्रतिग्रहमपि क्षीरद्रुमस्य च्छायायामेकान्ते स्थापयति । अथ प्रतिग्रहोऽन्यो न विद्यते ततो यद् अपरिश्रावि घटादिकमाईजलभावितंभाजनंतत्र प्रक्षिपति॥अथपूर्वमन्यद्रव्ये गृहीतेपतितंततइयंचतुर्भङ्गी[भा.५९०२] दव्वं तु उण्हसीतं, सीउण्हं चेव दो वि उण्हाई। दुनि वि सीताइअचाउलोद तह चंदन घते य॥ वृ-इह द्रव्यं चतुर्धा, तद्यथा-किञचिदुष्णं शीतपरिणामम् १ अपरं शीतमुष्णपरिणामम् २ अन्यदुष्णमुष्णपरिणामम् ३ अपरं शीतं शीतपरिणामम् ४ । अथासनत्वात् प्रथमं चतुर्थभङ्गं व्याख्याति-“चाउलोद" इत्यादि।तण्डुलोदक-चन्दन-घृतादीनिद्रव्याणि 'शीतानि' शीतपरिणामानि । तृतीयभङ्गमाह[भा.५९०३] आयाम अंबकंजिय, जति उसिणानुसिण तो विवागे वी। उसिणोदग-पेज्जाती, उसिणा वितणुंगता सीता ।। वृ-आयामा-ऽम्लकालिकादीनिद्रव्याणियधुष्णानिततो विपाके परिणामेऽपि तान्युष्णान्येव भवन्तीति कृत्वा तृतीयो भङ्गः । यानि पुनरुष्णोदक-पेयादीनि द्रव्याणि तान्युष्णान्यपि 'तनु' शरीरंगतानि शीतानि भवन्तीत्यनेन प्रथमो भङ्गो व्याख्यातः ॥अथ द्वितीयभङ्गं व्याचष्टे[भा.५९०४] सुत्ताइ अंबकंजिय-घनोदसी-तेल्ल-लोण-गुलमादी। सीता वि होति उसिणा, दुहतो वुण्हा व ते होंति ॥ वृ-सुत्तं-मदिराखोलः देशविशेषप्रसिद्धो वा कश्चिद् द्रव्यविशेषः, तदादीनि यानि द्रव्याणि, यच्च अम्लं काजिकम्, अम्ला च धनविकृति, अम्लं च उदश्चित्-तक्रम्, यच्च तैलं लवणं गुडोवा, एवमादीनि द्रव्याणि शीतान्यपि परिणामत उष्णानि भवन्तीति द्वितीयभङ्गेऽवतरन्ति । अथ तान्युष्णानि ततः 'उष्णानि' उष्णपरिणामानीति तृतीये भङ्गे प्रतिपत्तव्यानीति ॥ आह कतिविधः पुनः परिणामः? इति उच्यते[भा.५९०५] परिणामो खलु दुविहो, कायगतो बाहिरो य दव्वाणं । सीओसिणत्तणं पिय, आगंतु तदुब्भवं तेसिं॥ वृ-द्रव्याणां परिणामः द्विविधः-कायगतो बाह्यश्च । तत्र कायेन-शरीरेणाहारितानां द्रव्याणां यः शीतादिकः परिणामः स कायगतः, यः पुनरनाहारितानां स बाह्यः । स च बाह्यः परिणामः शीतो वा स्यादुष्णो वा । तदपि च शीतोष्णत्वं द्रव्यणां द्विधा-आगन्तुकंतदुद्भवं च ॥ उभयमपि व्याचष्टे[भा.५९०६] साभाविया व परिणामिया व सीतादतो तु दव्वाणं । असिरससमागमेण उ, नियमा परिणामतो तेसि ।। वृ-स्वाभाविका वा परिणामिका वा शीतादयः पर्याया द्रव्याणां भवन्ति । तत्र स्वाभाविका यथा-हिमं स्वभावशीतलम्, तापोदकं स्वभावादेवोष्णम् । परिणामिकास्तु पर्याया द्रव्यान्तरादिबाह्यकारणजनिताः, तथा चाह-“असरिस" इत्यादि, असशेन वस्तुना सह यः समागमःमीलकस्तेन नियमात् 'तेषां' द्रव्याणां परिणामः' पर्यायान्तरगमनं भवति, यथा-उदकादेः ___ Page #315 -------------------------------------------------------------------------- ________________ ३१२ बृहत्कल्प-छेदसूत्रम् -३-५/१५४ शीतलस्याप्यग्नितापेन आदित्यरश्मितापेन वा उष्णतागमनम् ॥ एतदेव सुव्यक्तमाह[भा.५९०७] सीया वि होंति उसिणा, उसिणा विय सीयगंपुनरुति। दव्वंतरसंजोगं, कालसभावंच आसज्ज ।। वृ-द्रव्यान्तरेण-अग्नि-जलादिना सयोग-सम्बन्धंकालस्य च-ग्रीष्म-हेमन्तादेः स्वभावमासाद्य शीतान्यपि द्रव्याण्युष्णानि भवन्तिउष्णान्यपिचशीततांपुनरुपयान्ति॥एषआगन्तुकः परिणामो मन्तव्यः । अयं पुनस्तदुद्भवः [भा.५९०८] तावोदगंतु उसिणं, सीया मीसा य सेसगाआवो। एमेव सेसगाई, रूवीदव्वाइंसव्वाइं॥ वृ-तापोदकं स्वभावादेवोष्णम्, 'शेषा आपः' अकायद्रव्याणि शीतानि 'मिश्राणि वा' शीतोष्णोभयस्वभावानि मन्तव्यानि । एवमेव शेषाणि' अप्कायविरहितानि यानि सर्वाण्यपि रूपिद्रव्याणि तानि कानिचिदुष्णानि यथा अग्नि, कानिचित् शीतानि यथा हिमम्, कानिचित्तु शीतोष्णानि यथा पृथिवी॥ [भा.५९०९] एएण सुत्त न गतं, जो कायगताण होइ परिणामो। सीतोदमिस्सियम्मि उ, दव्वम्मि उमग्गणा होति ॥ वृ-य एष 'कायगतानाम्' आहारितानां द्रव्याणां परिणाम उक्तो नैतेन सूत्रं गतम्, किन्तु 'शीतोदकमिश्रितेन' सचित्तोदकमिश्रेण द्रव्येणेहाधिकारः। तत्र चेयंमार्गणा भवति॥ [भा.५९१०] दुहतो थोवं एक्वेक्कएण अंतम्मि दोहि वी बहुगं। भावुगमभावुगं पि य, फासादिविसेसितंजाणे।। वृ-इह पूर्वगृहीते द्रव्ये यदा शीतोदकं पतति तदा इयं चतुर्भङ्गी-“दुहतो थोवं" ति स्तोके स्तोकं पतितमिति प्रथमो भङ्गः । “एक्कक्कएण"त्ति स्तोके बहुकं पतितमिति द्वितीयः, बहुनि स्तोकं पतितमिति तृतीयः । “अंतम्मि दोहि वी बहुगं" ति बहुनि बहुपतितमिति चतुर्थ । यद् द्रव्यं पतति यत्र वा पतति तद् भावुकम भावुकं वा स्पर्शादिविशेषितं जानीयात् । किमुक्तं. भवति?-स्पर्श-रस-गन्धैरुत्कटतयायद्अपराणि द्रव्याणि स्वस्पर्शादिभिर्भावयति-परिणामयति तद्भावुकम्, तद्विपरीतमभावुकम्।येचस्तोक-बहुपदाभ्यांचत्वारोभङ्गाः कृतास्तेषु प्रत्येकममी चत्वारो भङ्गा भवन्ति-उष्णे उष्णं पतितम् १ उष्णे शीतं पतितम् २ शीते उष्णं पतितम् ३ शीते शीतं पतितम् ४॥ एतेषु विधिमाह[भा.५९११] चरमे विगिंचियव्वं, दोसुतु मज्झिल्ल पडिए भयणा उ । खिप्पं विविंचियव्वं, मायविमुक्केण समणेणं॥ वृ-चरमं नाम-यत् शीते शीतं पतितम् तत् पुनः स्तोकं पतितं बहुके वा बहुकं पतितं भवेद् उभयमपिक्षिप्रं विवेक्तव्यं परिष्ठापयितव्यम्। 'द्वयोस्तुमध्यमयोः भङ्गयोः' 'उष्णेशीतंपतितम्, शीते उष्णं पतितम्' इतिलक्षणयोर्वक्ष्यमाणा भजना भवति । यः पुनरुष्णे उष्णं पतितमिप्रथमो भङ्गः तत्र तत्क्षणादेव सचित्तभावो नापगच्छतीति कृत्वा क्षिप्रमेव मायाविमुक्तेन श्रमणेन तद् विवेचनीयम् । मायावमुक्तग्रहणेनेदं ज्ञापयति-शीघ्रं परिष्ठापयितुकामोऽपि यावत् स्थण्डिलं गच्छति तावत् तद् अचित्तीभूतं ततः परिभुढे न परिष्ठापयति । अथ मातृस्थानेन मन्दं मन्दं Page #316 -------------------------------------------------------------------------- ________________ उद्देशक ः ५, मूलं-१५४, [भा. ५९११] ३१३ गच्छतिचिन्तयतिच-तिष्ठतुतावत् पश्चात्परिणतंपरिभोक्ष्ये; एवंमायांकुर्वतः स्थण्डिलादर्वाक् परिणतमपि न कल्पते॥अथ मध्यमभङ्गद्वये भजनामाह[भा.५९१२] थोवंबहुम्मि पडियं, उसिणे सीतोदगं न उज्झंती। हंदि हुजाव विगिचति, भावेज्जति तावतं तेनं ॥ वृ-बहुके पूर्वगृहीतेस्तोकंपतितमित्यत्र यदिउष्णे बहुनिशीतोदकं स्तोकंपतितंतदानोज्झन्ति। कुतः ? इत्याह-'हन्दि' इत्युपप्रदर्शने, यावद् विविनक्ति तावत् 'तत्' स्तोकं शीतोदकं 'तेन' बहुकेनोष्णेन 'भाव्यते' परिणतं क्रियते, ततः परिभोक्तव्यं तदिति भावः॥ [भा.५९१३] जं पुन दुहतो उसिणं, सममतिरेगं व तक्खणा चेव । मझिल्लभंगएसुं, चिरं पि चिढ़े बहुं छूढं ॥ वृ- यत् पुनर्द्विधाऽप्युष्णम्-उष्णे उष्णं पतितमित्यर्थः तत् परिणामतः परस्परं 'समं' तुल्यं भवेद् ‘अतिरिक्तं वा' द्वयोरेकतरमधिकतरं तत्रापि तत्क्षणादेव सचित्तभावो नापगच्छतीति वाक्यशेषः । यौ तु मध्यमौ द्वौ भङ्गौ उष्णे शीतं पतितम्, शीते वा उष्णं पतितम्' इति लक्षणी तयोः स्तोके बहु प्रक्षिप्तं चिरमपि सचित्तं तिष्ठेत्, ततस्तदपि क्षिप्रं चिरेण वा विवेचनीयम्।। अथोदकस्यैव परिणमनलक्षणमाह[भा.५९१४] वन-रस-गंध-फासा, जह दव्वे जम्मि उक्कडा होति। तह तह चिरं न चिट्ठइ, असुभेसु सुभेसुकालेणं॥ वृ-यस्मिन् द्रव्ये यथा यथा वर्ण-गन्ध-रस-स्पर्शा उत्कटा उत्कटतरा भवन्ति तथा तथा तेन द्रव्येण सह मिश्रितमुदकं चिरंन तिष्ठति, क्षिप्रंक्षिप्रतरं परिणमतीति भावः । किमविशेषेण? न इत्याह-येऽशुभा वर्णादय उत्कटास्तेष्वेव क्षिप्रंपरिणमति, येतुशुबा वर्णादयस्तेषूत्कटेषु कालेन परिणमति, चिरादित्यर्थः॥अत्रेदं निदर्शनम्[भा.५९१५] जो चंदने कडुरसो, संसट्ठजले य दूसणा जा तु। सा खलु दगस्स सत्थं, फासो उ उवग्गहं कुणति ॥ वृ-इह तण्डुलोदकंचन्दनेन क्वापिमिश्रितंतत्र च चन्दनस्य यः कटुको रसःसतण्डुलोदकस्य शस्त्र परं यस्तदीयः स्पर्श शीतलः स जलस्योपग्रहं करोतीति कृत्वा चिरेण तत् परिणमति । एवं संसृष्टजलस्यापिया 'दूषणा' अम्लरसतासाउदकस्य शस्त्रस्पर्शस्तुशीतलत्वादुपग्रहकारीअतश्चिरेण परिणमति॥ [भा.५९१६] घयकिट्ट-विस्सगंधा, दगसत्यं मधरु-सीतलं न घतं। ___ कालंतरमुप्पन्ना, अंबिलया चाउलोदस्स॥ वृ-घृतस्य सबन्धी यः किट्टो यश्च विस्र गन्धः तावुदकस्य शस्त्रम्, यत् तुरसेन मधुरं स्पर्शेन च शीतलं घृतं तद् उपग्रहं करोतीति शस्त्र न भवति, अतश्चिरात् परिणमति । तथा कुक्कुसैःअतिगुलिकैस्तण्डुलोदकस्याम्लता या कालान्तरेणोत्पन्ना साऽप्युदकस्य शस्त्र भवति॥ [भा.५९१७] अव्वुक्कंते जति चाउलोदए छुब्भते जलं अन्नं । दोनिवि चिरपरिणामा, भवंति एमेव सेसा वि॥ वृ-'अव्युत्क्रान्ते' अपरिणते तण्डुलोदके यद् ‘अन्यद्' अपरं सचित्तं जलं प्रक्षिप्यते ततो वे Page #317 -------------------------------------------------------------------------- ________________ ३१४ बृहत्कल्प-छेदसूत्रम् -३-५/१५४ अप्युदके चिरपरिणामे भवतः । 'शेषाण्यपि ' यानि संसृष्टपानक- फलपानकादीनि तैष्वपि सचित्तोदकं यदि प्रक्षिप्यते ततः 'एवमेव ' तान्यपि चिरात् परिणमन्तीति ॥ अथ द्वितीयपदमाह[भा. ५९१८] थंडिल्लस्स अलंभे, अद्धाणोम असिवे गिलाणे वा । सुद्धा अविविंचंता, आउट्टिय गिण्हमाणा वा ॥ वृ- स्थण्डिलस्यालाभेऽपरिणतपानकमपरिष्ठापयन्तोऽपि शुद्धाः । अध्वा ऽवमा-ऽशिवग्लानत्वेषु वा कारणेषु पानकस्य दुर्लभतायाम् 'अविविञ्चन्तः' अपरिष्ठापयन्तः 'आकुट्टिकया वा' जानन्तोऽपि गृह्णन्तः शुद्धाः ॥ मू. (१५५) निग्गंथीए रातो वा वियाले वा उच्चारं वा पावणं वा विगिंचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजातीए वा पक्खिजातीए वा अन्नयरं इंदियजायं परामुसेज्जा, तं च निग्गंधी साइजेज्जा, हत्थकम्पपडिसेवणप्पत्ता आवज्जइ मासियं अनुगघाइयं ॥ मू. (१५६) निग्गंथीए रातो वा विद्याले वा उच्चारं वा पासवणं वा विगिंचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजातीए वा पक्खिजातीए वा अन्नयरंसि सोयंसि ओगाहिज्जा, तं च निग्गंथी साइजेजा, मेहुणपडिसेवणप्पत्ता आवज्जइ चाउम्मासियं अनुग्घाइयं ॥ वृ- अस्य सूत्रद्वयस्य सम्बन्धमाह [भा. ५९१९] पढमिल्लुग-ततियाणं, चरितो अत्थो वताण रक्खट्ठा । मेहुणरक्खट्ठा पुन, इंदिय सोए य दो सुत्तां ॥ वृ- 'प्रथम- तृतीययोर्व्रतयोः ' प्राणातिपाता ऽदत्तादानविरतिलक्षणयो रक्षणार्थं तीर्थकरानुज्ञातशीतोदकपरिभोगे तयोर्भङ्गो मा भूदिति कृत्वा पूर्वसूत्रस्यार्थ 'चरितः' गतः, भणित इत्यर्थः । सम्प्रति तु मैथुनव्रतरक्षणार्थमिन्द्रियविषय-श्रोतोविषये द्वे सूत्रे आरभ्येते । अनेन सम्बन्धेनायातस्यास्य व्याख्या- निर्ग्रन्थ्याः रात्रौ वा विकाले वा उच्चारंवा प्रश्रवणंवा विविञ्चन्त्य वा विशोधयन्त्या वा अन्यतरः 'पशुजातीयो वा' वानरादिकः 'पक्षिजातीयो वा' मयूरादिकोऽन्यतरदिन्द्रियजातं 'परामृशेत्' स्पृशेत्, सा च निर्ग्रन्थी तं च स्पर्शं 'स्वादयेत्' 'सुन्दरोऽस्य स्पर्श' इत्यनुमन्येत, हस्तकर्मप्रतिसेवनप्राप्ता आपद्यते मासिकमनुद्धातिकं स्थानम् । इह निर्ग्रन्थीनां परिहारतपो न भवतीति कृत्वा ‘“परिहारट्ठाणं" ति पदं न पठनीयम् ।। एवं द्वितीयसूत्रमपि व्याख्येयम् । नवरम्अन्यतरस्मिन् ‘श्रोतसि' योन्यादौ वानरादिरवगाहेत, सा च मैथुनप्रतिसेवनप्राप्ता यदि स्वादयेत् ततश्चतुर्गुरुकमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः [भा. ५९२०] वानर छगला हरिणा, सुणगादीया य पसुगणा होंति । बरहिण चासा हंसा कुक्कुडग-सुगादिणो पक्खी ।। वृ-वानराः छगला हरिणाः शुनकादयश्च पशुगणा मन्तव्याः । बर्हिणश्चाषा हंसाः कुक्कुटशुकादयश्च पक्षिण उच्यन्ते ॥ [ भा. ५९२१] जहियं तु अनाययणा, पासवणुच्चार तहि पडिक्कुडं । लहुगो य होइ मासो, आणादि सती कुलघरे वा ।। यत्रैते पशुजातीयाः पक्षिजातीयाश्च प्राणिनः सम्भवन्ति तद् अनायतनमुच्यते, तत्रन निर्ग्रन्थीनामवस्थानं प्रश्रवणोच्चारपरिष्ठापनं च पतिक्रुष्टम्। यदि कुर्वन्ति तदा लघुमासः, आज्ञादयश्च वृ Page #318 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं- १५६, [भा. ५९२१] दोषाः । “सईकुलघरे व "त्ति भुक्तभोगिन्याश्च स्मृतिकरणं कुलगृहे वा भूयस्तासां बान्धवादिभिर्नयनं क्रियते ॥ इदमेव व्याचष्टे [ भा. ५९२२ ] भुत्ता - Sभुत्तविभासा, तस्सेवी काति कुलघरे आसि । बंधव तप्पक्खी वा, दवण लयंति लज्जाए ॥ कृ- भुक्ताऽभुक्तविभाषा, भुक्तभोगिन्याः स्मृतिकरणमभुक्तभोगिन्याश्च कौतुकमुत्पद्येतेत्यर्थः । तथा "तस्सेवि "त्ति गृहवासे तैः - पशुजातीयादिभिः प्रतिसेविता काचित् कुलगृहे आसीत् सा तान् दृष्ट्वा स्मृतपूर्वरता प्रतिगमनादीनि कुर्यात् । यद्वा तासां बान्धवास्तत्पाक्षिका वा सुहृदस्ताद्दशेऽनायतने स्थितां तमार्थिकां दृष्ट्वा लज्जया भूयः स्वगृहमानयन्ति ॥ किञ्च - ३१५ [भा. ५९२३] आलिंगनादिगा वा, अनिहुय-मादीसु वा निसेविज्जा । एरिसगाण पवेसो, न होति अंतेपुरेसुं पि ॥ वृ- ते पशुजातीयादयस्तां संयतीमालिङ्गेयुः, सा वा संयती तानालिङ्गेत्, एवमालिङ्गनादयो दोषा भवेयुः । अपि च एते वानरादयः स्वभावादेवानिभृताः कन्दर्पबहुला मायिनश्च भवन्ति ततस्तैरनिभृत- मायिभि सा कदाचिदात्मानं निषेवयेत् । ईशानां च पशु-पक्षिजातीयानां प्रवेशो राज्ञोऽन्तःपुरेष्वपि न भवति' न दीयते । कारणे पुनरन्यस्या वसतेरभावे तत्रापि तिष्ठेयुः ॥ [भा. ५९२४] कारणे गमने वि तहिं, विविंचमाणीए आगतो लिहेज्जा । गुरुगो य होति मासो, आणाति सती त स च्चेव ॥ वृ- कारणे तत्रापि स्थितानामुच्चारभूमौ प्रश्रवणभूमौ वा गत्वा 'विविञ्चन्त्याः' परिष्ठापयन्त्या वानरादि समागच्छेत्, आगतश्च तामालिङ्गेत्, सा च यदि 'लिह्यात्' तं स्पर्शं स्वादयेत् ततो गुरुमासः आज्ञादयश्च दोषाः, स्मृतिश्च सा चैव पूर्वोक्ता भवति ।। अथ न स्वादयति ततः सा शुद्धा, यतना चेयं तत्र कर्तव्या[भा. ५९२५ ] वंदेण दंडहत्था, निग्गंतुं आयरंति पडिचरणं । पविसंते वारिंति य, दिवा वि न उ काइयं एक्का ॥ वृ- 'वृन्देन' द्वित्र्यादिव्रतिनीसमुदायेन दण्डकहस्ता निर्गच्छन्ति, निर्गत्य च कायिकादिकमाचरन्ति, वानरादीनां च प्रतिचरणं कुर्वन्ति । ये तत्राभिद्रवन्ति तान् दण्डकेन ताडयन्ति, प्रतिश्रये च प्रविशतो निवारयन्ति । दिवाऽपि च कायिकाभूमिम् 'एका' एकाकिनी न गच्छति ॥ व्याख्यामिन्द्रियसूत्रम् । सम्प्रति श्रोतः सूत्रं व्याचष्टे [भा. ५९२६] एवं तु इंदिएहिं सोते लहुगा य परिणए गुरुगा । बितियपद कारणम्मिं, इंदिय सोए य आगाढे ॥ वृ- एवं तावद् इन्द्रियसूत्रे प्रायश्चित्तं विधिश्चोक्तः । यत्र तु पशुजातीयादयः श्रोतोऽवागहनं कुर्वन्ति तत्र तिष्ठन्तीनां चतुर्लघु । तेषु श्रोतोऽवगाहनं कुर्वाणेषु यदि सा सुन्दरमिदमिति परिणता ततश्चतुर्गुरु । द्वितीयपदे आगाढे कारणे इन्द्रिये श्रोतसि च परामर्शं स्वादयेदपि । इदमुत्तरत्र भावयिष्यते ॥ कारणे एकाकिन्यास्तिष्ठन्त्यास्तावदियं यतना [ भा. ५९२७] गिहिणिस्सा एगागी, ताहं समं निंति रत्तिमुभयस्सा । दंडगसारक्खणया, वारिंति दिवा य पेल्लंते ।। Page #319 -------------------------------------------------------------------------- ________________ ३१६ बृहत्कल्प-छेदसूत्रम् -३-५/१५६ कृगृहस्थनिश्रयाकारणे काचिदेकाकिनीवसन्ती 'ताभिः' अविरतिकाभिसमंरात्रौ 'उभयस्य' प्रश्रवणोच्चारस्य व्युत्सर्जनार्थं निर्गच्छति, निर्यन्ती च वानरादीनभिद्रवतो दण्डकेन संरक्षति, दिवा च प्रतिश्रयं 'प्रेरयतः प्रविशतो निवारयति ॥अथागाढकारणं व्याचष्टे[भा.५९२८] अट्ठाण सद्द आलिंगणादिपाकम्मऽतिच्छिता संती। अच्चित्त बिंब अनिहुत, कुलघर सड्ढादिगेचेव ।। कृ-कस्याश्चिदार्यिकायाः सनिमित्तोऽनिमित्तोवामोहोद्भवः सञातस्ततोनिर्विकृतिकादिकायां मोहचिकित्सायां कृतायामपि यदान तिष्ठति तदाऽस्थाने शब्दप्रितबद्धायांवसतौसा स्थापनीया। ततोयत्राविरतिकानामालिङ्गनादिकं क्रियमाणं श्यतेतत्रस्थाप्यते।तथाऽप्यनुपरतेमोहे पादकर्म करोति।तदप्यतिक्रान्तासतीयद् अचित्तंबिम्ब ढुण्ढशिवादिकंतेनप्रतिसेवयति।तथाऽप्यतिष्ठति योऽनिभृतस्तेनास्थानादिकंसर्वमपि कृत्वाततः कुलगृहे भगिन्या भ्रातृजायायावाआलिङ्गनादिकं क्रियमाणं प्रेक्षते । तदभावे श्राद्धिकायाः, तदप्राप्तौ यथाभद्रिकाया अपि प्रेक्षते। प्रथममिन्द्रिये, पश्चात् श्रोतस्यपि यतनयेति॥ मू. (१५७) नो कप्पइ निग्गंथीए एगाणियाए होत्था! मू. (१५८) नो कप्पइ निग्गंथीए एगाणियाए गाहावइकुलं पिंडवायपडियाए निखमित्तए वा पविसित्तए वा। मू. (१५९) नोकप्पइनिग्गंथीएएगाणियाए बहिया वियारभूमिवाविहारभूमिं वानिक्खमित्तए वा पविसित्तए वा। मू. (१६०) नो कप्पइ निग्गंथीए एगाणियाए गामाणुगामं वा दूइजित्तए वा। मू. (१६१) नो कप्पइ निग्गंथीए एग्गाणियाए वासावासं वा वत्थए। कृ-एवंयावदेकपार्श्वशायिसूत्रंतावत्सर्वाण्यपिसूत्राण्युच्चारयितव्यानि ।अथामीषांसूत्राणां सम्बन्धमाह[भा.५९२९] बंभवयरक्खणट्ठा, एगधिगारा तु होतिमे सुत्ता। जाएगपाससायी, विसेसतो संजतीवग्गे॥ वृ-ब्रह्मवतरक्षणार्थमनन्तरं सूत्रद्वयमुक्तम्, अमून्यपि सूत्राणि यावदेकपार्श्वशायिसूत्रंतावत् सर्वाण्यपि एकाधिकाराणि' तस्यैव ब्रह्मव्रतस्य रक्षणार्थमभिधीयन्ते। “विसेसओ संजईवग्गे"त्ति एतेषु सूत्रेषु किञ्चिद् निर्ग्रन्थानामपि सम्भवति, यथा-एकाकिसूत्रम्; परं विशेषतः संयतीवर्गमधिकृत्यामूनि सर्वाण्यपि द्रष्टव्यानि॥ __ अनेन सम्बन्धेनायातानाममीषांप्रथमसूत्रस्य ताव व्याख्या-नोकल्पते निर्ग्रन्थ्या एकाकिन्या गृहपतिकुलं पिण्डपातप्रतिज्ञयानिष्क्रमितुंवा प्रवेष्टुंवा, बहिर्विचारभूमौवाविहारभूमौवा निष्क्रमितुं वाप्रवेष्टुंवा, ग्रामानुग्रामंव 'द्रोतुं विहर्तुवर्षावासंवा वस्तुमिति सूत्रार्थ।।सम्प्रति नियुक्तिविस्तरः[भा.५९३०] एगागी वचती, अप्पात महव्वता परिच्चत्ता। ____ लहुगुरु लहुगा गुरुगा, भिक्ख वियारे वसहि गामे ॥ वृ- एकाकिनी निर्ग्रन्थी यदि भिक्षादौ व्रजति तत आत्मा महाव्रतानि च तया परित्यक्तानि भवन्ति, स्तेनाधुपद्रवसम्भवात्।अतो भिक्षायामेकाकिन्या गच्छन्त्या लघुमासः, बहिर्विचारभूमौ ___ Page #320 -------------------------------------------------------------------------- ________________ उद्देशक ः ५, मूलं-१६१, [भा. ५९३०] ३१७ गच्छन्त्यांगुरुमासः, ऋतुबद्धे वर्षावासेवा वसतिं एकाकिनी गृह्णाति चतुर्लघु, ग्रामानुग्राममेकाकिनी द्रवति चतुर्गुरु ॥ इदमविशेषितं प्रायश्चित्तमुक्तम् । अथ विशेषितमाह[भा.५९३१] मासादी जा गुरुगा, थेरी-खुड्डी-विमज्झ-तरुणीणं । तव-कालविसिट्ठा वा, चउसुं पिचउण्ह मासाई॥ कृ-स्थविरायाएकाकिन्या भिक्षादौव्रजन्त्यामासलघु, क्षुल्लिकायामासगुरु, विमध्यमायाश्चतुर्लघु, तरुण्याश्चतुर्गुरु। अथवा स्थविरा यदि एकाकिनी भिक्षायां याति ततो मासलघुतपसा कालेनच लघुकम्, बहिर्विचारभूमौ विहारभूमौ वा यातिमासलघु तपसा कालेन गुरुकम्, वसतिं गृह्णाति मासलघु तपसा गुरुकम्, ग्रामानुग्रामं द्रवति मासलघु तपसा कालेन च गुरुकम् । क्षुल्लिकाया एवमेव चतुर्तास्थानेषु चत्वारि मासगुरूणि तपः-कालविशेषितानि । तरुण्याः स्थानचतुष्टयेऽपि तथैव तपः-कालविशेषितानि चत्वारि चतुर्गुरूणि ॥अथ दोषानाह[भा.५९३२] अछंती वेगागी, किं ण्हु हु दोसे न इस्थिगा पावे। आमोसग तरुणेहिं, किं पुन पंथम्मि संकाय॥ वृ-किमेकाकिनी स्त्रीप्रतिश्रये तिष्ठन्ती दोषान्न प्राप्नोति येनैवंभिक्षाटनादिकमेवैकाकिन्याः प्रतिषिध्यते? इति शिष्येण पृष्टे सूरिराह-तत्रापि तिष्ठन्ती प्राप्नोत्येव दोषान् परम् आमोषकाःसतेनास्तरुणाः-युवानस्तैः कृता एकाकिन्याः पथिगच्छन्त्या भूयांसो दोषाः, शङ्का च तत्रभवतिअवश्यमेषा दुःशीला येनैकाकिनी गच्छति ॥ किञ्च[भा.५९३३] एगानियाए दोसा, साणे तरुणे तहेव पडिनीए। भिक्खऽविसोहि महव्वत, तम्हा सवितिज्जियागमणं ॥ वृ- एकाकिन्या भिक्षामटन्त्या एते दोषा भवन्ति-श्वानः समागत्य दशेत्, तरुणो वा कश्चिदुपसर्गयेत्, प्रत्यनीको वा हन्यात्, गृहत्रयादानीतायां भिक्षायामनुपयुज्य गृह्यमाणायामेषमाविशुद्धिर्न भवति, कोण्टल-विण्टलप्रयोगादिना च महाव्रतानि विराध्यन्ते । यत एते दोषाः अतः सद्वितीयया निर्ग्रन्थ्या भिक्षादौ गमनं कर्तव्यम् ॥ द्वितीयपदमाह[भा.५९३४] असिवादि मीससत्थे, इत्थी पुरिसे य पूतिते लिंगे। एसा उपंथ जयणा, भाविय वसही य भिक्खा य॥ वृ-अशिवादिभिः कारणैः कदाचिदेकाकिन्यपि भवेत्तत्रेयंयतना-ग्रामान्तरंगच्छन्ती स्त्रीसार्थेन सह व्रजति, तदभावे पुरुषमिश्रेण स्त्रसार्थेन, तदप्राप्तौ सम्बन्धिपुरुषसार्थेन व्रजति, अथवा यत् तत्र परिव्राजकादिलिङ्ग पूजितं तद् विधाय गच्छति । एषा पथि गच्छतांयतना भणिता । ग्रामेच प्राप्ता यानि साधुभावितानि कुलानि तेषु वसतिं गृह्णाति, भिक्षामपि तेष्वेव कुलेषु पर्यटति ॥ मू. (१६२) नो कप्पइ निग्गंधीए अचेलियाए हुंतए॥ वृ-नो कल्पते निर्ग्रन्थ्याः अचेलिकायाः' वस्त्ररहिताया भवितुम्।एष सूत्रार्थः । अथ भाष्यम्[भा.५९३५] वुत्तो अचेलधम्मो, इति काइ अचेलगत्तणं ववसे। जिनकप्पो वऽजाणं, निवारिओ होइ एवं तु॥ वृ-अचेलको धर्मो भगवता प्रोक्त इति परिभाव्य काचिदार्यिका अचेलकत्वं 'व्यवस्येत्' कर्तुमभिलषेत्, अतस्तनिषेधार्थमिदं सूत्रं कृतम्।अचेलकत्वप्रतिषेधेन आर्याणां जिनकल्पोऽपि ___ Page #321 -------------------------------------------------------------------------- ________________ ३१८ बृहत्कल्प-छेदसूत्रम् -३-५/१६२ 'एवम्' अनेनैव सूत्रेम निवारितो मन्तव्यः ।। कुतः? इत्याह[भा.५९३६] अजियम्मि साहसम्मी, इत्थी न चए अचेलिया होउं। साहसमन्नं पिकरे, तेनेव अइप्पसंगण॥ वृ-'साध्वसे' भये तरुणादिकृतोपसर्गसमुत्थेऽजिते सतिअचेलिका भवितुं 'स्त्री' निर्ग्रन्थीन शक्नुयात् । अथभवति ततः 'तेनैव अतिप्रसङ्गेन' अचेलतालक्षणेन अन्यदपि' चतुर्थसेवादिकं साहसं कुर्यात् । तथा[भा.५९३७] कुलडा विताव नेच्छति, अचेलयं किमु सई कुले जाया। धिक्काथुक्कियाणं, तित्थुच्छेओ दुलभ वित्ती॥ कृ-कुलटाऽपितावनेच्छत्यचेलताकिंपुनः कालेजाता 'सती' साध्वी? ।अचेलताप्रतिपन्नानां चार्यिकाणां धिक्कारथुक्कितानां' लोकापवादजुगुप्सितानां तीर्थोच्छेदो दुर्लभा च वृत्तिर्भवति, न कोऽपि प्रव्रजतिन वा भक्त-पानादिकंददातीत्यर्थः॥ [भा.५९३८] गुरुगा अचेलिगाणं, समलं च दुगंछियं गरहियंच। होइ परपत्थणिज्जा, बिइयं अद्धाणमाईसु॥ वृ-अत एव यद्यार्यिका अचेलिका भवन्ति ततस्तासां चतुर्गुरुकाः आज्ञादयश्च दोषाः । तथा चेलरहितां संयती 'समलां' मलदिग्धदेहां दृष्टवालोकः 'जुगुप्सितं' जुगुप्सांकुर्यात्-आः काश्म्, इहलोके एवेश्यवस्था परलोके तु पापतरा भविष्यति, 'गर्हितं च गहाँ प्रवचनस्य कुर्यात्असारं सर्वमेतद् दर्शनमिति । अचेलिकाच परस्य प्रार्थनीया भवति । अत्र द्वितीयपदमध्वादिषु विविक्तानां मन्तव्यम् ॥अपि च[भा.५९३९] पुनरावत्ति निवारण, उदिन्नमोहो व १ पेल्लेज्जा । . पडिबंधो गमनाई, डिंडियदोसाय निगिणाए॥ वृ-अचेलामा दृष्ट्वा प्रव्रज्याभिमुखानामपि कुलस्त्रणां पुनरावृत्तिर्भवति, प्रव्रज्यां न गृह्णीयुरित्यर्थः। अन्योवा कश्चिद निवारणं कुर्यात्-किमेतासांकापालिनीनां समीपे प्रव्रजितेन? इति । यद्वा कश्चिदुदीर्णमोहस्तामप्रावृतां दृष्टवा कर्मगुरुकतया प्रेरयेत् । साऽपि तत्रैव प्रतिबन्ध कुर्यात् प्रतिगमनादीनि वा विदध्यात् । 'डिण्डिमदोषाश्च' गर्भोत्पत्तिप्रभृतयो भवेयुः । यत एते नग्नाया दोषा अतोऽचेलया न भवितव्यम् । द्वितीयपदे संयत्योऽध्वनि स्तेनैर्विविक्तास्ततो न किमपि वस्त्रं भवेत्, आदिशब्दाद् क्षिप्तचित्ता यक्षाविष्टा वा वस्त्रणि परित्यजेत्, एवमचेलाऽपि 'भवतीति॥ मू. (१६३) नो कप्पइ निग्गंथीए अपाइयाए हुंतए॥ वृ-नो कल्पते निर्ग्रन्थ्याः ‘अपात्रायः' पात्ररहिताया भवितुमिति सूत्रार्थ ॥अथ भाष्यम्[भा.५९४०] गोणे साणे व्व वत्, ओभावण खिसणा कुलघरे य। नीसह खइयलज्जा, सुण्हाए होति दिटुंतो॥ वृ- पात्रकमन्तरेण यत्र तत्र समुद्देशनीयम् ततो लोको ब्रूयात्-यथा गौर्यत्रैव चारिं प्राप्नोति तत्रैवालजश्चरति, यथा वा श्वानो यत्रैव स्वल्पमप्याहारं लभते तत्रैव निस्रपो भुङक्ते, एवमेता अपि गो-श्वानसश्यो यत्रैव प्राप्नुवन्ति तत्रैवलोकस्य पुरतः समुद्दिशन्ति, अहो! अमूभिर्गोव्रतं Page #322 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं- १६३, [भा. ५९४०] ३१९ श्वानव्रतं वा प्रतिपन्नम्; एवमपभ्राजना भवति । "खिंसणा कुलघरे य'त्ति तास्तथाभुञ्जाना दृष्टवा तदीयकुलगृहे गत्वा लोकः खिंसां कुर्यात्, यथा-युष्मदीया दुहितरः स्नुषा वा याः पूर्वं चन्द्रसूर्यकिरणैरप्यस्पृष्टगात्रास्ताः साम्प्रतं सर्वलोकपुरतो गा इव चरन्त्यो हिण्डन्ते । एवमुक्ते ते भूयस्ताः स्वगृहमानयन्ति । “नीसट्टं” अत्यर्थं च 'स्वादितं' भक्षणं लोकस्य पुरतः कुर्वाणासु लोको ब्रूयात्अहो ! बहुभक्षका अमूः स्त्रणां च लज्जा विभूषणं सा चैतासां नास्तीति । अत्र च लज्जायां स्नुषादृष्टान्तो भवति । स च द्विधा - प्रशस्तोऽप्रशस्तश्च ।। प्रशस्तं तावदाह [ भा. ५९४१] उच्चासणम्मि सुण्हा, न निसीयइ न वि य भासए उच्चं । नेव पगासे भुंजइ, गूहइ वि य नाम अप्पाणं ॥ वृ-यथा 'स्नुषा' वधूरुच्चे आसने न निषीदति, नापि 'उच्च' महता शब्देन भाषते, न च प्रकाशे. भूभागे भुङ्क्ते, आत्मीयं च नाम 'गूहति' न प्रकटयति, एवं संयतीभिरपि भवितव्यम् ॥ अप्रशस्तस्नुषा ध्ष्टान्तः पुनरयम् [भा. ५९४२ ] अहवा महापदानं, सुहा ससुरो य इक्कमेक्कस्स । दलमाणाणि विनासं, लज्जानासेण पावंती ॥ वृ- ' अथवा ' प्रकारान्तरेण स्नुषादृष्टान्तः क्रियते 'महापदानि' विकृष्टतराणि पदानि स्नुषा श्वसुरश्चैकैकस्य परस्परं प्रयच्छन्तौ यथा लज्जानाशेन विनाशं प्राप्नुतः तथा संयत्यपि निर्लज्ज विनर्श्यति इत्यक्षरार्थः । भावार्थस्त्वयम् एगस्स धिजाइयस्स भज्जाए मयाए पुत्तेण से अट्ठियाणि 'माय'त्ति काउं गंगं नीयाणि । इयरेहि सुण्हा-ससुरेहिं हास खिड्डाइयं करेंतेहिं निल्लत्तणओ निस्सेणि आरुहित्ता अमिप्पायपुव्वगं विगिट्ठतराई पयाई देंतेहिं एक्कमेक्कस्स सागारियं पडुप्पा इयं । दो वि विनट्ठाई । एवं निल्लज्जाए विणासो हुज्जा ।। द्वितीयपदमाह [भा. ५९४३ ] पायासइ तेनहिए, झामिय वूढे व सावयभए वा । बोहिभए खित्ताइव, अपाइया हुज बिइयपदे ॥ वृ- पात्रस्याभावे, स्तेनकेन वा हृतेऽग्निना वा ध्यामिते दकपूरेण वा व्यूढे पात्रे, श्वापदभये बोधिकभये वा शीघ्रं पात्राणि परित्यज्य नष्टा सती, क्षिप्तचित्ता वा आदिशब्दाद् यक्षाविष्टा वा 'अपात्रिका' पात्ररहिता द्वितीयपदे भवेत् ॥ मू. (१६४) नो कप्पइ निग्गंथीए वोसट्टकाइयाए हुंतए । वृ- नो कल्पते निर्ग्रन्थ्याः 'व्युत्सृष्टकायिकायाः' परित्यक्तदेहाया भवितुमिति सूत्रार्थः ॥ [भा. ५९४४ ] वोसट्टकाय पेल्लण-तरुणाई गहण दोस ते चेव । दव्वावइ अगणिम्मिय, सावयभय बोहिए बितियं ॥ वृ- व्युत्सृष्टकायिका नाम- 'दिव्याद्युपसर्गा मया सोढव्याः' इत्यभिग्रहं गृहीत्वा शरीरं व्युत्सृज्य समयप्रसिद्धेनाभिभवकायोत्सर्गेण स्थिता, तथास्थितायाश्चोदीर्णमोहप्रेरण-तरुणग्रहणादयस्त एव दोषा मन्तव्याः । द्वितीयपदे तु द्रव्यापदि अग्निसम्भ्रमे श्वापदभये बोधिकभये वा गाढतरे उपस्थिते व्यत्सृष्टकायाऽपि भवेत् ॥ मू. (१६५) नो कप्पइ निग्गंथीए बहिया गामस्स वाजाव सन्निवेसस्स वा उड्डुं बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहीए एगपाइयाए ठिच्चा आयावणाए आयावित्तए । Page #323 -------------------------------------------------------------------------- ________________ ३२० बृहत्कल्प-छेदसूत्रम् -३-५/१६६ मू. (१६६) कप्पइ से उवस्सयस्स अंतोवगडाए संघाडिपडिबद्धाए पलंबियबाहियाए समतलपाइयाए ठिचा आयावणाए आयावित्तए॥ वृ-नो कल्पते निर्ग्रन्थ्या बहिग्रामस्य वा यावत् सनिवेशस्य वा 'ऊर्ध्वम्' उर्वाभिमुखौ बाहू 'प्रगृह्य प्रगृह्य' कर्षण गृहीत्वा कृत्वेत्यर्थः सूर्याभिमुख्याः एकपादिकायाः' एकं पादमूर्ध्वमाकुञ्चयापरमेकं पादं भुवि कृतवत्या एवंविधायाः स्थित्वा आतापनयाऽऽतापयितुम् । किन्तुकल्पते "से" तस्या उपाश्रयस्यान्तर्वगडायां प्रलम्बितबाहायाः समतलपादिकायाः स्थित्वा आतापनया आतापयितुमिति सूत्रार्थः ।। अथ भाष्यम्[भा.५९४५] आयावणा य तिविहा, उक्कोसा मज्झिमा जहन्नाय। उक्कोसा उ निवन्ना, निसन्न मज्झा ठिय जहन्ना ।। वृ-आतापना त्रिविधा-उत्कृष्टा मध्यमा जघन्या च । तत्रोत्कृष्टा निपना, निपन्नः-शयितो यां करोतीत्यर्थः । मध्यमा निषन्नस्य । जघन्या "ठिय" त्ति ऊर्ध्वस्थितस्य ।। पुनरेकैका त्रिविधा[भा.५९४६] तिविहाहोइ निवन्ना, ओमत्थिय पास तइयमुत्ताणा। उक्कोसुक्कोसा उक्कोसमज्झिमा उक्कोसगजहन्ना॥ वृ-या निपन्नस्योत्कृष्टातापना सा त्रिविधा भवति-उत्कृष्टोत्कृष्टा उत्कृष्टमध्यमा उत्कृष्टजघन्या च। तत्र यद् अवाङ्मुखं निपत्य आतापना क्रियते सा उत्कृष्टोत्कृष्टा । या तु पार्वतः शयानैः क्रियते सा उत्कृष्टमध्यमा । या पुनरुत्तानशयनेन विधीयते सा तृतीया' उत्कृष्टजघन्या ।। [भा.५९४७] मज्झुक्कोसा दुहओ, विमंज्झिमा मज्झिमाजहन्ना य। अहमुक्कोसाऽहममज्झिमाय अहमाहमा चरिमा । वृ-निषन्नस्य यामध्यमातापना सा त्रिधा-मध्यमोत्कृष्टा "दुहओविमज्झिम"त्तिमध्यममध्यमा मध्यमजघन्याच। ऊर्ध्वस्थितस्य याजघन्यासाऽपित्रिधा-अधमोत्कृष्टाअधममध्यमाअधमाधमा च चरिमेति । अधमशब्दो जघन्यवाचकोऽत्र द्रष्टव्यः ॥एतासामिदं स्वरूपम्[भा.५९४८] पलियंक अद्ध उक्कुडुग, मो यतिविहा उ मज्झिमा होइ। . तइया उ हत्यिसुंडेगपाद समपादिगा चेव ।। वृ-मध्यमोत्कृष्टा पर्यङ्कासनसंस्थिता, मध्यममध्यमा अर्द्धपर्यङ्का, मध्यमजघन्याउत्कटिका। कचिदादर्श पूर्वार्द्धमित्यं दृश्यते-“गोदोहुक्कड पलियंक मोउतिविहा उ मज्झिमा होइ" ति, तत्र मध्यमोत्कृष्टा गोदोहिका, मध्यममध्यमा उत्कटिका, मध्यमजघन्या पर्यकासनरूपा । मोशब्दः पादपूरणे। एषा त्रिविधामध्यमा भवति । यातु तृतीया' स्थितस्य झघन्योत्कृष्टादिभोदात्रिधा भणितासाजघन्योत्कृष्टा 'हस्तिशुण्डिका' पुताभ्यामुपविष्टस्यैकपादोत्पाटनरूपा, जघन्यमध्यमा 'एकपादिका' उत्थितस्यैकपादेनावस्थानम्, जघन्यजघन्या 'समपादिका' समतलाभ्यां पादाभ्यां स्थित्वा यद् ऊर्ध्वस्थितैराताप्यते ॥ कथं पुनः शयितस्योत्कृष्टातापना भवति? इति उच्यते[भा.५९४९] सव्वंगिओ पतावो, पताविया धम्मरस्सिणा भूमी। नय कमइ तत्थवाओ, विस्सामो नेव गत्ताणं॥ वृ-भूमौ निवन्नस्य सर्वाङ्गीणः 'प्रतापः' प्रकर्षेण तापो लगति, धर्मरश्मिना च भूमि प्रकर्षण अत्यन्तंतापिता, नच तत्र' भूमौ वायुः क्रमते' प्रचरि,नच 'गात्राणाम् अङ्गानां विश्रामोभवति, Page #324 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं - १६६, [भा. ५९४९] ३२१ अतो निपन्नस्योत्कृष्टातापना मन्तव्या ॥ अथामूषां मध्यादार्यिकाणां काऽऽआतापना कर्तुं कल्पते ? इत्यत आह[भा. ५९५० ] यासि नवहंपी, अनुनाया संजईण अंतिल्ला । सानान्नाया, अट्ठ तु आतावणा तासिं ॥ वृ- एतेसां नवानामप्यातापनानां मध्याद् 'अन्तिमा' समपादिकाख्या आतापना संयतीनामनुज्ञाता । 'शेषाः' अष्टथवातापनास्तासां नानुज्ञाताः ॥ कीदृशे पुनः स्थानेता आतापयन्ति ? इति उच्यते [ भा. ५९५१] पालीहि जत्थ दीसइ, जत्थ य सइरं विसंति न जुवाणा । उग्गहमादिसु सज्जा, आयावयते तहिं अज्जा ।। वृ- यत् प्रतिश्रयपालिकाभि संयतीभिरातापयन्ती द्दश्यते, यत्र च 'स्वैरं' स्वच्छन्दं युवानो न प्रविशन्ति तत्र स्थानेऽवग्रहा-ऽनन्तकादिभि सङ्घाटिकान्तैरुपकरणैः 'सज्जा' आयुक्ता आर्यिका प्रलम्बितबाहुयुगला आतापयति ।। किमर्थमवग्रहानन्तकादिसज्जा ? इति चेद् अत आह[ भा. ५९५२ ] मुच्छाए निवडिताए, वातेन समुद्धृते व संवरणे । गोतरमजयणदोसा, जे कुत्ता ते उ पाविज्जा ।। वृ-तस्या आतापयन्त्याः खरतरातपसम्पर्कपरितापितायाः कदाचिद् मूर्च्छा सञ्जायेत तया च निपतितायाः, वातेन वा 'संवरणे' प्रावरणे समुद्धते, अवग्रहानन्तकादिभिर्विना गोचरचर्यायामयतनया प्रविष्टाया ये दोषास्तृतीयोद्देशके उक्तास्तान् प्राप्नुयात्, अतस्तैः प्रावृता आतापयेत् । मू. (१६७) नो कप्पइ निग्गंथीए ठाणाययाए हुंतए । मू. (१६८) नो कप्पइ निग्गंधीए पडिमट्ठाइयाए हुंतए । मू. (१६९) उक्कुडुगासणियाए । मू. (१७०) एवं नेसज्जियाए । मू. (१७१) वीरासणियाए । मू. (१७२) दंडासणियाए ॥ मू. (१७३) लगंडसाइयाए । मू. (१७४) ओमंथियाए । मू. (१७५) उत्ताणियाए । मू. (१७६) अंबखुजियाए ॥ मू. (१७७) एगपासियाए । वृ- नोकल्पते निर्ग्रन्थ्याः स्थानायताया भवितुम् । एवं प्रतिमास्थायिन्या नैषधिकाया उत्कटिकासनिकाया वीरासनिकाया दण्डासनिकाया लगण्डशायिन्या अवाङ्मुखाया उत्तानिकाया आम्रकुब्जिकाया एकपार्श्वशायिन्या इति सूत्राक्षरसंस्कारः ॥ अत्र भाष्यकारो विषमपदानि व्याख्यानयति [भा. ५९५३] 20 21 उद्धवाणं ठाणायतं तु पडिमाउ होंति मासाई । Page #325 -------------------------------------------------------------------------- ________________ ३२२ बृहत्कल्प-छेदसूत्रम् -३-५/१७७ पंचेव निसिजाओ, तासि विभासा उ कायव्वा ।। वृ-स्थानायतं नाम ऊर्ध्वस्थानरूपमायतं स्थानं तद् यस्यामस्तिसा स्थानायतिका । केचित्तु "ठाणाइयाए" इति पठन्ति, तत्रायमर्थ-सर्वेषां निषदनादीनां स्थानानांआदिभूतमूर्ध्वस्थानम्, अतः स्थानानामादौ गच्छतीति व्युत्पत्त्या स्थानादिगं तद् उच्यते, तद्योगाद् आर्थिकाऽपि स्थानादिगति व्यपदिश्यते । प्रतिमाः मासिक्यादिकाः तासु तिष्ठतीति प्रतिमास्थायिनी । "नेसज्जियाय"त्ति निषद्याः पञ्चैव भवन्ति तासां विभाषा कर्तव्या । सा चेयम्-निषद्या नामउपवेशनविशेषाः, ताः पञ्चविधाः,तद्यथा-समपादयुतागोनिषधिकाहस्तिशुण्डिकापर्यङ्काऽर्धपर्यङ्का चेति । तत्र यस्यां समौ पादौ पुतौ च स्पृशतः सा समपादयुता, यस्यां तु गौरिवोपवेशनं सा गोनिषधिका, यत्रपुताभ्यामुपविश्यैकं पादमुत्पाटयति साहस्तिशुण्डिका, पर्याप्रतीप्ता, अर्धपर्यङ्का यस्यामेकंजानुम्तापटयति । एवंविधया निषद्यया चरतीतिनैषधिकी।उत्कटिकासनंतुसुगमत्वाद् भाष्यकृता न व्याख्यातम् ॥ [मा.५९५४] वीरासनं तु सीहासने वजह मुक्कजन्नुक निविट्ठो। दंडे लगंड उवमा, आयत खुज्जाय दुण्हं पि॥ वृ-वीरासनं नाम यथा सिंहासने उपविये भून्यस्तपाद आस्ते तथा तस्यापनयने कृतेऽपि सिंहासन इव निविष्टो मुक्तजानकु इव निरालम्बनेऽपि यद् आस्ते । दुष्करं चैतद्, अत एव वीरस्य-साहसिकस्यासनंवीरासनमित्युच्यते, तद्अस्याअस्तीतिवीरासनिका।तथा दण्डासनिकालगण्डशायिकापदद्वये यथाक्रमं दण्डस्य लगण्डस्य चायत-कुलताभ्यामुपमाकर्तव्या । तद्यथादण्डस्येवायतं-पादप्रसारणेन दीर्घयआसनंतद्दण्डासनम्, तदअसाय अस्तीति दण्डासनिका। लगण्डं किल-दुःसंस्थितं काष्ठम्, तद्वत् कुब्जतया मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, यातथाविधाभिग्रहविशेषेण शेते सा लगण्डशायिनी।अवाड्मुखादीनितुपदानि सुगमत्वाद् न व्याख्यातानीति द्रष्टव्यम् । एते सर्वेऽप्यभिग्रहविशेषाः संयतीनां प्रतिषिद्धाः॥ एतान् प्रतिपद्यमानानां दोषानाह[भा.५९५५] जोणीखुब्मण पेल्लण, गुरुगा भुत्ताण होइ सइकरणं। गिरुगा सवेंटगम्मी, कारणे गहणं व धरणं वा ॥ वृ-उर्ध्वस्थानादौ स्थानविशेषे स्थितायाआर्यिकायायोनेः क्षोभोभवेत्, तरुणावा तथास्थितां दृष्ट्वा 'प्रेरयेयुः' प्रतिसेवेरन् । अत अवैतानभिग्रहान् प्रतिपद्यमानायास्तस्याश्चतुर्गुरु । भुक्तभोगिनीनां च येन कारणेन स्मृतिकरणमितरासां कौतुकं च जायते । तथा वक्ष्यमाणसूत्रे प्रतिषेधयिष्यमाणं सवेण्टकं तुम्बकं यदि निर्ग्रन्थी गृह्णाति तदा चतुर्गुरु, स्मृतिकरणादयश्चत एव दोषाः । कारणेतु तस्यापि ग्रहणंधारणंचानुज्ञातम् । एतच्चाप्रस्तुतमपि लाघवार्थं स्मृतिकरमादिदोषसाम्यादत्र भाष्यकृताऽभिहितमिति सम्भावयामः, अन्यथा वा सुधिया परिभाव्यम्। [भा.५९५६] वीरासन गोदोही, मुत्तुंसव्वे वितान कपंति । ते पुन पडुच्च चेटुं, सुत्ता उ अभिग्गहं पप्पा॥ वृ-अनन्तरोक्तासनानां मध्याद् वीरासनं गोदोहिकासनं च मुक्त्वा शेषाण्यवंस्थानादीनि सर्वाण्यपि तासां कल्पन्ते । आह-सूतरे तान्यपि प्रतिषिद्धानि तत् कथमनुज्ञायन्ते ? इत्याह Page #326 -------------------------------------------------------------------------- ________________ ३२३ उद्देशकः ५, मूलं-१७७, [भा. ५९५६] 'तानिपुनः' शेषाणि स्थानानि चेष्टां प्रतीत्य कल्पन्ते, नपुनरभिग्रहविशेषम् सूत्राणिपुनरभिग्रह 'प्राप्य' प्रतीत्य प्रवृत्तानि, तत इदमुक्तं भवति-अभिग्रहविशेषादूर्ध्वस्थानादीनिसंयतीनांन कल्पन्ते, सामान्यतः पुनरावश्यकादिवेलायांयानि क्रियन्तेतानि कल्पन्त एव।।परः प्राह-ननुचाभिग्रहादिरूपं तपः कर्मनिर्जरणार्थमुक्तम् ततः किमेवं संयतीनां तत् प्रतिषिध्यते? उच्यते[भा.५९५७] तवो सो उ अनुन्नाओ, जेन सेसं न लुप्पति। अकामियं पिपेल्लिज्जा, वारिओ तेनऽभिग्गहो॥ वृ-तपस्तदेव भगवद्भिरनुज्ञातं येन शेषं ब्रह्मचर्यादिकं गुणकदम्बकं न लुप्यते। कथं पुनः शेषं लुप्यते? इत्याह-“अकामियं" इत्यादि, दण्डायतादिस्थानस्थितामार्यिका दृष्ट्वा कश्चिदुदीर्णकर्मा ताम् ‘अकामिकाम्' अनिच्छन्तीमपि 'प्रेरयेत्' प्रतिसेवेत । तेन कारणेन वारित एताशस्तासामभिग्रहः ।। किञ्च[भा.५९५८] जेय दंसादओ पाणा, जे य संसप्पगा भुवि । . चिट्ठस्सग्गट्ठिया ता वि, सहति जह संजया॥ वृ-इह द्विधा कायोत्सर्ग-चेष्टायामभिभवे च । तत्राभिभवकायोत्सर्गस्तासां प्रतिषिद्ध इति कृत्वाऽभिधीयते-ये च दंश-मशकादयः प्राणिनो ये न भुवि 'संसर्पकाः' सञ्चरणशीला उन्दुरकीटकादयस्तैः कृतानुपद्रवान्यथा संयताः सहन्ते तथा ताअपि' आर्यिकाश्चेष्टाकायोत्सर्गस्थिता आवश्यकादिवेलायांसम्यक्सहन्ते, ततएवंताअपि कर्मनिर्जरांकुर्वन्ति॥आह-यदिउदीर्णकर्मणा तरुणादिना प्रेर्यमाणाऽपि सा संयती न स्वादयति ॥ ततः किमिति येनाभिग्रहविशेषेण बहुतरा कर्मनिर्जरा भवति स वार्यते? उच्यते[भा.५९५९] वसिज्जा बंभचेरंसी, भुजमाणी तुकादितु। तहावितं न पूयंति, थेरा अयसभीरुणो॥ कृ-यद्यपि काचिद्' आर्यिका धृति-बलयुक्ता भुज्यमाना' प्रतिसेव्यमानाऽपिभावतोब्रह्मचर्ये वसेत् तथापि ‘स्थविराः' गौतमादयः सूरयः प्रवचनापयशःप्रवादभीरवस्ता न पूजयन्ति, न प्रशंसन्तीत्यर्थः । किञ्च[भा.५९६०] तिव्वाभिग्गहसंजुत्ता, थाण-मोणा-ऽऽसने रता। जहा सुझंति जयओ, एगा-ऽनेगविहारिणो॥ [भा.५९६१] लज्जं बंभंच तित्थं च, रक्खंतीओ तवोरता। गच्छे चेव विसुझंती, तहा अनसनादिहिं॥ वृ-तीव्रः-द्रव्यादिविषयैरभिग्रहैः संयुक्ताः, स्थान-मौना-ऽऽसनविशेषेषु रताः, “एकाऽनेकविहारिणः केचिद् एकाकिविहारिणो जिनकल्पिकादय इत्यर्थः, केचिचानेकविहारिणः स्थविरकल्पिका इत्यर्थः, एवंविधा यतयो यथा शुध्यन्ति तथा निर्ग्रन्थ्योऽपिलजांब्रह्मचर्यं तीर्थं चसूत्रोक्तविधिनरक्षन्त्यः 'तपोरताः' स्वाध्यायादितपःकर्मपरायणागच्छएववसन्त्योऽनशनादिभिर्यथोचितैस्तपोभि शुध्यन्ति, न तीरैरभिग्रहैः ॥अपिच[भा.५९६२] जो वि दहिंधणो हुन्जा, इत्यिचिंधो तु केवली। वसते सो वि गच्छम्मी, किमुत्थीवेदसिंधणा॥ Page #327 -------------------------------------------------------------------------- ________________ ३२४ बृहत्कल्प-छेदसूत्रम् -३-५/१७७ वृ-योऽपि ‘दग्धेन्धनः' भस्मसात्कृतवेदमोहनीयकमा ‘स्त्रचिह्नः' बहिःस्त्रीलक्षणलक्षितः केवली भवति सोऽपि गच्छवासे वसति किं पुनर्या संयती स्त्रवेदेन सेन्धना?, सा सुतरां गच्छे वसेदिति भावः ॥ यदप्युक्तम्-'यदि न स्वादयति ततः को नाम तस्या अभिग्रहग्रहणे दोषः?' तदप्ययुक्तम्, प्रतिसेव्यमानाया आस्वादनस्य याद्दछिकत्वात् । कथम्? इति चेद् उच्यते[भा.५९६३] अलायं घट्टियं ज्झाई, फुफुगा हसहसायई। कोवितो वड्डती वाही, इत्थीवेदे विसो गमो॥ वृ. 'अलातम्' उल्मुकं घट्टितं' चालितं सद् यथा 'ध्यायति' प्रज्वलति, यथा वा फुम्फुका घट्टिता 'हसहसायति' भृशं दीप्यते, यथावाव्याधिरपथ्यासेवनादिनाकोपितोवर्धते, स्त्रीवेदस्यापि स एव गमोमन्तव्यः, सोऽपि घट्टितः प्रज्वलतीत्यर्थः । अतो यादृच्छिकमास्वादनमिति॥आहसंयतीनां प्रतिषिद्धा अमी अभिग्रहाः परं संयतानां का वार्ता ? अत्रोच्यते[भा.५९६४] कारणमकारणम्मि य, गीयत्थम्मिय तहा अगीयम्मि। एए सब्बे विपए, संजयपक्खे विभासिज्जा ॥ वृ-यानिएतानि व्युत्सृष्टकायिकत्वादीनिपदान्युक्तानितानि 'कारणे सिंहादिभिरभिभूतस्य देवताकम्पननिमित्तंवा गीतार्थस्यागीतार्थस्य वा कल्पन्ते। अकारणे पुनरगीतार्थस्य न कल्पन्ते, गीतार्थस्य तु निष्कारणे पि निर्जरानिमित्तं कल्पन्ते । अचेलत्वादिकमपि गीतार्थस्य जिनकल्पं प्रतिपद्यमानस्य कल्पते। एवंसंयतपक्षे 'एतानि अचेलतादीनि सर्वाण्यपिपदानि विभाषयेत्॥ मू. (१७८) नो कप्पइ निग्गंथीणं आकुंचनपट्टगंधारित्तए वा परिहरित्तए वा। मू. (१७९) कप्पइ निग्गंथाणं आकुंचनपट्टगंधारित्तए वा परिहरित्तए वा ।। वृ-एवं यावद् दारुदण्डकसूत्रम् ॥अथामीषां सूत्राणां सम्बन्धमाह[भा.५९६५] बंभवयपालणट्ठा, तहेव पट्टाइया उ समणीणं । बिइयपदेण जईणं, पीढग-फलए विवजित्ता॥ वृ-यथा ब्रह्मव्रतपालनार्थमचेलत्वादीनि न कल्पन्ते तथा ब्रह्मचर्यरक्षणार्थमेव श्रमणीनां पट्टादयोऽपि दारुदण्डकान्ता न कल्पते । द्वितीयपदे तु यतीनां कल्पन्ते परं पीठ-फलकानि वर्जयित्वा, तानि साधूनामपवादमन्तरेणापि कल्पन्त एवेत्यर्थः । अत एतेषां सूत्राणामारम्भः॥ अनेन सम्बन्धेनायातानाममीषां प्रथमसूत्रस्य व्याख्या-नो कल्पते निर्ग्रन्थीनाम् ‘आकुञ्चनपर्ट' पर्यस्तिकापट्टेधारयितुंवा परिहतुवा । कल्पतेनिर्ग्रन्थानामाकुञ्चनपहुंधारयितुंवा परिहर्तुवेति सूत्रार्थः॥ अथ भाष्यम्[भा.५९६६] गव्वो अवाउडत्तं, अनुवधि पलिमंथु सत्युपरिवाओ। पट्टमजालिय दोसा, गिलाणियाए उ जयणाए॥ वृ-पर्यस्तिकापट्ट परिदधानामार्यिकां दृष्टवा लोको ब्रूयात्-अहो! अस्याः कियान् गर्यो यदेवं महेलाऽपि भवन्ती पर्यस्तिकां करोति ।अपावृतावापर्यस्तिकां कुर्वाणा भवेत्। “अनुवहि"त्ति य उपकारे वर्तते स उपधिरुच्यते, स च तासामुपकारं नायातीति कृत्वाऽनुपधि । उभयकालं प्रत्युपेक्षमाणेच तस्मिन् सूत्रार्थपरिमन्थः । शास्तुश्च-तीर्थकृतः परिवादः, यथा-नूनमसर्वज्ञोऽसौ येनैतासांपर्यस्तिकापट्टोन प्रतिषिद्धः। द्वितीयपदे या संयती स्थविरा ग्लाना वा तया 'यतनया Page #328 -------------------------------------------------------------------------- ________________ ३२५ उद्देशकः ५, मूलं-१७९, [भा. ५९६६] अल्पसागारिके पर्यस्तिकापट्टः परिधातव्यः, उपरि चान्यत् प्रावरणीयम् । कारणे च गृह्यमाणो यः 'अजालिकः' जालरहितःसग्रहीतव्यः, जालसद्दशेतुशुषिरदोषाः। एवं निर्ग्रन्थानामप्यकारणे पर्यस्तिकां कुर्वाणानां चतुर्लघुगर्वादयश्चत एव दोषाः ।।कारणे पुनरयं विधिः[भा.५९६७] थेरे व गिलाणेवा, सुतं काउमुवरिंतु पाउरणं । सावस्सए व वेटो, पुव्वकतमसारिए वाए। वृ-सूत्रपौरुषीम् उपलक्षणत्वाद् अर्थपौरुषींच 'कर्तुं शिष्याणां दातुमित्यर्थः स्थविरोग्लानो वा वाचनार्यपर्यस्तिकां कृत्वाउपरिप्रावृणुयात्।उत्तरार्द्धपश्चाद्व्याख्यास्यते॥सचपर्यस्तिकापट्टः कीशः? इत्याह[भा.५६६८]फल्लो अचित्तो अह आविओवा, चउरंगुलं वित्थडो असंधिमो अ। विस्सामहेउंतु सरीरगस्सा, दोसा अचटुंभगकया न एवं ॥ वृ-फलाद् जातः फालः सौत्रिक इत्यर्थः, 'अचित्रः' अकर्बुरः । अथ सौत्रिको न प्राप्यते तत आविको वा।सच चतुरङ्गुलं विस्तृतः पृथुलः 'असन्धिमश्च' अपान्तराले सन्धिरहितः, एवंविधः पर्यस्तिकापट्टः शरीरस्यविश्रामहेतोगुह्यते।येचावष्टम्भगताः “संचरुंथुद्देहियइत्यादिकादोषास्तेऽपि "एवम्' आकुञ्चनपट्टे परिधीयमाने न भवन्ति॥ मू. (१८०) नो कप्पइ निग्गंथीणं सावस्सगंसि आसनंसि आसइत्तए वा तुयट्टित्तए वा। मू. (१८१) कप्पइ निग्गंथाणं सावस्सयंसि आसनंसि आसइत्तए वा तुट्टियत्तए वा।। वृ-सावश्रयं नाम-यस्य पृष्ठतोऽवष्टम्भो भवतिएवंविधेआसने निर्ग्रन्थीनांनो कल्पते आसितुं वात्वग्वर्तितुं वा । कल्पते निर्ग्रन्थानां सावश्रये आसने आसितुं वा त्वरवर्तितुं वा निर्ग्रन्थ्यस्तु ताशे आसने यदि उपविशन्ति शेरते वा तदा त एव गर्वादयो दोषाश्चतुर्गुरु च प्रायश्चित्तम् । द्वितीयपदेऽल्पसागारिके स्थविराग्लाना वा उपविशेत् । निर्ग्रन्थामपिन कल्पते। यदिउपविशन्ति तदा चतुर्लघु । सूत्रंतु कारणिकम् । तदेव कारणमाह- “सावस्सए" इत्यादि पश्चार्द्धम् । यो वृद्ध आचार्यसः 'पूर्वकृते गृहस्थैःस्वार्थं निष्पादिते सावश्रयेऽप्यासने उपविष्टः ‘असागारिके एकान्ते 'वाचयेत्' विनेयानां वाचनां दद्यात् ॥ मू. (१८२) नो कप्पइ निग्गंथीणंसविसाणंसिपीढंसि वा फलगंसिवा आसइत्तएवातुयट्टित्तए वा। मू. (१८३) कप्पइ निग्गंथाणं सविसाणंसि पीढंसि वा फलगंसिवा आसइत्तए वा तुयत्तिट्टए वा॥ वृ-सविषाणं नाम-यथा कपाटस्योभयतः शृङ्गे भवतः एवं यत्र भिसिकादौ पीठे फलके वा विषाणं-शृङ्गं भवति तत्र निर्ग्रन्थीनामासितुं वा शयितुं वा न कल्पते । निर्ग्रन्थानां तु कल्पते । निर्ग्रन्थ्यस्तु सविषाणे पीढे फलकेवा यद्यपविशन्ति शेरते वा तदा चतुर्गुरु आज्ञादयश्च दोषाः॥ [भा.५९६९] सविसाणे उड्डाहो, पाकम्मादी यतो पडिक्कुटुं। थेरीए वासासुं, कप्पइ छिन्ने विसाणम्मि । वृ-सविषाणेआसने उपविशन्त्यामार्यिकायामुड्डाहोभवति, पादकर्मादयश्च दोषाः सम्भवन्ति, ततः प्रतिकुष्टं तत्रोपवेशनमिति गम्यते। द्वितीयपदे वर्षासुपीठ-फलकदुर्लभतायां सविषाणमपि Page #329 -------------------------------------------------------------------------- ________________ ३२६ बृहत्कल्प-छेदसूत्रम् -३-५/१८३ गृह्यते, तस्य च विषाणं छित्त्वा परिष्ठाप्यते । एवं छिन्ने विषाणे स्थविराया अन्यस्या वा कल्पते॥ [भा.५९७०] जंतुन लब्बइछेत्तुं, तं थेरीणं दलंति सविसाणं । छायंति य से दंडं, पाउंछण मट्टियाए वा ।। वृ-यत् 'तु'पुनश्छेत्तुंन लभ्यतेततः सविषाणमपितदासनस्थविरसाध्वीनांसाधवःप्रयच्छन्ति, तदीयं च दण्डं पादप्रोञ्छनेन घनं छादयन्ति, तेन वेष्टयित्वा स्थूलतरं कुर्वन्तीत्यर्थः; मृत्तिका वा परिवेष्टयन्ति । निर्ग्रन्थानां सविषाणमपि कल्पते ॥ कुतः? इत्याह[भा.५९७१] समणाण उ ते दोसा, न होति तेन तु दुवे अनुनाया। पीढं आसनहेडं, फलगंपुन होइ सेजट्ठा॥ वृ-श्रमणानां पुनः 'ते' पादकर्मादयो दोषा न भवन्ति ततः 'द्वे अपि' पीढ-फलके सविषाणे अप्यनुज्ञाते। तत्र पीठमासनहेतोः फलकं पुनः शय्यार्थ' शयननिमित्तं वर्षासु गृह्यते॥ अथ किमर्थं वर्षासु तत्रोपवेशनं शयनं वा क्रियते ? इत्याह[भा.५९७२] कुच्छण आय दयट्ठा, उज्झायगमरिस-वायरक्खट्ठा। पाणा सीतल दीहा, रक्खट्ठा होइ फलगंतु॥ वृ-आर्द्रायां भूमौ स्थाप्यमानाया निषद्यायाः कोथनं भवति, शीतलायां च भूमावुपविशतां धान्यं न जीर्यति ततो ग्लानत्वेन आत्मविराधना, 'दयार्थं च' जीवदयानिमित्तं वर्षासु भूमौ नोपवेष्टव्यम्, “उज्झायगं"ति भूमेरार्द्रभावेन मलिनीभूतस्योपधेर्जुगुप्सनीयता स्यात्, अर्शासि वाक्षुभ्येयुः, वातोवाऽधिकतरं प्रकुप्येत्, तत एतेषां रक्षार्थंपीठकं ग्रहीतव्यम् । तथा शीतलायां भूमौ बहवः कुन्थु-पनकप्रभृतयःप्राणिनः सम्मूठेयुः ततो भूमौ शयानानां तेषां विराधना भवति, दीर्घजातीया व भूमेर्निर्गत्य दशेयुः, उपलक्षणमिदम्, तेनोपधिकोथनाऽजीर्णातादयोऽपि दोषा भवन्ति, एतेषां रक्षार्थं वर्षासु फलकं गृह्यते ॥ मू. (१८४) नो कप्पइ निग्गंथीणं सवेंटगं लाउयंधारित्तए वा परिहरित्तए वा। म. (१८५) कप्पइ निग्गंथाणं सवेंटगं लाउयं थारित्तए वा परिहरित्तए वा ॥ वृ-अस्य व्याख्या सुगमा।नवरम्-‘सवेण्टकं नालयुक्तंअलाबुकंतनिर्ग्रन्थीनांन कल्पते। निर्ग्रन्थानांतु कल्पते ।। अत्र भाष्यम्[भा.५९७३] तेचेव सवेंटम्मिं, दोसा पादम्मिजे तु सविसाणे। अइरेग अपडिलेहा, बिइय गिलाणोसहट्ठवणा ॥ वृत एव ‘सवृन्तेऽपि' सनालेऽपि अलाबुभये पात्रे दोषा मन्तव्या ये सविषाणे आसने पादकर्मादय उक्ताः। द्वितीयपदेतुधारयेऽपि।तत्राध्वनिधृतंवा तैलं वा सुखेनैवापरिगलदुह्यते, ग्लानाया वायोग्यं तत्रौषधंप्रक्षिप्तमास्ते। तच्च सवृन्तकंप्रवर्तिनी स्वयंसारयति।निर्ग्रन्थानामपि निष्कारणे न कल्पे । यदि धारयन्ति ततोऽतिरिक्तोपकरणदोषः, सवृन्तके च प्रत्युपेक्षणा न शुध्यति । द्वितयपदे ग्लानस्य योग्यमौषधं तत्र स्थापनीयमिति कृत्वा ग्रहीतव्यम् । मू. (१८६) नो कप्पइ निग्गंथीणं सवेंटियं पादकेसरियंधारित्तए वा परिहरित्तए वा। मू. (१८७) कप्पइ निग्गंथाणं सवेंटियं पादकेसरियं धारित्तए वा परिहरित्तए वा। वृ-नोकल्पते निर्ग्रन्थीनांसवृन्तिका पादकेसरिका धारयितुंवापरिहर्तुंवा । कल्पते निर्ग्रन्थानां Page #330 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं - १८५, [भां. ५९७३] ३२७ सवृन्तिका पादकेसरिका धारयुतं वा परिहर्तुं वा ।। अथ केयं सवृन्ता पादकेसरिका ? इत्याह[भा. ५९७४] लाउयपमाणदंडे, पडिलेहणिया उ अग्गए बद्धा । सा केसरिया भन्नइ, सनालए पायपेहट्ठ ॥ वृ-यत्राभिनवसङ्कटमुखे अलाबुनि हस्तो न माति तस्यालाबुनो यद् उच्चत्वं तत्प्रमाणो दण्डः क्रियते, तस्याग्रभागे बद्धा या प्रत्युपेक्षणिका सा पादकेसरिका सवृन्ता भण्यते । सा च कारणगृहीतस्य सनालस्य पात्रस्य प्रत्युपेक्षणार्थं गृह्यते । तां यदि निर्ग्रन्थ्यो गृह्णन्ति तदा चतुर्गुरु, सैव च प्रतिसेवनादिका विराधना । निर्ग्रन्थानामप्युत्सर्गतो न कल्पते। द्वितीयपदे सनालमलाबुकं तया प्रत्युपेक्ष्य ततो मुखं क्रियते ॥ मू. (१८८) नो कप्पइ निग्गंथीणं दारुदंडयं पायपुंछणं धारित्तए वा परिहरित्तए वा । मू. (१८९) कप्पइ निग्गंथाणं दारुदंडयं जाव परिहरित्तए वा । वृ- अस्य व्याख्या - यत्र दारुमयस्य दण्डस्याग्रभागे ऊर्णिका दशिका बध्यन्ते तद् दारुदण्डकं पादप्रोञ्छनमुच्यते । तद् निर्ग्रन्थीनां न कल्पते, निर्ग्रन्थानां तु कल्पते ।। अत्र भाष्यम्ते चेव दारुदंडे, पाउंछणगम्मि जे सनालम्मि । दुहवि कारणगहणे, चप्पडए दंडए कुजा ॥ [भा. ५९७५ ] वृ-ये सनाले पात्रेदोषा उक्तास्त एव दारुदण्डकेऽपि पादप्रोञ्छनके भवन्ति । 'द्वयोरपि च' सनालपात्र-दारुदण्डकयोः कारणे निर्ग्रन्थीनामपि ग्रहणं भवति । तत्र च ग्रहणे कृते 'चप्पडकान्' चतुष्पलान् दण्डकान् कुर्यात् ॥ मू. (१९०) नो कप्पइ निग्गंथाण वा निग्गंधीण वा अन्नमन्नस्स मोयं आइयत्तए वा आइमित्तए वा, नन्नत्थ गाढाऽ गाढेसु रोगायंकेसु । वृ- अस्य सम्बन्धमाह[भा. ५९७६ ] बंभवयपालणट्ठा, गतोऽहिगारो तु एगपक्खम्मि । तस्सेव पालणट्ठा, मोयाऽऽरंभो दुपक्खे वी ॥ वृ- ब्रह्मव्रतपालनार्थमेकस्मिन् संयतीलक्षणे पक्षे पूर्वसूत्रेषु योऽधिकारः स गतः, समर्थित इत्यर्थः । सम्प्रति तु 'तस्यैव' ब्रह्मव्रतस्य पालनार्थं 'द्विपक्षेऽपि संयत संयतीपक्षद्वयविषये मोकसूत्रारम्भः क्रियते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ‘अन्योन्यस्य' परस्परस्य मोकमापातुं वा आचमितुं वा । किं सर्वथैव ? न इत्याह- गाढाः -अहिविषविसूचिकादयः अगाढाश्च ज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्र न कल्पते, तेषु तु कल्पत इत्यर्थः । एष सूत्रार्थः ॥ सम्प्रति नियुक्तिविस्तरः [भा. ५९७७ ] मोएण अन्नमन्नस्स आयमणे चउगुरुं च आणाई । मिच्छत्ते उड्डाहो, विराधना भावसंबंधो ॥ वृ- 'अन्योन्यस्य' संयतः मोकेन संयती वा संयतानां मोकेन निशाकल्प इकति कृत्वा रात्रौ यद्यामचति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च भवेद् न यथावादी तथाकारीति कृत्वा । यद्वा कश्चिदभिनवधर्मा तद् निरीक्ष्य मिध्यात्वं गच्छेत्-अहो ! अमी समला इति । उड्डाहश्च भोगिनी - घाटिकादिज्ञापने भवति । विराधा च संयमस्यात्मनो वा भवति । तत्र संयमविराधना Page #331 -------------------------------------------------------------------------- ________________ ३२८ बृहत्कल्प-छेदसूत्रम् - ३-५/१९० तेन स्पर्शेनैकतरस्य भावसम्बन्धो भवेत्, ततश्च प्रतिगमनादयो दोषाः । आत्मविराधना तु "चिंतेइ दडुमिच्छइ" इत्यादिक्रमेण ज्वर- दाहादिका ।। किञ्च [भा. ५९७८] दिवसं पिता न कप्पइ, किमु निसि मोएण अन्नमन्नस्स । इत्थंगते किमन्नं, न करेज्ज अकिञ्चपडिसेवं ॥ " वृ-दिवसेऽपि तावन्न कल्पते अन्योन्यस्य मोकेनाऽऽचमितुं किं पुनः 'निशि' रात्रौ ? | 'इत्थङ्गते हि' परस्परं मोकाचमनेऽपि कृते किं नाम तदकृत्यमस्ति यस्य प्रतिसेवां न कुर्याताम् ॥ [ भा. ५९७९] वुत्तुं पि ता गरहितं, किं पुन घेत्तुं जे कर बिलाओ वा । घासपइट्ठो गोणो, दुरक्खओ सस्स अब्भासे ॥ - वक्तुमपि तावदेतद् मोकाचमनं गर्हितं किं पुनः संयत्याः कराद् 'बिलाद् वा' भगादित्यर्थः मोकं ग्रहीतुम् ? । अपि च घासः चारी तस्याश्चरणार्थं गौः प्रविष्टः सन् 'सस्याभ्यासे' धान्यमूले चरन् दूरक्षो भवति, धान्यमदन् दुःखेन रक्ष्यत इत्यर्थः, एवमयमपि संयत्या मोकेनाचमन् प्रसङ्गतः शेषामपि क्रियां कुर्वन् न वारयुतिं शक्य इति भावः ॥ [भा. ५९८० ]दिवसओ सपक्खे लहुगा, अद्धाणाऽऽ गाढ गच्छ जयणाए । रत्तिं च दोहि लहुगा, बिइयं आगाढ जयणाए । वृ-दिवसतः 'सपक्षेऽपि' संयतः संयतानां संयती वा संयतीनां मोकेन यदि आचमति तदा चतुर्लघु । शैक्षाणां तदवलोकनादन्यथाभावो भवेत् । गृहस्थ-परतीर्थिकाञ्चोड्डाहं कुर्युः ॥ कथम् ? इत्याह [ भा. ५९८१ ] अट्ठिसरक्खा वि जिया, लोए नत्थेरिसऽन्नधम्मेसु । सरिसेण सरिससोही, कीरइ कत्थाइ सोहेज्जा ।। वृ- अहो ! अमीभिः श्रमणकैरेवं मोकेनाचमद्भिरस्थिसरजस्का अपि जिताः, अस्मिल्लोकेऽन्ये बहवो धर्म विद्यन्ते परं कुत्रापि ईध्शं शौचं न दृष्टम् । सद्दशेन च सद्दशस्य या शोधि क्रियते सा किं कुत्रचित् 'शोधयेत्' शुद्धं कुर्यात् ? अशुचिना धाव्यमानमशुचि न शुध्यतीति भावः ॥ द्वितीयपदे अध्वनि वर्तमानस्य गच्छस्यापरस्मिन् वा आगाढे कारणे यतनया दिवा स्वपक्षमोकेनाचमेत् । अथ रात्रौ निष्कारणे मोकेनाचमति ततश्चतुर्लघु 'द्वाभ्यामपि तपः- कालाभ्यां लघु । “रत्तिं दवे वि लहुग”त्ति पाठान्तरम्, तत्र रात्रौ द्रवं पानकमाचमनार्थं यदि परिवासयति ततश्चतुर्लघु, सञ्चयपनकसम्मूर्च्छनादयश्चानेकविधा दोषाः । आह च बृहद्भाष्यकृत-रत्तिं दवपरिवासे, लहुगा दोसा हवंतऽनेगविहा । इति । द्वितीयपदे आगाढे कारणे यतनया रात्रावपि मोकेनाचमेद् द्रवं वा परिवासयेत् ॥ तत्राध्वनि द्वितीयपदं व्याचष्टे [भा. ५९८२ ] निच्छुभई सत्थाओ, भत्तं वारेइ तक्करदुगं वा । फासुदवं च न लब्भइ, सा वि य उच्चिट्ठविजा उ ॥ वृ-यदि अध्वनि प्रतिपन्नं गच्छं प्रत्यनीकसार्थवाहादि सार्थाद् निष्काशयति, भक्तं वा वारयति, यद्वा 'तस्करद्विकम्' उपधि-शरीस्तेनद्वयमुपद्रोतुमिच्छति; तत्र कस्यापि साधोराभिचारुका विद्या समस्ति यया परिजपितया स आवर्त्यते, स च साधुस्तदानीं संज्ञालेपृत्पुतः, प्राशुकं च द्रवं तत्र न लभ्यते, साऽपि चोच्छिष्टविद्या, ततो मोकेनाचम्यतां परिजपेत् ॥ अथागाढपदं व्याख्याति Page #332 -------------------------------------------------------------------------- ________________ ३२९ उद्देशकः ५, मूलं-१९०, [भा. ५९८३] [भा.५९८३] अचुक्कडे व दुक्खे, अप्पा वा वेदना खवे आउं। तत्थ विसुच्चेव गमो, उच्चिट्ठगमंत-विजाऽऽसु॥ वृ-अत्युत्कटं वासूलादिकंदुःखं कस्याप्युत्पन्नम्, 'अल्पावावेदना' सर्पदशनादिरूपा साता या शीघ्रमायुः क्षिपेत्, ततस्तत्रापि स एव गमो मन्तव्यः, प्राशुकद्रवाभावे मोकेनाचमेदित्यर्थः । तत उच्छिष्टं मन्त्रं विद्यां वा परिजप्य तं साधुंआशु-शीघ्रं प्रगुणं कुर्यात् ॥अत्र यतनामाह[भा.५९८४] मत्तग मोयाऽऽयमणं, अभिगए आइन्न एस निसिकप्पो। संफासुड्डाहादी, अमोयमत्ते भवे दोसा॥ वृ-कायिकामात्रके मोकंगृहीत्वा तेनाचमनं कर्तव्यम्, 'अभिगतस्य गीतार्थस्याचीर्णमेतत्, एष च निशाकल्प उच्यते, पानकाभावेन रात्रावेव प्रायः क्रियमाणत्वात्। अथ मोकमात्रकं विना मोकं स्वपक्षसागारिकाद् गृह्णन्ति ततः संस्पर्शोड्डाहादयो दोषाः। एवं रात्रौ मोकेनाचमनीयम्, न पुनस्तदर्थं द्रवं स्थापनीयम् । द्वितीयपदे स्थापयेदपि ।। कथम् ? इत्याह[भा.५९८५] पिढें को विय सेहो जइ सरई मा व हुज्ज से सन्ना । जयणाए ठवेंत दवं, दोसाय भवे निरोहम्मि॥ वृ-यदि कोऽपिशैक्षः पिढेंसरति, अतीव व्युत्सर्जनं करोतीत्यर्थः । सचाद्यापि मोकाचमनेनाभावित इति कृत्वा तदर्थयतनयाद्रवंस्थापयन्ति।सामान्यतोवामा तस्य' शैक्षस्य रजन्यामकस्माद् व्युत्सजनं भवेद् इति कृत्वा द्रवंस्थापयन्ति।अथ नस्थाप्यत ततःस रात्रौ संज्ञासम्भवे पानकाभावे निरोधं कुर्यात्, निरोधे च परितपा-मरणादयो दोषा भवेयुः।। एवं तावदाचमने भणितम् । अथापिबतां दोषानाह[भा.५९८६] मोयं तुअन्नमन्नस्स, आयमणे चउगुरुंच आणाई। मिच्छत्ते उड्डाहो, विराधना देविदिलुतो॥ वृ-अन्योन्यस्य मोकं यदि आपिबति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च सागारिकादिस्तदवलोक्य गच्छेत्, उड्डाहो वा भवेत्, विराधना च संयमस्यात्मनो वा भवति । तत्र च देवीदृष्टान्तः॥ तमेवाह[भा.५९८७] . दीहे ओसहभावित, मोयं देवीय पजिओ राया। आसाय पुच्छ कहणं, पडिसेवा मुच्छिओ गलितं॥ [भा.५९८८] अह रन्ना तूरते, सुक्खग्गहणं तु पुच्छणा विज्जे । जइ सक्खमत्थि जीवइ, खीरेण य पजिओन मओ॥ वृ-एगो राया महाविसेणं अहिणा खइओ । विजेण भणियं-जइ परंमोयं आइयइ तो न मरइ। तओ देवीतणयं ओसहेहिं वासेऊण दिनं । तेन थोवावसेसं आसाइयं । तओ पउणो पुच्छइ-किं ओसहं ? । तेहिं कहियं । सोराया तेन वसीकओ दिया रत्तिं च पडिसेविउमारद्धो । देवीए नायं'मओ होहिइ' त्ति सुकं कप्पाण सारवियं अवसाने नीसहो जाओमरिउमारद्धो। विजेन भणियंजइ एयस्स चेव सुकं अस्थि तो जीवइ । तीए भणियं-अस्थि खीरेण समं कढेउं दिन्नं । पउणो जाओ।अथाक्षरगमनिका-'दीर्घेण' अहिना भक्षितो राजा । देव्याः सम्बन्धि मोकमौषधभावितं पायितः । तत आस्वादे ज्ञाते पृच्छा कृता । ततः कथनम् । ततो दिवा रात्रौ न प्रतिसेवां मूर्छितः Page #333 -------------------------------------------------------------------------- ________________ ३३० बृहत्कल्प-छेदसूत्रम् -३-५/१९० करोति । प्रभूतं च शुक्र गलितम् ॥ 'अथ' अनन्तरं राज्ञि मरणाय त्वरमाणे देव्या शुक्रग्रहणम् । वैद्यस्य च पृच्छा-यदि शुक्रमस्ति ततो जीवति । एवं कथिते क्षीरेण समंतदेव सुकं पायितस्ततो न मृतः । एवमेव संयत्याः मोकेन पीतेन साधुरपिवशीक्रियेत, वशीकृतश्वावभाषेत, प्रतिगमनादीनि वा कुर्यात्, तस्माद् नाऽऽपातव्यम् । कारणे पुनराचमनमापानं वा कुर्यात् ॥ तथा चाह[भा.५९८९] सुत्तेणेवऽववाओ, आमइ पियेज्ज वा विआगाढे । आयमन आमय अनामए य पियणं तु रोगम्मि॥ वृ-सूत्रेणैवापवादो दर्श्यते-“आगाढे रोगातङ्के आचमेत् आपिबेद्वा" इति यदुक्तं सूत्रे तत्र 'आचमनं निर्लेपनम् ‘आमये' रोगे 'अनामयेच' निशाकल्पे भवति? पानंतुरोग एवसम्भवति नान्यदा ॥ तत्रायं विधिः[भा.५९९०] दीहाइयणे गमनं, सागारिय पुछिए य अइगमणं । तासि सगारजुयाणं, कप्पइ गमनं जहिं च भयं॥ वृ-दीर्पण कस्यापि साधोः अदने-भक्षमे कृते स्वपक्षमोकाभावे संयतीप्रतिश्रये गमनम् । ततस्तासां सागारिके पृष्टे सति 'अतिगमन' प्रवेशः कर्तव्यः । अथ संयत्याः सर्पदशनं जातं ततस्तासां सागारिकयुक्तानां साधुवसतौ गमनं कल्पते । यत्र च भयं तत्र दीपको ग्रहीतव्य इति वाक्यशेषः । एष सङ्ग्रहगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति[भा.५९९१] निद्धं भुत्ता उववासिया व वोसिरितमत्तगा वा वि । सागारियाइसहिया, सभए दीवेण य ससदा ।। वृ-अहिना भक्षितः साधुः स्वपक्ष एव साधूनां मोकं पाय्यते । अथ तेषां नास्ति मोकन्, कुतः ? इत्याह-स्निग्धमाहारं तद्दिवसं भुक्ता उपवासिका वा ततो नास्ति मोकम; अथवा व्युत्सृष्टमात्रसाकास्ते, तत्क्षण एव मोकंव्युत्सृष्टमपरंचनास्तीति भावः, ततो निर्ग्रन्थीनांप्रतिश्रये गन्तव्यम् । यदि निर्भयंतत एवमेव गम्यते।अथ सभयं ततः सागारिकादिना केनचिद् द्वितीयेन दीपकेनचसहिताः सशब्दागच्छन्ति।ततःसंयीवसतिंप्रविशन्तो यदि नैषेधिकी कुर्वन्तिततश्चतुगुरु ॥ तथा[भा.५९९२] तुसिनीए चउगुरुगा, मिच्छत्ते सारियस्स वा संका। पडिबुद्धबोहियासुव, सागारिय कजदीवणया॥ वृ-तूष्णीका अपि यदि प्रविशन्ति तदा चतुर्गुरु । मिथ्यात्वं वा कश्चित् तूष्णीभावेन प्रविशतो . दृष्टवा गच्छेत् । सागारिकस्य वाशङ्का भवति-किमत्र कारणं यदेवममीअवेलायामागताः? इति, 'स्तेना अमी' इति वा मन्यमानो ग्रहणा-ऽऽकर्षणादिकं कुर्याद् आहन्याद्वा । ततस्तूष्णीकैरपि न प्रवेष्टव्यं किन्तु प्रथमं सागारिक उत्थापनीयः, ततस्तेन प्रतिबुद्धेन-उत्थितेन बोधितासु संयतीषु सागारिकस्य कार्यदीपना कर्तव्या-एकः साधुरहिना दष्टः, इह चौषधं स्थापितमस्ति तदर्थं वयमागताः॥ ततः प्रवर्तिनी भणन्ति[भा.५९९३] मोयं ति देइ गणिणी, थोवं चिय ओसह लहु नेहा । मा मग्गेज्ज सगारो, पडिसेहे वा वि वुच्छेओ।। वृ-अहिदष्टस्यौषधं मोकमिति प्रयच्छत । ततः 'गणिनी' प्रवर्तिनी यतनया मोकं गृहीत्वा Page #334 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं- १९०, [भा. ५९९३] ३३१ साधूनां ददाति भणति च स्तोकमेवेदमौषधमेतावदेवासीत्, नातः परमन्यदस्तीत्यर्थः, अतः 'लघु' शीघ्रं नयत । किमर्थमित्थं कथयति ? इत्याह- मा सागारिकः 'ममापि एतदौषधं प्रयच्छत' इत्येवं मार्गयेत् । यदा तु 'नास्त्यतः परम्' इति प्रतिषेधः कृतस्तदा व्यवच्छेदः कृतो भवति, भूयो मार्गयतीत्यर्थः ॥ [भा. ५९९४] न वि ते कहंति अमुगो, खइओ न वि ताव एय अमुईए । घेत्तुं नयनं खिष्पं, ते वि य वसहिं सयमुर्वेति ॥ वृ-ते साधवो न कथयन्ति, यथा-अमुकः साधुरहिना स्वादितः । ता अप्यार्यिका न कथयन्ति, यथा एतन्मोकममुकस्याः सत्कमिति । गृहीत्वा च क्षिप्रं नयनं कर्तव्यम् । पूर्वोक्तेन च विधिना ते ‘स्वकाम्’ आत्मीयां वसतिम् उपयान्ति ।। आह-'यदि' अमुकः साधुर्दष्टः, अमुकस्या वा मोकमिदम्' इति कथ्यते ततः को दोषः ? इत्याह [ भा. ५९९५ ] जायति सिनेहो एवं भिन्नरहस्सत्तया य वीसंभो । तम्हा न कहेयव्वं, को व गुमो होइ कहिएणं ॥ वृ- एवं कथ्यमाने तयोः स्नेहो जायते, भिन्नरहस्यता च भवति, रहस्ये च भिन्ने विश्रम्भो भवति । यत एते दोषास्तस्माद्न कथयितव्यम् । को वा गुणस्तेन कथितेन भवति ? न कोऽपीत्यर्थः । यदा संयती दीर्घजातीयेन दष्टा भवति तदाऽयं विधिः [ भा. ५९९६ ] सागारिसहिय नियमा, दीवगहत्था वए जईनिलयं । सागरयं तु बोहे, सो विजई स एव य विही उ ।। वृआर्यिका नियमात् 'सागारिकसहिताः शय्यातरसहायाः सभये च दीपकहस्ता यतीनां निलयं व्रजेयुः । स च संयतीसागारिक इतरं संयतसागारिकं बोधयति । सोऽपि प्रतिबुद्धः साधून् बोधयति । अत्रापि स एव विधिर्मोकदाने द्रष्टव्यः ॥ मू. (१९१) नो कप्पइ निग्गंथाण वा निग्गंधीण वा पारियासियस्स आहारस्स जाव तयप्पमाणमित्तमवि भूइप्पमाणमित्तमवि बिदुप्पमाणमित्तमवि आहारं आहारित्तए, नन्नत्थ आगाढेसु रोगायंकेसु ॥ वृ- अस्य सूत्रस्य सम्बन्धमाह [भा. ५९९७] उदिओऽयमनाहारो, इमं तु सुत्तं पडुच्च आहारं । अत्थे वा निसि मोयं; पिज्जति सेसं पिमा एवं ॥ वृ- 'अ' मोकलक्षणोऽ नाहारः पूर्वसूत्रे 'उदितः' भणितः, इगदं तु सूत्रं आहारं प्रतीत्यारभ्यते । अर्थतो वा 'निशि मोकं पीयते' इत्युक्म् अतः शेषमपि आहारादिकमेवं मा रात्रौ आहारयेदिति प्रस्तुतं सूत्रमारभ्यते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ‘परिवासितस्य’ रजन्यां स्थापितस्याहारस्य मध्यात् त्वक्प्रमाणमात्रमपि भूतिप्रमाणमात्रमपि बिन्दुप्रमाणमात्रमपि यावदाहारमाहर्तुम् । इह त्वक्प्रमाणमात्रं नाम-तिलतुषत्रिभागमात्रमुतञ्चाशनस्य घटते, भूतिप्रमाणमात्रं सक्तुकादीनां नेयम्, बिन्दुप्रमाणमात्रं पानकस्य । इदमेवापवदति - आगाढेभ्यो रोगा SSतभ्योऽन्यत्र न कल्पते, तेषु पुनः कल्पते इति सूत्रार्थः ॥ अथ निर्युक्तिविस्तरः[भा. ५९९८] परिवासियआहारस्स मग्गणा आहारो को भवे अनाहारो । Page #335 -------------------------------------------------------------------------- ________________ ३३२ - बृहत्कल्प-छेदसूत्रम् -३-५/१९१ ___आहारो एगंगिओ, चउब्विहो जंवऽतीइ तहिं॥ वृ-परिवासितस्याहारस्य 'मार्गणा' विचारणा कर्तव्या। तत्र शिष्यः प्राह-वयं तावदेतदेवन जानीमः-को नामाहारः ? को वाऽनाहारः ? इति । सूरिराह-'एकाङ्गिकः' शुद्ध एव यः क्षुधां शमयति स आहारो मन्तव्यः । स चाशनादिकश्चतुर्विधः, यद्वा तत्राहारेऽन्यद् लवणादिकं 'आतियाति' प्रविशति तदप्याहारो मन्तव्यः॥अथैकाङ्गिकं चतुर्विधमाहारं व्याचष्टे[मा.५९९९] कूरो नासेइ छुहं, एगंगी तक्क-उदग-मज्जाई। खाइमे फल-मंसाई, साइमे महु-फाणियाईणि ॥ वृ-अशने कूरः “एकाङ्गिकः'शुद्ध एव क्षुधं नाशयति। पाने तक्रोदक-मद्यादिकमेकाङ्गिकमपि तृषं नाशयति आहारकार्यं च करोति । खादिमे फल-मासादिकं स्वादिमे मधु-फाणितादीनि केवलान्यप्याहारकार्यं कुर्वन्ति ॥ “जं वऽईइ तहिं" ति पदं व्याख्यातिबा (६०००] जंपुन खुहापसमणे, असमत्थेगंगि होइलोणाई।। तंपिय होताऽऽहारो, आहारजुयं व विजुतं वा ।। वृ-यत् पुनरेकाङ्गिकंक्षुधाप्रशमनेऽसमर्थं परमाहारे उपयुज्यते तदप्याहारेण संयुक्तमसंयुक्तं वा आहारो भवति । तच्च लवणादिकम् । तत्राशने लवण-हिङ्गु-जीरकादिकमुपयुज्यते॥ [भा.६००१] उदए कप्पूराई, फलि सुत्ताईण सिंगबेर गुले। नय तानि कविंति खुहं, उवगारित्ता उ आहारो॥ वृ-उदके कर्पूरादिकमुपयुज्यते, आम्रादिफलेषु सुत्तादीनि द्रव्याणि, 'शृङ्गबेरे च' शुण्ठयां गुल उपयुज्यते । न चैतानि कर्पूरादीनि क्षुधां क्षपयन्ति, परमुपकारित्वादाहार उच्यते । शेषः ‘सर्वोऽप्यनाहारः॥ [भा.६००२] अहवा जं भुक्खत्तो, कद्दमउवमाइ पक्खिवइ कोट्टे । ___ सव्वो सो आहारो, ओसहमाई पुनो भइतो॥ वृ-अथवा बुभुक्षया आर्त यत् कर्दमोपभया मृदादिकं कोठे प्रक्षिपति । कर्दमोपमा नाम"अपि कर्दमपिण्डानां, कुर्यात् कुक्षि निरन्तरम् ।" स सर्वोऽप्यार उच्यते । औषधादिकं पुनः 'भक्त' विकल्पितम्, किञ्चिदाहारः किञ्चिच्चानाहार इत्यर्थः । तत्र शर्करादिकमौषधमाहारः, सर्पदष्टादेमृत्तिकादिकमौषधमनाहारः॥ . [भा.६००३] जंवा भुक्तस्स उ, संकसमाणस्स देइ अस्सातं । सव्वो सो आहारो, अकामऽनिलैंचऽनाहारो॥ वृ- यद् वा द्रव्यं बुभुक्षार्तस्य ‘सङ्कषतः' ग्रसमानस्य कवलप्रक्षेपं कुर्वते इत्यर्थः 'आस्वादं' रसनालादकं स्वादं प्रयच्छति स सर्व आहारः । यत् पुनः ‘अकामम्' अम्हवहरामीत्येवमनभिलषणीयम् ‘अनिष्टं च' जिह्वाया अरुच्यम् ईशं सर्वमनाहारो भण्यते॥ तच्चानाहारिममिदम्[भा.६००४] अनहारो मोय छल्ली, मूलं च फलं च होतऽणाहारो। सेस तय-भूइ-तोयं बिंदुम्मि व चउगुरू आणा॥ वृ-'मोकं कायिकी 'छल्ली' निम्बादित्वग् 'मूलंच' पञ्चमूलादिकं फलंच' आमलक-हरीतक Page #336 -------------------------------------------------------------------------- ________________ उद्देश : ५, मूलं - १९१, [भा. ६००४] ३३३ बिभीतकादिकम् एतत् सर्वमनाहारो भवतीति चूर्णि । निशीथचूर्णी तु "या निम्बादीनां 'छल्ली' त्वग् यच्च तेषामेव निम्बोलिकादिकं फलं यच्च तेषामेव मूलम्, एवमादिकं सर्वमप्यनाहारः" इति व्याख्यातम् । “सेसं” ति ‘शेषम्' आहारः । तस्याहारस्य परिवासितस्य यदि तिलतुषत्वग्मात्रमप्याहरति, सक्तुकादीनां शुष्कचूर्णानामेकस्यामङ्गुयावती मूर्तिमात्रा लगति तावन्मात्रमपि यदि अश्नाति, तोयस्य-पानस्य बिन्दुमात्रमपि यद्यापिबति तदा चतुर्गुरु, आज्ञा च तीर्थकृतां कोपिता भवति । एते चापरे दोषाः - [भा. ६००५] मिच्छत्ता ऽसंचइए, विराधना सत्तु पाणजाईओ । सम्मुच्छणा य तक्कण, दवे य दोसा इमे होंति । वृ- अशनादि परिवास्यमानं दृष्ट्वा शैक्षोऽन्यो वा मिथ्यात्वं गच्छेत्, उड्डाहं वा कुर्यात् - अहो ! अमी असञ्चयिकाः। परिवासिते तु संयमा-ऽऽत्मविराधना भवति । सक्तुकादिषु धार्यमाणेषु ऊरणिकादयः प्राणजातयः सम्मूर्च्छन्ति, पूपलिकादिषु लालादिसम्मूर्च्छना च भवति, उन्दरो वा तंत्र 'तर्कणम्' अभिलाषं कुर्वन् पार्श्वतः परिभ्रमनं माराजारादिना भक्ष्यते, एवमादिका संयमविराधना । आत्मविराधना तु तत्राशनादौ लालाविषः सर्वो लालां मुञ्चेत्, त्वग्विषो वा जिघ्रन् निश्वासेन विषीकुर्यात्, उन्दरो वा लालां मुञ्चेत् । द्रवे चाहारे एते वक्ष्यमाणा दोषा भवन्ति ।। अथ "मिच्छत्तमसंचइय" त्ति पदं व्याख्याति [भा. ६००६] सेह गिहिणा व दिट्ठे, मिच्छत्तं कहमसंचया समणा । संचयमिणं करेंती, अन्नत्थ वि नून एमेव ॥ वृ- शैक्षेण गृहिणा वा केनापि तत्राशनादौ परिवासिते दृष्टे मिथ्यात्वे भवेत्-एवंविधं सञ्चयं ये कुर्वन्ति कथं ते श्रमणा असञ्चया भवन्ति ? । यथा “सर्वस्माद् रात्रिभोजनाद् विरमणम्" इत्यभिग्रहं गृहीत्वा लुम्पन्ति तथा 'नून्' मिति वतिर्कयाम्यहम् - "अन्यत्रापि " प्राणिवधादावेवमेव समाचरन्ति ।। अथ 'द्रवे दोषा अमी भवन्ति' इति पदं व्याचष्टे [भा. ६००७] निद्धे दवे पणीए, आवजण पान तक्कणा झरणा । आहारे दिट्ठ दोसा, कप्पर तम्हा अनाहारो ॥ वृ- इह वक्ष्यमाणे अभ्यङ्गनसूत्रे भणितं यद् घृतादिकं तैल-वसावर्जितं अद्रवं भवति तदेव स्निग्धमुच्यते । यत् तु सौवीरद्रवादिकं अलेपकृतं यच्च दुग्ध-तैल-वसा - द्रवघृतादिकं लेपकृतं तदुभयमपि द्रवमित्युच्यते ॥ तथा चाह [भा. ६००८] सुत्तभणियं तु निद्धं, तं चिय अदवं सिया अतिल्ल-वसं । सोवीरग-दुद्घाई, दवं अलेवाड लेवाडं ॥ वृ- व्याख्यातार्था । प्रणीतं नाम- गूढस्नेहं घृतपूरादिकं आर्द्रखाद्यकम्, यद्वा बहि स्नेहेन प्रक्षितं मण्डकादि अपरं वा स्नेहावगाढं कुसणादि प्रणीतमुच्यते । तथा चाह [भा. ६९०९] गूढसिनेहं उल्लं, तु खज्जगं मक्खियं व जं बाहिं । नेहागाढं कुसणं, तु एवमाई पणीयं तु ॥ वृ- गतार्था । एवंविधे स्निग्धे द्रवे प्रणीते च रात्रौ स्थापिते कीटिकादयः प्राणजातीया आपद्यन्ते, पतन्तीत्यर्थः, तत्र गृहकोलिकादितर्कणपरम्परा वक्तव्या । "झरणा य" त्ति स्यन्दमाने Page #337 -------------------------------------------------------------------------- ________________ ३३४ बृहत्कल्प-छेदसूत्रम् -३-५/१९१ भाजनेऽधस्तात् प्राणजातीयाः सम्पतन्ति । परः प्राह-नन्वेते दोषा आहारे दृष्टास्तस्मादनाहारः परिवासयितुंकल्पते ॥ सूरिराह[भा.६०१०] अनहारो विन कप्पइ, दोसा ते चेवजे भणिय पुट्विं । तद्दिवसं जयणाए, बिइयं आगाढ संविग्गे॥ वृ-अनाहारोऽपिन कल्पतेस्थापयितुम्।यदि स्थापयतिततश्चतुर्लघु, 'तएव च विराधनादयो दोषा ये 'पूर्वम्' आहारे भणिताः, तस्मादनाहारमपि न स्थापयेत् । यदा प्रयोजनं तदा तद्दिवसं विभीतक-हरीतकादिकंमार्यते। अथ न लभ्यते, दिने दिने मार्गयन्तो वा गर्हितास्ततो यतनया यथा अगीतार्था न पश्यन्ति तथा द्वितीयपदमाश्रित्यागाढे कारणे संविग्नो गीतार्थ स्थापयति, घनचीरेण चर्मणा वा दर्दरयति, पार्वतः क्षारेणावगुण्डयति, उभयकालं प्रमार्जयति ।। [भा.६०११] जह कारणे अनहारो, उ कप्पई तह भवेज इयरोवी। वोच्छिन्नम्मि मडंबे, बिइयं अद्धाणमाईसु॥ वृ-यथा कारणेऽनाहारः स्थापयितुं कल्पते तथा 'इतरोऽपि' आहारोऽपि कारणे कल्पते स्थापयितुम् । कथम् ? इत्याह-व्यवच्छिन्ने मडम्बे कारणे स्थिताः सन्तो द्वितीयपदं सेवन्ते । तथाहि-तत्र पिप्पल्यादिकं दुर्लभम् प्रत्यासन्नं ग्रामादिकंचतत्र नास्ति ततः परिवासयेदपि।यथा कारणे पिप्पल्यादिकं स्थापयन्ति तथा द्वितीयपदेऽशनाद्यपि स्थापयेत् । 'अद्धाणमादीसुत्ति अध्वप्रपन्नाः सन्तोऽध्वकल्पं स्थापयेयुः, आदिशब्दात् प्रतिपन्नोत्तमार्थस्य ग्लानस्यवा योग्य पानकादिकं स्थापयेत् ।। व्यवच्छनन्नमडम्बपदं व्याख्याति[भा.६०१२] वुच्छिन्नम्मि मडंबे, सहसरुगुप्पायउवसमनिमित्तं । दिद्वत्थाई तं चिय, गिण्हंती तिविह भेसज्जं ।। कृ-व्यवच्छिन्नेमडम्बेवर्तमानानांसहसाशूल-विष-विसूचिकादिकारुगुत्पद्येततस्योपशमनिमित्तं दृष्टार्था-गीतार्था आदिशब्दात् संविग्नादिगुणयुक्तास्तेऽनागतमेवतदेवद्रव्यं गृह्णन्ति येनोपशमो भवति । तच्च भैषजद्रव्यं त्रिविधम्' वात-पित्त-श्लेष्पभैषजभेदात् त्रिप्रकारं ज्ञेयम् । मू. (१९२) नोकप्पइनिग्गंथाणवा निग्गंथीणवा पारियासिएणंआलेवणजाएणं आलिंपित्तए वा विलिंपित्तए वा, नन्नत्य आगादेहिं रोगायंकेहि ॥ वृ-एवं प्रक्षणसत्रमप्युच्चारणीयम् । अस्य सम्बन्धमाह[भा.६०१३] जइ भुत्तुंपडिसिद्धो, परिवासे मा हु को विमक्खट्ठा। - वुत्तो वा पक्खेवे, आहारो इमंतु लेवम्मि॥ वृ-यदि परिवासिता आहारो भोक्तुं प्रतिषिद्धस्ततः मा कश्चिद् प्रक्षणार्थं परिवासयेदिति प्रस्तुतसूत्रमारभ्यते । यद्वा पूर्वसूत्रे “पक्खेव"त्ति मुखप्रक्षेपणद्वारेणाहार उक्तः, इदं तु सुत्रमालेपविषयं प्रोच्यते॥ [भा.६०१४] अमितरमालेवो, वुत्तो सुत्तं इमं तु बन्झम्मि। अहवा सो पक्खेवो, लोमाहारे इमं सुत्तं॥ कृअथवाआभ्यन्तरः ‘आलेपः' आहारलक्षणः पूर्वसूत्रेउक्तः, इदंतुसूत्रंबाह्यालेपविषयमुच्यते। अथवा 'सः' पूर्वसूत्रोक्तः प्रक्षेपाहारः, इदं तु सूत्रं लोमाहारविषयमारभ्यते ॥ एभि सम्बन्धैरा Page #338 -------------------------------------------------------------------------- ________________ उद्देशकः ५, मूलं-१९२, [भा. ६०१४] ३३५ यातस्यास्यव्याख्या-नोकल्पते निर्ग्रन्थानांवानिर्ग्रन्थीनांवापरिवारसितेनालेपनजातेन आलेपयितुं वा' ईषल्लेपयितुं विलेपयितुंवा' विशेषेण लेपयितुम्, नान्यत्रागाढेभ्योरोगातङ्केभ्य इति सूत्रार्थः।। अथ भाष्यम्[भा.६०१५] मक्खेऊणं लिप्पइ, एस कमो होति वणतिगिच्छाए। जइतेन तं पमाणं, मा कुण किरियं सरीरस्स ॥ वृ-परः प्राह-ननु व्रणचिकित्सायां पूर्वं व्रणो म्रक्षित्वा ततः पिण्डीप्रदानेन आलिप्यते, एष क्रमः, ततः प्रथमं म्रक्षणसूत्रमुक्त्वा पश्चादालेपनसूत्रं भणितुमुचितमिति भावः । यदि चैतत् 'ते' तवन प्रमाणं ततो मा शरीरस्य क्रियां कार्षीरिति । सूरिराह[भा.६०१६] आलेवणेण पउणइ, जो उ वणो मक्खणेण किं तत्थ । होहिइ वणो व मा मे, आलेवो दिजई समणं॥ वृ-नायमेकान्तः यद् अवश्यं व्रणे म्रक्षणमालेपनं च द्वयमपि भवति, किन्तु कुत्रचिदेकतरं कुत्राऽप्युभयम्, ततोयः किल व्रणआलेपेनप्रगुणीभवति तत्रम्रक्षणेन कार्यम्? न किञ्चिदित्यर्थः। यद्वा मा मेव्रणो भविष्यति इति कृत्वा प्रथममेवालेपः 'शमनम्' औषधं दीयते । किञ्च[भा.६०१७] अच्चाउरे उ कज्जे, करिति जहलाभ कत्थ परिवाडी। अनुपुब्बि संतविभवे, जुज्जइन उ सव्वजाईसु॥ वृ-'अत्यातुरे' आगाढे कार्ये यथालाभं आलेपोम्रक्षणं वा यः प्रथमं लभ्यते तेनैव चिकित्सां. कुर्वन्ति।कुत्र नाम परिपाटि क्रमोविद्यते? ।इदमेवव्यनक्ति-यः सद्विभवः विद्यमानविभूतिस्तत्र चिकित्सायां क्रियमाणायां 'आनुपूर्वी' चिकित्साशास्त्रभणिता परिपाटि 'युज्यते' घटते, नपुनः सर्वजातिषु, अतः किमत्र क्रमनिरीक्षणेन? इति॥ [भा.६०१८] सुत्तम्मि कड्डियम्मिं, आलेव ठविंति चउलहू होति। आणाइणो य दोसा, विराधना इमेहि ठाणेहिं॥ वृ-सूत्रार्थकथनेन सूत्रे आकृष्टे सति नियुक्तिविस्तर उच्यते-यदि आलेपं रात्रौ स्थाप्यति तदा चतुर्लघु, आज्ञादयश्च दोषाः, विराधना चामीभि स्थानैर्भवति॥ [भा.६०१९] निद्धे दवे पणीए, आवजण पाण तक्कणा झरणा। आयंक विवच्चासे, सेसे लहुगा य गुरुगा य॥ वृ-स्निग्धे द्रवे प्रणीते आलोपे स्थापितेप्राणिनामापतनंतकणं 'क्षरणंच' तस्य द्रवादेः स्यन्दनं भवति।अत्र दोषभावना प्राग्वत्। 'आतङ्केच' रोगे विपर्यासेन क्रियाकरणेवक्ष्यमाणंप्रायश्चित्तम्। "सेसि" ति आगाढा-ऽनागाढकारणमन्तरेण यदि परिवासयति ततः प्राशुकादौ स्थाप्यमाने चतुर्लघु, अप्राशुकादौ चतुर्गुरु ।। इदमेव व्याचष्टे- . [भा.६०२०] ति चिय संचयदोसा, तयाविसे लाल छिवण लिहणं वा । अंबीभूयं बिइए, उज्झमणुज्झंति जे दोसा॥ वृ-त एव सञ्चयादयो दोषा मन्तव्याः, त्वग्विषः सर्प स्पृशेत्, लालाविषो वा जिह्वया लेहनं कुर्यात्, द्वितीयेच दिनेऽम्लीभूतं तदुज्झ्यते, अनुज्झतो वा ये दोषास्तान् प्राप्नोति ॥ ___यत एते दोषास्ततः Page #339 -------------------------------------------------------------------------- ________________ ३३६ बृहत्कल्प-छेदसूत्रम् -३-५/१९२ [भा.६०२१] दिवसे दिवसे गहणं, पिट्ठमपिढे यहोइ जयणाए। आगाढे निक्खिवणं, अपिट्ठ पिढे यजयणाए। वृ- यदा ग्लानार्थमालेपेन प्रयोजनं भवति तदा दिवसे दिवसे ग्रहणं विधेयम्। तत्र प्रथम पिष्टस्यपश्चादपिष्टस्यापि यतनया ग्रहणं कर्तव्य भवति । आगाढेच ग्लानत्वे आलेपस्य निक्षेपणं' परिवासनमपि कुर्यात्, तदप्यपिष्टस्य पिष्टस्य वायतनया कर्तव्यम्॥अथातकव्यत्यासंव्याख्याति[भा.६०२२] आगाढे अनागाढं, अनगाढे वा वि कुणइ आगाढं। एवंतु विवच्चासं, कुणइ व वाए कफतिगिच्छं॥ वृ-आगाढे ग्लानत्वेऽनागाढं क्रियां करोति चतुर्गुरु । अनागाढे वा आगाढं करोति चतुर्लघु। यद्वा वाते चिकित्सनीये कफचिकित्सां करोति, उपलक्षणमिदम्, तेन कफे चिकित्सनीये वातं चिकित्सते इत्याद्यपि द्रष्टव्यम् । एष विपर्यासो मन्तव्यः ।। अथ "सेसे लहुगा य गुरुगाय"त्ति पदं व्याचष्टे[भा.६०२३] अगिलाणो खलु सेसो, दव्वाईतिविहआवइजढो वा। पच्छित्ते मग्गणया, परिवासिंतस्सिमा तस्स॥ वृ-'शेषो नाम' य आगाढोऽनागाढो वा ग्लानो न भवति, यो वा द्रव्य-क्षेत्र-कालापभेदात् त्रिविधया आपदा ‘जढः' मुक्त स शेष उच्यते । तस्य परिवासयत इतं प्रायश्चित्तमार्गणा॥ [भा.६०२४] फासुगमफासुगेवा, अचित्त चित्ते परित्तऽनंते वा। असिनेह सिनेहगए, अनहाराऽऽहार लहु-गुरुगा॥ वृ-प्राशुकं स्थापयति चतुर्लघु, अप्राशुकं स्थापयति चतुर्गुरु । अचित्ते स्थाप्यमाने चतुर्लघु, सचित्ते चतुर्गुरु । परीत्ते चतुर्लघु, अनन्ते चतुर्गुरु । अस्नेहे चतुर्लघु, 'स्नेहगते' स्नेहावगाढे चतुर्गुरु । अनाहारे चतुर्लघु, आहारे चतुर्गुरु॥ मू. (१९३) नोकप्पइनिग्गंथाण वा निग्गंथीण वापारियासिएणं तिल्लेणवाघएणवा नवनीएण वा वसाए वा गायं अब्भंगित्तए वा मखित्तए वा; नन्नत्थ आगादेहिं रोगायंकेहि। वृ-अस्य सम्बन्धमाह[भा.६०२५] ससिनेहो असिनेहो, दिज्जइ मक्खित्तु वा तगं देति । सव्वो वा नालिप्पइ, दुहतो वा मक्खणे सूया ॥ वृ-आलेपः स्नेहोऽस्नेहो वादीयते, ततो यथास्नेहेनम्रक्षणं क्रियतेन वातथाऽनेनाभिधीयते। यद्वा व्रणं म्रक्षित्वा 'तकम्' अनन्तरसूत्रोक्तमालेपं प्रयच्छन्ति । न वा सर्वोऽपिव्रण आलेप्यते। द्विधा वा म्रक्षणे सूचा कृता, व्रणोऽपि प्रक्ष्यते आलेपोऽपि प्रक्षितुं दीयत इति भावः ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते परिवासितेन तैलेन वा घृतेन वा नवनीतेन वा वसया वा गात्रम् 'अभ्यङ्गिंवा बहुकेन तैलादिना ‘प्रक्षितुंवा' स्वल्पेन तैलादिना, नान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः, तान् मुक्त्वा न कल्पते । दोषाश्चात्र त एव सञ्चयादयो मन्तव्याः ॥ आह-यद्येवं परिवासितेन न कल्पते प्रक्षितुंततस्तद्दिवसानीतेन कल्पिष्यते? सूरिराह[भा.६०२६] तद्दिवसमक्खणम्मिं, लहुओ मासो उ होइ बोधब्बो। आणाइणो विराधन, धूलि सरक्खे य तसपाणा॥ Page #340 -------------------------------------------------------------------------- ________________ उद्देशकः ५, मूलं-१९३, [भा. ६०२६] ३३७ वृ-तद्दिवसानीतेनापि यदि म्रक्षयति तदा लघुमासः आज्ञादयश्च दोषाः, विराधनाचसंयमस्य भवति । तथाहि-प्रक्षिते गात्रे धूलिर्लगति, 'सरजस्को वा' सचित्तरजोरूपो वातेनोद्भूतो लगति, तेन चीवराणि मलिनीक्रियन्ते, तेषां धावने संयमविराधना, स्नेहगन्धेन वा त्रसप्राणिनो लगन्ति तेषां विराधना भवेत्॥ [भा.६०२७] धुवणा-ऽधुवणे दोसा, निसिभत्तं उप्पिलावणंचेव । बउसत्त समुइ तलिया, उव्वट्टणमाइ पलिमंथो॥ वृ-स्नेहेन मिलनीकृतानांचीवराणांगात्राणां वाधावना-ऽधावनयोरुभयोरपिदोषाः,तथाहियदि न धाव्यन्ते तदा निशिभक्तम्, अथ धाव्यन्ते ततः प्राणिनामुत्प्लावना भवेत्, उपकरणशरीरयोर्वकुशत्वं च भवति । “समुइ"त्ति स एव हेवाको लगति । म्रक्षिते च गात्रे पादयोर्माधूली लगिष्यतीतिकृत्वा तलिकाः पिनह्यति,तत्र गर्वोनिर्दिवतेत्यादयोदोषाः।यावच्च गात्रस्योद्वर्तनादिकं करोति तावत् सूत्रार्थपरिमन्थो भवति ॥ [भा.६०२८] तद्दिवसमक्खणेण उ, दिट्ठा दोसा जहा उ मक्खिज्जा। अद्धाणेणुव्वाए, वाय अरुग कच्छु जयणाए। वृ-तद्दिवसम्रक्षणेन जनिता एते दोषा दृष्टाः । द्वितीयपदे यथा म्रक्षयेत् तथाऽभिधीयतेअध्वगमनेनातीव 'उद्वातः' परिश्रान्तः, वातेन वा कटी गृहीता, 'अरु' व्रणंतद्वा शरीरे जातम्, 'कच्छुः' पामा तया वा कोऽपि गृहीतस्ततो यतनया म्रक्षयेदपि ।। तामेवाह[भा.६०२९] सनाईकयकज्जो, दुविउं मक्खेउ अच्छए अंतो। परिपीय गोमयाई, उव्वट्टण धोव्वणा जयणा ॥ वृ-संज्ञागमनम् आदिशब्दा भिक्षागमनादिकंच कार्यं कृतं येन ससंज्ञादिकृतकार्य, सर्वाणि बहिर्गमनकार्याणि समाप्येत्यर्थः । स यावन्मानं गात्रं म्रक्षणीयं तावन्मात्रमेव धावित्वा प्रक्षाल्य ततो म्रक्षयति । म्रक्षयित्वा च प्रतिश्रयस्यान्तः तावदास्ते यावत् तेन गात्रेण तत् तैलादिकंम्रक्षणं परिपीतं भवति । ततो गोमयादिना तस्योद्वर्तनं कृत्वा यतनया यथा प्राणिनां प्लवना न भवति तथा धावनं कार्यम् ॥ [भा.६०३०] जह कारणे तद्दिवस, तु कप्पई तह भवेज्ज इयरं पि । - आयरियवाहि वसभेहि पुच्छिए विज संदेसो।। वृ-यथा कारणेतद्दिवसानीतंम्रक्षणं कल्पते तथा 'इतरदपि' परिवासितंम्रक्षणं कारणे कल्पते। कथम् ? इति चेद् अत आह-आचार्यस्य कोऽपि व्याधिरुत्पन्नः, ततो वृषभैवैद्यः पूर्वोक्तेन विधिना प्रष्टव्यः । तेन च पृष्टेन ‘सन्देशः' उपदेशो दत्तो भवेत्, यथा-शतपाकादीनि तैलानि यदि भवन्ति ततश्चिकित्सा क्रियते ॥ततः किं कर्तव्यम् ? इत्याह[भा.६०३१] सयपाग सहस्सं वा, सयसहस्सं व हंस-मरुतेल्लं । दूराओ विय असई, परिवासिज्जा जयं धीरे॥ वृ-शतपाकं नामतैलं तद् उच्यते यद् औषधानां शतेन पच्यते, यद्वा एकेनाप्यौषधेन शतवाराः पक्वम् । एवं सहस्रपाकं शतसहस्रपाकंच मन्तव्यम् । हंसपाकं नाम हंसेन-औषध-सम्भारमृतेन [20] 22 Page #341 -------------------------------------------------------------------------- ________________ ३३८ बृहत्कल्प-छेदसूत्रम् -३-५/१९३ यत्तैलंपच्यते।मरुतैलं-मरुदेशे पर्वतादुत्पद्यते।एवंविधानि दुर्लभद्रव्याणिप्रथमंतददैवसिकानि मार्गणीयानि।अथ दिने दिने न लभ्यन्तेततः पञ्चकपरिहाण्याचतुर्गुरुप्राप्त दूरादप्यानीय धीरः' गीतार्थो 'यतनया' अल्पसागारिके स्थाने मदनचीरे वेष्टयित्वा परिवासयेत्॥इदमेव सुव्यक्तमाह[भा.६०३२] एयाणि मक्खणट्ठा, पियणट्ठा एव पतिदिनालंभे । पणहानीए जइउं, चउगुरुपत्तो अदोसाओ॥ वृ- “एतानि' शतपाकादीनि तैलानि म्रक्षणार्थं पानार्थं वा प्रतिदिं यदि न लभ्यन्ते ततः पञ्चकपरिहाण्यायतित्वा चतुर्गुरुकंयदा प्राप्तो भवति तदा परिवासयन्नपि अदोषः' नप्रायश्चित्तभाक् । सर्वथैवालाभे गुरूणां हेतोरात्मनाऽपि यतनया पचन्ति॥ मू. (१९४) परिहारकप्पट्ठिए भिक्खू बहिया थेराण वेयावडियाए गच्छेज्जा, से य आहच्च अइक्कमिजा, तं च थेरा जाणिज्जा अप्पणो आगमेणं अन्नेसिं वा अंतिए सुचा, ततो पच्छा तस्स अहालहुसए नाम ववहारे पट्टवेयव्वे सिया।। वृ-अस्य सम्बन्धमाह[भा.६०३३] निक्कारणपडिसेवी, अजयणकारी व कारणे साहू। अदुवा चिअत्तकिच्चे, परिहारं पाउणे जोगो॥ वृ-निष्कारणे गात्रम्रक्षणादिकं प्रतिसेवितुंशीलमस्येति निष्कारणप्रतिसेवी सः, तथा कारणे वायो अयतनाकारी' पूर्वोक्तयतनां विना गात्रम्रक्षणविधायी साधुः, अथवा यः ‘त्यकुतकृत्यः' नीरुग्भूतोऽपि तदेव म्रक्षणादिकमुपजीवति स परिहारतपः प्राप्नुयादिति 'योगः' सम्बन्धः ॥ अनेनसम्बन्धेनायातस्यास्यव्याख्या-परिहारकल्पस्थितोभिक्षु बहिः' अन्यत्रनगरादौ स्थविराणाम् आचार्याणामादेशेन वैयावृत्यार्थगच्छेत् । किमुक्तंभवति? -अन्यस्मिन् गच्छे केषाञ्चिदाचार्याणां वादी नास्तिकादिक उपस्थितः, तेषां च नास्ति वादलब्धिसम्पन्नः, ततस्ते येषामाचार्याणां स परिहारिकस्तेषामन्तिके सङ्घाटकंप्रेषयन्ति, सच सङ्घाटकोब्रूते-वादिनंकमपिमुत्कलयताएवमुक्ते ते आचार्या परिहारिकं परवादिनिग्रहक्षमं मत्वा तत्र प्रेषयन्ति । ततस्तदादेशादसौ परिहारतपो वहमान एव तत्र गच्छेत् । इदं च महत् प्रवचनस्य वैयावृत्यं यद् अग्लान्या परवादिनिग्रहणम्, ततस्तदर्थं गतः ‘सः' परिहारिकः “आहच्च" कदाचिद् 'अतिक्रामेत्' पादधावनादिकंप्रतिसेवेत, 'तच प्रतिसेवनं स्थविराः' मौलाचार्याआत्मनः ‘आगमेन' अवध्याधतिशयज्ञानेनान्येषांवाऽन्तिके श्रुत्वा जानीयुः । 'ततः पश्चात्' तत्परिज्ञानान्तरं 'तस्य' परिहारिकस्य 'यथालघुस्वको नाम' स्तोकप्रायश्चित्तरूपो व्यवहारः प्रस्थापयितव्यः स्यादिति सूत्रार्थः ॥ अथ भाष्यम्[भा.६०३४] परिहारिओय गच्छे, आसन्ने गच्छ वाइणा कजं । आगमनं तहि गमनं, कारण पडिसेवणा वाए॥ वृ-परिहारिकः क्वापिगच्छेविद्यते, कचिच्चासत्रेऽन्यगच्छेवादिनाकारयमुत्पन्नम्, ततः 'तत्र' गच्छे आगमनम्' अन्यगच्छात् सङ्घाटक आगतः, तेन च 'वादी प्रेष्यताम्' इत्युक्ते गुरोरादेशात् परिहारतपोवहमानस्यैवतस्यतत्र गमनम्, तत्र गतेन तेन परवादी राजसभासमक्षं निष्पिष्टप्रश्नव्याकरणः कृतः, ततः प्रवचनस्य महती प्रभावना समजनि, तेन च वादस्य कारणेऽमूनि प्रतिसेवितानि भवेयुः॥ Page #342 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-१९४, [भा. ६०३५] [भा.६०३५]पाया व दंता व सिया उ धोया, वा-बुद्धिहेतुंव पनीयभत्तं । तंवातिगंवा मइ-सत्तहेउं, सभाजयट्ठा सिचयं व सुक्कं॥ वृ-पादौ वा दन्ता वा प्रवचनजुगुप्सापरिहारार्थं धौताः 'स्यु' भवेयुः । 'प्रणीतभक्तं वा घृतदुग्धादिकं “वा-बुद्धिहेतुंवत्तिवाग्घेतोर्बुद्धिहेतोश्च भुक्तंभवेत्, “घृतेन वर्धतेमेघा" इत्यादिवचनत्। 'वातिकं नाम'विकटं तद्वा मतिहेतोः सत्त्वहेतोर्वा सेवितं भवेत् । मतिर्नाम-परवाडुपन्यस्तस्य साधनस्यापूर्वप्रवदूषमोहात्मको ज्ञानविशेषः, सत्त्वं प्रभूत-प्रभूततरभाषणे प्रवर्द्धमान आन्तर उत्साहविशेषः । सभाजनार्थं वा सुक्लं 'सिचयं' वस्त्रं प्रावृतं भवेत्, “जिता वस्त्रवता सभा" इति वचनात् ॥ [भा.६०३६] थेरापुन जाणंती, आगमओ अहव अनओ सुच्चा। परिसाए मज्झम्मिं, पट्ठवणा होइ पच्छित्ते॥ वृ-एवमादिकं तेन प्रतिसेवितं स्थविराः' सूरयः पुनरागमतो जानीयुः, अथवाअन्यतः श्रुत्वा, ततस्तस्य भूयः समागतस्य पर्षन्मध्ये प्रायश्चित्तस्य प्रस्थापना कर्तव्या भवति । इदमेव व्याचष्टे[भा.६०३७] नव-दस-चउदस-ओही-मननाणी केवली य आउमिउं । सोचेवऽन्नो उ भवे, तदनुचरो वा वि उवगोव॥ वृ- ये स्थविरा नवपूर्विणो दशपूर्विणश्चतुर्दशपूर्विणोऽवधिज्ञानिनो मनःपर्यायज्ञानिनः केवलज्ञानिनो वा ते 'आगम्य' अतिशयेन ज्ञात्वा प्रायश्चित्तं दधु । अन्यो नाम ‘स एव' परिहारिकस्तन्मुखादालोचनाद्वारेणश्रुत्वा, यद्वा ये तस्य-परिहारिकस्यानुचराः-सहायाःप्रेषितास्तैः कथितम्: 'उवको नाम' अन्यः कोऽपि तिर्यगापतितो मिलितः, तेषां गच्छसत्कोन भवतीत्यर्थः, तेन वा कथितम्, यथा-एतेनामुकंपादधावनादिकं प्रतिसेवितम् । ततः[भा.६०३८] तेसिं पच्चयहेउं, जे पेसविया सुयं वतं जेहिं । भयहेउ सेसगाण य, इमा उ आरोवणारयणा ॥ वृ-ये तेन सार्द्धं प्रेषिता यैर्वाऽप्रेषितैरपि प्रतिसेवनं श्रुतं 'तेषाम् उभयेषामप्यपरिणामकानां प्रत्ययहेतोः शेषाणांच' अतिपरिणामिकानां भयोत्पादनहेतोरियम् ‘आरोपणारचना' व्यवहारप्रस्थापना सूरिभिः कर्तव्या ।। [भा.६०३९] गुरुओ गुरुअतराओ, अहागुरूओ य होइ ववहारो। लहुओ लहुयतराओ, अहालहू होइ ववहारो॥ [भा.६०४०] लहुसो लहुसतराओ, अहालहूसो अहोइ ववहारो। एतेसिं पच्छित्तं, वुच्छामि अहानुपुव्वीए॥ वृ-व्यवहारस्त्रिविधः, तद्यथा-गुरुको लघुको लघुस्वकश्च ।तत्रयो गुरुकः स त्रिविधः, तद्यथागुरुको गुरुतरको यथागुरुकश्च । लघुकोऽपि त्रिविधः, तद्यथा-लघुर्लघुतरो यथालघुश्च । लघुस्वकोऽपि त्रिविधः, तद्यथा-लघुस्वको लघुस्वतरको यथालघुस्वकश्च । एतेषां व्यवहाराणां 'यथानुपूर्व्या' यथोक्तपरिपाट्या प्रायश्चित्तं वक्ष्यामि । किमुक्तं भवति ?-एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणमभिधास्ये॥यथाप्रतिज्ञातमेव करोति[भा.६०४१] गुरुगो य होइ मासो, गुरुगतरागो भवे चउम्मासो। Page #343 -------------------------------------------------------------------------- ________________ ३४० बृहत्कल्प-छेदसूत्रम् -३-५/१९४ अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती॥ वृ-गुरुको नाम व्यवहारः ‘मासः' मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तंदातव्यइति भावः । एवं गुरुतरको भवति 'चतुर्मासः' चतुर्मासपरिमाणः । यथागुरुकः 'षण्मासः षण्मासपरिमाणः । एषा 'गुरुकपक्षे गुरुकव्यवहारेत्रिविधेयथाक्रमंप्रायश्चित्तप्रतिपत्ति। सम्प्रति लघुक-लघुस्वकव्यवहारविषयं प्रायश्चित्तपरिमाणमाह[भा.६०४२] तीसा य पन्नवीसा, वीसा विय होइ लहुयपक्खम्मि। पन्नरस दस य पंच य, अहालहुसगम्मि सुद्धो वा ॥ वृ-लघुको व्यवहारस्त्रिशदिवसपरिमाणः,एवं लघुतरकः पञ्चविंशतिदिनमानः, यथालघुको विंशतिदिनमानः, एषा लघुकव्यवहारे त्रिविधेयथाक्रमंप्रायश्चित्तप्रतिपत्ति।लघुस्वको व्यवहारः पञ्चदशदिवसप्रायश्चित्तपरिमाणः, एवं लघुस्वतरकोदशदिवसमानः, यथालघुस्वकः पञ्चदिवसानि' पञ्चदिवसप्रायश्चित्तपरिमाणः । यद्वा यथालघुस्वके व्यवहारे 'शुद्धः' न प्रायश्चित्तभाक् ॥ अथ कं व्यवहारं केन तपसा पूरयति? इति प्रतिपादनार्थमाह[मा.६०४३] गुरुगं च अट्ठमं खलु, गुरुगतरागंच होइ दसमंतु। अहगुरुग दुवालसमं, गुरुगे पक्खम्मि पडिवत्ती॥ वृ-गुरुकं व्यवहारं मासपरिमाणमष्टमं कुर्वन् पूरयति । किमुक्तं भवति ?-गुरुकं व्यवहारं मासपरिमाणमष्टमेन वहति । तथा गुरुकतरकं चतुर्मासप्रमाणं व्यवहारं दशमं कुर्वन् पूरयति, दशमेन वहतीत्यर्थः । यथागुरुकं षण्मासप्रमाणं 'द्वादशं कुर्वन्' द्वादशेन वन् पूरयति । एषा 'गुरुकपक्षे गुरुव्यवहारपूरणविषये तपःप्रतिपत्ति ॥ [भा.६०४४] छटुंच चउत्थं वा, आयंबिल एगठाण पुरिम९।। निव्वीयं दायव्वं, अहालहुसगम्मि सुद्धो वा ॥ वृ-लघुकं व्यवहारं त्रिंशद्दिनपरिमाणंषष्ठं कुर्वन् पूरयति, लघुतरकंपञ्चविंशतिदिवसपरिमाणं व्यवहारं चतुर्थं कुर्वन्, यथालघुकं व्यवहारं विंशतिदिवसमानमाचाम्लं कुर्वन् पूरयति । एषा लघुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्ति । तथा लघुस्वकव्यवहारं पञ्चदशदिवसपरिमाणमेकस्थानकंकुर्वन् पूरयति, लघुस्वतरकंव्यवहारंदशदिवसपरिमाणंपूर्वार्द्धकुर्वन्, यथालघुस्वकव्यवहारं पञ्चदिनप्रमाणं निर्विकृतिकं कुर्वन् पूरयति । एतेषु गुरुतरादिषु व्यवहारेष्वनेनैव क्रमेण तपो दातव्यम् । यदि वा यथालखुस्वके व्यवहारे प्रस्थापितव्ये स प्रतिपन्नपरिहारतपः- प्रायश्चित्त एवमेवालोचनाप्रदानमात्रतः शुद्धः, क्रियते, कारणे यतनया प्रतिसेवनात् ॥ एवं प्रस्तारं रचयित्वा सूरयो भणन्ति[भा.६०४५] जंइत्थं तुह रोयइ, इमे व गिण्हाहि अंतिमे पंच। हत्थं व भमाडेउं, जं अक्कमते तगं वहइ॥ वृ- यद् ‘अत्र' अमीषां प्रायश्चित्तानां मध्ये तव रोचते तद् गृहाण, अमूनि वाऽन्तिमानि पञ्चरात्रिन्दिवानिगृहाण एवमुक्तेस यथालघुस्वकंप्रायश्चित्तंगृह्णाति । अथवा हस्तंभ्रामयित्वा यात् प्रायश्चित्तं गुरव आक्रामन्ति तकद् गृह्णाति ॥ सूरयश्चेदं तं प्रति भणन्ति [भा.६०४६] उब्मावियंपवयणं, तोवं ते तेन मा पुनो कासि। Page #344 -------------------------------------------------------------------------- ________________ ३४१ उद्देशकः ५, मूलं-१९४, [भा. ६०४६] अइपरिणएसुअन्नं, बेइ वहंतो तगंएयं ॥ वृ-त्वयापरवादिनं निगृह्णताप्रवचनमुद्भावितं तेन स्तोकंतेप्रायश्चित्तंदत्तम्, मापुनर्भूयोऽप्येवं कार्षीः। अथातिपरिणता अपरिणताश्च चिन्तयेयुः-'एष तावद् एतावन्मात्रेण मुक्तः' इति ततो यदि तस्य ‘अन्यद्' अपरं प्राचीनं तपोऽपूर्णं तदा तदेव वहमानोऽतिपरिणामिकादीनां पुरतो गुरून् भणति-एतत् प्रायश्चित्तंयुष्माभिर्दत्तं वहामीति ॥ मू. (१९५) निग्गंधीए य गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठाए अन्नयरे पुलागभत्ते पडिग्गाहिए सिया, साय संथरिज्जा, कप्पइसे तद्दिवसंतेनेव भत्तटेणं पजोसवित्तए, नो से कप्पइ दुच्चं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए; सा य नो संथरेजा, वं से कप्पइ दुचं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए।। वृ-अस्य सम्बन्धमाह[भा.६०४७] उत्तरियपच्चयट्ठा, सुत्तमिणं मा हु हुन्ज बहिभावो । जससारक्खणमुभए, सुत्तारंभो उ वइणीए॥ वृ-लोकोत्तरिकाणाम्-अपरिणामक-ऽतिपरिणामकानां प्रत्ययार्थं सूत्रमिदमनन्तरमुक्तम्, मा तेषां बहिर्भावो भवेदिति कृत्वा । अयं तु व्रतिनीविषयः प्रस्तुतसूत्रस्यारम्भः 'उभये' लोके लोकोत्तरेच यशःसंरक्षणार्थं क्रियते॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-निर्ग्रन्थ्यागृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टया अन्यतरद्' धान्य-गन्ध-रसपुलाकानांवल्ल-विकट-दुग्धादिरूपाणामेकतरंपुलाकभक्तंप्रतिगृहीतं स्यात्, साचतेनैव भुक्तेन ‘संस्तरेत्' दुर्भिक्षाद्यभावा निर्वहेत्, ततः कल्पते तस्यास्तद्दिवसं तेनैव भक्तार्थेन ‘पर्युषितुं' निर्वाहयितुम् । नो "से" तस्याः कल्पते द्वितीयमपि वारंगृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुम् । अथ सान संस्तरेत्ततः कल्पते तस्या द्वितीयमपि वारं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुमिति सूत्रार्थ ।। अथ नियुक्ति-भाष्यविस्तरः[भा.६०४८] तिविहं होइ पुलागं, धन्ने गंधे य रसपुलाए य। चउगुरुगाऽऽयरियाई, समणीणुद्दद्दरग्गहणे॥ वृ-त्रिविधंपुलाकंभवति, तद्यथा-धान्यपुलाकंगन्धपुलाकंरसपुलाकं चेति। एतत्सूत्रमाचार्यः प्रवर्तिन्या न कथयति चतुर्गुरु, आदिशब्दात्प्रवर्तिनी निर्ग्रन्थीनां न कथयति चतुर्गुरु, निर्ग्रन्थ्यो न प्रतिशृण्वन्ति मासलघु । श्रमणीनामपि ऊर्ध्वदरे-सुभिक्षे पुलाकं गृह्णतीनां चतुर्गुरु ।। अथ त्रीण्यपिधान्यपुलाकादीनि व्याचष्टे[भा.६०४९] निप्फावाई धन्ना, गंधे वाइग-पलंडु-लसुणाई। खीरंतु रसपुलाओ, चिंचिणिःदखारसाईया ।। वृ-निष्पावाः-वल्लास्तदादीनि धान्यानि धान्यपुलाकम् । तथा वाइगं-विकटं पलाण्डु-लशुने च-प्रतीते तदादीनि यान्युत्कटगन्धानि द्रव्याणि तद् गन्धपुलाकम् । यत् पुनः क्षीरं यो वा चिञ्चिणिकायाः-अम्लिकाया रसो द्राक्षारसो वा आदिशब्दाद् अपरमपि यद् भुक्तमतिसारयति तत् सर्वमपि रसपुलाकम् ॥अथ किमर्थमेतानि पुलाकान्युच्यन्ते? इत्याह [भा.६०५०] आहारिया असारा, करेंति वा संजमाउ निस्सारं । Page #345 -------------------------------------------------------------------------- ________________ ३४२ बृहत्कल्प-छेदसूत्रम् -३-५/१९५ निस्सारं व पवयणं, दटुं तस्सेविणि बिंति ।। वृ-इह पुलाकमसारमुच्यते, तत आहारितानि सन्ति वल्लादीनि यतोऽसाराणि ततः पुलाकानि भण्यन्ते। संयमाद्वा' संयममङ्गीकृत्ययतःक्षीरादीनिनिसारांसाध्वीं कुर्वन्तिततस्तान्यपिपुलाकानि। प्रवचनं वा निसारं यतः 'तत्सेविनी' तेषां-विकटादीनां सेवनशीलां संयती दृष्ट्वा जना ब्रुवते ततस्तानि पुलाकानि उच्यन्ते ॥ एषु दोषानाह[भा.६०५१] आणाइणो य दोसा, विराधना मज्जगंध मय खिंसा। निरोहेण व गेलनं, पडिगमणाईणि लज्जाए। वृ-एषां त्रयाणामपि पुलाकानां ग्रहणे आज्ञादयो दोषाः, विराधना च संयमा-ऽऽत्मविषया भवति । तथा गन्धपुलाके पीते सति मद्यगन्धमाघ्राय मदविह्वलां वा तां दृष्टवा लोकः खिसां कुर्यात् । धान्यपुलाके पुनराहारिते वायुकायः प्रभूतो निर्गच्छति, ततो यदि भिक्षार्थं प्रविष्टा तस्य निरोधं करोति तदा ग्लानत्वं भवेत्, अथ वायुकायं करोति तत उड्डाहो भवेत्, उड्डाहिता च लज्जयाप्रतिगमनादीनि कुर्यात्। एवरसपुलाकेऽपिक्षीरादौपीतेभिक्षांप्रविष्टा यदि संज्ञामागच्छन्ती निरुणद्धि ततो ग्लानत्वम्, अथन निरुणद्धि ततो व्युत्सृजन्ती केनापि दृष्टा लज्जयाप्रतिगमनादीनि कुर्यात् ।। किञ्च[भा.६०५२] वसहीए वि गरहिया, किमु इत्थी बहुजणम्मि सक्खीवा । लाहुक्कं पिल्लणया, लज्जानासो पसंगोय॥ वृ-'स्त्र' निर्ग्रन्थी सक्षीबा' मद्यमदयुक्तावसतावपिवसन्तीगर्हिता किंपुनर्बहुजने पर्यटन्ती? तथाहि-तां मदविह्वलां आपतन्तीं प्रपतन्ती आलमालानि च प्रलपन्तीं ६ष्ट्वा लोकः प्रवचनस्य “लाहुक्कं" लाघवं कुर्यात्-अहो! मत्तवालपाखण्डमिदमित्यादि । मदेन चाचेतना सञ्जाता सती प्रार्थनीया सा भवति । तत उद्भ्रामकादयस्तस्याः ‘प्रेरणां' प्रतिसेवनां कुर्यु। मदवशेन च यदपि तदपि प्रलपन्त्या लज्जानाशो भवेत् । ततश्च प्रतिसेवनादावपि प्रसङ्गः स्यात् ।। [भा.६०५३] घुन्नइ गई सदिट्ठी, जहा य रत्ता सि लोयण-कवोला। अरहइ एस पुताई, निसेवई सज्झए गेहे ॥ वृ-तां तथामदभावितां दृष्टवा लोको ब्रूयात्-यथाऽसा गति ‘सघष्टि' दृष्टियुक्ता घूर्णते, यथा चास्या लोचन-कपोला रक्ता दृश्यन्ते तथा नूनमहत्येषा 'पुताकी देशीवचनत्वाद् उद्भ्रामिका ईशी विडम्बनामनुभवितुम्या सध्वजगेहानि' कल्पपालगृहाणि निषेवते॥त्रिविधेऽपिपुलाके यथायोगममी दोषाः[भा.६०५४] छक्कायाण विराधन, वाउभय-निसग्गओ अवत्रो य। उज्झावणमुझंती, सइ असइ दवम्मि उड्डाहो ॥ वृ-मदविह्वलाषन्नामपि कायानां विराधनां कुर्यात् ।धान्यपुलाकेन क्षीरेण वाभुक्तेन वायुकाय उभयं च-संज्ञा-कायिकीरूपं समागच्छेत्, ततो भिक्षां हिण्डमाना यदि तेषां निसर्गं करोति ततः प्रवचनस्यावर्मोभवेत्, परावग्रहे वाव्युत्सृष्टंपुरीषादिकमवग्रहस्वामिनस्तस्याः पाउिज्झापयन्ति स्वयमेव वा ते गृहस्था उज्झन्ति। “सइ असइ दवम्मि उड्डाहु"त्ति अस्ति द्रवं परं कलुषंस्तोकं वा नास्ति वा मूलत एव द्रवं तत उभयथाऽपि प्रवचनस्योड्डाहो भवेत्॥ Page #346 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं- १९५, [भा. ६०५५ ] [भा. ६०५५] हिजो अह सक्खीवा, आसि ण्हं संखवाइभज्जा वा । भग्गा व नाए सुविही, दुद्दिट्ठ कुलम्मि गरहा य ।। वृ- 'ह्यः' कल्ये अन्यस्मिन् दिने, 'अथ' इति उपदर्शने, इयं 'सक्षीबा' मद्यमदयुक्ता आसीत् । "हं" इति वाक्यालङ्कारे । एवं गन्धपुलाकं भुक्तवतीं संयतीं जना उपहसन्ति । वायुकायशब्दं च श्रुत्वा ब्रवीरन्- अहो ! इयं शङ्खवादकस्य भार्या पूर्वमासीत्, यद्वा भग्नाऽनया इत्थं वायुकायेनाश्रान्तं पूरयन्त्या “सुविही” अङ्गणमण्डपिका एवं प्रपञ्चयेयुः । “दुद्दिट्ठ कुलम्मि गरिहा य” त्ति दुर्द्दष्टधर्माणो अमी, कुलगृहं चैताभिरात्मीयं मलिनीकृतम्, एवं गर्हा भवति । ततश्च प्रतिगमनादयो दोषाः ॥ ३४३ यत एवमतः [भा. ६०५६ ] जहिं एरिसो आहारो, तहिं गमने पुव्ववन्निया दोसा । गहणं च अनाभोए, ओमे तहकारणेण गया ॥ वृ-यत्र विषये 'ईशः ' पुलाक आहारो लभ्यते तत्र निर्ग्रन्थीभिर्नैव गन्तव्यम् । यदि गच्छन्ति तदा त एव पूर्ववर्णिता दोषाः अथावमा ऽशिवादिभि कारणैर्गता भवेयुः, तत्र चानाभोगेन पुलाकभक्तस्य ग्रहणं भवेत् ।। ततः किम् ? इत्याह [ भा. ६०५७] गहियमनाभोएणं, वाइग वज्रं तु सेस वा भुंजे । मिच्छुप्पियं तु भुत्तुं जा गंधो ता न हिंडंती ॥ वृ- यदि अनाभोगेन पुलाकं गृहीतं भवति तदा "वाइगं" विकटं तद् वर्जयित्वा शेषं 'वा' विभाषया भुञ्जीरन् । किमुक्तं भवति ? -यदि तदपर्याप्तमन्यच्च भक्त लभ्यते तदा न भुञ्जते किन्तु तत् परिष्ठाप्यान्यद् भक्तं गृह्णन्ति; अथ पर्याप्तं तदा भुञ्जते, भुक्त्वा च तेनैव भक्तान पर्युषयन्ति; विकटं तु सर्वथैव न भोक्तव्यम् । भिक्षुप्रियं नाम पलाण्डु त पुनर्भुक्त्वा यावत् तदीयो गन्ध आगच्छति तावद् न हिण्डन्ते ॥ [भा. ६०५८ ] कारणगमने वि तहिं, पुव्वं घेत्तूण पच्छ तं चेव । हिण्डन पिल्लण बिइए, ओमे तह पाहुणट्ठा वा ।। वृ- अवमादिकारणैर्गतानामपि मद्य - पलाण्डु - लशुनान्येकान्तेन प्रतिषिद्धानि । अथ पूर्वमनाभोगादिना गृहीत् ततस्तद् गृहीत्वा पश्चात् तदेव भुक्त्वा तेनैव भक्तार्थेन तद्दिवसमासते न भूयो भिक्षाटन्ते । द्वितीयपदे द्वितीयमपि वारं भिक्षार्थं प्रविशेत् । 'अवमं' दुर्भिक्षं तत्र पर्याप्तं लभ्यते प्राघुणिका वा संयत्यः समायातास्ततो भूयोऽपि भिक्षाहिण्डनं कुर्वाणानामियं यतना"पिल्लण "त्ति धान्यपुलाके आहारिते यदि वायुकाय आगच्छेत् तत्रैकं पुनः पार्श्व प्रेर्य वायुकायं निसृजन्ति । उपलक्षणमिदम्, तेन यदा संज्ञासम्भवस्तदा यदि अन्यासां संयतीनामासन्ना वसतिस्तदा तत्र गन्तव्यम् । तदभावे भावितायाः श्राद्धिकायाः पुरोहडादौ व्युत्सर्जनीयम् [भा. ६०५९ ] एसेव गमो नियमा, तिविह पुलागम्मि होइ समणाणं । नवरं पुन नाणत्तं, होइ गिलाणस्स वइयाए । वृ- एष एव 'गमः' प्रकारो नियमात् त्रिविधेऽपि पुलाके श्रमणानामपि भवति । न वरं पुनरत्र नानात्वम्-ग्लानस्य दुग्धादिकमाने तुं व्रजिकायां साधवो गच्छेयुः, तत्र च गताः संस्तरन्त आत्मयोग्यं रसपुकं न गृह्णन्ति, अथ न संस्तरन्ति ततः क्षीरादिकं भुक्त्वा न भूयो भिक्षामरन्ति । कारणे तु Page #347 -------------------------------------------------------------------------- ________________ ३४४ भूयोऽप्यटन्तस्तथैव यतनां कुर्वन्ति ॥ बृहत्कल्प-छेदसूत्रम् - ३-५/१९५ श्रीमच्चूर्णिवचांसि तन्तव इह ज्ञेयास्तथा सद्गुरोराम्नायो नलकस्तुरी बुधजनोपास्त्युद्भवा चातुरी । इत्येतैर्वितान साधकतमैः श्रीपञ्चमोद्देशके, जाड्यापोहपटीयसीमहमिमामच्छिद्रटीकापटीम् ॥ उद्देशकः-५ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत्कल्पसूत्रे पञ्चमोद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्ति युक्तंः) संघदासगणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता । उद्देशकः-६ वृ- व्याख्यातः पञ्चमोद्देशकः, सम्प्रति षष्ठ आरभ्यते, तस्येदमादिसूत्रम्मू. (१९६) नो कप्पइ निग्गंथाण वा निग्गंधीण वा इमाई छ अवयणाई वइत्तए । तं जहाअलियवयणे हीलियवयणे खिंसियवयणे फरुसवयणे गारत्थियवयणे विओसवियं वा पुनो उदीरित्तए । वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह [ भा. ६०६०] कारणे गंधपुलागं, पाउं पलविज मा हु सक्खीवा । इइ पंचम - छट्ठाणं, थेरा संबंधमिच्छंति ॥ वृ- कारणे कदाचिदार्यिका गन्धपुलाकं पीत्वा सक्षीबा सती मा अलिकादिवचनानि प्रलपेत्, अत इदं सूत्रमारभ्यते । ‘इति' एवं पञ्चम- षष्ठोद्देशकयोः सम्बधं ' स्थविरा:' श्रीभद्रबाहुस्वामिन इच्छन्ति ॥ अथ प्रकारान्तरेण सम्बन्धमाह [भा. ६०६१] दुचरिमसुत्ते वृत्तं, वादं परिहारिओ करेमाणो । बुद्धी परिभूय परे, सिद्धंतावेत संबंधो ॥ पञ्चमोद्देशके द्विचरिमसूत्रे इदमुक्तम्- 'परिहारिकः' प्रवचनवैयावृत्यमवलम्बमानो वादं कुर्वन् 'परस्य' वादिनो बुद्धिं 'परिभूय' पराजित्य 'सिद्धान्तापेतं' सूत्रोत्तीर्णमपि ब्रूयात्, परमिमानि षडप्यवचनानि मुक्त्वा । एष प्रकारान्तरेण सम्बन्धः । अथवा [भा. ६०६२] दिव्वेहि छंदिओ हं, भोगेहिं निच्छिया मए ते य । इति गारवेण अलियं, वइज्ज आईय संबंधो ॥ वृ- पञ्चमोद्देशकस्यादिसूत्रं उक्तम्- "देवः स्त्रीरूपं कृत्वा साधुं भोगैर्निमन्त्रयेत्,” स च तान् भुक्त्वा गुरुसकाशमागत आलोचयेत् - दिव्यैर्भोगैः 'छन्दितः' निमन्त्रितोऽहं परं मया ते भोगा नेप्सिताः 'इति' एवं गौरवेण कश्चिदलीकं वदेत् । अत इदं षष्ठोद्देशकस्यादिसूत्रमारभ्यते । एष उद्देशकद्वयस्याप्यादिसूत्रयोः परस्परं सम्बन्धः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या - "नो कप्पइ"त्ति वचनव्यत्ययाद् नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'इमानि' प्रत्यक्षासन्नानि 'षड्' इति षटसङ्ख्याकानि 'अवचनानि' नञः कुत्सार्थत्वाद् अप्रशस्तानि वचनानि 'वदितुं' भाषितुम् । Page #348 -------------------------------------------------------------------------- ________________ ३४५ उद्देशकः ६, मूलं-१९६, [भा. ६०६२] तद्यथा-अलीकवचनम्, हीलितवचनम्, खिंसितवचनम्, परुषवचनम्, अगारस्थिताः-गृहिणस्तेषां वचनम्, 'व्यवशमितं वा' उपशमितमधिकरणं 'पनर' भूयोऽप्युदीरयितुंन कल्पत इति प्रक्रमः, अनेन व्यवशमितस्यपुनरुदीरणवचनं नाम षष्ठमवचनमुक्तमिति सूत्रसङ्क्षपार्थः॥ अथ भाष्यकारो विस्तरार्थमभिधित्सुराह[भा.६०६३] छच्चेव अवत्तव्वा, अलिगे हीला य खिंस फरुसे य । गारत्थ विओसविए, तेसिंच परूवणा इणमो॥ - वृ-षडेव वचनानि अवक्तव्यानि' साधूनांवक्तुमयोग्यानि।तद्यथा-अलीकवचनंहीलितवचनं खिंसितवचनं परुषवचनं गृहस्थवचनं व्यवशमितोदीरणवचनम् । तेषांच' षण्णामपि यथाक्रममियं प्ररूपणा । तामेव प्ररूपणां चिकीर्षुरलीकवचनविषयां द्वारगाथामाह[भा.६०६४] वत्ता वयणिज्जो या, जेसु य ठाणेसु जा विसोही य । जेय भणओ अवाया, सप्पडिपक्खा उ नेयव्वा ॥ वृ-यः 'वक्ता' अलीकवचनभाषकः, यश्च ‘वचनीयः' अलीकवचनं यमुद्दिश्य भण्यते, येषु चस्थानेष्वलीकं सम्भवति, याशी च तत्र 'शोधिः' प्रायश्चित्तम्, ये चालीकं भणतः 'अपायाः' दोषास्ते “सप्रतिपक्षाः' सापवादा अत्र भणनीयतया ज्ञातव्या इति द्वारगाथासमासार्थ ॥ साम्प्रतमेनामेव विवृणोति[भा.६०६५] आयरिए अभिसेगे, भिक्खुम्मि य थेरए य खुड्डेय । गुरुगा लहुगा गुरु लहु, भिन्ने पडिलोम बिइएणं ॥ वृ-इहाचार्यादिर्वक्ता वचनीयोऽपिस एवैकतरस्तत इदमुच्यते-आचार्यआचार्यमलीकंभणति चतुर्गुरु, अभिषेक भणति चतुर्लघु, भिक्षु भणति मासगुरु, स्थविरं भणति मासलघु, क्षुल्लकं भणति भिन्नमासः । “पिडिलोम बिइएणं" ति द्वितीयेनाऽऽदेशेनैतदेव प्रायश्चित्तं प्रतिलोमं वक्तव्यम् । तद्यथा-आचार्यआचारयमलीकं भणति भिन्नमासः, अभिषेक भणति मासलघु, एवं यावत् क्षुल्लकं भणतश्चतुर्गुरु । एवमभिषेकादीनामप्लीकं भणतां स्वस्थाने परस्थाने च प्रायश्चित्तमिदमेव मन्तव्यम्।अभिलापश्चेत्थं कर्तव्यः-अभिषेक आचार्यमलीकं भणति चतुर्गुरु, अभिषेकंभणति चतुर्लघुइत्यादि । तच्चालीकवचनं येषु स्थानेषु सम्भवति तानि सप्रायश्चित्तानि दर्शयितुकामो द्वारगाथाद्वयमाह[भा.६०६६] पयला उल्ले मरुए, पच्चक्खाणे य गमन परियाए। समुद्देस संखडीओ, खुड्डुग परिहारिय मुहीओ। कृप्रचलापदमापदंमरुकपदंप्रत्याख्यानपदंगमनपदंपर्यायपदंसमुद्देशपदंसङ्खडीपदंक्षुल्लकपदं पारिहारिकपदं “मुहीउ"त्ति पदैकदेशे पदसमुदायोपचाराद् घोटकमुखीपदम् ॥ [भा.६०६७] अवस्सगमनं दिसासुं, एगकुले चेव एगदव्वे य । पडियाखित्ता गमणं, पडियाखित्ता य भुंजणयं॥ वृ-अवश्यङ्गमनपदं दिग्विषयपदं एककुलगमनपदं एकद्रव्यग्रहणपदं प्रत्याख्याय गमनपदं प्रत्याख्याय भोजनपदं चेति द्वारगाथाद्वयसमासार्थः ॥अथैतदेव प्रतिद्वारं विवृणोति [भा.६०६८] पयलासि किं दिवा न पयलामि लहु दुच्चनिण्हवे गुरुगो। Page #349 -------------------------------------------------------------------------- ________________ ३४६ बृहत्कल्प-छेदसूत्रम् - ३-६/१९६ अन्नद्दाइत निण्हवे, लहुगा गुरुगा बहुतराणं ॥ वृ- कोऽपि साधुर्दिवा प्रचलायते स चान्येन साधुना भणितः किमेवं दिवा प्रचलायसे ? ; स प्रत्याह-न प्रचलाये; एवं प्रथमवारं निडुवानस्य मासलघु । ततो भूयोऽप्यसौ प्रचलायितुं प्रवृत्तस्तेन साधुना भणितः - मा प्रचलायिष्ठाः स प्रत्याह-न प्रचलाये; एवं द्वितीयवारं निह्नवे मासगुरु । ततस्तथैव प्रचलायितुं प्रवृत्तस्तेन च साधुनाऽन्यस्य साधोदर्शितः, यथा - एष प्रचलायते परं न मन्यते; ततस्तेनान्येन साधुना भणितोऽपि यदि निछुते तदा चतुर्लघु। अथ तेन साधुना 'बहुतराणां' द्वि-त्रादीनां साधूनां दर्शितस्तैश्च भणितोऽपि यदि निह्नुते तदा चतुर्गुरु ॥ [भा. ६०६९ ] निण्हवणे निण्हवणे, पच्छित्तं वड्डए य जा सपयं । लहु-गुरुमासो सुमो, लहुगादी बायरो होति ।। वृ- एवं निह्नवने निह्नवने प्रायश्चित्तं वर्द्धते यावत् 'स्वपदं' पाराञ्चिकम्। तद्यथा-पञ्चमं वारं निहुवानस्य षड्लघु, षष्ठं वारं षड्गुरु, सप्तमं छेदः, अष्टमं वारं मूलम्, नवममनवस्थाप्यम्, दशमं वारं निह्रुवानस्य पाराञ्चिकम् । अत्र च प्रचलादिषु सर्वेष्वपि द्वारेषु यत्र यत्र लघुमासो गुरुमासो वा भवति तत्र तत्र सूक्ष्मो मृषावादः, यत्र तु चतुर्लघुकादिकं स बादरो मृषावादो भवति । गतं प्रचलाद्वारम् । अथार्द्रद्वारमाह [भा. ६०७०] किं नीसि वासमाणे, न नीमि ननु वासबिंदवो एए। भुंजंति नीह मरुगा, कहिं ति ननु सव्वगेहेसु ॥ वृ- कोऽपि साधुर्वर्षे पतति प्रस्थितः, स चापरेण भणितः किं 'वासमाणे' वर्षति निर्गच्छसि ? स प्राह- नाहं वासन्ते निर्गच्छामि; एवं भणित्वा तथैव प्रस्थितः । तत इतरेण साधुना भणितः कथं 'न निर्गच्छामि' इति भणित्वा निर्गच्छसि ? ; स प्राह- 'वासु शब्दे" इति धातुपाठात् 'वासति' शब्दायमाने यो गच्छति स वासति निर्गच्छति इत्यभिधीयते, अत्र तु न कश्चिद् वासति किन्तु वर्षबिन्दव एते तेषु गच्छामि । एवं छलवादेन प्रत्युत्तरं ददानस्य तथैव प्रथमवारादिषु मासलघुकादिकं प्रायश्चित्तम् । अथ मरुकद्वारम्-तत्र कोऽपि साधुः कारणे विनिर्गत उपाश्रयमागम्य साधून् भणतिनिर्गच्छत साधवः ! यतो भुञ्जते मरुकाः; एवमुक्ते ते साधव उद्ग्राहितभाजना भणन्ति - "कहिं ति" त्तिक्क ते मरुका भुञ्जते ? ; इतरः प्राह- ननु सर्वेऽप्यात्मीयगृहेषु । एवं छलेनोत्तरं प्रयच्छति । अथ प्रत्याख्यानद्वारमाह [भा. ६०७१] भुंजसु पञ्चक्खातं, महं ति तक्खण पभुंजिओ पुट्ठो । किं व न मे पंचविहा, पच्चक्खाया अविरई उ ॥ वृ- कोऽपि साधुः केनापि साधुना भोजनवेलायां भणितः - 'भुङ्क्ष्व ' समुद्दिश; स प्राह-प्रत्याख्यातं मया इति; एवमुक्त्वा मण्डल्यां तत्क्षणादेव 'प्रभुक्तः ' भोक्तुं प्रवृत्तः । ततो द्वितीयेन साधुना पृष्टः- आर्य ! त्वयेत्थं भणितं मया प्रत्याख्यातम्'; स प्राह- किं वा मया प्राणातिपातादिका पञ्चविधाऽविरतिर्न प्रत्याख्याता येन प्रत्याख्यानं न घटते ? || अथ गमनद्वारमाह [भा. ६०७२] वच्चसि नाहं वच्चे, तक्खण वच्चंति पुच्छिओ भणइ । सिद्धतं न विजाणसि, ननु गम्मइ गम्ममाणं तु ॥ वृ- केनापि साधुना चैत्यवन्दनादिप्रयोजने व्रजा कोऽपि साधुरुक्तः किं त्वमपि व्रजसि ?, Page #350 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-१९६, [भा. ६०७१] ३४७ आगच्छसि इत्यर्थः; स प्राह-नाहं व्रजामि; एवमुक्त्वा तत्क्षणादेव व्रजितुं प्रवृत्तः; ततस्तेन पूर्वप्रस्थितसाधुना भणितः-कथं 'न व्रजामि' इति भणित्वा व्रजसि ?; स भणति-सिद्धान्तं न विजानीषे त्वम्, 'ननु' इत्याक्षेपे, भो मुग्ध ! गम्यमानमेव गम्यते नागम्यमानम्, यस्मिंश्च समये त्वयाऽहं पृष्टस्तस्मिन्नाहं गच्छामीति ॥अथ पर्यायद्वारमाह[भा.६०७२] दस एयस्स य मज्झ य, पुच्छिय परियाग बेइ उछलेण । मम नव पवंदियम्मिं, भणाइ बे पंचगा दस उ ।। वृ-कोऽपि साधुरात्मद्वितीयः केनापि साधुना वनितुकामेन पृष्टः कतिवर्षाणि भवतांपर्यायः? इति । स एवंपृष्टो भणति-एस्य साधोर्मम च दश वर्षाणि पर्याय इति । एवं छलेन तेनोक्ते स प्रच्छकसाधुः “मम नव वर्षाणि पर्यायः' इत्युक्त्वा प्रवन्दितः' वन्दितुं लग्नस्तत इतरश्छलवादी भणति-उपविशत भगवन्तः ! यूयमेव वन्दनीया इति । 'कथं पुनरहं वन्दनीयः?' इति तेनोक्ते छलवादी भणति-मम पञ्च वर्षाणि पर्यायः, एतस्यापि साधोः पञ्च, एवं द्वे पञ्चके मीलिते दश भवन्ति, अतो यूयमावयोरुभयोरपि वन्दनीया इति भणति ॥अथ समुद्देशद्वारमाह[भा.६०७४] वट्टइ उ समुद्देसो, किं अच्छह कत्थ एस गगनम्मि । वटुंति संखडीओ, घरेसु ननु आउखंडणया॥ -कोऽपिसाधुःकायिकादिभूमौ निर्गतआदित्यं राहुणाग्रस्यमानंदृष्टवा साधून स्वस्थानासीनान् भणति-आर्या ! समुद्देशो वर्तते, किमेवमुपविष्टास्तिष्ठथ ?; ततस्ते साधवः ‘नायमलीकं ब्रूते' इति कृत्वा गृहीतभाजना उत्थिताः पृच्छन्ति-कुत्रासौ समुद्देशोभवति?;सप्राह-नन्वेष गगनमार्गे सूर्यस्य राहुणा समुद्देशः प्रत्यक्षमेव द्दश्यते । अथ सङ्खडीद्वारम्-कोऽपि साधुः प्रथममालिकापानकादिविनिर्गतः प्रत्यातो भणति-प्रचुराः सङ्घड्यो वर्तन्ते, किमेवं तिष्ठथ ?; ततस्ते साधवो गन्तुकामाः पृच्छन्ति-कुत्र ताः सङ्घड्यः ?; स छलवादी भणति- ननु स्वेषु स्वेषु गृहेषु सङ्घड्यो वर्तन्त एव; साधवो भणन्ति-कथं ता अप्रसिद्धाः सङ्घड्य उच्यन्ते ?; छलवादी भणति-“ननु आउखंडणय"त्ति ननु' इत्याक्षेपे, पृथिव्यादिजीवानामायूंषिगृहेगृहेरन्धनादिभिरारम्भैः सङ्खण्डयन्ते ते कथं न सङ्खड्यो भवन्ति ? ॥अथ क्षुल्लकद्वारमाह[भा.६०७५]खुडुग ! जननी ते मता, परुनो जियइ ति अन्न भणितम्मि । माइत्ता सव्वजिया, भविंसु तेनेस ते माता। वृ-कोऽपि साधुरुपाश्रयसमीपे मृतां शुनी दृष्टवा क्षुल्लकं कमपि भणति-क्षुल्लक ! जननी तव मृता; ततः स क्षुल्लकः 'प्ररुदितः' रोदितुं लग्नः, तमेवं रुदन्तं दृष्टवा स साधुराह-मा रुदिहि, जीवति तेजननी; एवमुक्ते क्षुल्लकोऽपरेचसाधवोभणन्ति-कथंपूर्वं मृतेत्युक्त्वा सम्प्रतिजीवतीति भणसि?; स प्राह-एषा शुनी मृता सा तव माता भवति । क्षुल्लको ब्रूते-कथमेषा मम माता ?; मृषावादिसाधुराह-सर्वेऽपि जीवा अतीते काले तव मातृत्वेन बभूवुः । तथा च प्रज्ञप्तिसूत्रम्एगमेगस्सणंभंते ! जीवस्स सव्वजिया माइत्ताए पिइत्ताए भाइत्ताए भज्जत्ताए पुत्तत्ताए धूयत्ताए भूतपुव्वा? हंता गोयमा! एगमेगस्सजावभूतपुव्वा । तेनैव कारणेनैषाशुनी त्वदीया माता इति। अथ पारिहारिकद्वारमाह[भा.६०७६] ओसन्ने दद्रूणं, दिट्ठा परिहारिग त्ति लहु कहणे । Page #351 -------------------------------------------------------------------------- ________________ ३४८ कप बृहत्कल्प-छेदसूत्रम् -३-६/१९६ कत्थुजाणे गुरुओ, वयंत-दिढेसु लहु-गुरुगा। वृ-कोऽपि साधुरुधाने स्थितानवसन्नान् दृष्ट्वा प्रतिश्रयमागत्य भणति-मया पारिहारिका दृष्टा इति; साधवो जानते यथा-शुद्धपारिहारिकाः समागताः; एवं छलाभिप्रायेण कथयत एव मासलघु । भूयस्ते साधवः । पारिहारिकसाधुदर्शनोत्सुकाः पृच्छन्ति-कुत्र ते दृष्टाः ?; स प्राहउद्याने; एवं भणतोमासगुरु ।ततः साधवः पारिहारिकदर्शनार्थंचलिता व्रजन्तोयावन पश्यन्ति तावत् तस्य कथयतश्चतुर्लघु । तत्रगतैद्दष्टवसन्नेषु कथयतश्चतुर्गुरु॥ [भा.६०७७] छल्लहुगा उ नियत्ते, आलोएंतम्मि छग्गुरू होति । परिहरमाणा वि कहं, अप्परिहारी भवे छेदो॥ वृ- ‘अवसन्ना अमी' इति कृत्वा निवृत्तेषु तेषु कथयतः षड्लघवः । ते साधव ईपिथिकीं प्रतिक्रम्य गुरूणामालोचयन्ति-विप्रतारिता वयमनेन साधुनेति; एवं ब्रुवाणेषु तस्य षड्गुरु । आचार्यैरुक्तम्-किमेवं विप्रतारयसि?;स वष्टोत्तरंदातुमारब्धः-परिहरन्तोऽपि कथमपरिहारिणो भवन्ति ?; एवं ब्रुवतश्छेदः॥ [भा.६०७८] किं परिहरंति ननु खाणु-कंटए सव्वे तुब्भे हं एगो। सव्वे तुब्भे बहि पवयणस्स पारंचिओ होति ।। वृ-साधवोभणन्ति-किंतेपरिहरन्तियेन परिहारिका उच्यन्ते?; इतरःप्राह-स्थाणुकण्टकादिकं तेऽपिपरिहरन्ति; एवमुत्तरंददतोमूलम्।ततस्तैः सर्वैरपिसाधुभिरुक्तः-घृष्टोऽसियदेवंगतेऽप्युत्तरं ददासीति; ततः स प्राह-सर्वेऽपि यूयमेकत्र भूता अहं पुनरेकोऽसहायो अतः पराजीये, न पुनः परिफल्गुमदीयंजल्पितम्एवं भणतोऽनवस्थाप्यम्। अथ ज्ञानमदावलिप्त एवं ब्रवीति-सर्वेऽपि यूयं प्रवचनस्य बाह्याः; एवं सर्वानधिक्षिपन् पाराञ्चिको भवति ॥ इदमेवान्त्यपदं व्याचष्टे[भा.६०७९] किं छागलेण जंपह, किंमं होप्पेह एवऽजाणंता । बहुएहि को विरोहो, सलभेहि व नागपोतस्स ।। वृ-किमेवं छागलेन न्यायेनजल्पथ?,बोत्कटवन्मूर्खतया किमेवमेव प्रलपथ ? इत्यर्थः । किं वा मामेवमजानन्तोऽपि “होप्पेह" गले घृत्वा प्रेरयथ? |अथवा ममापिबहुभि सह को विरोधः शलभैरिव नागपोतस्येति ॥अथ घोटकमुखीद्वारमाह[भा.६०८०] भणइ य दिट्ठ नियत्ते, आलोए आमं ति घोडगमुहीओ। मानुस सव्वे एगे, सव्वे बाहिं पवयणस्स॥ [भा.६०८१] मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा। चम्मासा लहु-गुरुगा, छेओ मूलं तह दुगंच ।। वृ- एकः साधुर्विचारभूमौ गत उद्यानोद्देशे वडवाश्चरन्तीरवलोक्य प्रतिश्रयमागतः साधूनां विस्मितमुखः कथयति-शृणुत आर्या! अद्यमयायादशमाश्चर्यं दृष्टम्; साधवः पृच्छन्ति-कीशम्?; स प्राह-घोटकमुख्यः स्त्रयो दृष्टाः; एवं भणतो मासलघु । ते साधव ऋजुस्वभावाश्चिन्तयन्ति यथा-घोटकमुख्यआ मनुष्यसत्रियोऽनेन दृष्टा इति; ततस्ते पृच्छन्ति-कुत्र तास्त्वया दृष्टाः? स प्राह-द्याने; एवंब्रुवतोमासगुरु।साधवः ‘द्रष्टव्यास्ताः' इत्यभिप्रायेणव्रजन्ति तदानीं कथयतश्चतुर्लघु। दृष्टासु वडवासु चतुर्गुरु । प्रतिनिवृत्तेषु साधुषुषड्लघु । गुरूणामालोचिते षड्गुरु । ततो गुरुभिः Page #352 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-१९६, [भा. ६०८१] ३४९ पृष्टो यदि भणति - आमम्, घोटकमुख्य एवैताः, यतो घोटकवद् दीर्घमधोमुखं च मुखं वडवानां भवतीति; एवं ब्रवीति तदा छेदः । ततः साधुभिर्भणितः कथं ताः स्त्रिय उच्यन्ते ? ; इतरः प्राहयदि न स्त्रयस्तर्हि किं मनुष्याः ?; एवं ब्रुवाणस्य मूलम् । 'सर्वे यूयमेकत्र मिलिताः, अहं पुनरेक एव' एवं भणतोऽनवस्थाप्यम् । 'सर्वेऽपि प्रवचस्य बाह्याः' इति भणतः पाराञ्चिकम् ॥ अथान्त्यं प्रायश्चित्तत्रयं प्रकारान्तरेणाह[भा. ६०८२] सव्वेगत्था मूलं, अहगं इक्कल्लगो य अणवट्ठो । सव्वे बहिभावा पवयणस्स वयमाणे चरिमं तु ॥ वृ- 'यूयं सर्वेऽप्येकत्र मिलिताः' इति भणतो मूलमेव । 'अहमेककः किं करोमि ? इति भणतोऽनवस्थाप्यम्। 'सर्वेऽपि यूयं प्रवचनस्य बाह्याः' इति वदति पाराञ्चिकम् ॥ इदमेवान्त्यपदं व्याख्याति [भा. ६०८३] किं छागलेण जंपह, किं मं हंफेह एवऽजाणंता । बहुहि को विरोहो, सलभेहि व नागपोयस्स ॥ वृ- गतार्था ॥ अथावश्यङ्गमनद्वारमाह [ भा. ६०८४] गच्छसि न ताव गच्छं, किं खुन जासि त्ति पुच्छितो भणति । वेला न ताव जायति, परलोगं वा वि मोक्खं वा ॥ वृ- कोऽपि साधुः केनापि साधुना पृष्ट-आर्य ! गच्छसि भिक्षाचर्याम् ? ; स प्राह- अवश्यं गमिष्यामि; इतरेण साधुना भणितः यद्येवं तत उत्तिष्ठ व्रजावः; स प्राह-न तावदद्यापि गच्छामि; इतरेण भंणितम्-किं ‘“खुः” इति वितर्के 'न यासि' न गच्छसि ? त्वया हि भणितम् - अवश्यं गमिष्यामि; एवं पृष्टो भणति न तावदद्यापि परवलोकं गन्तुं वेला जायते अतो न गच्छामि, यद्वा मोक्षं गन्तुं नाद्यापि वेला अतो न गच्छामि; " अपि " सम्भावने, किं सम्भावयति ? अवश्यं परलोकं मोक्षं वा गमिष्यामीति ॥ अथ “देसासु" त्ति पदं व्याख्याति [भा. ६०८५] कतरिं दिसं गमिस्ससि, पुव्वं अवरं गतो भणति पुट्ठो । किं वा न होति पुव्वा, इमा दिसा अवरगामस्स ।। वृ- एकः साधुरेकेन साधुना पृष्टः-आर्य ! कतरां दिशं भिक्षाचर्यां गमिष्यसि ? ; स एवं पृष्टो ब्रवीति-पूर्वं गमिष्यामि । ततः प्रच्छकः साधुः पात्रकाण्युद्ग्राह्यापरां दिशं गतः, इतरोऽपि पूर्वदिग्गमनप्रतिज्ञाता तामेवापरां दिशं गतः तेन साधुना पृष्टः - 'पूर्वां गमिष्यामि' इति भमित्कस्मादपरामायातः ?; स प्राह- किं वाऽपरस्य ग्रामस्येयं दिक् पूर्वा न भवति येन मदीयं वचनं विरुध्येत ? ॥ अथैककुलद्वारमाह 1 [भा. ६०८६ ] अहमेगकुलं गच्छं, वञ्च्चह बकुलपवेसणे पुट्ठो । भणति कह दोन्नि कुले, एगसरीरेण पविसिस्सं । वृ- कश्चित् केनचिद् भिक्षार्थमुत्थितेनोक्तः-आर्य ! एहि व्रजावो भिक्षाम्; स प्राह-व्रजत यूयं अहमेकमेव कुलं गमिष्यामि; एवमुक्त्वा बहुषु कुलानि प्रविशसि ? ; स एवं पृष्टो भणति द्वे कुले एकेन शरीरेण युगपत् कथं प्रवेक्ष्यामि ?, एकमेव कुलमेकस्मिन् काले प्रवेष्टुं शक्यम् न बहूनीति भावः ॥ अथैकद्रव्यग्रहणद्वारमाह Page #353 -------------------------------------------------------------------------- ________________ ३५० बृहत्कल्प-छेदसूत्रम् -३-६/१९६ [भा. ६०८७] वच्चह एगं दव्वं, घेच्छं नेगगह पुच्छितो भणती । गहणं तु लक्खणं पोग्गलाण नऽन्नेसि तेनेगं ॥ वृ- कोऽपि साधुर्भिक्षार्थं गच्छन् कमपि साधुं भणति व्रजावो भिक्षायाम्; स प्राह-व्रजत यूयम् अहमेकमेवद्रव्यं ग्रहीष्यामि; एवमुक्त्वा भिक्षां पर्यटन् अनेकानाम्-ओदन-द्वितीयाङ्गादीनां बहूनां द्रव्याणां ग्रहण कुर्वन् साधुभि पृष्टो भणति - "गहणं तु" इत्यादि, गतिलक्षणो धर्मास्तिकायः, स्थितिलक्षणोऽधर्मास्तिकायः, अवगाहलक्षण आकाशास्तिकायः, उपयोगलक्षणो जीवास्तिकायः, ग्रहणलक्षणः, पुद्गलास्तिकायः, एषां च पञ्चानां द्रव्याणां मध्यात् पुद्गलानामेव ग्रहणरूपं लक्षणम् नान्येषां धर्मास्तिकायादीनाम्, तेनाहमेकमेव द्रव्यं गृह्णामि न बहूनीति ॥ व्याख्यातं द्वितीयद्वारगाथायाः पूर्वार्द्धम् । अथ “पडियाखित्ता गमणं, पडियास्वित्ता य भुंजणय'त्तिपश्चार्द्ध व्याख्यायते-'प्रत्याख्याय' 'नाहं गच्छामि' इति प्रतिषिध्य गमनं करोति, 'प्रत्याख्याय च ' 'नाहं भुञ्जे' इति भणित्वा भुङ्क्ते; अपरेण च साधुना पृष्टो ब्रवीति - गम्यमानं गम्यते नागम्यमानम्, भुज्यमानमेव भुज्यते नाभुज्यमानम् । अनेन च पश्चार्द्धे गमनद्वार- प्रत्याख्यानद्वारे व्याख्याते इति प्रतिपत्तव्यम् । इह च सर्वत्रापि प्रथमवारं भणतो मासलघु। अथाभिनिवेशेन तदेव निकाचयति तदा पूर्वोक्तनीत्या पाराञ्चिकं यावद् द्रष्टव्यम् ॥ तदेवं येषु स्थानेष्वलीकं सम्भवति याद्दशी च तत्र शोधिस्तदभिहितम् । सम्प्रति 'येऽपाया सापवादाः' इति द्वारम्-तत्राऽनन्तरोक्तान्यलीकानि भणतो द्वितीयसाधुना सहासङ्खडाद्युत्पत्तेः संयमा-ऽऽत्मविराधनारूपा सप्रपञ्चं सुधिया वक्तव्याः । अपवादपदं तु पुरस्ताद् भणिष्यते । गतमलीकवचनम् । अथ हीलितादीन्यभिधित्सुः प्रथमतः प्रायश्चित्तमतिदिशति - [भा. ६०८८] एमेव य हीलाए, खिसा फरुसवयणं च वदमाणो । गारत्थि विओसविते, इमं च जं तेसि नाणत्तं ॥ वृ- एवमेव हीलावचनं खिंसावचनं परुषवचनमगारस्थवचनं व्यवशमितोदीरणवचनं च वदतः प्रायश्चित्तं मन्तव्यम् । यच्च तेषां नानात्वं तद् इदं भवति ॥ [भा. ६०८९] आदिल्लेसुं चउसु वि, सोही गुरुगाति भिन्नमासंता । पणुवीसतो विभाओ, विसेसितो बिदिय पडिलोमं ॥ वृ- 'आदिमेषु चतुर्ष्वपि' हीलित खिसित- परुष-गृहस्थवचनेषु शोधिश्चतुर्गुरुकादिका भिन्नमासान्ता आचार्यादीनां प्राग्वद् मन्तव्या । तद्यथा - आचार्य आचार्यं हीलयति चतुर्गुरु १ उपाध्यायं भिन्नमासः ५ । एतान्याचार्यस्य तपः- कालाभ्यां गुरुकाणि भवन्ति । एते आचार्यस्य पञ्च संयोगा उक्ताः, उपाध्यायादीनामपि चतुर्णामेवमेव पञ्च पञ्च संयोगा भवन्ति, सर्वसङ्ख्ययैते पञ्चविंशतिर्भवन्ति । अत एवाह-'पञ्चविंशतिकः' पञ्चविंशभङ्गपरिमाणोविभागोऽत्र भवति । स च तपः-कालाभ्यां विशेषितः कर्तव्यः । द्वितीयादेशेन चैतदेव प्रायश्चित्तं प्रतिलोमं विज्ञेयम्, भिन्नमासाद्यं चतुर्गुरुकान्तमित्यर्थः । एवं खिंसित-परुष-गृहस्थवचनेष्वपि शोधिर्मन्तव्या ॥ अथ हीलितवचनं व्याख्याति [भा. ६०९०] गणि वायए बहुस्सुए, मेहावाऽऽयरिय धम्मकहि वादी । अप्पकसाए थूले, तनु दीहे य मडहे य ॥ Page #354 -------------------------------------------------------------------------- ________________ उद्देशक : : ६, मूलं- १९६, [भा. ६०९०] ३५१ वृ-इह गणि-वाचकादिभिः पदैः सूचयाऽसूचया वा परं हीलयति । सूचया यथा वयं न गणिवृषभा अतः को नाम गणि-वृषभैः सहास्माकं विरोध: ? । असूचया यथा- कस्त्वं गणीनामसि ? किं वा त्वया गणिना निष्पद्यते ? ; यद्वा-गणीभवन्नपि त्वं न किञ्चिद् जानासि, केन वा त्वं गणि कृतः ? इति । एवं वाचकादिष्वपि पदेषु भावनीयम् । नवरम्- 'वाचकः' पूर्वगतश्रुतधारी, 'बहुश्रुतः ' अधीतविचित्रश्रुतः, 'मेधावी' ग्रहण-धारणा-मर्यादामेधाविभेदात् त्रिधा, 'आचार्य' गच्छाधिपति, 'धर्मकथी वादी च' प्रतीतः । “अप्पकसाए” त्ति बहुकषाया वयम्, को नामाकल्पकषायैः सह विरोध: ? । “थूले तणुए "त्ति स्थूशरीरा वयम्, कस्तनुदेहैः सह विरोधः ? । “दीहे य इहे य'त्ति दीर्घदेहा वयं सदैवोपनि शिरोघट्टनं प्राप्नुमः, को मडभदेहैः समं विरोध: ? । एषा सूचा । असूचायां तु बहुकषायस्त्वम्, स्थूलशरीरस्त्वम् इत्यादिकं परिस्फुटमेव जल्पति । एवमसूचया सूचया वा यत् परं हीलयति तदेतद् हीलितवचनम् ॥ अथ खिंसितवचनमाह [भा. ६०९१] गहियं च अहाघोसं, तहियं परिपिंडियाण संलावो । अमुएणं सुत्तत्यो, सो वि य उवजीवितुं दुक्खं ।। वृ- एकेन साधुना 'यथाघोषं यथा गुरुभिरभिलापा भणिताः तथा श्रुतं गृहीतम् । स चैवंगृहीतसूत्रार्थ प्रतीच्छकादीन् वाचयति । यदा च प्रतीच्छक उपतिष्ठते तदा तस्य जातिकुलादीनि पृष्टवा पश्चात् तैरेव खिंसां करोति । इतश्च अन्यत्र साधूनां 'परिपिण्डितानां' स्वाध्यायमण्डल्या उत्थितानां संलापो वर्तते-कुत्र सूत्रार्थी परिशुद्धौ प्राप्येते ? । तत्रैकस्तं यथाघोषश्रुतग्राहकं साधुं व्यपदिशति, यथा-अमुकेन सूत्रार्थी शुद्धौ गृहीतौ परं स 'उपजीवितुं' सेवितुं 'दुःखं' दुष्करः ॥ कथम् ? इत्याह [भा. ६०९२] जह कोति अमयरुक्खो, विसकंटगव्लिवेढितो संतो । न चइजइ अल्लीतुं, एवं सो खिंसमाणो उ ॥ वृ-यथा कोऽप्यमृतवृक्षो विषकण्टकवल्लीभिर्वेष्टितः सन् 'आलीतुं' आश्रयितुं न शक्यते एवमसावपि साधुः प्रतीच्छकान् खिंसन् नाश्रयितुं शक्यः । तथाहि [भा. ६०९३ ] ते खिंसणापरद्धा, जाती-कुल- देस-कम्मपुच्छाहिं । आसागता निरासा, वच्छंति विरागसंजुत्ता ॥ वृ-यस्तस्योपसम्पद्यते तं पूर्वमेव पृच्छति का तव जाति ? किंनामिका माता ? को वा पिता? कस्मिन् वा देशे सञ्जातः ? किं वा कृष्यादिकं कर्म पूर्वं कृतवान् ? ; एवं पृष्ट्वा पश्चात् तान् पठतो हीना-ऽधिकाक्षराद्युच्चारणादेः कुतोऽपि कारणात् कुपितस्तैरेव जात्यादिभिः खिंसति । ततः 'ते' प्रतीच्छका जाति-कुल- देश - कर्मपृच्छाभि पूर्वं पृष्टाः ततः खिंसनया प्रारब्धाः - त्याजिताः सन्तः 'सूत्रार्थी ग्रहीष्यामः' इत्याशयाऽऽगताः 'निराशाः' क्षीणमनोरथा विरागसंयुक्ताः“दिट्ठा सि कसेरुमई, अनुभूया सि कसेरुमई । पीयं च ते पाणिययं वरि तुह नाम न दंसणयं ।। " इति भणित्वा स्वगच्छं व्रजन्ति ॥ [भा. ६०९४] सुत्त - ऽत्थाणं गहणं, अहगं ततो पडिनियत्तो । जाति कुल देस कम्म, पुच्छति खल्लाड धन्नागं ॥ Page #355 -------------------------------------------------------------------------- ________________ ३५२ बृहत्कल्प - छेदसूत्रम् - ३-६/१९६ वृ- एवं तदीयृत्तान्तमाकर्ण्य कोऽपि साधुर्भणति अहं तस्य सकाशे गत्वा सूत्रार्थयोर्ग्रहणं करिष्ये, तं चाचार्यं खिंसनादोषाद् निवर्तयिष्यामि । एवमुक्त्वा येषाचार्याणां स शिष्यस्तेषामन्तिके गत्वा पृच्छति योऽसौ युष्माकं शिष्यः स कुत्र युष्माभि प्राप्तः ? । आचार्या प्राहुः- वइदिसनामकस्य नगरस्यासन्ने गोर्बरग्रामे । ततोऽसौ साधुस्ततः प्रतिनिवृत्तो गोर्बरग्रामं गत्वा पृच्छति-अमुकनामा युवा युष्मदीये ग्रामे पूर्वं किमासीत् ? । ग्रामेवकैरुक्तम् आसीत् । ततः कातस्य माता ? को वा पिता ? किं वा कर्म ? । तैरुक्तम्- “खल्लाड धन्नागं" ति नापितस्य धन्निका नाम दासी, सा खल्वाटकोलिकेन सममुषितवती, तस्याः सम्बन्धी पुत्रोऽसौ । एवं श्रुत्वा तस्य साधोः सकाशं गत्वा भणति-अहं तवोपसम्पदं प्रतिपद्ये । ततस्तेन प्रतीच्छ्य पृष्टः कुत्र त्वं जातः ? का वा ते माता ? इत्यादि । एवंपृष्टोऽसौ न किमपि ब्रवीति । तत इतरश्चिन्तयति नूनमेषोऽपि हीनजातीयः । ततो निर्बन्धे कृते स साधुः प्राह [भा. ६०९५] थाणम्मि पुच्छियम्मिं, हनु दानि कहेमि ओहिता सुणधा । साहिस्सऽन्ने कस्सव, इमाई तिक्खाइं दुक्खाई ॥ - स्थाने भवद्भिः पृष्टे सति "ह नु दानि" त्ति तत इदानीं कथयामि, अवहिताः शृणुत यूयम्, कस्यान्यस्य ‘इमानि ' ईशानि तीक्ष्णानि दुःखानि कथयिष्यामि ? ॥ [भा. ६०९६] वइदिस गोब्बरगामे, खल्लाडग धुत्त कोलिय त्थेरो । ण्हाविय धन्निय दासी, तेसिं मि सुतो कुणह गुज्झं ॥ वृ- वइदिसनगरासन्ने गोर्बरग्रामे धूर्त्तः कोलिकः कश्चित् खल्वाटः स्थविरः, तस्य नापितदासी धन्निका नाम भार्या तयोः सुतोऽसम्यहम् एतद् गुह्यं कुरुत, मा कस्यापि प्रकाशयतेत्यर्थः ॥ [भा. ६०९७] जेट्ठो मज्झ य भाया, गब्मत्थे किर ममम्मि पव्वइतो । तमहं लद्धसुतीओ, अनु पव्वइतोऽनुरागेण ॥ वृ-मम ज्येष्ठो भ्राता गर्भस्थे किल मयि प्रव्रजित इति मया श्रुतम् । ततोऽहमेवं लब्धश्रुतिको भ्रातुरनुरागेण तमनु-तस्य पश्चात् प्रव्रजितः । एवं श्रुत्वा स खिंसनकारी साधुः किं कृतवान् ? [भा. ६०९८] आगारविसंवइयं तं नाउं सेसचिंधसंवदियं । निउणोवायच्छलितो, आउंटण दानमुभयस्स ॥ वृ- 'न मदीयस्य भ्रातुरेवंविध आकारो भवति' इत्याकारविसंवदितं ज्ञात्वा शेषैश्च - जात्यादिभिश्चिह्वैः संवदितं ज्ञात्वा चिन्तयति - अहो ! अमुना निपुनोपायेन छलितोऽहम्, यदेवमन्यव्यपदेशेन मम जात्यादिकं प्रकटितम् । ततः 'आवर्तनं' मिथ्यादुष्कृतदानपूर्वं ततो दोषादुपरमणम् । ततस्तस्मै सूत्रा -ऽर्थरूपस्योभयस्य दानं कृतमिति ॥ गतं खिंसितवचनम् । अथ परुषवचनमाह[ भा. ६०९९] दुविहं च फरुसवयणं, लोइय लोउत्तरं समासेणं । लोउत्तरियं ठप्पं, लोइय वोच्छं तिमं नातं ॥ वृ-द्विविधं परुषवचनं समासतो भवति-लौकिकं लोकोत्तरिकं च । तत्र लोकोत्तरिकं स्थाप्यम्, पश्चाद् भणिष्यत इत्यर्थः । लौकिकं तु परुषंवचनमिदानीमेव वक्ष्ये । तत्र चेदं ज्ञातं भवति ॥ [ भा. ६१०० ] अन्नोन्न समनुरत्ता, वाहस्स कुटुंबिय्स वि य धूया । Page #356 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-१९६, [भा. ६९०००] ३५३ ___तासिंच फरुसवयणं, आमिसपुच्छा समुप्पन्नं ।। वृ-व्याधस्य कुटुम्बिनो।पिच “धूताः" दुहितरौ अन्योन्यं समनुरक्ते, परस्परंसख्यौ इत्यर्थः। तयोश्च परुषवचनमामिषपृच्छया समुत्पन्नम् ।। कथम्? इति चेद् उच्यते[भा.६१०१] केनाऽऽनीतं पिसियं, फरुसंपुन पुच्छिया भणति वाही। किं खू तुम पिताए, आनीतं उत्तरं वोच्छं। . वृ-व्याधदुहित्रा पुद्गलमानीतम्, ततः कुटुम्बिदुहित्रा सा भणिता-केनेदं पिशितमानीतम् ? ततो 'व्याधी' व्याधदुहिता पृष्टा सती परुवचनं भणति-किं खु? त्वदीयेन पित्राऽऽनीतम् । कुटुम्बिदुहिता भणति-किंमदीयःपिता व्याधः येनपुद्गलमानयेत्? ।एवं लौकिकंपरुषवचनम्। अथ उत्तरं लोकोत्तरिकं वक्ष्ये ॥ प्रतिज्ञातमेवाह[भा.६१०२] फरुसम्मिचंडरुद्दो, अवंति लाभे य सेह उत्तरिए। आलत्ते वाहित्ते, वावारिय पुच्छिय निसिट्टे ॥ वृ-परुषवचने चण्डरुद्र उदाहरणम्, अवन्त्या नगर्यां शैक्षस्य लाभः तस्य सञात इति तदुदाहरमस्यैव सूचा कृता। एतल्लोकोत्तरिकं परुषवचनम्। एतच्चैतेषुस्थानेषूत्पद्यते-“आलत्ते" इत्यादि, 'आलप्तो नाम' 'आर्य ! किं तव वर्तते?' इत्येवमाभाषितः १, 'व्याहृतः' 'इत एहि' इत्येवमाकारितः २, व्यापारितः' 'इदमिदंच कुरु' इति नियुक्तः ३, 'पृष्टः' 'किं कृतं? किंवा न कृतम् ?' इत्यादि पर्यनुयुक्तः ४, 'निसृष्टः' 'गृहाण, भुझ्व, पिब' इत्येवमादिष्टः ५। एतेषु पञ्चसु स्थानेषु परुषवचनं सम्भवति इति नियुक्तिगाथासमासार्थः॥ अथैनां विवरीषुश्चण्डरुद्रदृष्टान्तं तावदाह[भा.६१०३] ओसरणे सवयंसो, इब्मसुतो वत्थभूसियसरीरो। दायण त चंडरुदे, एस पवंचेति अम्हे ति॥ वृ-उज्जयिन्यां नगर्यां रथयात्रोत्सवे 'ओसरणं' बहूनां साधूनामेकत्र मीलकः समजनि । तत्र सवयस्यो वस्त्रभूषितशरीरः इभ्यसुतः साधूनामन्तिके समायातो भणति-मां प्रव्राजयत । ततः साधवश्चिन्तयन्ति-एषः 'प्रपञ्चयति' विप्रतारयत्यस्मानिति । तैश्चण्डरुद्राचार्यस्य दर्शनं कृतम् "घृष्यतां कलिना कलि" इति कृत्वा । [भा.६१०४] भूतिं आनय आनीते दिक्खितो कंदिउं गता मित्ता। वत्तोसरणे पंथं, पेहा वय दंडगाऽऽउट्टो॥ वृ-ततश्चण्डरुद्रस्योपस्थितः-प्रव्राजयतमामिति।ततस्तेनोक्तम्-'मूर्ति क्षारमानय। ततस्तेन भूतावानीताया लोचं कृत्वा दीक्षितः। ततस्तदीयानि मित्राणि 'क्रन्दित्वा' प्रभूतं रुदित्वा स्वस्थानं गतानि । वृत्ते च समवसरणे चण्डरुद्रेण शैक्षो भणितः-पन्थानं प्रत्युपेक्षस्व येन प्रभाते व्रजामः। ततःप्रत्युपेक्षिते पथिभाते पुरतः शैक्षः पृष्ठतश्चण्डरुद्रः “वय"त्ति व्रजति । स च शैक्षो गच्छन् स्थाणावास्फिटितः। ततश्चण्डरुद्रो रुष्टः 'दुष्टशैक्षः' इति भणन् शिरसि दण्डकेन ताडयति।शैक्षो मिथ्यादुष्कृतं करोति भणति च-सम्यगायुक्तो गमिष्यामि । ततश्चण्डरुद्रस्तदीयोपशमेनावृत्तश्चिन्तयति-अहो ! अस्याभिनवदीक्षितस्यापि कियान् शमप्रकर्ष ? मम तु मन्दभाग्यस्य [ 20[23] Page #357 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् - ३-६/१९६ चिरप्रव्रजितस्याप्येवंविधः परमकोटिमुपगतः क्रोधः; इति परिभावयतः क्षपक श्रेणिमधिरूढस्य केवलज्ञानमुत्पेदे ॥ एवं चण्डरुद्रस्य 'दुष्टशैक्षः' इत्यादिभणनमिव परुषवचनं मन्तव्यम् । अथ 'आलप्तादिषु पदेषु परुषं भवति' इति यदुक्तं तस्य व्याख्यानमाह [ भा. ६१०५ ] तुसिनीए हुंकारे, किं ति व किं चडगरं करेसि त्ति । किं निव्वुतिं न देसी, केवतियंवा वि रडसि त्ति ॥ वृ- आचार्यादिभिरालप्तो व्याहृतो व्यापारितः पृष्टो निसृष्टो वा तूष्णीको भवति, हुङ्कारं वा करोति, 'किम् ?' इति वा भणति, 'किं वा चटकरं करोषि ?' इति ब्रवीति, 'किं निर्वृतिं न ददासि ?' इति ब्रूते, 'कियद्वा रटिष्यसि ?' इति भणति । एते सर्वेऽपिं परुषवचनप्रकाराः ॥ अथैतेष्वेव प्रायश्चित्तमाह ३५४ [भा. ६१०६ ] मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ वृ- लहुको मासो गुरुको मासश्चत्वारो मासा लघवस्वत्वारो मासा गुरवः षण्मासा लघवः षण्मासा गुरवः छेद मूलं तथा 'द्विकम्' अनवस्थाप्यं पाराञ्चिकं चेति ॥ एतदेव प्रायश्चित्तं चारणिकया गाथाद्वयेन दर्शयति [भा.६१०७] आयरिएणाऽऽलत्तो, आयरितो चेव तुसिणितो लहुओ । रडसि त्ति छग्गुरुंतं, वाहिते गुरुगादि छेदंतं ॥ वृ- आचार्येण आलप्त आचार्य एव तूष्णीको भवति मासलघु । अथ हुङ्कारादिकं रटसीति पर्यन्तं करोति तदा षड्गुरुकान्तम् । तद्यथा-हुङ्कारं करोति मासगुरु, 'किम्' इति भाषतेन 'मस्तकेन वन्दे' इति ब्रवीति चतुर्लघु, 'किं चटकतरं करोषि ?' इति ब्रुवाणस्य चतुर्गुरु, 'किं निर्वृतिं न ददासि ?' इति भाषमाणस्य षड्लघु, 'कियन्तं वा कालं रटसि ? ' इति ब्रुवतः षड्गुरु । व्याहृतस्य तूष्णीकतादिषु पदेषु मासगुरुकादारब्धं छेदान्तं ज्ञेयम् ॥ [भा.६१०८] लहुगाई वावारिते, मूलंतं चतुगुरुगाइ पुच्छिए नवमं । नीस छ पतेसू, छल्लहुगादी तु चरिमंतं ॥ कृ- व्यापारितस्य चतुर्लघुकादारब्धं मूलान्तम् । पृष्टस्य चतुर्गुरुकादारब्धं 'नवमम्' अनवस्थाप्यम् । 'निसृष्टस्य 'इदं गृहाण, भुङ्क्ष्व' इत्यायुक्तस्य 'षट्स्वपि' तूष्णीकादिपदेषु षड्लघुकादारब्धं चरमं - पाराञ्चिकं तदन्तं ज्ञातव्यम् ।। एवमाचार्येणाचार्यस्यालप्तादिपदेषु शोधिरुक्ता । अथाऽऽचार्येणैवालप्तादीनामुपाध्यायप्रभृतीनां शोधिं दर्शयितुमाह [भा. ६१०९ ] एवमुवज्झाएणं, भिक्खू थेरेण खुडएणं च । आलत्ताइपएहिं, इक्किक्कपयं तु हासिज्जा ।। वृ- 'एवम्' आचार्यवदुपाध्यायेन भिक्षुणा स्थविरेण क्षुल्लकेन च समं आलप्तादिपदैः प्रत्येकं तूष्मीकतादिप्रकारषट्के यथाक्रममेकैकं प्रायश्चित्तपदं हासयेत् । तद्यथा - आचार्य उपाध्यायमनुरूपेणाभिलापेनालपति ततो यदि उपाध्यायस्तूष्णीक आस्ते तदा गुरुभिन्नमासः, हुङ्कारं करोति मासलघु, एवं यावत् किमेतावन्मात्रमारटसि ?' इति भणतः षड्लघु। व्याहृतस्यैतेष्वेव तूष्णीकादिषु पदेषु लघुमासादारब्धं षड्गुरुकान्तम्, व्यापारितस्य गुरुमासादिकं छेदान्तम्, पृष्टस्य Jaih Education International Page #358 -------------------------------------------------------------------------- ________________ उद्देश : ६, मूलं - १९६, [भा. ६१०९ ] ३५५ चतुर्लघुकादिकं मूलान्तम्, निसृष्टस्य चतुर्गुरुकादिकमनवस्थाप्यान्तं द्रष्टव्यम् । एवमाचार्येणैव भिक्षोरालप्तादिषु पदेषु लघुभिन्नमासादारब्धं मूलान्तम्, स्थविरस्य गुरुविंशतिरात्रिन्दिवादारब्धं छेदान्तम्, क्षुल्लकस्य लगुविंशतिरात्रिन्दिवादारब्धं षड्गुरुकान्तं प्रायश्चित्तं प्रतिपत्तव्यम् ॥ एवं तावदाचार्यस्याचार्यादिभि पञ्चभि पदैः समं चारणिका दर्शिता । साम्प्रतमुपाध्यायादीनां चतुर्णामप्याचार्यादिपदपञ्चकेन चारणिकां दर्शयति [भा. ६११०] आयरियादभिसेगो, एक्कगहीणो तदिक्किणा भिक्खू । थे तु तदिक्केणं, थेर खुड्डो वि एगेणं ॥ वृ- आचार्याद् 'अभिषेकः' उपाध्याय आलापादिपदानि कुर्वाणश्चारणिकायामेकेन प्रायश्चित्तपदेन हीनो भवति । तद्यथा-उपाध्याय आचार्यमालपति 'क्षमाश्रमणाः ! कथं वर्तते ?” इत्यादि, एवमालप्त आचार्यस्तूष्णीक आस्ते भिन्नमासो गुरुकः, हुङ्कारं करोति मासलघु, एवं तेनैव चारणिकाक्रमेण तावद् नेयं यावद् उपाध्यायेनाचार्यस्य निसृष्टस्य 'किमेतावदारटसि ?” इतिब्रुवाणस्यानवस्थाप्यम् । अथोपाध्याय उपाध्यायमालपति तत आलप्तादिषु पञ्चसु पदेषु तूष्णीकतादिभिषड्भिः पदैः प्रत्येकं चार्यमाणैर्लघुभिन्नमासादारब्धं मूले तिष्ठति । एवमुपाध्यायेनैव भिक्षोरालप्तादिषु पदेषु तूष्णीकतादिभिरेव पदैर्गुरुविंशतिरात्रिन्दिवादारब्धं छेदान्तम्, स्थविरस्य लघुविंशतिरात्रिन्दिवादारब्धं षड्गुरुकानतम्, क्षुल्लकस्य गुरुपञ्चदशरात्रिन्दिवादारब्धं षड्लघुकान्तं द्रष्टव्यम् । यदा तु भिक्षुराचार्यादीनालपति तदा ततः उफआध्यायादेकेन पदेन हीनो भवति, सर्वचारणिकाप्रयोगेण लघुपञ्चदशरात्रिन्दिवादारब्धं प्रायश्चित्तं मूले तिष्ठतीत्यर्थः । यदा तु स्थविर आलपति तदा ततः - भिक्षोरेकेन पदेन हीनो भवति, सर्वचारणिकाप्रयोगेण गुरुदशरात्रिन्दिवादारब्धं छेदे तिष्ठतीत्यर्थः । यदा तु क्षुल्लक आचार्यादीनालपति तदा सोऽप्येकेन पदेन हीनो भवति । तद्यथा क्षुल्लक आचार्यमालपति यदि आचार्यस्तूष्णीकादीनि पदानि करोति तत आलप्तादिषु पञ्चसु पदेषु लघुविंशतिरात्रिन्दिवादारब्धं षड्गुरुके तिष्ठति । एवं क्षुल्लकेनैवोपाध्यायस्यालप्तादिषु पदेषु तूष्णीकतादिँभि षड्भिः पदैः प्रत्येकं चार्यमाणैर्गुरुपञ्चदशकादारब्धं षड्लघुकान्तम्, भिक्षोर्लघुपञ्चदशकादारब्धं चतुर्गुरुकान्तम्, स्थविरस्य गुरुदशकादारब्धं चतुर्लघुकान्तम्, क्षुल्लकस्य लघुदशकादारब्धं मासगुरुकान्तं प्रायश्चित्तं भवति । एवं सर्वचारणिकाप्रयोगेण लघुदशकादारब्धं षड्गुरुके तिष्ठतीति । एवं तावन्निर्ग्रन्थानामुक्तम् । अथ निर्ग्रन्थीनामतिदिशन्नाह[मा.६१११] भिक्खुसरिसी तु गणिणी, थेरसरिच्छी तु होइ अभिसेगा । भिक्खुण खुडुसरिच्छी, गुरु-लहुपनगाइ दो इयरा ॥ वृ- इह निर्ग्रन्थीवर्गेऽपि पञ्च पदानि, तद्यथा-प्रवर्तिनी अभिषेका भिक्षुण स्थविरा क्षुल्लिका च तत्र 'गणिनी' प्रवर्तिनी सा भिक्षुसध्शी मन्तव्या । किमुक्तं भवति ? - प्रवर्तिनी प्रवर्तिनीप्रभृतीनां पञ्चानामन्यतमामालप्तादिभि प्रकारैरालपति, साचाऽऽलप्यमाना तूष्णीकादिपदषट्कं करोति ततो भिक्षावालपति यदाचार्यादीनां प्रायश्चित्तमुक्तं तत् तासां प्रवर्तिनीप्रभृतीनां मन्तव्यम् । अथाभिषेका प्रवर्तिन्यादीनामन्यतरामालपति सा च तुष्णीकादिपदानि करोति ततः स्थविरे आलपति यदाचार्यादीनां प्रायश्चित्तमुक्तं तत् तासां द्रष्टव्यम्, अत एवाह स्थविरसध्क्षा अभिषेका भवति । अत भिक्षुणी प्रवर्तिनीप्रभृतिकामालपति सा च तूष्णीकादीनि करोति ततः क्षुल्लके आलपति Page #359 -------------------------------------------------------------------------- ________________ ३५६ बृहत्कल्प-छेदसूत्रम् -३-६/१९६ यदाचार्यादीनांप्रायश्चित्तमुक्तं तत् तासामपि यथाक्रमं ज्ञेयम्, अतएवाह-भिक्षुणी क्षुल्लकसशी। अथ स्थविरा प्रवर्तिनीप्रभृतिकामालपति ततः प्रवर्तिन्यास्तूष्णीकादिपदषट्कं कुर्वाणाया गुरुपञ्चदशकादिकंषड्लघुकान्तम्, अभिषेकाया लघुपञ्चदशकादिकं चतुर्गुरुकान्तम्, भिक्षुण्या गुरुदशकादिकं चतुर्लघुकान्तम्, स्थविराया लघुदशकादिकं मासगुरुकान्तम्, क्षुल्लिकाया गुरुपञ्चकादिकंमासलघुकान्तंज्ञेयम्।अथ क्षुल्लिका प्रवर्तिनीप्रभृतिकामालपतिसाचतूष्णाकादीनि पदानि करोति ततःप्रवर्तिन्या लघुपञ्चदशकादिकंचतुर्गुरुकान्तम्, अभिषेकाया गुरुदशकादिकं चतुर्लघुकान्तम्, भिक्षुण्या लघुदशकादिकं मासगुरुकान्तम्, स्थविराया गुरुपञ्चकादिकं मासलघुकान्तम्, क्षुल्लिकाया लघुपञ्चकादिकं गुरुभिन्नमासान्तं मन्तव्यम् । अत एवह-“गुरुलहुपणगाइदोइयर"ति 'इतरे स्विराक्षुल्लिकेतयोद्धयोरपि यथाक्रमगुरुपञ्चकादिकंलघुपञ्चकादिकं चप्रायश्चित्तं भवति॥इहपरुषग्रहणेन निष्ठुर-कर्कशेअपिसूचिते, ततस्तयोःप्रायश्चित्तंदर्शयितुं परुषस्य च प्रकारान्तरेण शोधिमभिधातुमाह[भा.६११२] लहुओ य लहुसगम्मिं, गुरुगो आगाढ फरुस वयमाणे । निदुर-कक्कसवयणे, गुरुगा य पतोसओ जंच। कृ'लहुसके स्तोकेपरुषवचनेसामान्यतोऽभिधीयमानेमासलघुआगाढपरुष वदतोमासगुरु। निष्ठुरवचने कर्कशवचने चत्वारो गुरवः । यच्च ते परुषं भणिताः प्रद्वेषतः करिष्यन्ति तनिष्पत्रं प्रायश्चित्तम् ॥अथ किमिदं निष्ठुरं? किं वा कर्कशम् ? इत्याशङ्कावकाशं विलोक्याऽऽह[भा.६११३] निव्वेद पुच्छितम्मि, उब्भामइल त्ति निट्ठरं सव्वं । मेहुण संसह्र कक्कसाइं निव्वेग साहेति॥ वृकयाऽपि महेलया कोऽपि साधुः पृष्टः-केन निदेन त्वं प्रव्रजितः ? । स प्राह-मदीया बोजिका उद्घामिका' दुःशीला अतोऽहं प्रव्रजितः । एवमादिकं सर्वमपि निष्ठुरमुच्यते । तथा मैथुने संसृष्टं विलीनभावं दृष्टवा प्रव्रजितोऽहम् । एवं निर्वेदं यत् कथयति तदेवमादीनिवचांसि कर्कशानि मन्तव्यानि ॥ इदमेव व्याचष्टे[भा.६११४] मयं वजं होइ रयावसाणे, तंचिक्कणंगुन्झ मलं झरंतं। अंगेसु अंगाई निगूहयंती, निव्वेयमेवं मम जाण सोमे!॥ वृ-यद् रतावसाने मृतमिव भवति तदेवंविधं गुह्यं चिक्कणं मलं 'क्षरत्' परिगलद्, भार्या चात्मीयेष्वङ्गेषु आत्मीयान्येवाङ्गानि जुगुप्सनीयतया निगूहयन्ती मया दृष्टा,एतद् मे 'निर्वेद' निर्वेदकारणं हे सौम्ये ! जानीहि॥तथा[भा.६११५] सखेदणीसहविमुक्कगत्तो, भारेण छिनो ससई व दीहं। हीओ मिजं आसि रयावसाणे, अनेगसो तेन दमंपवत्रो॥ वृ-सखेदं "नीसहूं" अत्यर्थं विमुक्तगात्रः शिथिलीकृताङ्गो भारेण छिनः' त्रुटितो भारवाहको यथा दीर्घ निश्वासिति तथाऽहमपि रतावसाने यदनेकश एवंविधः ‘आसम्' अभूवंतद् अतीव 'हीतः' लज्जितः, एतेन निदेन 'दम' संयम पाठान्तरेण व्रतं वा प्रपन्नोऽहम् ।। गतं परुषवचनम् । अथागारस्थितवचनमाह[भा.६११६] अरे हरे बंभण पुत्ता, अव्वो बप्पो त्ति भाय मामो त्ति। Page #360 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं- १९६, [भा. ६११६] भट्टिय सामिय गोमिय, लहुओ लहुआ य गुरुआ य ॥ वृ- अरे इति वा हरे इति वा ब्राह्मण इति वा पुत्र इति वा यदि आमन्त्रणवचनं ब्रूते तदा मासलघु । अव्वो बप्पो भ्रातर् मामक उपलक्षणत्वाद् अम्ब भागिनेय इत्यादीन्यपि यदि वक्ति तदा चतुर्लघु । अथ भट्टिन् स्वामिन् गोमिन् इत्यादीनि गौरवगर्भाणि वचांसि ब्रूते तदा चतुर्गुरुकाः आज्ञादयश्च दोषाः ॥ [भा. ६११७] संथवमादी दोसा, वंति धी मुंड ! को व तुह बंधू । मिच्छत्तं दिय वयणे, ओभावणता य सामि त्ति ॥ ३५७ वृ- भ्रातृ-मामकादीनि वचनानि ब्रुवाणेन संस्तवः - पूर्वसंस्तवादिरूपः कृतो भवति, ततश्च प्रतिबन्धादयो बहवो दोषा भवन्ति । अम्ब तात इत्यादि ब्रुवतः श्रुत्वा लोकश्चिन्येत्-अहो ! एतेषामपि माता-पित्रादयः पूजनीयाः । अविरतिकाश्चामन्त्रयतो भूयस्तरा दोषाः । यद्वा स गृहस्थस्तेनासद्भूतसम्बन्धोद्धट्टनेन रुष्टो ब्रूयात्- धिग् मुण्ड ! कस्तवात्र 'बन्धुः' स्वजनोऽस्ति येनैवं प्रलपसि ? । उपलक्षणमिदम्, अरे हरे इत्यादि ब्रुवतः परो ब्रूयात्-त्वं तावद् मां न जानीषे कोऽप्यहमस्मि ततः किमेवम् अरे इत्यादि भणसि ? । एवमसङ्घडादयो दोषाः । 'द्विजवचने च' ब्राह्मण इत्येवमभिधाने च मिध्यात्वं भवति । स्वामिन् इत्याद्यभिधाने च प्रवचनस्यापभ्राजना भवति ॥ गतमगारस्थितवचनम् । अथ व्यवशमितोदीरणवचनमाह [भा. ६११८] खामित-वोसविताइं, अधिकरणाइं तु जे उईरेंति । ते पावा नायव्वा, तेसिं च परूवणा इणमो ॥ वृ- क्षामितानि वचसा मिथ्युद्ष्कृतप्रानेन शमितानि, वोसवितानि - विविधमनेकधा मनसा व्युत्पृष्टानि, क्षामितानि च तानि व्युत्सृष्टानि चेति क्षामित - व्युत्सृष्टानि । एवंविधान्यदिकरणानि ये भूय उदीरयन्ति ते 'पापा:' साधुधर्मबाह्या ज्ञातव्याः । तेषां च इयं प्ररूपणा ।। उप्पायग उप्पन्ने, संबद्धे कक्खडे य बाहूय । आवट्टणा यमुच्छ्ण, समुघायऽतिवायणा चेव ॥ [भा. ६११९] [ भा. ६१२०] लहुओ लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥ वृ- द्वौ साधू पूर्वं कलहं कृतवन्तौ, तत्र च क्षामित-व्युत्सृष्टेऽपि तस्मिन्धिकरणेऽन्यदा तयोरेक एवं भणति एवं नाम त्वया तदानीमहमित्थमित्थं च भणितः; एष उत्पादक उच्यते, अस्य च मासलघु । इतरोऽपि ब्रूते-अहमपि त्वया तदानीं किं स्तोकं भणितः ? ; एवमुक्त उत्पादकः प्राहयदि तदानीं त्वमभणिष्यस्तदा किमहमेवमेव त्वाममोक्ष्यम् ? ; एवमधिकरणमुत्पन्नमुच्यते, तत्र द्वयोरपि चतुर्लघु । सम्बद्धं नाम वचसा परस्परमाक्रोशनं कर्तुमारब्धं तत्र चतुर्गुरु । कर्कशं नामतटस्थितैरुपशम्यमानावपि नोपशाम्यतस्तदा षड्लघु । “बाहु "त्ति रोषभरपरवशतया बाहूबाहवि युद्ध कर्तुं लग्नौ तत्र षड्गुरुकाः । आवर्तना नाम-एकेनापरो निहत्य पातितस्तत्र च्छेदः । योऽसौ निहतः स मूर्च्छा यदि प्राप्तस्तदा मूलम् । मारणान्तिकसमुद्धाते समवहतेऽनवस्थाप्यम् । अतिपातनामरणं तत्र पाराञ्चिकम् ॥ अथ द्वितीयपदमाह - [भा. ६१२१] पढमं विगिंचणट्ठा, उवलंभ विविंचणा य दोसु भवे । Page #361 -------------------------------------------------------------------------- ________________ ३५८ बृहत्कल्प - छेदसूत्रम् -३-६/१९६ अनुसासनाय देसी, छठ्ठे य वगिंचणा भणिता ॥ वृ- 'प्रथमम्' अलीकवचनमयोग्यशैक्षस्य विवेचनार्थं वदेत् । 'द्वयोस्तु' हीलितखिंसितवचनयोर्यथाक्रममुपालम्भ- विवेचने कारणे भवतः, शिक्षादानमयोग्य शैक्षपरित्यागश्चेत्यर्थः । परुषवचनं तु स्वरसाध्यस्यानुशासनां कुर्वन् ब्रूयात् । गृहस्थवचनं पुनः 'देशी' देशभाषामाश्रित्य भणेत् । 'षष्ठेच' व्यवशमित्तोदीरणवचने शैक्षस्य विवेचनं कारणं भणितम् । गाथायां स्त्रीत्वनिर्देशः प्राकृतत्वादिति द्वारगाथासमासार्थः । अथैनां विवरीषुराह [भा. ६१२२] कारणियदिक्खितं तीरियम्मि कज्जे जहंति अनलं तू । संजम - जसरक्खट्टा, होढं दाऊण य पलादी । वृ- कारणे- अशिवादौ अनलः - अयोग्यः शैक्षो दीक्षितः, ततः 'तीरिते' समापिते तस्मिन् कार्ये तं अनलं 'जहन्ति' पिर्तयजन्ति । कथम् ? इत्याह- 'संयम- यशोरक्षार्थं ' संयमस्य प्रवचनयशः प्रवादस्य च रक्षणार्थं 'होढं' गाढमलीकं दत्त्वा पलायन्ते, शीघ्रमन्यत्र गच्छन्तीत्यर्थः ॥ यः पुनराचार्य सामाचार्यां सारणादिप्रदाने सीदित तमुद्दिश्येत्यं हीलितवचनं वदेत् [भा. ६१२३] केनेस गनि त्ति कतो, अहो ! गणी भणति वा गणि अगनिं । एवं विसीतमाणस कुणति गणिणो उवालंभं ॥ वृ- केनासमीक्षितकारिणैष गणी कृतः ? यद्वा अहो ! अयं गणी, अथवा गणिनमप्यगणिनं भणति । एवं गणिनः सामाचार्यां शिक्षादाने वा विषीदत उपालम्भं करोति ॥ [भा. ६१२४] अगणिं पि भणाति गणिं, जति नाम पढेज्ज गारवेण वि ता । एमेव सेससु वि, वायगमादीसु जोएज्जा ।। वृ-यदि कोऽपि बहुशोऽपि भण्यमानो न पठति ततस्तगणिनमपि गणिनं भणति यदि नाम गौरवेणापि पठेत् । एवमेव शेषेष्वपि वाचकादिषु पदेषु द्वितीयपदं 'योजयेत्' योजनां कुर्यात् ॥ [ भा. ६१२५ ] खिंसावयणविहाणा, जे चिय जाती - कुलादि पुव्वुत्ता । कारणियदिक्खियाणं, ते च्चेव विगिंचणोवाया ॥ वृ-खिंसावचनविधानानि यान्येव जाति-कुलादीनि पूर्वमुक्तानि त एव 'कारणिकदीक्षितानां' अयोग्यानां कारणप्रव्राजितानां विवेचनं- परिष्ठापने उपाया मन्तव्याः ॥ [भा. ६१२६] खरसज्झं मउयवइ, अगणेमाणं भणंति फरुसं पि । दव्वफरुसं च वयणं, वयंति देसिं समासज्जा ।। वृ- इह यः कठोरवचनभणनमन्तरेण शिक्षां न प्रतिपद्ते स खरसाध्य उच्यते, तं खरसाध्यं मृद्वीं वाचनमगणयन्तं परुषमपि भणन्ति । यद्वा 'देशीं' देशभाषा समासाद्य द्रव्यतः परुषवचनमपि वदन्ति । द्रव्यतो नाम- न दुष्टभावतया परुषं भणन्ति किन्तु तत्स्वाभाव्यात्, यथा मालवाः परुषवाक्या भवन्ति ॥ [भा. ६१२७] भट्टित्ति अमुगभट्टि, त्ति वा वि एमेव गोमि सामि त्ति । जनं भणाति लोगो, भणाति तह देसिमासज्ज | वृ- भट्टिन् इति वा अमुगमभट्टिन् इति वा एवमेव गोमिन् इति वा स्वामिन् इति वा यथा यथा लोको भणति तता तथा 'देशी' देशभाषामाश्रित्य साधवोऽपि भणन्ति ॥ Page #362 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं - १९६, [भा. ६१२८] [भा. ६१२८ ] खामिय-वोसवियाई, उप्पाएऊण दव्वतो रुट्ठो । कारणदिक्खिय अनलं, आसंखडिउ त्ति धाडेति । वृ-यः कारणे अनलो दीक्षितस्तेन समं समापिते कार्ये क्षामित-व्युत्सृष्टान्यधिकरणान्युत्पाद्य 'द्रव्यतः ' दुष्टभावं विना 'रुष्टः' कुपितः, बहि कृत्रिमान् कोपविकारान् दर्शयन्नित्यर्थः, आसङ्खडिकोऽयं इति दोषमुत्पाद्य तमनलं शैक्षं 'घाटयति' गच्छाद् निष्काशयति ॥ ३५९ मू. (१९७) छ कप्पस्स पत्थारा पन्नत्ता, तं जहा-पाणाइवायस्स वायं वयमाणे, मुसावायस्स वायं वयमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरइयावायं वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे । इच्चेते छ कप्पस्स पत्थारे पत्थरित्ता सम्मं अप्पडिपूरेमाणे तट्ठाणपत्ते सिया ॥ वृ- अस्य सूत्रस्य सम्बन्धमाह [ भा. ६१२९] तुल्लहिकरणा संखा, तुल्लहिगारो व वादिओ दोसो । अहवा अयमधिगारो, सा आवत्ती इहं दानं ॥ वृ- 'द्वयोरपि' अनन्तर- प्रस्तुतसूत्रयोस्तुल्याधिकरणा सङ्ख्या, समानः षट्सङ्खयालक्षणोऽधिकार इत्यर्थः । यद्वा वाचिको दोषस्तुल्याधिकारः, उभयोरपि सूत्रयोर्वचनदोषोऽधिकृत इति भावः । अथवाऽयमपरोऽधिकार उच्यते- 'सा' पूर्वसूत्रोक्ता शोधिरापत्तिरूपा, इह तु तस्या एव शोधेर्दानमधिक्रियते ।। अनेम सम्बन्धेनायातस्यास्य व्याख्या कल्पः साधुसमाचारस्तस्य सम्बन्धेन तद्विशुद्धिकारणत्वात् 'प्रस्ताराः ' प्रायश्चित्तरचनाविशेषाः षट् प्रज्ञप्ताः । तद्यथा प्राणातपातस्य ‘वादं’ वार्तां वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः १ । एवं मृषावादस्यवादं वदति द्वितीयः । अदत्तादानस्य वादं वदति तृतीयः । अविरति अब्रह्म, यद्वा न विद्यते विरतिरस्याः सा अविरतिका- स्त्री तद्वादं वदति चतुर्थः । अपुरुषः नपुंसकस्तद्वादं वदति पञ्चमः । दासवादं वदति षष्ठः । 'इति' इत्युपप्रदर्शने । एवंप्रकारानेतान् षट् कल्पस्य 'प्रस्तारान्' प्रायश्चित्तरचनाविशेषान् 'प्रस्तीर्य' अभ्युपगमत आत्मनि प्रस्तुतान् विधाय 'प्रस्तारयिता वा' अभ्याख्यानदाता साधुः सम्यग् 'अप्रतिपूरयन्' अभ्यख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्नुवन् तस्यैवप्राणातिपातादिकर्तुरिव स्थानं प्राप्तस्तत्स्थानप्राप्तः स्यात्, प्राणातिपातादिकारीव दण्डनीयो भवेदिति भावः । अथवा प्रस्तारान् 'प्रस्तीर्य' विरचय्याऽऽचार्येणाभ्याख्यानदाता 'अप्रतिपूरयन्' अपरापरप्रत्ययवचनैस्तमर्थं सत्यमुकुर्वन् तत्स्थानप्राप्तः कर्तव्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत् पदं प्रापणीय इति भावः । एष सूत्रार्थः ॥ अथ भाष्यकारो विषमपदव्याख्यामाह [भा. ६१३०] पत्थारो उ विरचना, सो जोतिस छंद गणित पच्छित्ते । पच्छित्तेन तु पगयं, तस्स तु भेदा बहुविगप्पा ॥ वृ- प्रस्तारो नाम विरचना, स्थापना इत्यर्थः । स च चतुर्द्धा - ज्योतिषप्रस्तारः छन्दः प्रस्तारो गणितप्रस्तारः प्रायश्चित्तप्रस्तारश्चेति । अत्र प्रायश्चित्तप्रस्तारेण प्रकृतम् । 'तस्य च ' प्रायश्चित्तस्यामी 'बहुविकल्पाः' अनेकप्रकारा भेदा भवन्ति ॥ तद्यथा [भा. ६१३१] उग्घातमनुग्घाते, मीसे यपसंगि अप्पसंगी य । आवजण दानाई, पडुच्च वत्युं दुपक्खे वी ॥ Page #363 -------------------------------------------------------------------------- ________________ ३६० बृहत्कल्प-छेदसूत्रम् -३-६/१९७ वृ-इह प्रायश्चित्तंद्विधा-उद्धातमनुद्धातंच।उद्धातं-लघुकम्, तच्च लघुमासादि।अनुद्धातिकंगुरुकम्, तच्च गुरुमासादि।तदुभयमपि द्विधा-मिश्रंचशब्दाद्अमिश्रंच।मिश्रनाम-लघुमासादिकं तपः-कालयोरेकतरेण द्वाभ्यां वा गुरुकम्, गुरुमासादिकंवा तपस कालेन वा द्वाभ्यांवा लघुकम्। अमिश्रं तु लघुमासादिकं तपः-कालाभ्यां द्वाभ्यामपि लघुकम्, गुरुमासादिकं वा द्वाभ्यामपि गुरुकम् । उभयमपि च तपः-कालविशेषरहितंपुनरपि द्विधा-प्रसङ्गि अप्रसङ्गिच । प्रसङ्गि नामयद् अभीक्ष्णप्रतिसेवारूपेण शङ्का-भोजिका-घाटिकादिपरम्परारूपेण वा प्रसङ्गेन युक्तम्, तद्विपरीतमप्रसङ्गि। भूयोऽप्येतदेकैकं द्विधा-आपत्तिप्रायश्चित्तंदानप्रायश्चित्तं च । एतत्सर्वमपि प्रायश्चित्तं द्विपक्षेऽपि' श्रमणपक्षे श्रमणीपक्षे च वस्तु प्रतीत्य मन्तव्यम्। वस्तुनाम-आचार्यादीकं प्रवर्तिनीप्रभृतिकं च, ततो यस्य वस्तुनो यत् प्रायश्चित्तं योग्यं तत् तस्य भवतीति भावः । एष प्रायश्चित्तप्रस्तार उच्यते ।। “सम्मंअपडिपूरेमाणे"त्ति पदं व्याचष्टे[भा.६१३२] जारिसएणऽभिसत्तो, स चाधिकारी न तस्स ठाणस्स । सम्मं अपूरयंतो, पञ्चंगिरमप्पणो कुणति ॥ वृ- ‘याशेन' द१रमारणादिनाऽभ्याख्यानेन ‘सः' साधुः ‘अभिशप्तः' अभ्याख्यातः स तस्यस्थानस्य 'नाधिकारी' न योग्यःअप्रमत्तत्वात्; अतोऽभ्याख्यानं दत्त्वा सम्यग् 'अप्रतिपूरयन्' अनिर्वाहयन् आत्मनःप्रत्यङ्गिरांकरोति, तं दोषमात्मनो लगयतीत्यर्थः॥ कृता विषमपदव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तरः[भा.६१३३] छच्चेव य पत्थारा, पाणवह मुसे अदत्तदाने य। अविरति-अपुरिसवाते, दासावातंच वतमाणे॥ वृ-षडेवप्रस्ताराः भवन्ति तद्यथा-प्राणवधवादं मृषावादवादंअदत्तादानवादमविरतिकावादमपरुषवादं दासवादं च वदति इति । तत्र प्राणवधवादे प्रस्तारं तावदभिधित्सुराह[भा.६१३४] दद्दुर सुणए सप्पे, मूसग पाणातिवादुदाहरणा। एतेसिं पत्थारं, वोच्छामि अहानुपुव्वीए॥ वृ-प्राणातिपाते एतानि 'उदाहरणानि' निदर्शनानि भवन्ति-दर्दुरःशुनकः सर्पो मूषकश्चेति। "एतेषाम्' एतद्विषमयमित्यर्थः 'प्रस्तारं प्रायश्चित्तरचनाविशेषं यथानुपूर्व्या वक्ष्यामि॥ तत्र दर्दुरविषयं तावदाह[भा.६१३५] ओमो चोदिजंतो,दुपहियादीसु संपसारेति। अहमविनंचोदिस्सं, न य लमति तारिसं छेड़ें। वृ-'अवमः' अवमरालिको रालिकेन दुःप्रत्युपेक्षितादिषु स्खलितेषु भूयोभूयो नोद्यमानः 'सम्प्रसारयति' मनसि पर्यालोचयति-अहमपि “णं" एनं रालिकंनोदयिष्यामि। एवं पर्यालोच्य प्रयत्नेन गवेषयन्नपि ताशं छिद्रं रानिकस्य न लभते॥ [भा.६१३६] अन्नेण घातिए दगुरम्मि दट्ठचलणं कतं ओमो। उद्दवितो एस तुमे, न मि त्ति बितियं पिते नत्थी॥ वृ-अन्यदा च भिक्षादिपर्यटने अन्येन केनापि ददुरे घातिते रालिकेन च तस्योपरि 'चलनं' पाद कृतं दृष्टवाऽवमो ब्रवीति-एष दर्दुरस्त्वयाऽपद्रावितः । रालिको वक्ति-तमयाऽपद्रावितः। For Page #364 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं- १९७, [भा. ६१३६ ] अवमः प्राह- 'द्वितीयमपि' मृषावादव्रतं 'ते' तव नास्ति ।। एवंभणतस्तस्येयं प्रायश्चित्तरचना[ भा. ६१३७] वच्चति भणाति आलोय निकाए पुच्छिते निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ [भा. ६१३८ ] मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ वृ- स एवमुक्त्वा ततो निवृत्त्याऽऽचार्यसकाशं व्रजति मासलघु । आगत्य भणति यथा-तेन दर्दुरो मारितः, एवंभणतो मासगुरु । योऽसावभ्याख्यातः स गुरूणां सकाशमागतः, आचार्यैश्वोक्तम्"आलोय "त्ति आर्य ! सम्यगालोचय, किं सत्यं भवता दर्दुरो मारितः ? ; स प्राह-न मारयामि, एवमुक्तेऽभ्याख्यानदातुश्चतुर्लघु। “निकाए”त्ति इतरो निकाचयति रानिकस्तु भूयोऽपि तावदेव भणति तदा चतुर्गुरु । अवमरात्निको भणति-यदि न प्रत्ययस्ततस्तत्र गृहस्थाः सन्ति ते पृच्छयन्ताम्, ततो वृषभा गत्वा पृच्छन्ति, पृष्टे च सति षड्लघु । गृहस्थाः पृष्टाः सन्तः “निसिद्धं” निषेधं कुर्वन्तिनास्माभिर्दर्दुरव्यपरोपणं कुर्वन् दृष्ट इति षड्गुरु । “साहु"त्ति ते साधवः समता आलोचयन्ति नापद्रावित इति तदा छेदः । “गिहि” त्ति अथासावभ्याख्यानदाता भणति - 'गृहस्थाः' असंयता यत् प्रतिभासते तद् अलीकं सत्यं वा ब्रुवते, एवंभणतो मूलम् । अथासौ भणति "मिलिय”त्ति गृहस्थाश्च यूयं चैकत्र मिलिता अहं पुनरेक इतिब्रुवतोऽनवस्थाप्यम् । सर्वेऽपि यूयं प्रवचनस्य बाह्या इतिभणतः पाराञ्चिकम्। एवमुत्तरोत्तरं वदतः पाराञ्चिकं यावत् प्रायश्चित्तप्रस्तारो भवति ।। अथेदमेव भावयति [भा. ६१३९] किं आगओ सि नाहं अडामि पाणवहकारिणा सद्धिं । सम्म आलोय त्ति य, जा तिन्नि तमेव वियडेति ॥ ३६१ वृ- रानिकं विना स एकाकी समायातो गुरुभिरुक्तः किमेकाकी त्वमागतोऽसि ? । स प्राहनाहं प्राणवधकारिणा सार्द्धमटामि । एवमुक्ते रानिक आगतो गुरुभिरुक्तः सम्यगालोचय, कोsपि प्राणी त्वया व्यपरोपितः ? न वा ? इति । स प्राह-न व्यपरोपितः । एवं त्रीन् वारान् यावदालोचाप्यते । यदि त्रिष्वपि वारेषु तदेव 'विकटयति' आलोचयति तदा परिस्फुटमेव कथ्यते । [भा. ६१४०] तुम किर दहुरओ, हओ त्ति सो वि य भणाति न मए त्ति । तेन परं तु पसंगो, धावति एक्के व बितिए वा ॥ वृ-किल इति द्वितीयस्य साधोर्मुखादस्माभिः श्रुतम् त्वया दर्दुरः 'हतः' विनाशितः । स प्राहन मया हत इति । 'ततः परम्' एवंभणनानन्तरं 'प्रसङ्गः ' प्रायश्चित्तवृद्धिरूपः 'एकस्मिन्' रानिके 'द्वितीये वा' अवमरानिके धावति । किमुक्तं भवति ? -यदि तेन रालिकेन सत्यनैव दर्दुरो व्यपरोपितः ततो यदि ‘सम्यगालोचय' इतिभण्यमानो भूयो भूयो निह्नुते तदा तस्य प्रायश्चित्तवृद्धिः । अथ तेन न व्यपरोपितः ततः 'इतरस्य' अभ्याख्यानं निकाचयतः प्रायश्चित्तं वर्द्धते ॥ इदमेव भावयति [भा. ६१४१] एक्कस्स मुसावादो, काउं निण्हाइणो दुवे दोसा । तत्थ वि य अप्पसंगी, भवति य एक्को व एक्को वा ॥ वृ- 'एकस्य' अभ्याख्यानदातुरेक एव मृषावादलक्षमो दोषः । यस्तु दर्दुरवधं कृत्वा निह्नुते I Page #365 -------------------------------------------------------------------------- ________________ ३६२ बृहत्कल्प-छेदसूत्रम् -३-६/१९७ तस्य द्वौ दोषौ-एकः प्राणातिपातदोषो द्वितीयो मृषावाददोष इति । तत्रापि च' अभ्याख्याने प्राणातिपाते वा कृतेऽपि ‘एको वा' अवमरालकः ‘एको वा' रालिको यदि अप्रसङ्गी भवति तदा न प्रायश्चित्तवृद्धिः । किमुक्तं भवति?-यदि अवमरालिकोऽभ्याख्यानं दत्त्वा न निकाचयति यो वाऽभ्याख्यातः सोऽपिन रुष्यतितदान प्रायश्चित्तवृद्धिः। अथाभ्याख्याताभूयो भूयः समर्थयति इतरोऽपि भूयो भूयो रुष्यति तदा प्रायश्चित्तवृद्धि । एवं दर्दुरविषयः प्रस्तारो भावितः । शुनकसर्प-मूषकविषया अपि प्रस्तारा एवमेव भावनीयाः॥ गतः प्राणातिपातप्रस्तारः। सम्प्रति मृषावादा-ऽदत्तादानयोः प्रस्तारमाह[भा.६१४२] मोसम्मि संडीए, मोयगगहणं अदत्तदानम्मि। आरोवणपत्थारो, तंचेव इमं तु नाणतं॥ वृ-मृषावादे सङ्घडीविषयं निदर्शनम्।अदत्तादाने मोदकग्रहणम् । एतयोईयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः । इदं तु 'नानात्वं' विशेषः॥ [भा.६१४३] दीन-कलुणेहि जायति, पडिसिद्धो विसति एसणं हणति। जंपति मुहप्पियाणिय, जोग-तिगिच्छा-निमित्ताई॥ वृ- कस्यामपि सङ्घड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्-व्रजामः सङ्घड्याम्, इदानीं भोजनकालः सम्भाव्यते।अवमोभणति-प्रतिषिद्धोऽहं न व्रजामि । ततोऽसौ निवृत्त्याऽऽचार्यायेदमालोचयति, यथा-अयं दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां च ‘हन्ति' प्रेरयति, अथवा एष गृहं प्रविष्टो मुखप्रियाणि योग-चिकित्सा-निमित्तानि जल्पति । एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति॥ [भा.६१४४] वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य। साहु गिहि मिलियसव्वे, पत्यारोजाव वदमाणे ॥ [भा.६१४५] मासो लहुओ गुरुओ, चउरो लहुगय होति गुरुगा य। छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ गाथाद्वयमपि गतार्थम् ।।अथादत्तादाने मोदकग्रहणदृष्टान्तं भावयति[भा.६१४६] जा फुसति भाणमेगो, बितिओ अन्नत्थ लड्डुते ताव। लभ्रूण नीति इयरो, ते दिस्स इमं कुणति कोई॥ वृ-एकत्र गेहे भिक्षा लब्धा, साचावमेन गृहीता यावद् असौ एकः' अवमरालिको भाजनं 'स्पृशति' सम्मार्टि तावद् 'द्वितीयः' रत्नाधिकः ‘अन्यत्र' सङ्खड्यां लड्डका लब्धवान्, लब्ध्वाच निर्गच्छति । 'इतरःपुनः' अवमः 'तान्' मोदकान् दृष्टवा कश्चिदीष्यात॒रिदं करोति॥ किम् ? इत्यत आह[भा.६१४७] वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१४८] मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगाय । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच॥ वृ“वच्चइ"त्तिसनिवृत्त्य गुरुसकाशंव्रजति।आगम्य च भणतिआलोचयति-रलाधिकेनादत्ता Page #366 -------------------------------------------------------------------------- ________________ ३६३ उद्देशकः ६, मूलं-१९७, [भा. ६१४८] मोदका गृहीता इति । शेषं प्राग्वत् ॥अथाविरतिकावादे प्रस्तारमाह[भा.६१४९] रातिनितवाइतेनं, खलिय-मिलिय-पेल्लणाए उदएणं। देउल मेहुन्नम्,ि अब्भक्खाणं कुडंगे वा ॥ वृ- कश्चिदवमरानिको रत्नाधिकेनाभीक्ष्णं शिष्यमाणश्चिन्तयति-एषः रत्नाधिकवातेन' 'रलाधिकोऽहम्' इति गर्वेण मांदशविधचक्रवालसामाचार्यामस्खलितमपिकषायोदयेनतर्जयति, यथा-हे दुष्टशैक्षक ! स्खलितोऽसीति । तथा मां निम्नतरमपि पदं पदेन विच्छिन्नं सूत्रमुच्चारयन्तं 'हा दुष्टशैक्ष ! किमिति मिलितमुच्चारयसि ?' इति तर्जयति । तथा “पेल्लण"त्ति अन्यैः साधुभिर्वार्यमाणोऽपि कषायोदयतोमा हस्तेन प्रेरयति।अथवैषा सामाचारी-रत्नाधिकस्य सर्वं क्षन्तव्यमिति, ततस्तथा करोमि यथा एष मम लघुको भवन्ति । ततोऽन्यदा द्वावपि भिक्षाचर्याय गतौ, तौ च तृषितौ बुभुक्षितौ चेत्येवं चिविन्तवन्तौ-अस्मिन् आर्यादेवकुले 'कुडङ्गेवा' वृक्षविषमे प्रथमालिकां कृत्वा पानीयं पास्याम इति; एवं चिन्तयित्वा तौ तदभिमुखं प्रस्थितौ । अत्रान्तरेऽवमरत्नाधिकः परिव्राजिकामेकांतदभिमुखमागच्छन्तीं देष्टवास्थितः, लब्दएष इदानीम्' इति चिन्तयित्वा तं रत्नाधिकं वदति-अहो ज्येष्ठार्य! कुरु त्वं प्रथमालिकां पानीयं वा, अहं पुनः संज्ञां व्युत्स्रक्ष्यामि ॥ एवमुक्त्वा त्वरितं वसतावागत्य मैथुनेऽभ्याख्यानं दातुंयथा आलोचयति तथा दर्शयति[भा.६१५०] जेट्ठजेण अकजं, सज्जं अज्जाघरे कयं अजं । उवजीवितो य भंते!, मए विसंसट्ठकप्पोऽत्य ।। वृ- ज्येष्ठार्येणाद्य ‘सद्यः' इदानीमार्यागृहे कृतं 'अकार्य मैथुनसेवालक्षणम्, ततो भदन्त ! तत्संसर्गतो मयाऽपि ‘संसृष्टकल्पः' मैथुनप्रतिसेवा 'अत्र' अस्मिन् प्रस्तावे उपजीवितः॥ अत्राप्ययं प्रायश्चित्तप्रस्तारः[भा.६१५१] वच्चति भणाति आलोय निकाए पुच्छिए निसिद्धे य। साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१५२] मासो लहुओ गुरुओ, चउरो लहुगा यहोति गुरुगाय। छम्मासा लहु-गुरुगा, छेदो मूलं तह दुर्गच ॥ वृ-अवमरात्निको निवृत्त्य गुरुसकाशं व्रजति लघुमासः।आगम्य च गुरून् भणति-ज्येष्ठार्येण मया चाकृत्यमासेवितम्, अतोममतावद्महाव्रतान्यारोपयत;एवंरलाधिकस्यलघूभवनाभिप्रायेण भणतो गुरुमासः । रत्नाधिक आगतः सूरिणा भणितः-किं स्वया संसृष्टकल्प आसेवितः ? स प्राह-नासेवितः, ततश्चतुर्लघु । इतरो निकाचयति चतुर्गुरु इत्यादा प्राग्वद् द्रष्टव्यम् ।। गतोऽवितरिकावादः । अथापुरुषवादमाह[भा.६१५३] तइओ त्ति कधं जाणसि, दिट्ठा नीयो से तेहि मी वुत्तो। वट्टति ततिओ तुब्मं, पव्वावेतुं मम वि संका।। . वृ-कोऽपि साधुस्ततैव छिद्रान्वेषी भिक्षातो निवृत्य रत्नाधिकमुद्दिश्याऽऽचार्य भणति-एष साधुः ‘तृतीयः' त्रैराशिकः । आचार्य प्राह-कथं जानासि ? । स प्राह-मयैतस्य निजका दृष्टाः तैरहमुक्तः-वर्तते युष्माकं तृतीयः प्रव्राजयितुम् ?; ततो ममापि हृदये शङ्का जाता ॥अपि च 1 Forer Page #367 -------------------------------------------------------------------------- ________________ ३६४ बृहत्कल्प-छेदसूत्रम् -३-६/१९७ [भा.६१५४] दीसति य पाडिरूवं, ठित-चंकम्मित-सरीर-भासाहिं। - बहुसो अपुरिसवयणे, सवित्थराऽऽरोवणं कुजा ॥ वृ-अस्य साधोः प्रतिरूपं नपुंसकानुरूपंरूपंस्थित-चङ्कमित-शरीर-भाषादिभिलक्षणैर्दश्यते। एवं बहुशः ‘अपुरुषवचने' नपुंसकवादे वर्तमानस्य सविस्तरामारोपणां कुर्यात् ।। तद्यथा[भा.६१५५] वच्चति भमाति आलोय निकाए पुच्छिए निसिद्धेय। साहु गिहि मिलिय सव्वे, पत्यारोजाव वयमाणे॥ [भा.६१५६] मासोलहुओ गुरुओ, चउरो लहुगा यहोति गुरुगा य। छम्मासा लहु गुरुग, छेदो मूलं तह दुगंच॥ वृ-सनिवृत्त्य एकाकी प्रतिश्रयं व्रजति लघुमासः आगतो गुरून् भणति-एष साधुस्त्रराशिक एतदीयसज्ञातकैरुक्तः, अत्र गुरुमासः। शेषं प्राग्वत् ॥ अथ दासवादमाह[भा.६१५७] खरओ त्ति कहं जाणसि, देहायारा कहिंति से हंदी!। छिक्कोवण उब्भंडो, नीयासी दारुणसभावो। वृ-कोऽपिसाधुस्तथैव रत्नाधिकमुद्दिश्याचार्य भणति-अयंसाधुः 'खरकः' दास इति।आचार्य आह-कथं जानासि? ।इतरः प्राह-एतदीयनिजकैर्मम कथितम् । तथा 'देहाकाराः कुजतादयः "से" तस्य "हंदी" इत्युपप्रदर्शने दासत्वं कथयन्ति । तथा “छिक्कोवण"त्ति शीघ्रकोपनोऽयम्, "उब्भंडोनाम" असंवृतपरिधानादि, 'नीचासी नीचतरे आसने उपवेशनशीलः, दारुणस्वभाव इति प्रकटार्थम् ॥अथ "देहाकार"त्ति पदं व्याख्याति[भा.६१५८] देहेन वा विरूवो, खुज्जो वडभो य बाहिरप्पादो। फुडमेव से आयारा, कहिंतिजह एस खरओ ति ॥ वृ-सपाह-देहेनाप्ययंविरूपः, तद्यथा-कुब्जोवडमो बाह्यपादोवा। एवमादयस्तसायऽऽकाराः स्फुटमेव कथयन्ति, यथा-एषः 'खरकः' दास इति ॥अथाऽऽचार्य प्राह[भा.६१५९] केइ सुरूव दुरूवा, खुजा वडभा य बाहिरप्पाया। नहुते परिभवियव्वा, वयणं व अनारियं वोत्तुं॥ वृ-इहनामकर्मोदयवैचित्र्यतः केचिद्' नीचकुलोत्पन्नाअपिदासादयः सुरूपाभवन्ति, केचित् तु' राजकुलोत्पन्ना अपि दूरूपाः भवन्ति, तथा कुब्जा वडभा बाह्यपादा अपि भवन्ति, अतः 'नहि नैव ते परिभवितव्याः 'अनार्यं वा वचनं' 'दासोऽयम्' इत्यादिकं वक्तुं योग्याः॥ अत्रापि प्रायश्चित्तप्रस्तारः[भा.६१६०] वचति भणाति आलोय निकाए पुच्छिए निसिद्ध य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१६१] मासो लहुओ गुरुओ, चउरो लहुगा यहोति गुरुगा य । छम्मासा लहु गुरुगा, छेदो मूलं तहदुगंच॥ वृ-व्याख्या प्राग्वत् ॥गतो दासवादः । अथ द्वितीयपदमाह[भा.६१६२] बिइयपयमणाभोगे, सहसा वोत्तूण वा समाउट्टे । जाणंतो वा वि पुनो, विविंचणट्ठा वदेज्जा वि।। Page #368 -------------------------------------------------------------------------- ________________ ३६५ उद्देशकः ६, मूलं-१९७, [भा. ६१६२] वृ-द्वितीयपदे अनाभोगेन सहसा वा प्राणवधादिविषयं वादमुक्त्वा भूयः 'समावरतेत' प्रत्यावर्तेत, मिथ्यादुष्कृतमपुनः करणेन दद्यादित्यर्थः । अथवा जाननपि, पुनःशब्दो विशेषणे, सचैतद् विशिनष्टि-योऽयोग्यःशैक्षः । प्रव्राजितस्तस्यविवेचनार्थं प्राणातिपादादिवादमपिवदेद् येनासावुद्वेजितो गणा निर्गच्छति॥ मू. (१९८)निग्गंथस्सय अहेपादंसि क्खाणू वा कंटगे वा हीरे वा सक्करे वा परियावजेजा, तं च निरगंथे नो संचाइजा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कम ॥ मू. (१९९) निग्गंथस्स य अचिंसि पाणे वा बीए वा रए वा परियावजेजा, तंच निग्गंथे नो संचाइज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणीवा विसोहेमाणी वा नाइक्कमइ॥ मू. (२००)निग्गंथीए अहेपादंसि क्खाणू वा कंटए वा हीरए वा सक्करे वा परियावजेजा, तं च निग्गंथी नो संचाइजा नीहरित्तए वा विसोहित्तए वा, तंच निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ ॥ मू. (२०१)निग्गंधीएअञ्ििसपाने वा बीए वारएवाजावनिग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ॥ वृ-अस्य सूत्रचतुष्टयस्य सम्बन्धमाह[भा.६१६३] पायं गता अकप्पा, इदानि वा कप्पिता इमे सुत्ता । ___ आरोवणा गुरु त्तिय, तेन तु अन्नोन्न समणुना॥ वृ-'प्रायः' प्रायेण 'अकल्पिकानि' 'नो कल्पन्ते' इति निषेधप्रतिपादकानि सूत्राणि इहाध्ययने गतानि । 'इदानीम्' इत ऊर्द्धवमिमानि कल्पिकसूत्राणि भण्यते । 'वा' विभाषायाम्, सूत्रेणानुज्ञायार्थतः प्रतिषेधः क्रियते, एवं वैकल्पिकान्यनुज्ञासूत्राणीत्यर्थः । अथ किमर्थमत्र सूत्रएवानुज्ञा कृता? इत्याह-"आरोवणा" इत्यादि। यदि कारणे निर्ग्रन्थस्यन निर्ग्रन्थी निर्ग्रन्थ्या वा निर्ग्रन्थः कण्डकादिकं न नीहरति तदा चतुर्गुरु । एवमारोपणा 'गुरुका' महती तेन कारणेन 'अन्योन्यं' परस्परं समनुज्ञा सूत्रेषु कृता॥ आह-यदि सूत्रेणानुज्ञातं ततः किमर्थमर्थतः प्रतिषिध्यते? इति अत आह[भा.६१६४] जह चेव य पडिसेहे, होति अनुन्ना तु सव्वसुत्तेसु । तह चेव अनुन्नाए, पडिसेहो अत्थतो पुव्वं ॥ वृ-यथैव कण्ठतः सूत्रपदैः प्रतिषेधे कृते सर्वसूत्रेष्वप्यर्थतोऽनुज्ञा भवति तथैव येषु सूत्रेषु साक्षात् 'अनुज्ञातम्' अनुज्ञा कृता तेषु पूर्वमर्थतः प्रतिषेधस्ततोऽनुज्ञा क्रियते॥ अथवा प्रकारान्तरेण सम्बन्धः, तमेवाह[भा.६१६५] तट्ठाणं वा वुत्तं, निग्गंथो वाजता तु न तरेजा। सोजं कुणति दुहट्टो, तदा तुतट्ठाणमावज्जे ।। वृ- अथवा 'तत्स्थानं' तस्य-प्राणातिपातादिकर्तु स्थानं-प्रायश्चित्तं सम्यगप्रतिपूरयतोऽभ्याक्यानदातुर्भवति इत्युक्तम् । अत्रापि निर्ग्रन्थः कण्टकादिकं यदा उद्धर्तुं 'नतरेत्' न शक्नुयात् तदा यदि निर्ग्रन्थी तस्य कण्टकादिनीहरणं न करोति तदा स निर्ग्रन्थः 'दुःखार्त' पीडितो यद् Page #369 -------------------------------------------------------------------------- ________________ ३६६ बृहत्कल्प-छेदसूत्रम् -३-६/२०१ आत्मविराधनां संयमविराधनां वा करोति 'तत्स्थान' तन्निष्पन्नं प्रायश्चित्तं सा निर्ग्रन्थी आपद्यते। अत इदं सूत्रमारभ्यते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थस्ये 'अधःपादे' पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा 'पर्यापतेत्' अनुप्रविशेत्, 'तच्च' कण्टकादिकं निर्ग्रन्थो न शक्नुयात् 'नीहर्तुवा' निष्काशयितुंवा 'विशोधयितुंवा' निशेषमपनेतुम्, तनिर्ग्रन्थीनीहरन्ती वा विशोधयन्ती वा नातिकामति, आज्ञामिति गम्यते इति प्रथमसूत्रम्॥ द्वितीयसूत्रे-निर्ग्रन्थस्य अक्षिण' लोचने 'प्राणावा' मशकादयः सूक्ष्माः ‘बीजानि वा सूक्ष्माणि श्यामाकादीनि ‘रजो वा' सचित्तमचित्तं वा पृथिवीरजः ‘पर्यापतेत्' प्रविशेत्, ‘तच्च प्राणादिकं निर्ग्रन्थोनशक्नुयात्रीहर्तुमित्यादिप्राग्वत्॥ तृतीय-चतुर्थसूत्रेनिग्रन्थीविषये एवमेव व्याख्यातव्ये। इति सूत्रचतुष्टयार्थः ॥अथ नियुक्तिविस्तरः[भा.६१६६] पाए अच्छि विलग्गे, समणाणं संजएहि कायव्वं । समणीणं समणीहिं, वोच्चत्थे होंति चउगुरुगा॥ वृ-पादे अक्षिण वा विलग्ने कण्टक-कणुकादौ श्रमणानां संयतैर्नीहरणं कर्तव्यम्, श्रमणीनां पुनः श्रमणीभि कार्यम् । अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः ॥एते चापरे दोषाः[भा.६१६७] अन्नत्तो चिय कुंटसि, अन्नत्तो कंटओ खतं जातं । दिलृ पि हरति दिद्धिं, किं पुन अद्दिट्ठ इतरस्स ॥ वृ-संयतः संयत्याः पावत् कण्टकमाकर्षयन् कैतवेन यथाभावेन वा अपावृत उपविशेत् ततःसातंतथास्थितंपश्यन्ती कणटकस्थानादन्यत्रान्यत्रशल्योद्धरणादिनाकुण्टयेत, खन्यादित्यर्थः। ततः साधुइँयात्-अन्यत एव त्वं कुण्टयसि कण्टकश्चान्यत्र समस्ति एवं मे क्षतं सजातम् । सा प्राह-'इतरस्य' पुरुषस्य सम्बन्दि सागारिं दृष्टमपि भुक्तभोगिन्याः स्त्रयाअनेकशो विलकितमपि दृष्टिं हरति किं पुनरदृष्टमभुक्तभोगिन्याः?, तस्याः सुतरां दृष्टिं हरतीत्यर्थः । एवं भिन्नकथायां प्रतिगमनादयो दोषाः ॥ यदा तु निर्ग्रन्थो निर्ग्रन्थ्याः कण्टकमुद्धरति तदाऽयं दोषः[भा.६१६८] कंटग-कणुए उद्धर, धणितं अवलंब मे भमति भूमी। सूलं च बत्थसीसे, पेल्लेहि घनं थणो फुरति॥ . वृ-काचिदार्यिका कैतवेनेदं ब्रूयात्-'कण्टक-कणुके' पादे कण्टकं चक्षुषि च कणुकमुद्धर, 'धनियं' अत्यर्थं मामवलम्बस्व, यतो ममभ्रमिवशेन भूमिभ्रमति।शूलंवा बस्तिशीर्षेमम समायाति तेन स्तनः स्फुरति, अतो घनं प्रेरय । एवं भिन्नकथायां सद्यश्चारित्रविनाशः॥ [भा.६१६९] एए चेव य दोसा, कहिया थीवेद आदिसुत्तेसु। अयपाल-जंबु-सीउण्हपाडणं लोगिगी रोहा॥ वृ- ‘एत एव' अनन्तरोक्ता दोषाः स्त्रीवेदविषयाः ‘आदिसूत्रेषु' सूत्रकृताङ्गान्तर्गतस्त्रपरिज्ञाध्ययनादिषुसविस्तरं कथिताः।अत्रचाजापालक-शीतोष्ण-जम्बूपातनोपलक्षितालौकिकी रोहायाः कथा। तद्यथा-रोहा नामं परिव्वाइया ।ताए अयावालगो दिट्ठो। सो ताए अभिरुईओ। तीए चिंतियं-विन्नाणं से परिक्खामि।सोय तया जंबूतरुवरारूढो । तीए फलाणिपणईओ।तेन भन्नई-किंउण्हाणिदेमि? उयाहु सीयलाणि? ति।तीए भन्नइ उण्हाणि ।तओ तेन घूलीए उवरिं पाडियाणि, भणिया-खाहि त्ति । तीए फूमिउं धूलिं अवनेउं खइयाणि । पच्छा सा भणइ-कहं Page #370 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-२०१, [भा. ६१६९] ३६७ भणसि उण्हाणि? । तेन भन्नइ-जं उण्हयं होइ तं फूमिउं सीयलीकज्जइ । सा तुट्ठा । पच्छा भणति माइट्ठाणेणं-कंटओ मे लग्गो त्ति । सो उद्धरिउमारद्धो । तीए सणियंसणियं हासियं । सो वि तुसिणीओ कंटगं पुलोएत्ता भणइ-न दीसइ कंटगो त्ति । तीए तस्स पण्ही दिन्ना । एवं सो कइयवकंटउद्धरणेणं तीए खलीकओ। एवं साहुणो वि एवंविहा दोसा उप्पजंति ।। किञ्च[भा.६१७०] मिच्छत्ते उड्डाहो, विराधना फास भावसंबंधो। पडिगमनादी दोसा, भुत्तमभुत्ते य नेयव्वा ॥ . वृ-मिथ्यात्वं नाम-निर्ग्रन्थ्याः कणटकमुद्धरन्तं संयतं दृष्ट्वा लोको ब्रूयात्-यथा वादिनस्तथा कारिणोऽमीन भवन्ति ।उड्डाहो वा भवेत्-अहो! यद् एवमियंपादे गृहीतात नूनमन्यदाऽप्यनयोः साङ्गत्यं भविष्यति।विराधना वा संयमस्य भवति, कथम्? इत्याह-'स्पर्शतः' शरीरसंस्पर्शेनोभयोरपि भावसम्बन्धो भवति।ततो भुक्तभोगिनोरभुक्तभोगिनोर्वा तयोः प्रतिगमनादयो दोषा ज्ञातव्याः। अथ मिथ्यात्वपदं भावयति[भा.६१७१] दिढे संका भोइय, घाडिग नातीय गामबहिया य। चत्तारिछच्च लहु गुरु, छेदो मूलं तह दुगंच॥ वृ-तस्याः कण्टकमुद्धरन् केनचिद् दृष्टः, तस्य च 'शङ्का' 'किं मन्ये मैथुनार्थम्?' इतिलक्षणा यदि भवेत् तदा चतुर्लघु । भोजिकायाः कथने चतुर्गुरु । घाटितनिवेदने षड्लघु । ज्ञातिज्ञापने षड्गुरु । ग्रामा बहि कथने च्छेदः॥ [भा.६१७२] आरक्खियपुरिसणं, तु साहणे पावती भवे मूलं। अनवट्ठो सेट्ठीणं, दसमंच निवस्स कधितम्मि॥ वृ- मूलादित्रयं पुनरित्थं मन्तव्यम्- आरक्षिकपुरुषाणां कथने मूलं प्राप्नोति । श्रेष्ठिनः कथितेऽनवस्थाप्यं भवेत् । नृपस्य कथने 'दशमं' पाराञ्चिकम् । एते संयतानां संयतीनां च परस्परं कण्टकोद्धरणे दोषा उक्ताः॥ [भा.६१७३] एए चेव य दोसा, अस्संजतिकाहि पच्छकम्मंच। गिहिएहि पच्छकम्म, तम्हा समणेहि कायव्वं ॥ वृ-एत एव दोषाअसंयतिकाभि कण्टकोद्धरणं कारयतो मन्तव्याः, पश्चात्कर्मचअप्कायेन हस्तप्रक्षालनरूपं तासु भवति । गृहिभिस्तु कारयतः पश्चात्कर्म भवति न पूर्वाक्ता दोषाः । अतः श्रमणैः श्रमणानां कण्टकोद्धरणं कर्तव्यम्।। अत्र परः प्राह[भा.६१७४] एवंसुत्तं अफलं, सुत्तनिवातो तुअसति समणाणं । गिहि अन्नतिथि गिहिणी, परउत्थिगिणी तिविह भेदो॥ वृ- यदि संयतीभिः न कारयितव्यं तत एवं सूत्रमफलं प्राप्नोति । सूरिराह-सूत्रनिपातः श्रमणानामभावेमन्तव्यः । तत्रचप्रथमंगृहिभिकण्टकोद्धरणं कारणीयम्, तदभावेऽन्यतीर्थिकैः, तदप्राप्तौ गृहस्थाभिः, तदसम्भवे परतीर्थिकीभिरपि कारयितव्यम् । एषुच प्रत्येकं त्रिविधो भेदः। तद्यथा गृहस्थस्त्रिविधः-पञ्चात्कृतः श्रावको यथाभद्रकश्च। एवंपरतीर्थिकोऽपि त्रिधा मन्तव्यः। गृहस्था परतीर्थिकी च त्रिविधा-स्थविरा मध्यमा तरुणी चेति । तत्र गृहस्थेन कारयन् प्रथम पश्चात्कृतेन, ततः श्रावकेण, ततो यथाभद्रकेणापि कारयति । स च कण्टकाकर्षणानन्तरं Page #371 -------------------------------------------------------------------------- ________________ ३६८ बृहत्कल्प-छेदसूत्रम् - ३-६/२०१ प्रज्ञापनीयः :-मा हस्तप्रक्षालनं कार्षी। एवमुक्ते यद्यसावशौचवादी तदा हस्तं हस्तेनैव प्रोञ्छति प्रस्फोटयति वा ॥ अथ शौचवादी ततः [भा. ६१७५] जइ सीसम्मि न पुंछति, तनु पोत्तेसु व न वा वि पप्फोडे । तोसि अन्नेस असति, दवं दलंति मा वोदगं घाते ॥ - यदि हस्तं शीर्षे वा तनौ वा 'पोतेषु वा' वस्त्रषु न प्रोञ्छति न वा प्रस्फोटयति 'गृहे गतो हस्तं प्रक्षालयिष्यामि' इति कृत्वा, ततः “से” तस्य अन्येषाम् 'असति' अभावे प्राशुकमात्मीयं द्रवं हस्तधावनाय ददति, मा 'उदकम् ' अप्कायं घातयेदिति कृत्वा । गृहस्थानामभावे परतीर्थिकेनापि कारयन् एवमेव पश्चात्कृतादिक्रमेण कारयेत् । तेषामभावे गृहस्थाभिरपि कारयेत् ॥ कथम् ? इत्याह [भा. ६१७६ ] माया भगिनि धूया, अज्जिय नत्तीय सेस तिविधाओ । आगाढे कारणम्मिं, कुसलेहिं दोहि कायव्वं ॥ वृ- या तस्य निर्ग्रन्थ माता भगिनी दुहिता वा 'अर्यिका वा' पितामही 'नप्त का वा' पौत्री तया कारितव्यम् । एतासामभावे याः 'शेषाः' अनालब्धाः स्त्रयस्ताभिरपि कारयेत् । ताश्च त्रिविधाःस्थविरा मध्यमास्तरुण्यश्च । तत्र प्रथमं स्थविरया, ततो मध्यमया, ततस्तरुण्याऽपि कारयितव्यम् । आगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं कर्तव्यम्, कारयितव्यमित्यर्थः ॥ के पुनस्ते द्वे ? इत्याह [भा. ६१७७] गिहि अन्नतित्थि पुरिसा, इत्थी वि य गिहिणि अन्नतित्थीया । संबंधि एतरा वा, वइणी एमेव दो एते ॥ वृ-गृहस्थपुरुषोऽन्यतीर्थिकपुरुषश्चेति द्वयम्, गृहस्थी अन्यतीर्थिकी चेति वा द्वयम्, सम्बन्धिनी 'इतरा वा' असम्बन्धिनी व्रतिनी एवं वा द्वयम् । एतेषां द्विकानामन्यतरेण कुशलेन आगाढे कारणे कारयितव्यम् ।। आह- 'श्रमणानामभावे सूत्रनिपातो भवति' इत्युक्तम्, कदा पुनरसौ साधूनामभावो भवति ? इत्याह [भा. ६१७८] तं पुन सुन्नार, दुट्ठारने व अकुसलेहिं वा । कुसले वा दुरत्थे, न चएइ पदं पि गंतुं जे ॥ वृ- 'साधवो न भवन्ति' इति यदुक्तं तत् पुनरित्यं सम्भवति 'शून्यारण्यं' ग्रामादिभिर्विरहिता अटवी, 'दुष्टारण्यं वा' व्याघ्र - सिंहादिभयाकुलम्, एतयोः साधूनामभावो भवेत् । उपलक्षणत्वाद् अशिवादिभिः कारणैरेकाकी सञ्जत इत्यपि गृह्यते । एषा साधूनामसदसत्ता । सदसत्ता तु सन्ति साधवः परमकुशलाः-कण्टकोद्धरणेऽदक्षाः, अथव यः कुशलः सः 'दूरस्थः' दूरे वर्तते, सच कण्टकविद्धपादः पदमपि गन्तुं न शक्नोति ततः पूर्वोक्ता यतना कर्तव्या ॥ अथ सामान्येन यतनामाह [भा. ६१७९] परपक्ख पुरिस गिहिणी, असोय-कुसलाण मोत्तु पडिवक्खे । पुरिस जयंत मणुन्ने, होंति सपक्खेतरा वा तू ॥ वृ- इहप्रथमं पश्चार्द्ध व्याख्याय ततः पूर्वार्द्धव्याख्यास्यते । ये 'यतमानाः' संविग्नाः साम्भोगिकाः पुरुषास्तैः प्रथमं कारयेत्, तदभावे अमनोज्ञैः - असाम्भोगिकैः, तदभावे ये इतरे- पार्श्वस्थादयस्तैर्वा Page #372 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-२०१, [भा. ६१७९] ३६९ कारयेत् । एषा स्वपक्षे यतना भणिता । अथैष स्वपक्षो न प्राप्यते ततः “परपक्खे”त्यादि पूर्वार्द्धम्‘परपक्षे' गृहस्था-ऽन्यतीर्थिकरूपे प्रथमं पुरुषैः, ततः 'गेहिनीभिः' स्त्रभिरपि कारयेत्, तत्राप्यशौचवादिभि कुशलैश्च कारापणयम् । अत एवाह-अशौचवादि-कुशलानां 'प्रतिपक्षाः ' ये शौचवादिनोऽकुशलाश्च तान् मुक्त्वा कारयितव्यम् । अथैतेऽपि न प्राप्यन्ते तदा संयतीभिरपि कारयेत्, तत्रापि प्रथमं मातृभगिन्यादिभिर्नालब्धाभि, तद्भावेऽसम्बन्धिनीभिरि स्थविरा-मध्यमातरुणीभिर्यथाक्रमं कारयेत् ॥ कथं पुनस्तया कण्टक उद्धरणीयः ? इत्याहसल्लुद्धर नक्खेण व, अच्छिव वत्थंतरं व इत्थीसु । भूमी - कट्ठ-तलोरुसु, काऊण सुसंवुडा दो वि ॥ [ भा. ६१८० ] वृ- शल्योद्धरणेन नखेन वा पादमस्पृशन्ती कण्टकमुद्धरति । अथैवं न शक्यते ततो वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा ताले पा ऊरौ वा कृत्वा उद्धरेत् । 'द्वावपि च' संयती - संयतौ सुसंवृतावुपविशतः । एषः ‘स्त्रीषु' कण्टकमुद्धरन्तीषु विधिरवगन्तव्यः ॥ [भा. ६१८१] एमेव य अच्छिम्मिं, चंपादिट्ठतो नवरि नाणत्तं । निग्गंथीण तहेव य, नवरिं तु असंवुडा काई ॥ वृ- एवमेव अक्षिसूत्रे ऽपि सर्वमपि चक्तव्यम् । 'नवरं' नानात्वं चम्पाध्ष्टान्तोऽत्र भवति । यथा किल चम्पायां सुभद्रया तस्य साधोश्चक्षुषि पतितं तृणमपनीतं तथाऽन्यस्यापि साधोश्चक्षुषि प्रविष्टस्य तृमादेः कारणे निर्ग्रथ्याऽपनयनं सम्भवतीति दृष्टान्तभावार्थः । निर्ग्रन्थीनामपि सूत्रद्वयं तथैव वक्तव्यम् । नवरम् - काचिदसंवृता भवति ततः प्रतिगमनादयः पूर्वोक्ता दोषा भवेयुः । द्वितीयपदे निर्ग्रन्थस्तासांम प्रागुक्तविधिना कण्टकादिकमुद्धरेत् ॥ मू. (२०२) निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पव्वयंसि वा पक्खुलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥ मू. (२०३) निग्गंथे निग्गंथिं सेयंसि वा पंकंसि वा पनगंसि वा उदगंसि वा ओकसमाणिं वा ओवुज्झमाणि वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥ मू. (२०४] निग्गंथे निग्गंथि नावं आरुभमाणिं वा ओरुभमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नातिक्कमइ ॥ वृ- अस्य सूत्रत्रयस्य सम्बन्धमाह [ भा. ६१८२ ] सो पुन दुग्गे लग्गेज्ज कंटओ लोयणम्मि वा कणुगं । इति दुग्गसुत्तजोगो, थला जलं चेयरे दुविहे ॥ वृ-यः पूर्वसूत्रे पादप्रविष्टः कम्टको लोचने वा कणुकं प्रविष्टमुक्तं स कण्टकस्तच्च कणुकं दुर्गे गच्छतः प्रायो लगेत्, अतो दुर्गसूत्रमारभ्यते । 'इति' एष दुर्गसूत्रस्य योगः- सम्बन्धः । दुर्गं चस्थलं ततः स्थलाज्जलं भवतीति कृत्वा दुर्गसूत्रानन्तरम् 'इतरस्मिन्' जलप्रतिबद्धे 'द्विविधे' पङ्कविषये नौविषये च सूत्रे आरम्भः क्रियते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थो निर्ग्रन्थीं दुर्गे वा विषमे वा पर्वते वा "पक्खुलमाणि वत्ति प्रकर्षेण स्खलद्गत्या गच्छन्तीम्, भूमावसम्प्राप्तां वा पतन्तीम्, पतितुकामामित्यर्थः । “पवडमाणि व’त्ति प्कर्षेण भूमौ सर्वैरपि गात्रैः पतन्तीम् । 20 24 Page #373 -------------------------------------------------------------------------- ________________ ३७० बृहत्कल्प-छेदसूत्रम् -३-६/२०४ सा ॥ "गिण्हमाणे व"त्ति बाह्वादावङ्गे गृह्णन् वा, "अवलंबमाणे व"त्ति अवलम्बमानो वा' बाह्नादौ गृहीत्वा धारयन्; अथवा 'गृह्णन्' सर्वाङ्गीणां धारयन्, ‘अवलम्बमानः' देशतः करेण गृह्णन्, साहयन्नित्यर्थः । नातिक्रामति स्वाचारमाज्ञां वा इति प्रथमसूत्रम्॥ द्वितीयसूत्रमप्येवमेव । नवरम्-सेको नाम-पङ्केपनके वासजले यत्र निमज्जयते तत्र वा, पङ्कःकर्दमः तत्र वा, पनको नाम-आगन्तुकः प्रतनुद्रवरूपः कर्दम एव तत्र वा, उदकं प्रतीतं तत्र वा, "ओकसमाणिं व"त्ति 'अपकसन्तीं वा' पङ्क-पनकयोः परिहसन्तीं “ओवुज्झमाणिं व" त्ति 'अपोह्यमानां वा' सेकेन उदकेन वा नीयमानां गृह्णन् वा अवलम्बमानो वा नातिकामति ॥ तृतीयसूत्रेनिर्ग्रन्थीमेवनावमारोहन्ती वा अवरोहन्तींवा गृह्णानोवाअवलम्बमानोवा नातिकामति इति सूत्रत्रयार्थ ॥ सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे[भा.६१८३] तिविहं च होति दुग्गं, रुक्खे सावय मनुस्सदुग्गंच। निकारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा॥ वृ-त्रिविधंच भवतिदुर्गम्, तद्यथा-वृक्षदुर्ग श्वापददुर्गं मनुष्यदुर्गंच।यवृक्षरतीवगहनतया दुर्गमं यत्र वा पथि वृक्षः पतितः तद् वृक्षदुर्गम्।यत्र व्याघ्र-सिंहादीनां भयंतत्श्वापददुर्गम् । यत्र म्लेच्छ-बोधिकादीनां मनुष्याणां भयं तद् मनुष्यदुर्गम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्ग्रन्थीं गृह्णाति अवलम्बते व तदा चतुर्गुरु, आज्ञादयश्च दोषाः। [भा.६१८४] मिच्छत्ते सतिकरणं, विराधना फास भावसंबंधो। पडिगमणादी दोसा, भुत्ता-ऽभुत्ते व नेयव्वा । वृ-निर्ग्रन्थीं गृह्णन्तं तं दृष्ट्वा कोऽपि मिथ्यात्वं गच्छेत्-अहो! मायाविनोऽमी, अन्य वदन्ति अन्यच्च कुर्वन्ति । स्मृतिकरणं वा भुक्तभोगिनो भवति, अभुक्तभोगिनस्तु कुतूहलम् । ततश्च संयमविराधना ।स्पर्शतश्चभावसम्बन्धो भवति। ततः प्रतिगमनादयो दोषा भुक्तानामभुक्तानां वा साधु-साध्वीनां ज्ञातव्याः ॥अथ विषमपदं व्याख्याति[भा.६१८५] तिविहं च होति विसमं, भूमिं सावय मनुस्सविसमंच। - तम्मि विसो चेव गमो, नावोदग सेय जतणाए॥ वृ-त्रिविधं च भवति विषमम्-भूमिविषमं श्वापदविषमं मनुष्यविषमंच । भूमिविषमं नामगर्तापाषाणाद्याकुलो भूभागः, श्वापद-मनुष्यविषमे तु श्वापद-मनुष्यदुर्गवद् मन्तव्ये । अत्र भूमविषमेणाधिकारः । पर्वतपदं तु प्रतीत्वाद् न व्याख्यातम् । 'तस्मिन्नपि' विषमे पर्वते वा निर्ग्रन्थीं गृह्णतश्चतुर्गुरुकप्रायश्चित्तादिरूपः स एव गमो भवति यो दुर्गे भणितः । तथा 'नावुदके सेकादौ च' वक्ष्यमाणस्वरूपे निर्ग्रन्थीं गृह्णतो निष्कारणे त एव दोषाः । “जयणाए"त्ति कारणे यतनया दुर्गादिषु गृह्णीयादवलम्बेत वा । यतना चाग्रतो वक्ष्यते॥ अथ प्रस्खलन-प्रपतनपदे व्याचष्टे[भा.६१८६] भूमीए असंपत्तं, पत्तं वा हत्थ-जानुगादीहिं । पक्खुलणं नायव्वं, पवडण भूमीय गत्तेहिं ।। वृ-भूमावसम्प्राप्तं हस्त-जानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम् । भूमौ प्राप्तं सर्वगात्रैश्च यत् पतनं तत्प्रपतनम् ॥ Page #374 -------------------------------------------------------------------------- ________________ उद्देश : ६, मूलं - २०४, [भा. ६१८७ ] [भा. ६१८७ ] अहवा विदुग्ग विसमे, थद्धं भीतं व गीत थेरो तु । सिचयंतरेतरं वा, गिण्हंतो होति निद्दोसो ॥ वृ- 'अथवा' इति प्रकारान्तरद्योतकः । उक्तास्तावद् निर्ग्रन्थीं गृह्णतो दोषाः, परं द्वितीयपदे दुर्गे विषमे वा तां स्तब्धां भीतां वा गीतार्थ स्थविरः सिचयेन-वस्त्रणान्तिताम् इतरां वा गृह्णन् निर्दोषो भवति ॥ व्याख्यातं प्रथमसूत्रम् । सम्प्रति द्वितीयसूत्रं व्याख्याति [भा. ६१८८ ] पंको खलु चिक्खल्लो, आगंतू पयणुओ दुओ पणओ । सो पुन सजलो सेओ, सीतिज्जति जत्थ दुविहे वी ॥ वृ- पङ्कः खलु चिक्खल्ल उच्यते । आगन्तुकः प्रतनुको द्रुतश्च पनकः । यत्र पुनः 'द्विविधेऽपि ' पङ्के पनके वा "सीइज्जति” निमज्जते स पुनः सजलः सेक उच्यते ॥ [भा. ६१८९ ] पंक-पनएसु नियमा, ओगसणं वुब्भणं सिया सेए । थिमियम्मि निमज्जणता, सजले सेए सिया दो वि ॥ वृ- पङ्क - पनकयोर्नियमाद् 'अपकसनं' ह्रसनं भवति । सेके तु "वुज्झणं" 'अपोहनं' पानीयेन हरणं स्यात् । स्तिमिते तु तत्र निमज्जनं भवेत् । सजले तु सेके 'द्वे अपि' अपवहन - निमज्जने स्याताम् ॥ अथ तृतीयं नौसूत्रं व्याख्याति [भा. ६१९०] ओयारण उत्तारण, अत्थुरण ववुग्गहे य सतिकारो । छेदो व दुवेगयरे, अतपिल्लण भाव मिच्छत्तं ॥ वृ- कारणे निर्ग्रन्थीं नावम् 'अवतारयन्' आरोपयन् वा यद्यास्तरणं वपुर्ग्रहं वा करोति तदा स्मृतिकारो भुक्तभोगिनोस्तयोर्भवति । छेदो वा नखादिभिर्द्वयोरेकतरस्य भवेत् । अतिप्रेरणेच ‘भावः' मैथुनाभिलाष उत्पद्येत । मिथ्यात्वं वा तद् दृष्ट्वा कश्चिद् गच्छेत् ॥ एते नावुदके निर्ग्रन्थीं गृह्णतो दोषा उक्ताः । अथ लेपोपरि सन्तारयतो दोषानाह [ भा. ६१९१] ३७१ अंतोजले वि एवं, गुज्झंगप्फास इच्छऽनिच्छंते । मुज्जव आयत्ता, जा होउ करेतु वा हावे ॥ वृ- 'अन्तर्जलेऽपि ' जलाभ्यन्तरेऽपि गच्छन्तीं गृह्णत एवमेव दोषा मन्तव्याः । तथा गुहाङ्गस्पर्शे मोह उदियात्, उदितेच मोहे यदि इच्छति नेच्छति वा तत उभयथाऽपि दोषाः । यद्वा स उदीर्णमोहस्तां जलमध्ये मुञ्चेत्, आयत्ता यस्माद् भवंतु करोतु वा 'हावान्' मुखविकारानिति । कारणे तु नावुदके लेपोपरि वा अवतारणं उत्तारणं वा कुर्वन् यतनया गृह्णीयाद् अवलम्बेत वा ॥ अथ ग्रहणा - Sवलम्बपदे व्याख्याति [भा. ६१९२] सव्वंगियं तु गहणं, करेहि अवलंबणेगदेसम्मि । जह सुत्तं तासु कयं, तहेव वतिणो वि वतिणीए । वृ-ग्रहणं नाम सर्वाङ्गीणं कराभ्यां यद् गृह्यते । अवलम्बनं तु तद् उच्यते यद् एकस्मिन् देशेबाह्यादौ ग्रहणं क्रियते । तदेवं यथा तासु निर्ग्रन्थीषु 'सूत्रं' सूत्रत्रयं कृतम् । किमुक्तं भवति ?यथा निर्ग्रन्थो निर्ग्रन्थ्याः कारणे ग्रहणमवलम्बनं वा कुर्वन् नाऽऽज्ञामतिक्रामतीति सूत्रत्रयेऽपि भणितम्; तथैवार्थत इदं द्रष्टव्यम्- 'व्रतिनोऽपि' साधोरपि दुर्गादौ पङ्कादौ नावुदकादौ वा प्रपततो व्रतिन्या कारणे ग्रहणमवलम्बनं वा कर्तव्यम् । कया पुनर्यतनया ? इति चेद् अत आह Page #375 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - ३-६/२०४ ३७२ [भा. ६१९३] जुगलं गिलाणगं वा, असहुं अन्त्रेण वा वि अतरंतं । गोवालकंचुगादी, सारक्खण नालबद्धादी ।। वृ- 'युगलं नाम' बालो वृद्धश्च तद्वा, अपरं वा ग्लानम् अत एव 'असहिष्णुं' दुर्गादिषु गन्तुमशक्नुवन्तम्, 'अन्येन वा' ग्लानत्ववर्जेन कारणेन 'अतरन्तम्' अशक्तम्, गोपालकञ्चुकादिपरिधानपुरस्सरं नालबद्धा संयती, आदिग्रहणेनानालबद्धाऽपि संरक्षति, गृह्णाति अवलम्बते वा इत्यर्थः ॥ मू. (२०५) खित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ।। वृ- अस्य सूत्रस्य सम्बन्धमाह [भा. ६१९४] ओवुज्झंती व भया, संफासा रागतो व खिप्पेज्जा । संबंधत्थविहिन्नू, वदंति संबंधमेयं तु ॥ वृ- पानीयेनापोह्यमाना वा भयात् क्षिप्येत, क्षिप्तचित्ता भवेदित्यर्थः । यद्वा संस्पर्शतो यो राग उत्पद्यते तस्माद्वा तत्र साधावन्यत्र गते सति क्षिप्तचित्ता भवेत् । अतः क्षिप्तचित्तासूत्रमारभ्यते । एवं सम्बन्धार्थविधज्ञाः सूरयोऽत्र सूत्रे एनं सम्बन्धं वदन्ति ।। अनेन सम्बन्धेनायातस्यास्या व्याख्या'खित्तचित्तं' ति क्षिप्तं ष्टं राग-भया - Sपमानैश्चित्तं यस्याः सा क्षिप्तचित्ता, तां निर्ग्रन्थीं निर्ग्रन्थो गृह्णानो वाऽवलम्बमानो वा नातिक्रामति आज्ञामिति सूत्रार्थः ॥ अथैनं भाष्यकारो विस्तरेण प्ररूपयितुमाह [ भा. ६१९५ ] रागेण वा भएण व, अहवा अवमानिया नरिंदैन । एते हि खित्तचित्ता, वणिताति परूविता लोए ।। वृ-रागेण यदि वा भयेनाथवा 'नरेन्द्रेण' प्रजापतिना उपलक्षणमेतत्, सामान्येन वा प्रभुणा ‘अपमानिताः' अपमानं ग्राहिताः, एतैः खलु कारणैः क्षिप्तचित्ता भवन्ति । ते च लोके उदाहरणत्वेन परूपिता वणिगादयः । तत्र रागेण क्षिप्तचित्ता यथा - वणिग्भार्या भर्तारं मृतं श्रुत्वा क्षिप्तचित्ता जाता ॥ भयेनापमाने च क्षिप्तचित्तत्वे उदाहरणान्याह - [ भा. ६१९६ ] भयओ सोमिलबहुओ, सहसोत्थरिया य संजुगादीसु । नरवतिणा व पतीण व, विमाणिता लोगी खेत्ता ॥ वृ- 'भयतः ' भयेन क्षिप्तचित्तो यथा गजसुकुमालमारको जनार्दनभयेन सोमिलनाना 'बटुकः ' ब्राह्मणः । अथवा 'संयुगादिषु' संयुगं - सङ्ग्रामस्तत्र, आदिशब्दात् परबलसमापतनादिपरिग्रहः, तैः, गाथायां सप्तमी तृतयार्थे, 'सहसा' अतर्कितम् 'अस्तृताः' समन्ततः परिगृहीता मनुष्या भयेन क्षिप्तचित्ता भळनअथइ । एवं भयेन क्षिप्तचित्तत्वे उदाहरणमुक्तम् । सम्प्रत्यपमानत आहनरपतिना समस्तद्रव्यापहरणतः काचिद् विमानिता पत्या वा काचिन्महेलाऽपमानिता क्षिप्तचित्ता भवेत् । एवमादिका लौकिकी क्षिप्तचित्ता मन्तव्या ॥ सम्प्रति लोकोत्तरिकीं तामेवाह [ भा. ६१९७] रागम्मि रायखुड्डी, जड्डाति तिरिक्ख चरिय वातम्मि । रागेण जहा खेत्ता, तमहं वोच्छं समासेणं ॥ वृ- 'रागे' सप्तमी तृतीयार्थे रागेण क्षिप्तचित्ता यथा वक्ष्यमाणा राजक्षुल्लिका । भयेन यथा 'जड्डादीन् ' हस्तिप्रभृतीन् तिरश्च दृष्ट्वा । अपमानतो यथा चरिकया कयाचिद् वादे पराजिता सती काचिन्निर्ग्रन्थी क्षिप्तचित्ता जायते । तत्र रागेण यथा राजक्षुल्लिका क्षिप्तचित्ताऽभवत् तदहं Page #376 -------------------------------------------------------------------------- ________________ उद्देश : ६, मूलं - २०५, [भा. ६१९७] वक्ष्ये समासेन ॥ [ भा. ६१९८] जियसत्तू य नरवती, पव्वज्जा सिक्खणा विदेसम्मी । काऊण पोतणम्मिं, सव्वायं निव्वुतो भगवं ॥ ३७३ वृ- जितशत्रुर्नाम नरपति । तस्य प्रव्रज्याऽभवत्, धर्मं तथाविधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यांस प्रतिपन्नवानित्यर्थः । प्रव्रज्यानन्तरं च तस्य 'शिक्षणा' ग्रहणशिक्षा आसेवनाशिक्षा च प्रवृत्ता । कालान्तरे च स विदेशं गतः । पोतनपुरे च परतीर्थिभि सह वाद उपस्थितः । ततस्तैः सह शोभनो वादः सद्वादस्तं दत्त्वा महतीं जिनशासनप्रभावनां कृत्वा स भगवान् 'निर्वृतः ' मुक्तिपदवीमधिरूढः ॥ [ भा. ६१९९] एक्का य तस्स भगिनी, रज्जसिरिं पयहिऊण पव्वइया । भातुयअनुराएणं, खेत्ता जाता इमा तु विही ॥ वृ- एका च 'तस्य' जितशत्रो राज्ञो भगिनी भ्रातुरनुरागेण राज्यश्रियं प्रहाय जितशत्रुप्रव्रज्याप्रतिपत्त्यनन्तरं कियताऽपि कालेन प्रव्रजिता । सा च तं ज्येष्ठभ्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भ्रातुरनुरागेण ‘क्षिप्ता' अपहृतचित्ता जाता । तत्र च 'अयम्' अनुशिष्टिरूपस्तस्याः प्रगुणीकरणे विधि | तमेवाह [भा. ६२००] तेलोक्कदेवमहिता, तित्थगरा नीरता गता सिद्धिं । थेरावि गता केई, चरण-गुणपभावगा धीरा ॥ वृ- तस्या भ्रात्रादिमरणं श्रुत्वा क्षिप्तचित्तीभूताया आश्वासनार्थमियं देशना कर्तव्या, यथामरणपर्यवसानो जीवलोकः। तथाहि-ये तीर्थकरा भगवन्तः त्रैलोक्यदेवैः त्रिभुवननिवासिभिर्भवनपत्यादिभि महितास्तेऽपि 'नीरजसः' विगतसमस्तकर्मपरमाणवः सन्तो गताः सिद्धिम् । तथा स्थविरा अपि केचिन्महीयांसो गीतमस्वामिप्रभृतयः 'चरण गुणप्रभावकाः ' चरणं चारित्रं गुणःज्ञानं ताभ्यां जिशासनस्य प्रभावकाः 'धीराः' महास्ता देव-दानवैरप्यभोक्ष्याः सिद्धिं गताः । तद्यदि भगवतामपि तीर्थकृतां महतामपि च महर्षीणामी ध्शी गतिस्ततः का कथा शेषजन्तूनाम् ? तस्मादेताशीं संसारस्थितमनुचिन्त्य न शोकः कर्तव्य इति ॥ तथा [ भा. ६२०१] बंभीय सुंदरी या, अन्ना वि य जाउ जोगजेट्ठाओ । ताओ विअ कालगया, किं पुन सेसाउ अज्जाओ ॥ वृ- सुगमा ॥ अन्यच्च [भा. ६२०२ ] नहुहोति सोतियव्वो, जो कालगतो दढो चरित्तम्मि । सो होति सोतियव्वो, जो संजमदुब्बलो विहरे ॥ वृ- "न हु” नैव स शोचयितव्यो भवति यश्चारित्रे दृढः सन् कालगतः । स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान् ॥ कतम् ? इत्याह [भा. ६२०३ ] जो जह व तह व लद्धं, भुंजति आहार- उवधिमादीयं । समणगुणमुक्कजोगी, संसारपवडतो होति ॥ वृ- यो नाम यथा वा तथा वा, दोषदुष्टकतया निर्दोषतया वा इत्यर्थः, लब्धमाहारोपध्यादिकं 'भुङ्क्ते' उपभोग - परिभोगविषयीकरोति स श्रमणानां गुणाः - मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः परित्यक्तास्तद्रहिता ये योगाः-मनो-वाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगाः ते Page #377 -------------------------------------------------------------------------- ________________ ३७४ बृहत्कल्प-छेदसूत्रम् -३-६/२०५ यस्य सन्ति स श्रमणगुणमुक्तयोगी संसारप्रवर्धको भवति । ततो यः संयमदुर्बलो विहृतवान् स एव शोच्यः, भवदीयस्तु म्रात्रादि कालगतो ढश्चारित्रे ततः स परलोकेऽपि सुगतिभागिति न करणीयः शोकः ॥ सम्प्रति "जड्डादितिरिक्ख" इत्यस्य व्याख्यानार्थमाहजड्डादी तेरिच्छे, सत्थे अगनीय थणिय विज्जू य । ओमेडिसणता, चरियं पुव्वं परूवेउं ॥ [भा. ६२०४] वृ- जड्डुः- हस्ती, आदिशब्दात् सिंहादिपरिग्रहः, तान् तिरश्चो ध्ष्ट्वा । किमुक्तं भवति ? - गजं वा मदोन्मत्तं सिंहं वा गुञ्जन्तं व्याघ्रं वा तीक्ष्णनखर - विकरालमुखं दृष्ट्वा काऽपि निर्ग्रन्थी भयतः क्षिप्तचित्ता भवति । काऽपि पुनः 'शस्त्राणि' खड्गादीन्यायुधानि ध्ष्ट्वा, इयमत्र भावना केनापि परिहासेनोद्गीर्ण खयं कुन्तं क्षुरिकादिक वाध्ष्टवा काऽपि 'हा ! मामेष मारयति' इति सहसा क्षिप्तचित्ता भवति । एवम् ‘अग्नी' प्रदीपनके लग्ने 'स्तनिते वा' मेघगर्जिते श्रुते विद्युतं वा दृष्ट्वा भयतः क्षिपतचित्ता भवेत् । एवंविधायां भयेन क्षिप्तचितायां को विधि ? इत्याह- 'अवमा' तस्य अपि लघुतरं क्षुल्लिका सा वक्ष्यमाणनीत्या तस्य सिंहादेः प्रतिभेषणां करोति, तत इतरा भयं मुञ्चतीति । या तु वादे पराजिताऽपमानतः क्षिप्तचित्तीभूता तस्याः प्रगुणीकरणार्थं यता चरिकया सा पराजिता तां पूर्वं 'प्ररूप्य' प्रज्ञाप्य तदनन्तरं तया स्वमुखोच्चरितेन वचसा क्षिप्तचित्ततोत्तारियतव्या ॥ अथापमनातः क्षिप्तचित्ततां भावयति [भा. ६२०५ ] अवहीरिया व गुरुणा, पवत्तिनीए व कम्मि वि पमादे । वातम्मि वि चरियाए, परातियाए इमा जयणा ॥ वृ- 'गुरुणा' आचार्येणावधीरिता, अथवा प्रवर्तिन्या कस्मिंश्चित् प्रमादे वर्तमाना सती गाढं शिक्षिता भवेत् ततोऽपमानेन क्षिप्तचित्ता जायेत । यदि वा चरिकया वादे पराजिता इत्यपमानतः क्षिप्तचित्ता स्यात् । तस्यां च भयेन क्षिप्तचित्तायामियं यतना ॥ [ भा. ६२०६] कन्नम्मि एस सीहो, गहितो अह धारिओ य सो हत्थी । खुड्डुलतरिया तुज्झं, ते वि य गमिया पुरा पाला ॥ वृ- इह "पदैकदेशे पदसमुदायोपचारात्" "पाला" इत्युक्ते हस्तिपालाः सिंहपाला वा द्रष्टव्याः । तेऽपि 'पुरा' पूर्वं 'गमिताः' प्रतिबोधिताः कर्तव्याः, यथा - अस्माकमेका क्षुल्लिका युष्मदीयं सिंहं हस्तिनं वा दृष्ट्वा क्षोभमुपागता, ततः सा यथा क्षोभं मुञ्चति तथा कर्तव्यम् । एवं तेषु प्रतिबोधितेषु साक्षिप्तचित्तीभूता तेषामन्तिके नीयते, नीत्वा च तासां मध्ये या तस्या अपि क्षुल्लिकाया लघुतरी तया स सिंहः कर्णे धार्यते, हस्ती वा तया धार्यते । ततः सा क्षिप्तचित्ता प्रोच्यते-त्वत्तोऽपि या 'क्षुल्लकतरा' अतिसयेन लघुस्तया एष सिंहः कर्णे घृतः, अथवा हस्ती अनया घाटितः, त्वं तु बिभेषि किं त्वमेतस्या अपि भीरुर्जाता ? धाष्टर्यमवलम्ब्यतामिति ॥ [भा. ६२०७] सत्थऽग्गी थंभेतुं पणोल्लणं नस्सते य सो हत्थी । थेरी चम्म विकड्डण, अलायचक्कं तु दोसुं तु ॥ वृ- यदि शस्त्र यदि वाऽग्निं दृष्टवा क्षिप्ता भवेत् ततः शस्त्रमग्निं च विद्यया स्तम्भित्वा तस्य पादाभ्यां प्रनोदनं कर्तव्यम्, भणितव्यं च तां प्रति- एषोऽस्माभिरग्नि शस्त्र च पादाभ्यां प्रणुन्नः, त्वं तु ततोऽपि विभेषीति । यदि वा पानीयेनार्द्रीकृतहस्तादिभि सोऽग्नि स्पृश्यते, भण्यते च - एतस्मादपि तव किं भयम् ? । तथा यतो हस्तिनस्तस्या भयमभूत् स हस्ती स्वयं पराङ्मुखो Page #378 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं- २०५, [भा. ६२०७] ३७५ गच्छन् दर्श्यते, यथा-यतस्त्वं बिभेषि स हस्ती 'नश्यति' नश्यन् वर्तते ततः कथं त्वमेवं भीरोरपि भीरुर्जाता ? । तथा या गर्जितं श्रुत्वा भयमग्रहीत् तं प्रति उच्यते - स्थविरा नभसि शुष्कं चर्म विकर्षति; एवं चोक्त्वा शुष्कचर्मण आकर्षणशब्दः श्राव्यते, ततो भयं जरयति । तथा यदि अग्नेः स्तम्भनं न ज्ञायते तदा 'द्वयोः' अग्नौ विद्युति च भयं प्रपन्नाया अलातचक्रं पुनः पुनरकस्माद् दर्श्यते यावदुभयोरपि भयं जीर्णं भवति ॥ अथ वादे पराजयादपमानतः क्षिप्तचित्तीभूताया यतनामाह [भा. ६२०८] एईए जिता मि अहं, तं पुन सहसा न लक्खियं नाए । धिक्कतकतितव लज्जाविताए पउणायई खुड्डी ॥ [भा. ६२०९] तहविय अठायमाणे, सारक्खमरक्खणे य चउगुरुगा । आणाणो य दोसा, विराधन इमेहिं ठाणेहिं ॥ वृ-यथा चरिकया सा पराजिता सा प्रज्ञाप्यते यथोक्तं प्राक् । ततः साऽऽगत्य वदति- एतयाऽहं वादे जिताऽस्मि, 'तत् पुनः' स्वयंजयनमनया सहसा न लक्षितम्, ततो मे लोकस्य पुरतो जयप्रवादोऽभवत् । एवमुक्ते सा चरिका धिक्कृ तं धिक्कारस्तत्कैतवेन तद्व्याजेन 'लज्जाप्यते' लज्जा ग्राह्यते, लज्जां च ग्राहिता सती साऽपसार्यते । ततः क्षिप्ता भण्यते किमिति त्वमपमानं गृहीतवती ? वादे हि ननु त्वयैषां पराजिता, तथा च त्वत्समक्षमेव एषा धिक्कारं ग्राहितेति । एवं यतनायां क्रियमाणायां यदि सा क्षुल्लिका प्रगुणीभवति ततः सुन्दरम् ॥ 'तथापिच' एवं यतनायामपि च क्रियमाणायाम् ‘अनवतिष्ठति' अनिवर्तमाने क्षिप्तचित्तत्वे संरक्षणं वक्ष्यमाणयतनया कर्तव्यम् । अरक्षणे प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना चामीभि 'स्थानैः प्रकारैर्भवति । तान्येवाह [ भा. ६२१०] छक्कायाण विराधन, झामण तेने निवायणे चेव । अगड विसमे पडेज व, तम्हा रक्खंति जयणाए । वृ- तया क्षिप्तचित्तया इतस्ततः परिभ्रमन्त्या षन्नां कायानां पृथिवीकयिकादीना विराधना क्रियते । 'ध्यामनं' प्रदीपनकं तद वा कुर्यात् । यदि वा स्तैन्यम्, अथवा निपातनमात्मनः परस्य वा विधीयते । 'अवटे' कूपेऽथवाऽन्यत्र विषमे पतेत् । तदेवमसंरक्षणे इमे दोषास्तस्माद् रक्षन्ति 'यतनया' वक्ष्यमाणया ।। साम्प्रतमेनामेव गाथां व्याचिख्यासुराह [ भा. ६२११] सस्सगिहादीणि दहे, तेनेज्ज व सा सयं व हीरेजा । मारण पिट्टणमुभए, तद्दोसा जं च सेसाणं ॥ वृ- सस्यं धान्यंतद्भृतं गृहं सस्यगृहं तदादीनि, आदिशब्दात् शेषगृहा-ऽऽपणादिपरिग्रहः, 'दहेत्' क्षिप्तचित्ततयाऽग्निप्रदानेन भस्मसात्कुर्यात्, एतेन ध्यामनमिति व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात्, किमुक्तं भवति ? - सा क्षिप्तचित्तत्वेन परवशा इव स्वयमात्मानं मारयेत् पिट्टयेद्वा, यदि वा परं मारयेत् पिट्टयेद्वा, सा वा परेण मार्यते पिट्यते वेति । “तद्दोसा जं च सेसाणं" इति तस्याः क्षिप्तचित्ताया दोषाद् यच्च 'शेषाणां' साध्वीनां मारणं पिट्टनं वा । तथाहिसाक्षिप्तचित्ता सती यदा व्यापादयति पिट्टयति तदा परे स्वरूपमजानानाः शेषसाध्वीनामपि घात-प्रहारादिकं कुर्यु तन्निमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम् । शेषाणि तु स्थानानि सुगमानीति न व्याख्यातानि ॥ यदुक्तं "तस्माद् रक्षन्ति यतनया" इति तत्र यतनामाह Page #379 -------------------------------------------------------------------------- ________________ ३७६ बृहत्कल्प-छेदसूत्रम् -३-६/२०५ [भा.६२१२] महिड्डिए उट्ठ निवेसने य, आहार विविंचणा विउस्सग्गो। रक्खंताण य फिडिया, अगवेसणे होति चउगरुगा। वृ-महर्द्धिको नाम-ग्रामस्य नगरस्यवा रक्षाकारी तस्य कथनीयम् । तथा “उट्ट निवेसने य" त्ति मृदुबन्धैस्तथा संयतनीया यथा स्वयमुत्थानं निवेशनं च कर्तुं समर्था भवति । तथा यदि 'वातादिना धातुक्षोभोऽस्या अभूत्' इति ज्ञायते तदाऽपथ्याहारपरिहारेण स्निग्ध-मधुरादिरूप आहारःप्रदातव्यः। “विगिंचण"त्ति उच्चारादेस्तस्याः परिष्ठापनं कर्तव्यम्। यदिपुनः 'देवताकृत एष उपद्रवः' इति ज्ञायते तदा प्राशुकैषणीयेन क्रिया कार्या। तथा "विउस्सग्गो" इति किमयं वातादिना धातुक्षोभः? उत देवताकृत उपद्रवः ?' इत परिज्ञानाय देवताराधनार्थं कायोत्सर्गः करणीयः। ततस्तयाऽऽकम्पितया कथिते सति तदनुरूपो यलो यथोक्तस्वरूपः करणीयः। एवंरक्षतामपियदिसा कथञ्चित् स्फिटिता स्यात् ततस्तस्या गवेषणंकर्तव्यम्।अगवेषणेप्रायश्चित्तं चत्वारो गुरुकाः । एष द्वारगाथासक्षेपार्थः ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतो महर्द्धिकद्वारं विवृणोति [भा.६२१३] अम्हं एत्थ पिसादी, रक्खंताणं पि फिट्टति कताई। . साहु परिरक्खियव्वा, महिड्डिगाऽऽरक्खिए कहणा॥ वृ. 'महर्द्धिके' ग्रामस्य नगरस्य वा रक्षाकारिण्यारक्षके कथना कर्तव्या, यथा-'अत्र' एतस्मिन्नुपाश्रयेऽस्माकं रक्षतामप्येषा 'पिशाची' ग्रथिला कदाचित् 'स्फिटति' अपगच्छति सा 'हुः' निश्चितं परिरक्षयितव्या, प्रतिपन्नचारित्रत्वादिति ॥ व्याख्यातं महर्द्धिकद्वारम् । अधुना “उट्ठ निवेसने य" इति व्याख्यानयति[भा.६२१४] मिउबंधेहि तहा नं, जति जह सा सयं तु उडेति । उव्वरग सत्थरहिते, बाहि कुडंडे असुन्नं च ॥ वृ-मृदुबन्धैस्तथा “णं" इति तां क्षिप्तचित्तां 'यमयन्ति' बध्नन्ति यथा सा स्वयमुत्तिष्ठति, तुशब्दस्यानुक्तसमुच्चयार्थत्वाद् निविशते च । तथा सा तस्मिन्नपवरके स्थाप्यते यत्र न किमपि शस्त्रभवति, यतःसा क्षिप्तचित्ततयायुक्तमयुक्तंवाऽजानतीशस्त्र हटवातेनाऽऽत्मानंव्यापादयेत्। तस्य चापवरकस्य द्वारंबहिः 'कुडण्डेन' वंशटोक्करादिनाबध्यते येन न निर्गत्यापगच्छति। तथा अशून्यं यथा भवति एवं सा वारेण वारेण प्रतिजागर्यते, अन्यथा शून्यमात्मानमुपलभ्य बहुतरं क्षिप्तचित्ता भूयात् ॥ [भा.६२१५] उव्वरगस्स उ असती, पुव्वकतऽसती य खम्मते अगडो। तस्सोवरिंच चक्कं, न छिवति जह उप्फिडंती वि॥ वृ-अपवरकस्य असति' अभावे पूर्वकृते पूर्वखातेकूपेनिर्जलेसाप्रक्षिप्यते।तस्याभावेऽवटो नवः खन्यते, खनित्वा च तत्र प्रक्षिप्यते । प्रक्षिप्य च तस्यावटस्योपरि 'चक्र' रथाङ्गं स्थगनाय तथा दीयते यथा सा 'उत्स्फिटन्त्यपि' उल्ललयन्त्यपि तच्चक्रं 'नच्छुपति' नस्पृशति॥ साम्प्रतं "आहार विगिचणा" इत्यादि व्याख्यानयति[भा.६२१६] निद्ध महुरं च भत्तं, करीससेज्जा य नो जहा वातो। ___ देविय धाउक्खोभे, नातुस्सग्गो ततो किरिया॥ वृ-यदि 'वातादिनाधातुक्षोभोऽस्याः सजातः' इति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं Page #380 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं - २०५, [ भा. ६२१६ ] ३७७ मधुरं च तस्यै दातव्यम्, शय्या च करीषमयी कर्तव्या, सा हि सोष्णा भवति, उष्णे च वातश्लेष्मापहरः, यथा च वातो न लभ्यते तथा कर्तव्यम् । तथा किमयं 'दैविकः' देवेनभूतादिना कृत उपद्रवः ? उत धातुक्षोभः ? इति ज्ञातुं देवताराधनाय 'उत्सर्ग' कायोत्सर्ग क्रियते । तस्मिंश्च क्रियमाणे यद् आकम्पितया देवतया कथितं तदनुसारेण ततः क्रिया कर्तव्या । यदि दैविक इति कथितं तदा प्राशुकैषणीयेन तस्या उपचारः, शेषसाध्वीनां तपोवृद्धि, तदुपशमनाय च मन्त्रादिस्मरणमिति । अथ वातादिना धातुक्षोभ इति कथितं तदा स्निग्धमधुराद्युपचार इति ।। सम्प्रति "रक्खंताण य फिडिए" त्यादि व्याख्यानयति [ भा. ६२१७] अगडे पलाय मग्गण, अन्नगणो वा वि जो न सारक्खे । गुरुगा जं वा जत्तो, तेसिं च निवेयणं काउं ॥ वृ- अगडे इति सप्तमी पञ्चम्यर्थे, ततोऽयर्थ- 'अवटात् ' कूपाद्, उपलक्षणमेतद्, अपवरकाद्वा यदि पलायते कथमपि ततस्तस्याः 'मार्गणम्' अन्वेषणं कर्तव्यम् । तथा ये तत्राऽन्यत्र वाऽऽसने दूरे वाऽन्यगणा विद्यन्ते तेषां च निवेदनाकरणम्, निवेदनं कर्तव्यमिति भावः । यथा-अस्मदीया एका साध्वी क्षिप्तचित्ता नष्टा वर्तते । ततस्तैरपि सा गवेषीया, ध्ष्टा च सा सङ्ग्रहणीया । यदि पुनर्न गवेषयन्ति नापि संरक्षन्ति स्वगणवर्तिन्या अन्यगणवर्तिन्या वा तदा तेषां प्रायश्चित्तं चत्वारः 'गुरुकाः' गुरुमासाः । यच्च करिष्यति षड्जीवनिकायविराधनादिकं यच्च प्राप्स्यति मरणादिकं तन्निमित्तं च तेषां प्रायश्चित्तमिति ॥ [भा. ६२१८] छम्मासे पडियरिउं, अनिच्छमाणेसु भुज्जयरओ वा । कुल- गण - संघसमाए, पुव्वगमेणं निवेदेति ॥ वृ- पूर्वोक्तप्रकारेण तावत् प्रतिचरणीया यावत् षण्मासा भवन्ति । ततो यदि प्रगुणा जायते तर्हि सुन्दरम् । अथन प्रगुणीभूता ततः ‘भूयस्तरकमपि' पुनस्तरामपि तस्याः प्रतिचरणं विधेयम् । अथ ते साधवः परिश्रान्ता भूयस्तरकं प्रतिचरणं नेच्छन्ति, ततस्तेष्वनिच्छत्सु कुल-गण-सङ्घसमवायं कृत्वा 'पूर्वगमेन' ग्लानद्वारोक्तप्रकारेण तस्मै निवेदनीयम्, निवेदिते च ते कुलादयो यथाक्रमं तां प्रतिचरन्ति ।। अथ सा राजादीनां सज्ञातका भवेत् तदा इयं यतना [भा. ६२१९] रन्नो निवेइयम्मिं, तेसिं वयणे गवेसणा होति । ओसह वेज्जा संबंधुवस्सए तीसु वी जयणा ॥ वृ-यदि राज्ञोऽन्येषां वा सा पुत्र्यादिका भवेत् ततो राज्ञः, उपलक्षणमेतद्, अन्येषां वा स्वजनानां निवेदनं क्रियते, यथा- युष्मदीयैषा पुत्र्यादिका क्षिप्तचित्ता जाता इति। एवं निवेदिते यदि ब्रुवते राजादयः, यथा मम पुत्र्यादीनां क्रिया स्वयमेव क्रियमाणा वर्तते तत इहैव तामप्यानयत इति । ततः सा तेषां वचनेन तत्र नीयते, नीतायाश्च तत्र तस्या गवेषणा भवति । अयमत्र भावार्थ:साधवोऽपि तत्र गत्वा औषध-भेषजानि प्रयच्छन्ति प्रतिदिवसं च शरीरस्योदन्तं वहन्ति । यदि पुनः 'सम्बन्धिन' स्वजना वदेयुः वयमौषधानि वैद्यं वा सम्प्रयच्छामः, परमस्माकमासन्ने उपाश्रये स्थित्वा यूयं प्रतिचरथ । तत्र यदि शोभनो भावस्तदा एवं क्रियते । अथ गृहस्थीकरणाय तेषां भावस्तदा न तत्र नयनं किन्तु स्वोपाश्रय एव ध्रियते । तत्र च 'तिसृष्वपि ' आहारोपधि-‍ ध-शय्यासु यतना कर्तव्या । एष द्वारगाथासङ्क्षेपार्थः ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः “ रन्नो निवेइयम्मी” इत्येतद् व्याख्यानयति Page #381 -------------------------------------------------------------------------- ________________ ३७८ बृहत्कल्प-छेदसूत्रम् -३-६/२०५ [भा.६२२०] पुत्तादीनं किरियं, सयमेव घरम्मि कोइ कारेति । अनुजाणंते य तहिं, इमे विगंतुंपडियरंति॥ वृ-यदि कोऽपि राजाऽन्योवाक्षिप्तचित्तायाःसाध्याः स्वजनोगृहे 'स्वयमेव साधुनिवेदनात् प्राग्आत्मनैव पुत्र्यादीनां 'क्रियां' चिकित्सांकारयतितदा तस्मै निवेदिते-'युष्मदीयाक्षिप्तचित्ता जाता' इति कथिते यदि तेऽनुजानन्ति, यथा-अत्र समानयत इति; ततः सा तत्र नीयते, नीतांच सतीम् ‘इमेऽपि' गच्छवासिनः साधवो गत्वा प्रतिचरन्ति॥ [भा.६२२१] ओसह विजे देमो, पडिजग्गहनं इहं ठिताऽऽसन्न। तेसिंच नाउ भावं, न देंति मानं गिहीकुञ्जा। कृकदाचित्स्वजना ब्रूयुः, यथा-औषधानिवैद्यच वयंदद्मः, केवलम् इह अस्मिन्नस्माकमासने प्रदेस्थिताः “णं" इतिएनांप्रतिजागृत । तत्रतेषांयदिभावोविरूपोगृहस्थीकरणात्मकस्ततस्तेषां तथारूपं भावमिङ्गिताकारकुशला ज्ञात्वा न ददति, न तेषामासने प्रदेशेनयन्तीति भावः । कुतः? इत्याह-मा तां गृहस्थीकुर्युरिति हेतोः॥सम्प्रति "तीसुवी जयणे" त्येतद् व्याख्यानयति[भा.६२२२] आहार उवहि सिजा, उग्गम-उप्पायणादिसुजयंति । वायादी खोभम्मि व जयंति पत्तेग मिस्सा वा।। वृ-आहारे उपधौ शय्यायांच विषये उद्गमोत्पादनादिषु, आदिशब्दाद्एषणादिदोषपरिग्रहः, 'यतन्ते' यलपरा भवन्ति, उद्गमोत्पादनादोषविशुद्धाहाराद्युत्पादने प्रतिचरका अन्येऽपि च यतमानास्तां प्रतिचरन्तीति भावः । एषा यतना दैविके क्षिप्तचित्तत्वे द्रष्टव्या । एवं वातादिना धातुक्षोभेऽपि प्रत्येकं साम्भोगिकाः 'मिश्रावा' असाम्भोगिकैः सम्मिश्रा-पूर्वोक्तप्रकारेण यतन्ते। [भा.६३२३] पुबुद्दिडो य विही, इह विकरेंताण होति तह चेव । तेइच्छम्मि कयम्मि य, आदेसा तिनि सुद्धा वा।। वृ-यः पूर्व-प्रथमोद्देशकेग्लानसूत्रे उद्दिष्टः-प्रतिपादतो विधिस एव 'इहापि' क्षिप्तचित्तासूत्रेऽपि वैयावृत्य कुर्वतां तथैव भवति ज्ञातव्यः। चैकित्स्येच' चिकित्सायाः कर्मणिच 'ते' प्रगुणीभूतायां च तस्यां त्रय आदेशाः प्रायश्चित्तविषया भवन्ति । एके ब्रुवते-गुरुको व्यवहारः स्थापयितव्यः । अपरेब्रुवते-लघुकः।अन्ये व्याचक्षते-लघुस्वकः। तत्र तृतीयआदेशःप्रमाणम्, व्यवहारसूत्रोक्तत्वात् । अथवा सा 'शुद्धा' न प्रायश्चित्तमाक्, परवशतया राग-द्वेषाभावेन प्रतिसेवनात् ॥ एतदेव बिभावयिषुरिदमाह[भा.६२२४] चउरो य हुंति भंगा, तेसिं वयणम्मि होति पन्नवणा। परिसाए मज्झम्मी, पट्ठवणा होति पच्छित्ते॥ वृ. इह चारित्रविषये वृद्धि-हान्यादिगताश्चत्वारो भवन्ति भङ्गास्तेषां प्ररूपणा कर्तव्या । 'नोदकवचने च 'कथं साऽप्रायश्चित्ती ?' इत्येवंरूपे 'प्रज्ञापना' सूरेः प्रतिवचनरूपा भवति । ततः पर्षदो मध्ये अगीतार्थप्रत्ययनिमित्तं 'प्रायश्चित्तस्य' लघुस्वकरूपस्य 'प्रस्थापना' प्रदानं तस्याःशुद्धाया अपि कर्तव्यमिति।।सम्प्रति चतुरोभङ्गान् कथयन्प्रायश्चित्तदानाभावंभावयति[भा.६२२५] वदति हायति उभयं, अवट्ठियं च चरणं भवे चउहा। खइयंतहोवसमियं, मिस्समहक्खाय खेतंच॥ .. वृ-कस्यापिचारित्रं वर्धते, कस्यापिचारित्रंहीयते, कस्यापिचारित्रंहीयते वर्धतेच, कस्यापि Page #382 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-२०५, [भा. ६२२५] ३७९ 'अवस्थितं' न हीयतेनचवर्धते, एते चत्वारो भङ्गाश्चारित्रस्य। साम्प्रतममीषामेव चतुर्णा भङ्गानां यथासङ्खयेन विषयान् प्रदर्शयति-"खइयं" इत्यादि ।क्षपक श्रेणिप्रतिपन्नस्य क्षायिकंचरणंवर्धते। उपशमश्रेणीतःप्रतिपतने औपसमिकं चरणं हानिमुपगच्छति।क्षायोपशमिकतत्तद्राग-द्वेषोत्कर्षाऽपकर्षवशतः क्षीयते परिवर्धते च । यथाख्यातं 'क्षिप्तं च' पदैकदेशे पदसमुदायोपचारात् क्षिप्तचित्तचारित्रं चावस्थितम्, यथाख्यातचारित्रे सर्वथा राग-द्वेषोदयाभावात् क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेः स्वतो राग-द्वेषाभावात् । तदेवं यतः क्षिप्तचित्ते चारित्रमवस्थितं अतो नासौ प्रायश्चित्तभागिति ॥ पर आह-ननु सा क्षिप्तचित्ताऽऽश्रवद्वारेषु चिरकालं प्रवर्तिता बहुविधं चासमअसतया प्रलपितं लोक-लोकोत्तर विरुद्धं चसमाचरितंततः कथमेषान प्रायश्चित्तभाक्? अत्र सूरिराह[भा.६२२६] काणं आसवदारेसुवट्टियं पलवितं बहुविधं च। लोगविरुद्धा य पदा, लोउत्तरिया य आइन्ना ।। वृ. 'कामम्' इत्यनुमतौ अनुमतमेतद्, यथा-तयाऽऽश्रवद्वारेषुचिरकालं वर्तितं बहुविधं च प्रलपितं लोकविरुद्धानि लोकोत्तरविरुद्धानि च पदानि 'आचीर्णानि' प्रतिसेवितानि ।। [भा.६२२७] न यबंधहेउविगलत्तणेण कम्मस्स उवचयो होति। लोगो वि एत्थ सक्खी, जह एस परव्वसा कासी ।। वृ-तथापि 'न च' नैव तस्याः क्षिप्तचित्तायाः 'बन्धहेतुविकलत्वेन' बन्धहेतवः-रागद्वेषादयस्तद्विकलत्वेन कर्मोपचयो भवति, कर्मोपचयस्य राग-द्वेषसमाचरिताद्यधीनत्वात्, तस्याश्च रागद्वेषविकल्वात्। तस्याश्च राग-द्वेषविकलत्वंन वचनमात्रसिद्ध किन्तु लोकोऽपि 'अत्र' अस्मिन् विषये साक्षी, यथा-एषा सर्वं परवशाऽकार्षीदिति । ततो राग-द्वेषाभावान्न कर्मोपचयः, तस्य तदनुगतत्वात् ॥तथा चाह[भा.६२२८] राग-दोसानुगया, जीवा कम्मस्स बंधगा होति। रागादिविसेसेण य, बंधविसेसो वि अविगीओ। वृ-राग-द्वेषाभ्यामनुगताः-सम्बधा राग-द्वेषानुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति । ततः 'राग-द्वेषविशेषेण राग-द्वेषतारतम्येन 'बन्धविशेषः' कर्मबन्धतर-तमभावः ‘अविगीतः' अविप्रतिपन्नः । ततः क्षिप्तचित्ताया राग-द्वेषाभावतः कर्मोपचयाभावः॥ अमुमेवार्थं दृष्टान्तेन द्रढयति[भा.६२२९] कुणमाणा वियचेट्ठा, परतंता नट्टिया बहुविहातो। किरियाफलेन जुञ्जति, न जहा एमेव एतं पि॥ वृ- यथा 'नर्तकी' यन्त्रनर्तकी काष्ठमयी 'परतन्त्रा' परायता परप्रयोगत इत्यर्थः, 'बहुधा अपि' बहुप्रकारा अपि, तुशब्दोऽपिशब्दार्थ, चेष्टाः कुर्वाणा 'क्रियाफलेन' कर्मणा न युज्यते; 'एवमेव' अनेनैवप्रकारेणएनामपि क्षिप्तचित्तामनेकाअपिविरुद्धाः क्रियाः कुर्वाणामकर्मकोपचयां पश्यत॥अथात्र परस्य मतमाशङ्कमान आह[भा.६२३०] जइ इच्छसि सासेरा, अचेतणा तेन से चओ नत्थि। जीवपरिग्गहिया पुन, बोंदी असमंजसं समता। वृ-यदि त्वमेतद् ‘इच्छसि' अनुमन्यसे, यथा-“सासेरा" इति देशीपदत्वाद् यन्त्रमयी नर्तकी Page #383 -------------------------------------------------------------------------- ________________ ३८० बृहत्कल्प-छेदसूत्रम् -३-६/२०५ अचेतना तेन कारणेन "से" तस्याः ‘चयः'कर्मोपचयोनास्ति, 'बोन्दि तनुः पुनः ‘जीवपरिगृहीता' जीवेनाधिष्ठिता, जीवपरिगृहीतत्वाच्वश्यंतद्विरुद्धचेष्टातःकर्मोपचयसम्भः,ततोयासासेराष्टिान्तेन समताआपादिता सा 'असमञ्जसम् अयुज्यमाना, अचेतनसचेतनयोईष्टान्त-दान्तिकयोर्वेषम्यात्। अत्राऽऽचार्य प्राह[भा.६२३१] चेयणमचेयणं वा, परतंतत्तेण ननु हुतुल्लाई। नतया विसेसितं एत्थ किंचि भणती सुण विसेसं॥ वृ-इह वस्तु चेतनं वाऽस्तु अचेतनं वा, यदि परतन्त्रं तदा ननु 'हुः' निश्चितं 'परतन्त्रत्वेन' परायत्ततयायतोद्वे अपितुल्येततोनकिञ्चिद्वैषम्यम्।परआह-नत्वयाऽत्रपरकर्मोपचयचिन्तायां 'किञ्चिदपि' मनागपि विसेषिते येन ‘जीवपरिगृहीतत्वेऽप्येकत्र कर्मोपचयो भवति, एकत्र न' इति प्रतिपद्यामहे । अत्राचार्य 'भणति' ब्रूते-शृणु भण्यमानं विशेषम् ॥ तमेवाह[भा.६२३२] ननुसो चेव विसेसो, जं एक्कमचेतणं सचित्तेगं । जह चेयणे विसेसो, तह भणसु इमं निसामेह॥ वृ- ननु ‘स एव' यन्त्रनर्तकी-स्वाभाविकनर्तकीदृष्टान्तसूचितो विशेषः-यद् ‘एकं शरीरं' यन्त्रनर्तकीसत्कंपरायत्ततया चेष्टमानमप्यचेतनम्, 'एकंतु स्वाभाविकनर्तकीशरीरंस्वायत्ततया प्रवृत्तेः 'सचित्तं' सचेतनमिति । पर आह-यथा एष चेतने विशेषो निसन्दिग्धप्रतिपत्तिविषयो भवत तथा 'भणत' प्रतिपादयत । आचार्य प्राह-ततः 'इदं वक्ष्यमाणं "निशमय' आकर्णय॥ [भा.६२३३] जो पेल्लिओ परेणं, हेऊ वसणस्स होइ कायाणं। तत्थ न दोसं इच्छसि, लोगेण समंतहा तं च ॥ वृ-यः परेण प्रेरितः सन् ‘कायनां' पृथिव्यादीनां 'व्यसनस्य' सङ्घट्टन-परितापनादिरूपस्य 'हेतुः' कारणं भवति 'तत्र' तस्मिन् परेण प्रेरिततया कायव्यसनहेतौ यथा न त्वं दोषमिच्छसि, अनात्मवशतया प्रवृत्तेः । कथं पुनर्दोषं नेच्छामि? इत्यत आह-'लोकेन समं' लोकेन सह, लोके तथादर्शनत इत्यर्थः । तथाहि-यो यत्रानात्मवशतया प्रवर्तते तं तत्र लोको निर्दोषमभिमन्यते । अथ एव परप्रेरिततया कायव्यसनहेतुं निर्दोषमभिमन्यताम् । यथा च तं निर्दोषमिच्छसि तथा 'तामपि च क्षिप्तचित्तां निर्दोषां पश्य, तस्या अपि परायत्ततया तथारूपासु चेष्टासु प्रवृत्तेः॥ एतदेव सविशेषं भावयति[भा.६२३४] पस्संतो विय काए, अपच्चलो अप्पगं विधारेउं । जह पेल्लितो अदोसो, एमेव इमं पिपासामो॥ वृ-यथापरेणप्रेरितआत्मानं विधारयितुं' संस्थापयितुम् अप्रत्यलः' असमसर्थः सन्पश्यन्नपि 'कायान्' पृथिवीकायिकादीन् विराधयन् अनिकापुत्राचार्य इव 'अदोषः' निर्दोषः; 'एवमेव' अनेनैव प्रकारेण परायत्ततया प्रवृत्तिलक्षणेन 'इमामपि' क्षिप्तचित्तामदोषां पश्यामः ।। इहपूर्वप्रगुणीभूतायास्तस्याः प्रायश्चित्तदानविषयेत्रय आदेशा गुरुकादय उक्ताअतस्तानेव गुरुकादीन् प्ररूपयति[भा.६२३५] गुरुगो गुरुगतरागो, अहागुरूगो य होइ ववहारो। लहुओ लहुयतरागो, अहालहूगो यववहारो॥ [भा.६२३६] लहुसो लहुसतरागो, अहालहूसो य होइ ववहारो। Page #384 -------------------------------------------------------------------------- ________________ ३८१ उद्देशकः ६, मूलं-२०५, [भा. ६२३६] एतेसिं पच्छित्तं, वोच्छामि अहानुपुव्वीए । [भा.६२३७] गुरुतो यहोइ मासो, गुरुगतरागो य होइचउमासो। अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती॥ [भा.६२३८] तीसा य पन्नवीसा, वीसा पन्नरसेवय।। दसपंच य दिवसाई, लहुसगपक्खम्मि पडिवत्ती॥ [भा.६२३९] गुरुगंच अट्ठमं खलु, गुरुगतरागं च होइ दसमंतु । आहागुरुग दुवालस, गुरुगे पक्खम्मि पडिवत्ती॥ [भा.६२४०] छटुंच चउत्थं वा, आयंबिल-एगठाण-पुरिमड्डा । निव्वियगंदायव्वं, अहलहुसगगम्मि सुद्धो वा ।। वृ-आसांषण्णामपि गाथानां व्याख्या पूर्ववत् । नवरम्-इहागीतार्थप्रत्ययार्थं यथालघुस्वको व्यवहारः प्रस्थापयितव्यः॥ मू. (२०६) दित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ॥ वृ-अस्य व्याख्या प्राग्वत् । नवरम्-दीप्तचित्ता-लाभादिमदेन परवशीभूतहृदया। अथ भाष्यकारो विस्तरमभिधित्सुराह[भा.६२४१] एसेव गमो नियमा, दित्तादीनं पि होइ नायव्यो। जो होइ दित्तचित्तो, सो पलवति निच्छियव्वाइं॥ वृ- ‘एष एव' अनन्तरोक्तक्षिप्तचित्तानिर्ग्रन्थीसूत्रगत एव ‘गमः' प्रकारो लौकिकलोकोत्तरिकभेदादिरूपः 'दीप्तादीनामपि दीप्तचित्ताप्रभृतीनामपि निर्ग्रन्थीनां नियमाद्वेदितव्यः। यत् पुनर्नानात्वं तद् अभिधातव्यम् । तदेवाधिकृतसूत्रेऽभिधित्सुराह-“जो होइ" इत्यादि, यो भवति दीप्तचित्तः सोऽनीप्सितव्यानि बहूनि प्रलपति, बह्वनीप्सितप्रलपनं तस्य लक्षणम्, क्षिप्तचित्तस्त्वपहृतचित्ततया मौनेनाप्यवतिष्ठत इति परस्परं सूत्रयोर्विशेष इति भावः॥ अथ कथमेष दीप्तचित्तो भवति? इति तत्कारणप्रतिपादनार्थमाह[भा.६२४२] इति स असम्माणा, खित्ता सम्माणतो भवे दित्ता। - अग्गी व इंधनेनं, दिप्पति चित्तं इमेहिंतु॥ वृ-'इति' अनन्तरसूत्रोक्ता ‘एषा' क्षिप्तचित्ता 'असम्मानतः' अपमानतो भवति । 'दीप्ता' दीप्तचित्ता पुनः ‘सम्मानतः' विशिष्टसम्मानावाप्तितो भवति । तच्च चित्तं दीप्यतेऽग्निरिवेन्धनैः 'एभिः' वक्ष्यमाणैभिमदादिभिः ।। तानेवाह[भा.६२४३] लाभमएण व मत्तो, अहवा जेऊण दुज्जए सत्तू। दित्तम्मि सायवाहणो, तमहं वोच्छं समासेण॥ कृ-लाभमदेनवामत्तःसन्दीप्तचित्तोभवति, अथवा दुर्जयान् शत्रू जित्वा, एतस्मिन्नभयस्मिन्नपि 'दीप्ते' दीप्तचित्ते लौकिको दृष्टान्तःसातवाहनो राजा । 'तमहं सातवाहनष्टान्तं समासेन वक्ष्ये। यथाप्रतिज्ञातमेव करोति[भा.६२४४] महुराऽऽणत्ती दंडे, सहसा निग्गम अपुच्छिउँ कयरं । तस्स य तिक्खा आणा, दुहा गता दो वि पाडेउं ।। [भा.६२४५] सुतजम्म-महुरपाडण-निहिलंभनिवेदणा जुगव दित्तो। Page #385 -------------------------------------------------------------------------- ________________ ३८२ बृहत्कल्प-छेदसूत्रम् -३-६/२०६ सणिज खंभ कुड्डे, कुट्टे इमाई पलवंतो ॥ वृ-गोयावरी नदी तडे अ पतिट्ठाणं नगरं । तत्थ सालवाहणो राया । तस्स खरओ अमञ्च्चो। अन्नया सो सालवाहनो राया दंडनायगमानवेइ-महुरं घेत्तूणं सिग्घमागच्छ । सो य सहसा अपुच्छिऊण दंडेहिं सह निग्गओ । तओ चिंता जाया का महुरा घेत्तव्वा ? दक्खिणमहुरा उत्तरमहुरा वा ? । तस्स आणा तिक्खा, पुनो पुच्छिउं न तीरति तओ दंडा दुहा काऊण दोसु वि पेसिया । गहिओ दो वि महुराओ । तओ वद्धावगो पेसिओ । तेन गंतूण राया वद्धाविओ-देव ! दो वि महुराओ गहियाओ । इयरो आगओ-देव ! अग्गमहिसीए पुत्तो जाओ । अन्नो आगतो देव! अमुगत्थ पदेसे विपुलो नही पायsो जातो । तओ उवरुवरिं कल्लाणनिवेयणेण हरिसवसविसप्पमाणहियओ परव्वसो जाओ । तओ हरिसं धरिउमचायंतो सयणि कुट्टइ, खंभे आहणइ, कुड्डे विद्दवइ, बहूणिय असमंजसाणि पलवति । तओ खरगेणामच्घेणं तमुवाएहिं पडिबोहिउकामेण खंभा कुड्डा बहू विद्दविया । रन्ना पुच्छियं केनेयं विद्दवियं ? । सो भणेइ-तुमेहिं । ततो 'मम सम्मुहमलीयमेयं भणति' रुट्टेणं रन्ना सो खरगो पाएण ताडितो । तओ संकेइयपुरिसेहिं उप्पाडिओ अन्नत्थ संगोवितो य। तओ कम्हि पओयणे समावडिए रन्ना पुच्छिओ- कत्थ अमञ्चो चिट्ठति ? । संकेइयपुरिसेहि य 'देव ! तुम्हं तेइयं ति । तओ समावत्थो जाओ ताहे संकेइयपुरिसेहिं विनत्तो- देव ! गवेसामि, जइ वि कयाइ चंडालेहिं रक्खिओ होज्जा । तओ गवेसिऊण आनिओ । राया संतुट्ठो । अमचेण सब्भावो कहिओ । तुट्ठेन विउला भोगा दिन्ना | साम्प्रतमक्षरार्थो विव्रियते-सातवाहनेन राज्ञा मथुराग्रहणे "दंडि"त्ति दण्डनायकस्याज्ञप्ति कृता । ततो दण्डाः सहसा 'कां मथुरां गृह्णीमः ?" इत्यपृष्ट्वा निर्गताः । तस्य च राज्ञ आज्ञा तीक्ष्णा, ततो न भूयः प्रष्टुं शक्नुवन्ति । ततस्ते दण्डा द्विधा गताः, द्विधा विभज्य एके दक्षिण-मथुरायामपरे उत्तरमथुरायां गता इत्यर्थः । द्वे अपि च मथुरे पातयित्वा ते समागताः ।। सुतजन्म-मथुरापातन-निधिलाभानां युगपद् निवेदनायां हर्षवशात् सातवाहनो राजा 'दीप्तः' दीप्तचित्तोऽभवत् । दीप्तचित्ततया च 'इमानि' वक्ष्यमाणानि प्रलपन् शयनीय-स्तम्भकुड्यानि कुट्टयति ॥ तत्र यानि प्रलपति तान्याह [भा. ६२४६] सचं भण गोदावरि !, पुव्वसमुद्देण साविया संती । साताहणकुलसरिसं, जति ते कूले कुलं अत्थि ।। वृ- हे गोदावरि ! पूर्वसमुद्रेण 'शपिता' दत्तशपथा सती सत्यं 'भण' ब्रूहि यदि तव कूले सातवाहनकुलसध्शं कुलमस्ति ॥ [भा. ६२४७] उत्तरतो हिमवंतो, दाहिणतो सालिवाहणो राया । समभारभरक्कंता, तेन न पल्हत्थए पुहवी ॥ वृ- 'उत्तरतः ' उत्तरस्यां दिशि हिमवान् गिरि दक्षिणतस्तु सालवाहनो राजा, तेन समभारभराक्रान्ता सती पृथिवी न पर्यस्यति, अन्यथा यदि अहं दक्षिणतो न स्यां ततो हिमवद्गिरिभाराक्रान्ता नियमतः पर्यस्येत् ॥ [ भा. ६२४८ ] एयाणि य अन्त्राणि य, पलवियवं सो अनिच्छियव्वाइं । कुसलेण अमचेणं, खरगेणं सो उवाएणं ॥ वृ- 'एतानि' अनन्तरोदितानि अन्यानि च सोऽनीप्सितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन खरकनाम्नाऽमात्येनोपायेन प्रतिबोधयितुकामेनेदं विहितम् । किम् ? इत्याह Page #386 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं - २०६, [भा. ६२४९ ] [भा. ६२४९ ] विद्दवितं केणं ति व, तुब्भेहिं पायतालणा खरए । कत्थत्ति मारिओ सो, दत्ति य दरिसिते भोगा ।। ३८३ वृ- ‘विद्रवितं' विनाशितं समस्तं स्तम्भ-कुड्यादि । राज्ञा पृष्टम् - केनेदं विनाशितम् ? । अमात्यः सम्मुखीभूय सरोषं निष्ठुरं वक्ति-युष्माभिः । ततो राज्ञा कुपितेन तस्य पादेन ताडना कृता । तदनन्तरं सङ्केतितपुरुषैः स उत्पाटितः सङ्गोपितश्च । ततः समागते कस्मिंश्चित् प्रयोजने राज्ञा पृष्टम् - कुत्रामात्यो वर्तते ? । सङ्केतितपुरुषैरुक्तम्-देव! युष्मत्पादानामविनयकारी इति मारितः । ततः 'दुष्टं कृतं मया' इति प्रभूतं विसूरितवान् । स्वस्थीभूते च तस्मिन् सङ्केतितपुरुषैरमात्यस्य दर्शनं कारितम् । ततः सद्भावकनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदत्ता इति ॥ उक्त लौकिको दीप्तचित्तः । अथ तमेव लोकोत्तरिकमाह [ भा. ६२५० ] महज्झयण भत्त खीरे, कंबलग पडिग्गहे य फलए य । पासाए कप्पट्ठी, वातं काऊण वा दित्ता ॥ वृ- 'महाध्ययनं' पौण्डरीकादिकं दिवसेन पौरुष्या वा कयाचिद् मेधाविन्या क्षुल्लिकया आगमितम्, अथवा भक्तमुत्कृष्टं ल्ब्धवा 'नास्मिन् क्षेत्रे भक्तमीद्दशं केनापि लब्धपूर्वम्', यदि वा क्षीरं चतुर्जातकसम्मिश्रमवाप्य 'नैता शमुत्कृष्टं क्षीरं केनापि लभ्यते', यदि वा कम्बलरत्नमतीवोत्कृष्टम् अथवा विशिष्टवर्णादिकम् अथवा प्रासादे सर्वोत्कृष्टे उपाश्रयत्वेन लब्धे, “कप्पट्ठी "ति ईश्वरदुहितरि रूपवत्यां प्रज्ञादिगुणयुक्तायां लब्धायां प्रमोदते, प्रमोदभरवशाच्च दीप्तचित्ता भवति । एतेन “लाभमदेन वा मत्तः" इति पदं लोकोत्तरे योजितम् । अधुना “दुर्जयान् शत्रून् जित्वा" इति पदं योजयति-वादं वा परप्रवादिन्या दुर्जयया सह कृत्वा तां पराजित्यातिहर्षतः 'दीप्ता' दीप्तचित्ता भवति ॥ एतासु दीप्तचित्तासु यतनामाह [भा. ६२५१] दिवसेण पोरिसीए, तुम पढितं इमाए अद्धेणं । एतीए नत्थि गव्वो, दुम्मेहतरीए को तुज्झं ॥ वृ-दिवसेन पौरुष्या वा त्वया यत् पौण्डरीकादिकमध्ययनं पठितं तद् अनया दिवसस्य पौरुष्या • वाऽर्द्धेन पठितं तथाऽप्येतस्या नास्ति गर्व, तव पुनर्दुमेघस्तरकायाः को गर्व ?, नैव युक्त इति भावः, एतस्या अपि तव हीनप्रज्ञत्वात् ॥ [भा. ६२५२] तद्दव्वस्स दुगुछण, दिट्ठतो भावणा असरिसेणं । काऊ होति दित्ता, वादकरणे तत्थ जा ओमा ॥ वृ- यद् उत्कृष्टं कलमशाल्यादिकं भक्तं क्षीरं कम्बलरत्नादिकं वा तया लब्धं तस्य द्रव्यस्य जुगुप्सनं क्रियते, यथा-नेदमपि शोभनम्, अमुको वाऽस्य दोष इति । यदि वा 'दृष्टान्तः ' अन्येनापीदृशमानीतमिति प्रदर्शनं क्रियते । तस्य च दृष्टान्तस्य भावना 'असध्शेन' शतभागेन सहस्रभागेन वा या तस्याः सकाशाद् हीना तया कर्तव्या । या तु वादं कृत्वा दीप्ताऽभूत तस्याः प्रगुणीकरणायपूर्वं चरिकादिका प्रचण्डा परवादिनी प्रज्ञाप्यते, ततः सा तस्या वादभिमानिन्याः पुरतस्ततोऽप्यवमतरा या साध्वी तया वादकरणे पराजयं प्राप्यते, एवमपभ्राजिता सती प्रगुणीभवति । [भा. ६२५३] दुल्लभदव्वेदेसे, पडिसेहितगं अलद्धपुव्वं वा । आहारोवहि वसही, अक्खतजोनी व धूया वि ॥ वृ-यत्र देशे क्षीर- घृतादिकं द्रव्यं दुर्लभं तत्र तद् अन्यासामार्यिकाणां 'प्रतिषिद्धं' 'न प्रयच्छामः' Page #387 -------------------------------------------------------------------------- ________________ ३८४ बृहत्कल्प-छेदसूत्रम् -३-६/२०६ . इति दायकेन निषिद्धं 'अलब्धपूर्वं वा' कयाऽपि पूर्वं तत्र न लब्धं तत्र तद् लब्ध्वा दीप्तचित्ता भवतीति वाक्यशेषः, यद्वा सामान्येनोत्कृष्ट आहार उत्कृष्ट उपधिरुत्कृष्टा वा वसतिर्लब्धा अक्षतयोनिका वा 'दुहिता' काचीदश्वरपुत्रिका लब्धा तत्रेयं यतना॥ [भा.६२५४] पगयम्मि पन्नवेत्ता, विजाति विसोधि कम्ममादी वा । खुड्डीय बहुविहे आनियम्मि ओभावणा पउणा ॥ वृ-'प्रकृते' विशिष्टतरे भक्त-क्षीर-कम्बल-रलादिकेऽवमतरायाः सम्पादयितव्ये तथाविधं श्रावकमितरं वा प्रज्ञाप्य, तदभावे कस्यापि महर्द्धिकस्य विद्यां आदिशब्दामन्त्र-चूर्णादीन्यावत् 'कर्मादि' कार्मणमपि प्रयुज्य, आदिशब्दः स्वगतानेकभेदसूचकः, ततः क्षुल्लिकतराया गुणतः शतभाग-सहस्रभागादिना हीनाया विशिष्टमाहारादिकं सम्पादयन्ति । ततो विद्यादिप्रयोगजनितपापविशुद्धये 'विशोधि' प्रायश्चित्तं ग्राह्यम् । एवं क्षुल्लिकया 'बहुविधे' क्षीरादिके आनीते सति तस्या अपभ्राजना क्रियते तः प्रगुणा भवति॥ [भा.६२५५] अद्दिट्ठसड कहणं, आउट्टा अभिणवो य पासादो। कयमित्ते य विवाहे, सिद्धाइसुता कतितवेणं॥ वृ-यस्तया श्राद्धोन दृष्टः-अष्टपूर्वस्तस्यादृष्टस्य श्राद्धस्य 'कथन' प्रज्ञापना, उपलक्षणमेतद्, अन्यस्य महर्द्धिकस्य विद्यादिप्रयोगतोऽभिमुखीकरणम्, ततस्ते आवृत्ताः सन्तस्तस्या लब्ध्यभिमानिन्याः समीपमागत्य ब्रुवते-वयमेतया क्षुल्लिकया प्रज्ञापितास्ततः 'अभिनव एव' कृतमात्र एव युष्माकेष प्रासादो दत्त इति । तथा कैतवेन सिद्धादिसुताः' सिद्धपुत्रादिदुहितरः कृतमात्र एव विवाहे उत्पादनीयाः । इयमत्र भावना-सिद्धपुत्रादीनां प्रज्ञापनां कृत्वा तद्दुहितरः कृतमात्रविवाहा एव व्रतार्थं तत्समक्षमुपस्थापनीयाः येन तस्या अपभ्राजना जायते । ततः प्रगुणीभूतायां तस्यां यदि तासां न तात्विकी व्रतश्रद्धा तदा शकुनादिवैगुण्यमुद्भाव्य मुच्यन्ते। मू. (२०७) जक्खाइडिं निग्गंथिं निग्गंथे गिण्हमाणे वा नाइक्कमइ॥ वृ-अस्य सम्बन्धमाह[भा.६२५६] पोग्गल असुभसमुदयो, एस अनागंतुगो व दोण्हं पि। जक्खावेसेणं पुन, नियमा आगंतुको होइ॥ वृ-'द्वयोः' क्षिप्तचित्ता-दीप्तचित्तयोः ‘एषः' पीडाहेतुत्वेनान्तरमुष्टिोऽशुभपुद्गलसमुदयः 'अनागन्तुकः' स्वशरीरसम्भवी प्रतिपादितः । यक्षावेशेन पुनर्योयतिपीडाहेतुरशुभपुद्गलसमुदयः स नियमादागन्तुको भवति । ततोऽनागन्तुकाशुभपुद्गलसमुदयप्रतिपादनानन्तरमागन्तुकाशुभपुद्गलसमुदयप्रतिपादनार्थमेष सूत्रारम्भः ।। प्रकारान्तरेण सम्बन्धमाह[भा.६२५७] अहवा भय-सोगजुया, चिंतद्दन्ना व अतिहरिसिता वा। आविस्सति जक्खेहि, अयमन्नो होइ संबंधो॥ वृ-'अथवा' इति प्रकारान्तरोपदर्शने । भय-शोकयुक्ता वा चिन्तार्दिता वा, एतेन क्षिप्तचित्ता उक्ता; अतिहर्षिता वा या परवशा, अनेन दीप्तचित्ताऽभिहिता; एषा द्विविधाऽपि यक्षैः परवशहृदयतया 'आविश्यते' आलिङ्गयते।ततः क्षिप्त-दीप्तचित्तासूत्रानन्तरंयक्षाविष्टासूत्रमित्ययमन्यो भवति सम्बन्धः । अनेन सम्बन्धेनायातस्यास्या व्याख्या-सा च प्राग्वत् । सम्प्रति यतो यक्षाविष्टा भवति तत् प्रतिपादनार्थमाह Page #388 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं - २०७, [भा. ६२५८] [भा. ६२५८] पुव्वभवियवेरेणं, अहवा राएण राइया संती । एतेहि जक्खइट्ठा, सवत्ति भयए य सज्झिलगा । वृ- 'पूर्वभविकेन' भवान्तरभाविना वैरेण अथवा रागेण रञ्जिता सती यक्षैराविश्यते । एताभ्यां द्वेषरागाभ्यां कारणाभ्यां यक्षाविष्टा भवति । तथा चात्र पूर्वभविके वैरे सपत्नीध्ष्टान्तो रागे भृतकःष्टान्तः सज्झलकदृष्टान्तश्चेति ॥ तत्र सपत्नीध्ष्टान्तमाह [भा. ६२५९] वेस्सा अकामतो निज्जराए मरिऊण वंतरी जाता । पुव्वसवत्तिं खेत्तं, करेति सामन्नभावम्मि ॥ वृ- एगो सेट्ठी । तस्स दो महिला। एगा पिया, एगा वेस्सा, अनिष्टेत्यर्थः । तत्थ जा वेस्सा सा अकामनिज्जराए मरिऊण वंतरी जाया । इयरा वि तहारूवाणं साहुणीणं पायमूले पव्वइया । सा य वंतरी पुव्वभववेरेण छिड्डाणि मग्गइ । अन्नया पमत्तं दद्दूण छलियाइया || अक्षरार्थस्त्वयम्श्रेष्ठिसत्का 'द्वेष्या' अनिष्टा भार्याऽकामनिर्जरया मृत्वा व्यन्तरी जाला । ततः पूर्वसपत्नीं श्रामण्यभावे व्यवस्थितां पूर्वभविकं वैरमनुस्मरन्ती 'क्षिप्तां' यक्षाविधं कृतवती । गाधायां वर्तमाननिर्देशः प्राकृतत्वात् ॥ अथ भृतक ध्ष्टान्तमाह [ भा. ६२६० ] भयतो कुटुंबिनीए, पडिसिद्धो वाणमंतरो जातो । सामन्नम्मि पमत्तं, छलेति तं पुव्ववेरेणं ॥ वृएगा कोडुंबिनी ओरालसरीरा एगेन भयगेणं ओरालसरीरेणं पत्थिया। सो तीए निच्छीओ। तओ सो गाढमज्झोववन्नो तीए सह संपयोगमलभमाणो दुक्खसागरमोगाढो अकामनिजराए मरिऊण वंतरी जाओ। साय कोडुंबिनी संसारवासविरत्ता पव्वइया । सा तेन आभोइया । पमत्तं दट्टू छलिया || अक्षरार्थस्त्वयम्- 'भृतकः' कर्मकरः कुटुम्बिन्या प्रतिषिद्धो वानमन्तरो जातः । ततः श्रामण्यस्थितां तां प्रमत्तां मत्वा पूर्ववैरेण छलितवान् ॥ अथ सज्झिलकदृष्टान्तमाह[भा. ६२६१] जेट्ठो कनेट्ठभज्जाए मुच्छिओ निच्छितो य सो तीए । ३८५ जीवंते य मम्मी, सामने वंतरो छलए ॥ वृ- एगम्मिगामे दो सज्झिलका, भायरो इत्यर्थः । तत्थ जेट्ठो कणिट्ठस्स भारियाए अज्झोववन्नो । सो तं पत्थे । सा नेच्छ भणइ य-तुमं अप्पणो लहुबंधवं जीवंतं न पाससि ? । तेन चिंतियं-जाव एसो जीव ताव मे नत्थि एसा । एवं चिंतित्ता छिद्दं लभिऊण विससंचारेण मारिओ लहुमाया । तओ भणियं जस्स तुमं भयं कासी सो मतो, इदानिं पूरेहि मे मनोरहं । तीए चिंतियं नूणमेतेन मारितो, धिरत्थु कामभोगाणमिति संवेगेण पव्वइया । इयरो वि दुहसंतत्तो कामनिज्जराए मओ वंत जातो विभंगेण पुव्वभवं पासइ । तं साहुणिं दवण पुव्वभवयं वेरमणुसरंतो पमत्तं छलियाइओ ।। अक्षरयोजना त्वियम् - ज्येष्ठः कनिष्ठभार्यायां मूर्छितः, न चासौ तया ईप्सितः किन्तु 'जीवन्तं स्वभ्रातरं न पश्यसि ? ' इति भणितवती । ततः 'अस्मिन् जीवति ममैषा न भवति' इतिबुध्या तं मारितवान् । मृते च तस्मिन् श्रामण्ये स्थितां तां व्यन्तरो जातः सन् छलितवान् ॥ अथैवंछलिताया यतनामाह [ भा. ६२६२] तस्स य भूततिगिच्छा, भूतरवावेसणं सयं वा वि । नीउत्तमं च भावं, नाउं किरिया जहा पुव्वं ॥ 20 25 Page #389 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् -३-६/२०७ वृ-तस्या एवं ‘भूतरवावेशनं' भूतरवैः भूतप्रयुक्तासमञ्जसप्रलापैः आवेशनं यक्षावेशनं मत्वा भूतचिकित्सा कर्तव्या कथम् ? इत्याह- 'तस्य' भूतस्य नीचमुत्तमं च भावं ज्ञात्वा । कथं ज्ञात्वा ? इत्याह- 'स्वयं वा' कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः सम्यक् परिज्ञाय, अपिशब्दाद् अन्यस्माद्वा मान्त्रिकादेः सकाशाद् ज्ञात्वा । तस्याः क्रिया विधेया, यथा 'पूर्वं' क्षिप्तचित्ताया उक्ता ॥ इह यक्षाविष्टा किलोन्मादप्राप्ता भवति ततो यक्षाविष्टासूत्रानन्तरमुन्मादप्राप्तासूत्रमाह ३८६ मू. (२०८) उम्मायपत्तिं निग्गंथिं निग्गंथे गिण्हमाणे वा नातिक्कमइ ॥ वृ- अस्य व्याख्या प्राग्वत् ॥ अथोन्मादप्ररूपणार्थं भाष्यकारः प्राह[ भा. ६२६३] उम्मातो खलु दुविधो, जक्खाएसो य मोहनिज्जो य । जक्खाएसो वृत्तो, मोहेन इमं तु वोच्छामि ॥ वृ- उन्मादः 'खलु' निश्चितं 'द्विविधः' द्विप्रकारः । तद्यथा-यक्षावेशहेतुको यक्षावेशः, कार्ये कारणोपचारात् । एवं मोहनीयकर्मोदयहेतुको मोहनीयः । चशब्दौ परस्परसमुच्चयार्थी स्वगतानेकभेदसंसूचकौ वा । तत्र यः 'यक्षावेशः' यक्षावेशहेतुकः सोऽनन्तरसूत्रे उक्तः । यस्तु 'मोहेन' मोहनीयोदयेन; मोहनीयं नाम- येनात्मा मुह्यति, तच्च ज्ञानावरणं मोहनीयं वा द्रष्टव्यम्, द्वाभ्यामप्यातमनो विपर्यासापादनात् तेनोत्तरत्र “अहव पित्तमुच्छाए" इत्याद्युच्यमानं न विरोधभाक्; "इमो"त्ति अयम्-अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षीभूत इव तमेवेदानीं वक्ष्यामि । प्रतिज्ञातं निर्वाहयति [भा. ६२६४] रूवंगं दवणं, उम्मातो अहव पित्तमुच्छाए । तद्दायणा निवाते, पित्तम्मि य सक्करादीनि ॥ वृ-रूपं च-नटदिराकृति अङ्गं च-गुह्याङ्गं रूपाङ्गं तद् दृष्टवा कस्या अप्युन्मादो भवेत् । अथवा 'पित्तमूर्च्छया' पित्तोद्रेकेण उपलक्षणत्वाद् वातोद्रेकवशतो वा स्यादुन्मादः । तत्र रूपाङ्गं दृष्टवा यस्या उन्मादः सञ्जातस्तस्यातस्य रूपाङ्गस्य विरूपावस्थां प्राप्तस्य दर्शना कर्तव्या । या तु वातेनोन्मादं प्राप्ता सा निवाते स्थापनीया । उपलक्षणमिदम्, तेन तैलादिना शरीरस्याभ्यङ्गो घृतपायनं च तस्याः क्रियते । 'पित्ते' पित्तवशादुन्मत्तीभूतायाः शर्करा - क्षीरादीनि दातव्यानि ॥ कथं पुनरसौ रूपाङ्गदर्शनेनोन्मादं गच्छेत् ? इत्याह [ भा. ६२६५ ] दवण नडं काई, उत्तरवेउव्वितं मतणखेत्ता । तेनेव य रूवेणं, उड्डम्म कयम्मि निव्विन्ना ।। वृ- काचिदल्पसत्त्वा संयती नटं दृष्ट्वा किंविशिष्टम् ? इत्याह- 'उत्तरवैकुर्विकम् ' उत्तरकालभाविवस्त्र - SSभरणादिविचित्रकृत्रिमविभूषाशोभितम्, ततः काचिद् 'मदनक्षिप्ता' उन्मादप्राप्ता भवेत् तत्रेयं यतना-उत्तरवैकुर्विकापसारणेन तेनैव स्वाभाविकेन रूपेण स नटस्तस्या निर्ग्रन्थ्यादर्श्यते । अथासौ नटः स्वभावतोऽपि सुरूपस्ततोऽसौ ऊर्ध्व-वमनं कुर्वन् तस्या दर्श्यते, ततः तस्मिन्नूर्ध्वे कृते सति काचिदल्पकर्मा निर्विन्ना भवति, तद्विषयं विरागं गच्छतीत्यर्थः । [भा. ६२६६ ] पत्रवितो उ दुरूवो, उम्मंडिज्जति अ तीए पुरतो तु । रूववतो पुन भत्तं, तं दिजति जेन छड्डेति । बृ- अन्यच्च यदि नटः स्वरूपतो दुरूपो भवति ततः स पूर्वं प्रज्ञाप्यते, प्रज्ञापितश्च सन् 'तस्याः ' उन्मादप्राप्तायाः पुरतः ‘उन्मण्ड्यते' यत् तस्य मण्डनं तत् सर्वमपनीयते ततो विरूपरूपदर्शनतो Page #390 -------------------------------------------------------------------------- ________________ उद्देश : ६, मूलं - २०८, [भा. ६२६६ ] ३८७ विरागो भवति । अथासौ नटः स्वभावत एव रूपवान्- अतिशायिना उद्भटरूपेण युक्तस्ततस्तस्य भक्तं मदनफलमिश्रादिकं तद् दीयते येन भुक्तेन तस्याः पुरतः 'छर्दयति' उद्वमति, उद्वमनं च कुर्वन् किलासौ जुगुप्सनीयो भवति ततः सा तं दृष्ट्वा विरज्यत इति ।। गुज्झंगम्मि उ वियडं, पज्जावेऊण खरगमादीणं । तद्दायणे विरागो तीसे तु हवेज दवणं ॥ [भा. ६२६७ ] वृ-यदि पुनः कस्या अपि गुह्याङ्गविषय उन्मादो भवति न रूप-लावण्याद्यपेक्षः ततः 'खरकादीनां' द्व्यक्षरकप्रभृतीनां 'विकटं' मद्यं पाययित्वा प्रसुप्तीकृतानां पूतिमद्योद्गालखरण्टितसर्वशरीराणामत एव मक्षिकाभिणिभिणायमानानां तद्दायणे "त्ति तस्य गुह्याङ्गस्य मद्योद्गालादिना बीभत्सीभूतस्य दर्शना क्रियते । तच्च दृष्टवा तस्या आर्यिकाया विरागो भवेत् ततः प्रगुणीभवति ॥ मू. (२०९) उवसग्गपत्तं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिक्कमइ ॥ वृ- अस्य सम्बन्धमाह[ भा. ६२६८ ] मोहेन पित्ततो वा, आतासंवेतिओ समक्खाओ । एसो उ उवसग्गो, अयं तु अन्नो परसमुत्थो । वृ- 'मोहेन' मोहनीयोदयेनेत्यर्थः 'पित्ततो वा' पित्तोदयेन य उन्मत्तः सः 'आत्मसंवेदिकः' आत्मनैवात्मनो दुःखोत्पादकः समाख्यातः, यच्चात्मनैवात्मदुः खोत्पादनमेष आत्मसंवेदनीय उपसर्गः । ततः पूर्वमात्मसंवेदनीय उपसर्ग उक्तः । तत उपसर्गाधिकारादयमन्यः परसमुत्थ उपसर्गोऽनेन प्रतिपाद्यत इति ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-सा च प्राग्वत् । तत्रोपसर्गप्रतिपादनार्थमाह[भा. ६२६९ ] तिविहे य उवसग्गे, दिव्वे मानुस्सए तिरिक्खे य । दिव्वे य पुव्वभणिए, मानुस्से आभिओग्गे य ॥ वृ-त्रिविधः खलु परसमुत्थ उपसर्गः । तद्यथा दैवो मानुष्यकस्तैरश्चश्च । तत्र 'दैवः' देवकृतः 'पूर्वम्' अनन्तरसूत्रस्याधस्ताद् द्भणितः, 'मानुष्यः पुनः' मनुष्यकृतः ‘आभियोग्यः’विद्याद्यभियोगजनितस्तावद् भण्यते ॥ [भा. ६२७० ] विज्जाए मंतेन व, चुन्त्रेण वजोतिया अणप्पवसा । अनुसासणा लिहावण, खमए मधुरा तिरिक्खाती ॥ वृ- विद्यया वा मन्त्रेण वा चूर्णेन वा 'योजिता' सम्बन्धिता सती काचिदनात्मवशा भवेत् तंत्र 'अनुशासना' इति येन रूपलुब्धेन विद्यादि प्रयोजितं तस्यानुशिष्टि क्रियते, यथा-एषा तपस्विनी महासती, न वर्तते तव तां प्रति ईशं कर्तुम्, एवंकरणे हि प्रभूततरपापोपचयसम्भव इत्यादि । अथैवमनुशिष्टोऽपि न निवर्तते तर्हि तस्य तां प्रतिविद्यया विद्वेषणमुत्पाद्यते । अथ नास्ति ताशी प्रतिविद्या ततः ‘“लिहावण' त्ति तस्य सागारिकं विद्याप्रयोगतस्तस्याः पुरत आलेखाप्यते येन सा तद् दृष्ट्वा ‘तस्य सागारिकमिदमिति बीभत्सम्' इति जानाना विरागमुपपद्यते । “खमए महुरा" इति मथुरायां श्रमणीप्रभृतीनां बोधिकस्तेनकृत उपसर्गोऽभवत् तं क्षपको निवारितवान्, एषोऽपि मानुष उपसर्गः । तैरश्चमाह-“तिरिक्खाइ "त्ति तिर्यञ्चो ग्रामेयका आरण्यका वा श्रमणीनामुपसर्गान् कुर्वन्ति ते यथाशक्ति निराकर्तव्याः । साम्प्रतमेनामेव गाथां विवरीषुराह [भा. ६२७१] विज्जादऽभिओगो पुन, एसो मानुस्सओ य दिव्वो य । तं पुन जाणंति कहं, जति नामं गेण्हए तस्स ॥ Page #391 -------------------------------------------------------------------------- ________________ ३८८ बृहत्कल्प-छेदसूत्रम् -३-६/२०९ वृ-विद्यादिभिः 'अभियोगः' अभियुज्यमानता । एष पुनः द्विविधः' द्विप्रकारः, तद्यथामानुषिको दैवश्च । तत्र मनुष्येण कृतो मानुषिकः । देवस्यायं तेन कृतत्वा दैवः । तत्र देवकृतो मनुष्यकृतो वा विद्यादिभिरभियोग एष एव यत् तस्मिन् दूरस्थितेऽपि तप्रभावात् सा तथारूपा उन्मत्ता जायते । अथ तं' विद्याद्याभियोगं दैवं मानुषिकं वा कतं जानन्ति? । सूरिराह-तयोर्देवमानुषयोर्मध्ये यस्य नाम साऽभियोजिता गृह्णाति तत्कृतः स विद्याद्यभियोगो ज्ञेयः॥ साम्प्रतं “अनुसासणा लिहावण" इत्येतद् व्याख्यानयति[भा.६२७२] अनुसासियम्मिअठिए, विद्देसंदेंति तह विय अठंते। जक्खीए कोवीणं, तीसे पुरओ लिहावेंति॥ वृ- येन पुरुषेण विद्यादि अभियोजितं तस्यानुशासना क्रियते । अनुशासितेऽप्यस्थिते विद्याप्रयोगतस्तां विवक्षितां साध्वी प्रति तस्य विद्याद्यभियोक्तुर्विद्वेथषं ददति' उत्पादयन्ति वृषभाः। तथापि च तस्मिन् अतिष्ठति ‘यक्ष्या' शुन्या तदीयं कौपीनं तस्याः पुरतो विद्याप्रयोगतो लेहयन्तियेन सा तद् दृष्ट्वा तस्येदं सागारिकमितिजानाना विरज्यते॥सम्प्रति प्रतिविद्याप्रयोगे हेढादरताख्यापनार्थमाह[भा.६२७३] विसस्स विसमेवेह, ओसहं अग्गिमग्गिणो। मंतस्स पडिमंतो उ, दुञ्जनस्स विवजणं॥ वृ-विषस्यौषधं विषमेव, अन्यथा विषानिवृत्तेः । एवमग्नेर्भूतादिप्रयुक्तस्यौषधमग्नि।मन्त्रस्य प्रतिमन्त्रः । दुर्जनस्यौषधं विवर्जन' ग्राम-नगरपरित्यागेन परित्यागः । ततो विद्याद्यभियोगे साधु-साध्वीरक्षणाथ प्रतिविद्यादि प्रयोक्तव्यमिति॥ [भा.६२७४] जइ पुहोज गिलाणी, निरुब्ममाणी उतो से तेइच्छं। संवरियमसंवरिया, उवालभंते निसिं वसभा॥ वृ-यदि पुनर्विद्याधभियोजिता तदभिमुखं गच्छन्ती निरुध्यमाना ग्लाना भवति ततः "से" 'तस्याः' साध्व्याश्चिकित्सां 'संवृताः' केनाप्यलक्ष्यमाणाः कुर्वन्ति । तथा 'असंवृताः' येन विद्याधभियोजितं तस्य प्रत्यक्षीभूता वृषभाः 'निशि' रात्रौ तं उपालभन्ते भेषयन्ति पिट्टयन्ति च तावद् यावद् असौ तां मुञ्चतीति ।। "खमए महुर"त्ति अस्य व्याख्यानमाह[भा.६२७५] थूभमह सड्डिसमणी, बोहिय हरणंतु निवसुताऽऽतावे। मझेण य अकंदे, कयम्मि जुद्धेण मोएति॥ वृ-महुरानयरीएथूभो देवनिम्मितो।तस्स महिमानिमित्तं सहीतो समणीहिं समं निग्गयातो। रायपुत्तोय तत्थ अदूरे आयावंतो चिट्ठइ । ताओ सड्डी-समणीओ बोहिएहिं गहियाओ तेनं-तेनं आनियाओ।ताहिं तं साहुंदणं अक्कंदो कओ।तओरायपुत्तेण साहुणा जुद्धं दाऊणमोइयाओ। अक्षरगमनिका त्वियम्-स्तूपस्य महे महोत्सवे श्राद्धिकाः श्रमणीभिसह निर्गताः। तासां बोधिकैः' चौरैर्हरणम् । नृपसुतश्च तत्रादूरे आतापयति । बौधिकैश्च तास्तस्य मध्येन नीयन्ते । ताभिश्च तं दृष्टवाऽऽक्रन्दे कृतेस युद्धेन तेभ्यस्ता मोचयति।उक्तो मानुषिक उपसर्ग ।सम्प्रति तैरश्चमाह[भा.६२७६] गामेनाऽऽरण्णे व, अभिभूतं संजतिं तु तिरिगेणं । ____थद्धं पकंपियं वा, रक्खेज अरक्खणे गुरुगा। वृ-ग्राम्येणाऽऽरण्येन वा तिरश्चाऽभिभूतां संयतीं यदि वा 'स्तब्धां' तद्भयात् स्तम्भीभूतां Page #392 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-२०९, [भा. ६२७६] ३८९ 'प्रकम्पितां वा' तद्भयप्रकम्पमानशरीरां रक्षेत् । यदि पुनर्न रक्षति सत्यपि बले ततोऽरक्षणे प्रायश्चित्तं 'गुरुकाः' चत्वारो गुरुका मासाः ॥ मू. (२१०) साहिगरणं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिक्कमइ । वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.६२७७] अभिभवमाणो समणिं, परिग्गहो वा से वारिते कलहो। किंवा सति सत्तीए, होइ सपक्खे उविक्खाए॥ वृ-'श्रमणी' साध्वीमभिभवन् गृहस्थो यदि वा "से" 'तस्य' गृहस्थस्य 'परिग्रहः' परिजनः, स चाऽभिभवन् वारितः कलहं श्रमण्या सार्द्धं कुर्यात् ततो य उपशामनालब्धिमान् साधुस्तेन कलह उपशमयितव्यः, न पुनरुपेक्षा विधेया । कुतः? इत्याह-किं वा सत्यां शक्तौ 'स्वपक्षे' स्वपक्षस्योपेक्षया? नैवकिञ्चिदितिभावः केवलं स्वशक्तिनैष्फल्यमुपेक्षानिमित्तप्रायश्चित्तापत्तिश्च भवति, तस्मादवश्यं स्वशक्ति परिस्फोरणीया। एतत्प्रदर्शनार्थमधिकृतसूत्रमारभ्यते ॥ अस्य व्याख्या प्राग्वत्॥अत्र भाष्यम[भा.६२७८] उप्पन्ने अहिगरणे, ओसमणं दुविहऽतिक्कम दिस्स। अनुसासण भेस निरंभणा य जो तीए पडिपक्खो॥ वृ-संयत्या गृहस्थेन सममधिकरणे उत्पन्ने द्विविधमतिक्रमंदृष्टवा तस्याधिकरणस्य व्यवशमनं कर्तव्यम् । किमुक्तं भवति?-स गृहस्थोऽनुपशान्तः सन् तस्याः संयत्याः संयमभेदं जीवितभेदं चेति द्विविधमतिक्रमं कुर्यात् तत उपशमयितव्यमधिकरणम् । कथम् ? इत्याह-यः तस्याः' संयत्याः 'प्रतिपक्षः' गृहस्थस्तस्य प्रथमतः कोमलवचनैरनुशासनं कर्तव्यम्, तथाऽप्यतिष्ठति 'भीषणं' भापनं कर्तव्यम्, तथाऽप्यभिभवतो 'निरुम्भणं' यस्य या लब्धिस्तेन तया निवारणं कर्तव्यम् ॥ मू. (२११) सपायच्छित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिकमइ ।। वृ-अस्य सम्बन्धमाह[भा.६२७९] आहगरणम्मि कयम्मि, खामिय समुपट्टिताए पच्छित्तं।। तप्पढमताए भएणं, होति किलंता व वहमाणी॥ वृ- अधिकरणे कृते क्षामिते च तस्मिन् समुपस्थितायाः प्रायश्चित्तं दीयते, ततः साधिकरणसूत्रानन्तरं प्रायश्चित्तसूत्रमुक्तम् ॥ अस्य व्याख्या-प्राग्वत् ॥ सा सप्रायश्चित्ता 'तप्रथमतायां' प्रथमतः प्रायश्चित्ते दीयमाने 'भयेन' 'कथमहमेतत् प्रायश्चित्तं वक्ष्यामि ?' इत्येवंरूपेण विषन्ना भवेत्, यदि वा प्रायश्चित्तं वहन्ती तपसा क्लान्ता भवेत् ।। तत्रेयं यतना[भा.६२८०] पायच्छित्ते दिने, भीताए विसज्जणं किलंताए। अनुसहि वहंतीए, भएण खित्ताइ तेइच्छं। वृ-प्रायश्चित्ते दत्ते यदि बिभेति ततस्तस्या भीतायाः क्लान्तायाश्च विसर्जनम्, प्रायश्चित्तं मुत्कलं क्रियत इत्यर्थः । अथ वहन्ती क्लाम्यति ततस्तस्या वहन्त्या अनुशिष्टिर्दीयते, यथा-मा भैषीः, बहुगतम्, स्तोकं तिष्ठति, यदि वा वयंसाहाय्यं करिष्यामइति।अथवमनुशिष्यमाणाऽपि भयेन क्षिप्तचित्ता भवति ततस्तस्याः 'चैकित्स्यं चिकित्सायाः कर्म कर्तव्यम् । मू. (२१२) भत्त-पानपडियाइखियं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिकमइ ॥ Page #393 -------------------------------------------------------------------------- ________________ ३९० बृहत्कंल्प-छेदसूत्रम् - ३-६/२१२ वृ- अस्य सूत्रस्य सम्बन्धमाह [भा. ६२८१] पच्छित्तं इत्तिरिओ, होइ तवो वन्निओ य जो एस। आवकथितो पुन तवो, होति परिना अनसनं तु ॥ वृ- 'प्रायश्चित्तं' प्रायश्चित्तरूपं यद् एतत् तपोऽनन्तरसूत्रे वर्णितम् एतत् तप इत्वरं भवति, यत् पुनः परिज्ञारूपं तपोऽनशनं तद् यावत्कथिकम्, तत इत्वरतपः प्रतिपादनानन्तरं यावत्कथिकतपःप्रतिपादनार्थमधिकृतं सूत्रम् ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या- प्राग्वत् । नवरम्-भक्तं च पानं च भक्त पाने ते प्रत्याख्याते यया सा तथोक्ता । क्तान्तस्य परनिपातः सुखादिदर्शनात् ॥ अत्र भाष्यम्[भा. ६२८२] अहं वा उं वा, समणीणं विरहिते कहेमाणो । मुच्छाए विपडिताए, कप्पति गहणं परिन्नाए । वृ- 'श्रमणीनाम्' अन्यासां साध्वीनां 'विरहिते' अशिवादिभि कारणैरभावे एकाकिन्या आर्यिकाया भक्त - पानप्रत्याख्याताया अर्थं वा हेतुं वा कथयतो निर्ग्रन्थस्य यदि सा मूर्च्छया विपतेत्, ततो मूर्च्छया विपतितायास्तस्याः “परिन्नाए "त्ति 'परिज्ञायाम्' अनशने सति कल्पते ग्रहणम्, उपलक्षणत्वाद् अवलम्बनं वा कर्तुम् । इदमेव व्याचष्टे [भा. ६२८३] गीतऽज्जाणं असती, सव्वाऽसतीए व कारण परिन्ना । पानग भत्त समाही, कहणा आलोत धीरवनं ।। वृ- गीतार्थानामार्थिकाणाम् 'असति' अभावे यदि वाऽशिवादिकारणतः सर्वासामपि साध्वीनामभावे एकाकिन्या जातया 'परिज्ञा' भक्तप्रत्याख्यानं कृतम्, ततस्तस्याः कृतभक्तपानप्रत्याख्यानायाः सीदन्त्या योग्यपानकप्रदानेन चरमेप्सितभक्तप्रदानेन च समाधिरुत्पादनीयः । 'कथना' धर्मकथना यथाशक्ति स्वशरीरानाबाधया कर्त्तव्या । तथा 'आलोकम्' आलोचनां सा दापयितव्या । यदि कथमपि चिरजीवनेन भयमुत्पद्यते, यथा-नाद्यापि म्रियते, किमपि भविष्यति इति न जानीम इति; तस्या धीरापना कर्तव्या ।। [भा. ६२८४] जति वा न निव्वहेज्जा, असमाही वा वि तम्मि गच्छम्मि । करणिजं अन्नत्थ वि, ववहारो पच्छ सुद्धा वा ॥ वृ- यदि वा प्रबलबुभुक्षावेदनीयोदयतया कृतभक्त - पानप्रयाख्याना सा न निर्वहेत्, न यावत्कथिकमनशनं प्रतिपालयितुं क्षमा इति यावत्, असमाधिर्वा तस्मिन् गच्छे तस्या वर्तते ततोऽन्यत्र नीत्वा यद् उचितं तत् तस्याः करणीयमिति । अथ पश्चादनशनप्रत्याख्यानभङ्गविषयस्तस्याः 'व्यवहारः' प्रायश्चित्तं दातव्यः । अथ स्वगच्छासमाधिमात्रेणान्यर गता ततः सा मिथ्यादुष्कृतप्रदानमात्रेण शुद्धेति ॥ मू. (२१३) अट्ठजायम्मि निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥ वृ- अस्य सूत्रस्य सम्बन्धमाह [ भा. ६२८५ ] वृत्तं हि उत्तमट्ठे, पडियरणट्ठा व दुक्खरे दिक्खा । इंती व तस्समीवं, जति हीरति अट्ठजायमतो | वृ- उक्तं 'हि' यस्मात् पूर्वं पञ्चकल्पे-'उत्तमार्थे' उत्तमार्थ- पाक्सूत्राभिहितं प्रतिपत्तुकामस्य "दुक्खरे "त्ति द्व्यक्षरस्य द्वयक्षरिकाया वा दीक्षा दातव्या, यदि वा 'प्रतिचरणाय' 'एषा दीक्षिता Page #394 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-२१३, [भा. ६२८५] ३९१ मां ग्लानां सतीं प्रतिचरिष्यति' इतिनिमित्तं द्व्यक्षरिका दीक्षिता भवति, सा च पश्चाद् दायकैः प्रतिगृह्येत तस्या वोत्तमार्थप्रतिपन्नाया मूलं 'आयान्ती' आगच्छन्ती बोधिकादिना स्तेनेन यदि ह्रियते अतस्तां प्रति अर्थजातसूत्रावकाशः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-सा च प्राग्वत् ॥ साम्प्रतमर्थजातशब्दव्युत्पत्तिप्रतिपादनार्थमाह [भा. ६२८६ ] अद्वेण जीए कज्जं, संजातं एस अट्ठजाता तु । तं पुन संजमभावा, चालिजंती समवलंबे ॥ वृ- 'अर्थेन' अर्थितया सञ्जातं कार्यं यया यद्वा अर्थेन द्रव्येण जातम् उत्पन्नं कार्यं यस्याः सा अर्थजाता, गमकत्वादेवमपि समासः । उपलक्षणमेतत्, तेनैवमपि व्युत्पत्ति कर्तव्या - अर्थ - प्रयोजनं जातोऽस्या इत्यर्थः जाता । कथंपुनरस्या अवलम्बनं क्रियते ? इत्याह- 'तां पुनः ' प्रथमव्युत्पत्तिसूचितां संयमभावात् चाल्यमानां द्वितीय तृतीयव्युत्पत्तिपक्षे तु द्रव्याभावेन प्रयोजनानिष्पत्त्या वा सीदन्तीं 'समवलम्बेत' साहाय्यकरणेन सम्यग् धारयेत्, उपलक्षणत्वाद् गृह्णीयादपि ।। अथ नियुक्तिकारो येषु स्थानेषु संयमस्थिताया अप्यर्थजातमुत्पद्यते तानि दर्शयितुमाह [भा. ६२८७ ] सेवगभज्जा ओमे, आवन्न अनत्त बोहिये तेने । एतेहि अट्ठजातं, उप्पज्जति संजमठिताए ॥ वृ- 'सेवकभार्यायां ' सेवकभार्याविषयम्, एवम् 'अवमे' दुर्भिक्षे, “आवन्ने” ति दासत्वप्राप्तायाम्, “अनत्ते”ति ऋणार्तायां परं विदेशगमनादुत्तमर्णेनानाप्तायाम्, तथा 'बोधिका' अनार्या म्लेच्छाः 'स्तेनाः' आर्यजनपदजाता अपि शरीरापहारिणस्तैरपहरणे च, एतैः कारणैरर्थतं संयमस्थिताया अपि उत्पद्यते । एष निर्युक्तिगाथासङ्क्षेपार्थः । साम्प्रतमेनामेव विवरीषुः सेवकभार्याद्वारमाह[भा. ६२८८] पियविप्पयोगदुहिया, निक्खंता सो य आगतो पच्छा । अगिलाणिं च गिलाणिं, जीवियकिच्छं विसज्जेति ॥ वृ- कोऽपि राजादीनां सेवकः, तेन राजसेवाव्यग्रेणात्मीया भार्या परिष्ठापिता, ततः सा प्रियविप्रयोगदुःखिता 'निष्क्रान्ता' तथारूपाणां स्थविराणामन्तिके प्रव्रजिता, स च पुरुषः पश्चात् तयाऽर्थी जातस्ततस्तस्याः सकाशमागतः पुनरपि तां मार्गयति ततः को विधि ? इत्याहअग्लानामपि तां ‘ग्लानां' ग्लानवेषां कुर्वन्ति, विरेचनादीनि च तस्याः क्रियन्ते, ततोऽसौ 'जीवितकृच्छ्रां' 'कृच्छ्रेणेयं जीवति' इतिबुद्धया विसर्जयति । अत्रैव द्वितीयमुदाहरणमाह[भा. ६२८९ ] परिग्गहियागणियाऽविसज्जिया सामिणा विनिक्खता । बहुगं मे उवउत्तं, जति दिज्जति तो विसज्जेमि ॥ वृ- न विद्यते परिग्रहः कस्यापि यस्याः साऽपरिग्रहा, सा चासौ गणिका चापरिग्रहगणिका, सायेन सममुषितवतीस देशान्तरं गतः, ततस्तेन अविसर्जिता सती 'विनिष्क्रान्ता' प्रव्रजिता । अन्यदा च स स्वामी समागतो भणति बहुकं 'मे' मदीयं द्रव्यमनया 'उपयुक्तम्' उपयोगं नीतम्, भुक्तमित्यर्थः, तद् यदि दीयते ततो विसृजामि । एवमुक्ते यत् कर्तव्यं स्थविरैस्तदाह[भा. ६२९० ] सरभेद वन्नभेदं, अंताणं विरेयणं वा वि । वरधनुग पुस्सभूती, गुलिया सुहुमे य झाणम्मि ।। वृ-गुटिकाप्रयोगतस्तस्या- स्वरभेदं वर्णभेदं वा स्थविराः कुर्वन्ति यथा सं तां न प्रत्यभिजानाति । यदि वा ग्रामान्तरादिप्रेषणेन 'अन्तर्धानं' व्यवधानं क्रियते । अथवा तथाविधौषधप्रयोगतो विरेचनं Page #395 -------------------------------------------------------------------------- ________________ ३९२ बृहत्कल्प-छेदसूत्रम् -३-६/२१३ कार्यते येन सा ग्लानेव लक्ष्यते, ततः 'एषा कृच्छ्रेण जीवति' इति ज्ञात्वा स तां मुञ्चति । अथवा शक्ती सत्यां यथा ब्रह्मदत्तहिण्डयां धनुपुत्रेण वरधनुना मृतकवेषः कृतस्तथा निश्चला निरुच्छ्वासा सूक्ष्ममुच्छ्वसनं तिष्ठति येन मृतेति ज्ञात्वा तेन विसृज्यते । यदि वा यथा पुष्यभूतिराचार्यः सूक्ष्मे ध्याने कुशलः सन् ध्यानवशात् निश्चलः निरुच्छ्वासः स्थितः तथा तयाऽपि सूक्ष्मध्यानकुशलया सत्या तथा स्थातव्यं यथा स मृतेत्यवगम्य मुञ्चति । एतेषां प्रयोगाणामभावेअनुसिट्ठिमनुवरंतं, गर्मेति नं मित्त-नातगादीहिं । एवं पि अठायंते, करेंति सुत्तम्मि जं वृत्तं ॥ [ भा. ६२९१] वृ- अनुशिष्टिस्तस्य दीयते । तया यदि नोपरतस्ततस्तस्य पुरुषस्य यानि मित्राणि ये च ज्ञातयस्तैः आदशब्दाद् अन्यैश्च तथाविधैः स्थविरास्तं 'गमयन्ति' बोधयन्ति येन स तस्या मुत्कलनं करोति । एवमप्यतिष्ठति तस्मिन् यदुक्तं सूत्रे तत् कुर्वन्ति । किमुक्तं भवति ? - अर्थजातमपि दत्त्वा सा तस्मात् पुरुषाद् मोचयितव्य । एतत् तस्याः सूत्रोक्तमवलम्बनं मन्तव्यम् ।। गतं सेवकभार्याद्वारम् । अथावमद्वारमाह [भा. ६२९२] सकुडुंबो मधुराए, निक्खिविऊणं गयम्मि कालगतो । ओमे फिडित परंपर, आवन्ना तस्स आगमनं ॥ वृ - मथुरायां नगर्यां कोऽपि वणिक् सकुटुम्बोऽपि प्रविव्रजिषुरव्यक्तां दारिकां मित्रस्य गृहे निक्षिप्य ततः प्रव्रज्यां प्रतिपद्यान्यत्र गतः । गते च तस्मिन् स मित्रभूतः पुरुषः कालगतः । ततस्तस्य कालगमनानन्तरं 'अवमे' दुर्भिक्षे जाते सति तदीयैः पुत्रैरनाद्रियमाणा सा दारिका ततो गृहात् 'स्फिटिता' परिभ्रष्टा सती परम्परकेण दासत्वमापन्ना । तस्य च पितुर्याथाविहारक्रमं विहरतस्तस्यामेव मथुरायामागमनम् । तेन च तत् सर्वं ज्ञातम् ॥ सम्प्रति तन्मोचने विधिमाह [भा. ६२९३ ] अनुसासन कह ठवणं, भेसण वैवहार लिंग जं जत्थ । ISSभोग गवेसण, पंथे जयणा य जा जत्थ ।। वृ- पूर्वमनुशासनं तस्य कर्तव्यम् । ततः कथाप्रसङ्गेन कथनं स्थापत्यापुत्रादेः करणीयम् । एवमप्यतिष्ठति यद् निष्क्रामता स्थापितं द्रव्यं तद् गृहीत्वा समर्पणीयम् । तस्याभावे निजकानां तस्य वा 'भेषणं' भापनमुत्पादनीयम् । यदि वा राजकुले गत्वा व्यवहारः कार्यः । एवमप्यतिष्ठति यद्यत्र लिङ्गं पूज्यं तत्र तत्परिगृह्य सा मोचनीया । तस्यापि प्रयोगस्याभावे दूरेण उच्छिन्नस्वामिकतया दूरदेशव्यवधानेन वा यद् निधानं तस्याभोगः कर्तव्यः । तदनन्तरं तस्य ' गवेषणं' साक्षान्निरीक्षणं करणीयम् । गवेषणाय च गमने 'पथि' मार्गे यतना यथा ओघनिर्युक्तौ उक्ता तथा कर्त्तव्या । याच यत्र यतना साऽपि तत्र विधेया यथासूत्रमिति द्वारगाथासङ्क्षेपार्थः ॥ साम्प्रतमेनामेव विवरीषः प्रथमतोऽनुशासन-कथनद्वारे प्राह [ भा. ६२९४] निच्छिन्ना तुज्झ घरे, इसिकन्ना मंच होहिती धम्मो । सेहोव विचित्तं तेनव अन्त्रेण वा निहितं ॥ वृ- एषा ऋषिकन्या तव गृहेऽवमादिकं समस्तमपि निस्तीर्णा अधुना व्रतग्रहणार्थमुपिष्ठते अतो मुञ्चैनाम्, तव भूयान् धर्मो भविष्यति । एतावता गतमनुशासनद्वारम् । तदनन्ता कथनमिति स्थापत्यापुत्रकथा कथनीया यथा स स्थापत्यापुत्रो व्रतं जिघृक्षुर्वासुदेवेन महतरं निष्क्रमणमहिम्ना निष्क्राम्य पार्श्वस्थितेन व्रतग्रहणं कारितः एवं युष्माभिरपि कर्तव्यम् ।। अथ स्थापितद्वारम् Page #396 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं- २१३, [भा. ६२९४ ] "सेहोवट्ठ” इत्यादि । शैक्षः कश्चिदुपस्थितः तस्य यद् 'विचित्रं' बहुवधमर्थजातं क्वापिस्थापितमस्ति, यदि वा गच्छान्तरे यः कोऽपि शैक्ष उपस्थितः तस्य हस्ते यद् द्रव्यमवतिष्ठते तद् गृहीत्वा तस्मै दीयते । अथवा 'तेनैव' पित्रा 'अन्येन वा' साधुना निष्क्रामता यद् द्रव्यजातं कचित् पूर्वं 'निहितं' स्थापितमस्ति तद् आनीय तस्मै दीयते । तदभावे को विधि: ? इत्याह [ भा. ६२९५ ] नीयल्लगाण तस्स व, भेसण ता राउले सतं वा वि । अविरिक्का मो अम्हे, कहं व लज्जा न तुज्झं ति ॥ वृ- 'निजकानाम्' आत्मीयानां स्वजनानां भेषणं कर्तव्यम्, यथा-वयं 'अविरिक्ताः' अविभक्तरिक्था वर्तामह ततो मोचयत मदीयां दुहितरम्, कथं वा युष्माकं न लज्जा अभूत् यद् एवं मदीया पुत्रिका दासत्वमापन्नाऽद्यापि धृता वर्तते ? । अथवा येन गृहीता वर्तते तस्य भेषणं विधेयम्, यथा-यदि मोचयसि तर्हि मोचय, अन्यथा भवतस्तं शापं दास्यामि येन न त्वं नेदं वा तव कुटुम्बकमिति । एवं भेषणेऽपि कृते यदि न मुञ्चति यदि वा ते स्वजना न किमपि प्रयच्छन्ति तदा स्वयं राजकुले गत्वा निजकैः सह व्यवहारः करणीयः, व्यवहारं च कृत्वा भाग आत्मीयो गृहीत्वा तस्मै दातव्यः । यद्वा स एव राजकुले व्यवहारेणाकृष्यते, तत्र च गत्वा वक्तव्यम्, यथा- इयमृषिकन्या व्रतं जिघृक्षु केनापि कपटेन धृताऽनेन वर्तते, यूयं च धर्मव्यापारनिषन्नाः, ततो यथा इयं धर्ममाचरति यथा चामीषामृषीणां समाधिरुपजायते तथा यतध्वमिति ॥ ततः [ भा. ६२९६ ] नीयल्लएहि तेन व, सद्धिं ववहार कातु मोदनता । जं अंचितं व लिंगं, तेन गवेसित्तु मोदेइ ॥ ३९३ वृ- एवं निजकैस्तेन वा सार्द्धं व्यवहारं कृत्वा तस्या मोचना कर्तव्या । अस्यापि प्रकारस्याभावे यद् यत्र लिङ्गमर्चितं तत् परिगृह्णाति । ततः 'तेन अर्चितलिङ्गेन तल्लिङ्गधारिणां मध्ये य महान्तस्तत्पार्श्वोद् गवेषयित्वा तां मोचयन्ति ॥ अथ “दूराऽऽभोगे" त्यादिव्याख्यानार्थमाह[भा. ६२९७] पुट्ठा व अपुट्ठा वा, चुतसामिणिहिं कहिंति ओहादी । घेत्तूण जावदट्ठ, पुनरवि सारक्खणा जतणा ।। वृ- यदि वा 'अवध्यादयः' अवधिज्ञानिनः, 'च्युतस्वामिनिधिम्' उच्छिन्नस्वामिकं निधिं कथयन्ति, तदानीं तेषां तत्कथनस्योचितत्वात् । ततः 'यावदर्थं' यावता प्रयोजनं तावद् गृहीत्वा पुनरपि तस्य निधेः संरक्षणं कर्तव्यम् । प्रत्यागच्छता च यतना विधेया, सा चाग्रे स्वयमेव वक्ष्यते । [ भा. ६२९८ ] सोऊण अट्ठजायं, अहं पडिजग्गती उ आयरिओ । संघाडगं च देती, पडिजग्गति नं गिलाणं पि ॥ - निधिग्रहणाय मार्गे गच्छन्तं तम् 'अर्थजातं' साधुं श्रुत्वा साम्भोगिकोऽसाम्भोगिको वाऽऽचार्योऽर्थं 'प्रतिजागर्ति' उत्पादयति । यदि पुनः तस्य द्वितीयसङ्घाटको न विद्यते ततः सङ्घाटकमपि ददाति । अथ कथमपि स ग्लानो जायते ततस्तं ग्लानमपि सन्तं प्रतिजागर्ति न तूपेक्षते, जिनाज्ञाविराधनप्रसक्तेः ॥ यदुक्तमनन्तरं “यतना प्रत्यागच्छता कर्तव्या" तामाह[भा. ६२९९] काउं निसीहियं अट्ठजातमावेदणं गुरुहत्थे । दाऊण पडिक्कमते, मा पेहंता मिया पासे ।। वृ-यत्रान्यगणे स प्राघूर्णिक आयाति तत्र नैषेधिकीं कृत्वा 'मः क्षमाश्रमणेभ्यः' इत्यादि कृत्वा चमध्ये प्रविशति, प्रविश्य च यद् अर्थजातं तद् गुरुभ्य आवेदयति, आवेद्य च तदर्थजातं गुरुहस्ते Page #397 -------------------------------------------------------------------------- ________________ ३९४ बृहत्कल्प-छेदसूत्रम् - ३-६/२१३ दत्त्वा प्रतिक्रामति । कस्मान्न स्वपार्श्व एव स्थापयति ? इति चेद् अत आह-मा 'प्रेक्षमाणाः ' निरीक्षमाणा मृगा इव मृगा अगीतार्थाः क्षुल्लकादयः पश्येयुः, गुरुहस्ते च स्थितं न निरीक्षन्ते, अस्मद्गुरूणां समर्पितमिति विरूपसङ्कल्पाप्रवृत्तेः ॥ सम्प्रति "जयणाय जा जत्थे" ति तद्वयाख्यानार्थमाह[ भा. ६३००] सन्नी व सावतो वा, केवतितो दिज्ज अट्ठजायस्स । पुव्वुप्पन्न निहाणे, कारणजाते गहण सुद्धो ॥ वृ- यत्र 'संज्ञी' सिद्धपुत्रः श्रावको वा वर्तते तत्र गत्वा तस्मै स्वरूपं निवेदनीयं प्रज्ञापना च कर्तव्या । ततो यत् तस्य पूर्वोत्पन्नं प्रकटं निधानं तन्मध्यादसौ सिद्धपुत्रादि प्रज्ञापितः सन् तस्य 'अर्थजातस्य' द्रव्यार्थिनः साधोः कियतोऽपि भागान् दद्यात् । अस्य प्रकारस्याभावे यद् निधानं दूरमवगाढं वर्तते तदपि तेन सिद्धपुत्रादिना उत्खन्य दीयमानमधिकृते कारणजाते गृह्णानोऽपि शुद्धः, भगवदाज्ञया वर्तनात् ।। गतमवमद्वारम् । इदानीमापन्नाद्वारमाह [भा. ६३०१] थोवं पि धरेमाणी, कत्थइ दासत्तमेइ अदलंती । परदेसे वि य लब्भति, वाणियधम्मे ममेस त्ती ॥ वृ- स्तोकमपि ऋणं शेषं धारयन्ती क्वचिद्देशे काऽपि स्त्री तद् ऋणमददती कालक्रमेण ऋणवृद्धया दासत्वम् 'एति' प्रतिपद्यते । तस्या एवं दासत्वमापन्नायाः स्वदेशे दीक्षा न दातव्या । अथ कदाचित् परदेशे गता सती अज्ञातस्वरूपा अशिवादिकारणतो वा दीक्षिता भवति तत्र वणिजा परदेशे वाणिज्यार्थं गतेन दृष्टा भवेत् तत्रायं किल न्यायः- परदेशेऽपि वणिज आत्मीयं लभ्यं लभन्ते । तत एवं वणिग्धर्मे व्यवस्थिते सति स एवं ब्रूयात्-ममैषा दासी इति न मुञ्चाम्यमुमिति ॥ तत्र यत् कर्तव्यं तत्प्रतिपादनार्थं द्वारगाथामाह [भा. ६३०२ ] नाहं विदेसयाऽऽहरणमादि विज्जा य मंत जोए य । निमित्ते य राय धम्मे, पासंड गणे धणे चेव ॥ वृ- या तव् दासत्वमापन्ना वर्तते न साऽहं किन्तु अहमन्यस्मिन् विदेशे जाता, त्वं तु सध्क्षतया विप्रलब्धोऽसि । अथ सा प्रभूतजनविदिता वर्तते तत एवं न वक्तव्यं किन्तु स्थापत्यापुत्राद्याहरणं कथनीयम्, यद्यपि कदाचित् तच्छ्रवणतः प्रतिबुद्धो मुत्कलयति । आदिशब्दाद् गुटिकाप्रयोगतः स्वरभेदादि कर्तव्यमिति परिग्रहः । एतेषां प्रयोगाणामभावे विद्या मन्त्रो योगो वा ते प्रयोक्तव्या यैः परिगृहीतः सन् मुत्कलयति । तेषामप्यभावे 'निमित्तेन' अतीता - ऽनागतविषयेम राजा उपलक्षणमेतद् अन्यो वा नगरप्रधान आवर्जनीयो येन तत्प्रभावात् स प्रेर्यते । धर्मो वा कथनीयो राजादीनां येन ते आवृत्ताः सन्तस्तं प्रेरयन्ति । एतस्यापि प्रयोगस्याभावे पाषण्डान् सहायान् कुर्यात् । यद्वा यः 'गणः' सारस्वतादिको बलवांस्तं सहायं कुर्यात् । तदभावे दूराऽऽभोगादिना प्रकारेण धनुमुत्पाद्य तेन मोचयेत् । एष द्वारगाथासङ्क्षेपार्थः । साम्प्रतमेनामेव गाथां विवरीषुराह[भा. ६३०३] सारिक्खएण जंपसि, जाया अन्नत्थ ते वि आमंति । बहुजनविण्णायम्मिं, थावच्चसुतादिआहरणं ॥ वृ-यदि बहुजनविदिता सा न भवति, यथा-इयं तद्देशजाता इति; तत एवं ब्रूयात्- अहमन्यत्र विदेशे जाता, त्वं तु साद्दक्ष्येण विप्रलब्ध एवमसमञ्जसं जल्पसि । एवमुक्ते तेऽपि तत्रत्याः 'आमम्' एवमेतद् यथेयं वदतीति साक्षिणो जायन्ते । अथ तद्देशजाततया सा बहुजनविज्ञाता Page #398 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-२१३, [भा. ६३०३] ३९५ ततस्तस्यांबहुजनविज्ञातायांपूर्वोक्तंनवक्तव्यं किन्तु स्थापत्यापुत्राद्यहरणंप्रतिबोधनाय कथनीयम् । “आहरममाई" इत्यत्रादिशब्दव्याख्यानार्थमाह[भा.६३०४] सरभेद वन्नभेदं, अंतद्धाणं विरेयणं वा वि। वरधनुग पुस्सभूती, गुलिया सुहुमे य झाणम्मि ।। वृ-गुटिकाप्रयोगतस्तस्याः स्वरभेदं वर्णभेदं वा कुर्यात् । यद्वा अन्तर्धानं ग्रामान्तरप्रेषणेन वा व्यवधानम् । विरेचनं वा ग्लानतोपदर्शनाय कारयितव्या येन 'कृच्छ्रेणैषा जीवति' इति ज्ञात्वा विसर्जयति । यदि वा वरधनुरिव गुटिकाप्रयोगतः गुटिकाप्रयोगतः पुष्यभूतिराचार्य इव वा सूक्ष्मध्यानवशतो निश्चला निरुच्छ्वासा तथा स्याद् यथा मृतेति ज्ञात्वा परित्यज्यते । विद्यामन्त्र-प्रयोगा वा तस्य प्रयोक्तव्या येन तैरभियोजितो मुत्कलयति। एतेषां प्रयोगाणामभावे राजा निमित्तेन धर्मकथया वाऽऽवय॑ते, ततस्तस्य प्रभावेण स प्रेर्यते ।। अस्याऽपि प्रकारस्याभावे को विधिः? इत्याह[भा.६३०५] पासंडे व सहाए, गिण्हति तुझं पि एरिसं अस्थि । होहामो य सहाया, तुम विजो वा गणो बलितो॥ व-पाषण्डान वा सहायान गृह्णाति। अथ ते सहाया न भवन्ति तत इदंतान प्रति वक्तव्यम्युष्माकमपीशंप्रयोजनं भवे भविष्यति तदा युष्माकमपि वयं सहाया भविष्यामः । एवंतान् सहायान् कृत्वा तद्बलतः सप्रेरणीयः। यदि वायोमल्ल सारस्वतादिकोगणोबलीयान्तंसहायंपरिगृह्णीयात्॥ [भा.६३०६] एएसिं असतीए, संता व जता न होंति उ सहाया। ठवणा दूराभोगण, लिंगेण व एसिउं देति॥ वृ-'एतेषां पाषण्डानां गणानां वा 'असति' अभावे यदि वा सन्तोऽपि ते सहाया न भवन्ति तदा “ठवण"त्ति निष्कामता यद् द्रव्यं स्थापितं तेन सा मोचयितव्या । यदि वा 'दूराभोगनेन' प्रागुक्तप्रकारेणैवअथवा यद्यत्र लिङ्गमर्चितंतेनधनम् एषयित्वा' उत्पाद्यददति तस्मैवरवृषभाः। गतमापत्राद्वारम् । अथ ऋणातादिद्वाराण्याह[भा.६३०७] एमेव अणत्ताए, तवतुलण नवरि तत्थ नाणत्तं । बोहिय-तेनेहि हिते, ठवणादि गवेसणे जाव ॥ वृ- 'एवमेव' अनेनैव दासत्वापन्नागतेन प्रकारेण 'ऋणााया अपि' प्रभूतं ऋणं धारयन्त्या अन्यदेशे दीक्षिताया मोक्षणे यतना द्रष्टव्या। नवरम्-अत्र धनदानचिन्तायां नानात्वम्। किंतत्? इत्याह-तपस्तुलना कर्तव्या।तथा बोधिकाः स्तेनाश्च-प्रागुक्तस्वरूपास्तैर्हतायाआर्यिकाया गवेषणं नियमेन कर्तव्यम् । तत्र च कर्तव्येऽनुशासनादिकं तदेव मन्तव्यं यावद् अर्थजातस्य स्थापना तया आदिशब्दाद् निधानस्य दूराभोगनादिप्रयोगेणापि सा मोचयितव्या । अथ ऋणार्तायां या तपस्तुलनोक्तासाभाव्यते-स द्रव्यमार्गयन्वक्तव्यः-साधवस्तपोधनाअहिरण्य-सुवर्णा-, लोकेऽपि यद् यस्य भाण्डं भवति स तत् तस्मै उत्तमय ददाति, अस्माकं च पार्श्वे धर्मस्तस्मात् त्वमपि धर्मं गृहाण ॥ एवमुक्ते स प्राह[भा.६३०८] जो नाते कतो धम्म, तंदेउ न एत्तियं समं तुलइ। हानी जावेगाहं, तावतियं विजथंभणता॥ वृ-योऽनया कृतो धर्मस्तं सर्वं मह्यं ददातु । एवमुक्ते साधुभिर्वक्तव्यम्-नैतावद् दद्मः, यतो Page #399 -------------------------------------------------------------------------- ________________ ३९६ बृहत्कल्प-छेदसूत्रम् -३-६/२१३ नैतावत् समं तुलति।स प्राह-एकेन संवत्सरेण हीन प्रयच्छतुः तदपि प्रतिषेधनीयः। ततो ब्रूयात्द्वाभ्यां संवत्सराभयां हीन दत्त; तदपि निषेध्यः । एवं तावद् विभाषा कर्तव्या यावद् ‘एकेन दिवसेन कृतोऽनया दर्मस्तं प्रयच्छत' ततो वक्तव्यम्-नाभ्यधिकं दद्मः किन्तु यावत् तव गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समं तुलति तावत्प्रयच्छामः । एवमुक्ते यदि तोलनाय ढौकते तदा विद्यादिभिस्तुला स्तम्भनीया येन क्षणमात्रकृतेनापिधर्मेण सहन समंतोलयतीति।धर्मतोलनं च धर्माधिकरणिक-नीतिशास्त्रपिद्धमिति ततोऽवसातव्यम् । अथासौ क्षणमात्रकृतस्यापि धर्मस्यालाभात् तपो ग्रहीतुं नेच्छेत् ततो वक्तव्यम्-एषा वणिग्न्यायेन शुद्धा ॥ स प्राह-कः पुनर्वणिग्न्यायो येनैषा शुद्धा क्रियते? साधवो ब्रुवते[भा.६३०९] वत्थाणाऽऽभरणाणि य, सव्वं छड्डेउ एगवत्थेणं । पोतम्मि विवन्नम्मिं, वाणितधम्मे हवति सुद्धो॥ वृ-यथा कोऽपि वाणिजः प्रभूतं ऋणं कृत्वा प्रवहणेन समुद्रमवगाढः, तत्र ‘पोते' प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि चशब्दात् शेषमपि च नानाविधं क्रयाणकं सर्वं 'छर्दयित्वा' परित्यज्य ‘एकवस्त्रण' एकेनैव परिधानवाससा उत्तीर्ण 'वणिग्धर्मे' वणिग्न्याये 'शुद्धो भवति' न ऋणं दाप्यते । एवमियमपि साध्वी तव सत्कमात्मीयं च सारं सर्व परित्यज्य निष्कान्ता संसारसमुद्रादुत्तीर्णा इतिवणिग्धर्मेण शुद्धा, नधनिका ऋणमात्मीयं याचितुं लभन्ते, तस्माद् न किञ्चिदत्र तवाभाव्यमस्तीति करोत्विदानीमेषा स्वेच्छया तपोवाणिज्यम्, पोतपरिभ्रष्टवणिगिव निऋणो वाणिज्यमिति ॥ सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह[भा.६३१०] तम्हा अपरायत्ते, दिक्खेज्ज अनारिए य वजेज्जा । ___अद्धाण अनाभोगा, विदेस असिवादिसू दो वी॥ वृ-यस्मात् परायत्तदीक्षणेऽनार्यदेशगमने चैते दोषास्तस्मादपरायत्तान् दीक्षयेत् अनार्यांश्च देशान् बोधिक-स्तेनबहुलान् वर्जयेत् । अत्रैवापवादमाह-“अद्धाण"त्ति अध्वानं प्रतिपत्रस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत्, यदिवाऽनाभोगतःप्रव्राजयेत्, विदेशस्था वास्वरूपमजानानादीक्षयेयुः ।अशिवादिषुपुनः कारणेषु “दोवि"ति द्वे अपि' परायत्तदीक्षणाऽनार्यदेशगमने अपिकुर्यात् । किमुक्तं भवति? -अशिवादिषु कारणेषुसमुपस्थितेषुपरायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत्, अनार्यानपिच देशान् विहरेदिति॥ मू. (२१४) छ कप्पस्स पलिमंथू पन्नत्ता, तं जहा-कोक्कुइए संजमस्स पलिमंथू १ मोहरिए सच्चवयणस्स पलिमंथू २ चक्खुलोलए इरियावहियाए पलिमंथू ३ तितिनिए एसणागोयरस्स पलिमंथू४इच्छालोभए मुत्तिमग्गस्स पलिमंथू५ भिजानियाणकरणेमोक्खमग्गस्स पलिमंथू। सव्वत्थ भगवता अनियाणया पसत्था॥ वृ-अस्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.६३११] दप्पेण जो उ दिक्खेति एरिसे एरिसेसु वा विहरे। तत्थ धुवो पलिमंथो, को सो कतिभेद संबंधो॥ वृ-'दर्पण' कारणमन्तरेणयआचार्य ईशान् परायत्तान्दीक्षयति, योवा 'ईदृशेषु' अनार्येषु देशेषु दर्पतो विहरति, तत्र 'ध्रुवः' निश्चितोऽवश्यम्भावी परिमन्थः, अतः कोऽसौ कतिभेदो वा परिमन्थः ? इत्याशङ्कानिरासाय प्रस्तुतसूत्रारम्भः । एष सम्बन्धः ।। Page #400 -------------------------------------------------------------------------- ________________ ३९७ उद्देशक ः ६, मूलं-२१४, [भा. ६३१२] [भा.६३१२] अहवा सव्वो एसो, कप्पो जो वन्निओ पलंबादी। तस्स उ विवक्खभूता, पलिमंथा ते उ वज्जेजा। वृ-'अथवा' इति सम्बन्ध प्रकारान्तरद्योतने।यएषषट्स्वपिउद्देशकेषुप्रलम्बादिकः 'कल्पः' समाचार उक्तः 'तस्य' कल्पस्य वपक्षभूताः परिमन्थाः' कौकुच्य-मौखर्यादयोभवन्ति, अतस्तान् वर्जयेदिति ज्ञापनार्थमधिकृतसूत्रारम्भः ॥अथवा वज्रमध्योऽयमुद्देशकः, तथाहि[भा.६३१३] आइम्मि दोन्निछक्का, अंतम्मिय छक्कगा दुवे हुँति। सो एस वइरमझो, उद्देसो होति कप्पस्स ॥ वृ-अस्मिन् षष्ठोद्देशके आदौ 'द्वेषट्के भाषाषट्क-प्रस्तारषट्कलक्षणे भवतः अन्तेऽपिच 'द्वेषट्के' परिमन्थषट्क-कल्पस्थितिषटकरूपे भवतः, ततः स एषः' कल्पोद्देशको वज्रमध्यो भवति, वज्रवदादावन्ते च द्वयोः षटकयोः सद्भावाद् विस्तीर्ण मध्ये तुसङ्क्षिप्त इत्यर्थः । तत्राचं षट्कद्वयं प्रागअभिहितमेव, अथान्त्यं षट्कद्वयमभिधीयते । तत्रापि प्रथमंतावदिदम् ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'षड्' इति षटसङ्ख्याः ‘कल्पस्य' कल्पाध्ययनोक्तसाधुसमाचारस्य परि-सर्वतो मनन्ति-विलोडयन्तीति परिमन्थवः, उणादित्वादुप्रत्ययः, पाठान्तरेण परिमन्था वा, व्याघातका इत्यर्थः, 'प्रज्ञप्ताः' तीर्थकरादिभिः प्रणीताः । तद्यथा"कुकुइए"तति “कुचण्अवस्पन्दने" इति वचनात् कुत्सितम्-अप्रत्युपेक्षितत्वादिना कुचितम्अवस्पन्दितं यस्य स कुकुचितः, स एव प्रज्ञादिदर्शनात् स्वार्थिकाणप्रत्यये कौकुचितः; कुकुचा वा-अवस्पन्दितं प्रयोजनमस्येति कौकुचिकः; सः “संयमस्य' पृथिव्यादिरक्षणरूपस्य परिमन्थुः' व्याघातकारी १ । “मोहरिए" त्ति मुखं-प्रभूतभाषणातिशायि वदनमस्यास्तीति मुखरः, स एव मौखरिकः-बहुभाषी, विनयादेराकृतिगणत्वाद्इकणप्रत्ययः; यद्वा मुखेनारिमावहतीति व्युत्पत्त्या निपातनामौखरिकः; सत्यवचनस्य' मृषावादविरतेः परिमन्युः, मौखर्ये सतिमृषावादसम्भवात् २१चक्षुषालोलः-चञ्चलो यद्वा चक्षुलोलं यस्य स चक्षुर्लोलः; सखेदो हि अनेषणीयमपि गृह्णातीति भावः ४ । इच्छा-अभिलाषः स चासौ लोभश्च इच्छालोभः, महालोभ इत्यर्थः, यथा निद्रानिद्रा महानिद्रेति; स च इच्छालोभः-अधिकोपकरणादिमेलनलक्षणः ‘मुक्तिमार्गस्य' मुक्तिनिष्परिग्रहत्वम् अभतेत्यर्थः सैव निवृतिपुरस्य मार्ग इव मार्गस्तस्य परिमन्थुः ५ । “भिज्ज"त्ति लोभस्तेन यनिदानकरणं-देवेन्द्र-चक्रवत्यादिविभूतिप्रार्थनं तद् 'मोक्षमार्गस्य सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्तध्यानचतुर्थभेरूपत्वात्। भिजाग्रहणेन यदलोभस्य भवनिर्वेद-मार्गानुसारितादिप्रार्थनं तत्रमोक्षमार्गस्य परिमन्थुरित्यावेदितंप्रतिपत्तव्यम् । ननुतीर्थकरत्वादिप्रार्थनंन राज्यादिप्रार्थनवद् दुष्टम्, अतस्तद्विषयं निदानं मोक्षस्य परिमन्थुन भविष्यति, नैवम्, यत आह-“सव्वत्थे" त्यादि 'सर्वत्र' तर्थकरत्व-चरमदेहत्वादिविषयेऽपि आस्तांराज्यादौ 'निदानता' अप्रार्थनमेव भगवता' समग्रैश्वर्यादिमता श्रीमन्महावीरस्वामिना “पसत्थ"त्ति 'प्रशंसिता' श्लाधिता। एष सूत्रार्थः॥ अथ नियुक्तिविस्तरः[भा.६३१४] पलिमंथे निक्खेवो, नामा एगट्ठिया इमे पंच । पलिमंथो वक्खेवो, वक्खोड विनास विग्यो य॥ वृ-'परिमन्थे परिमन्थपदस्य निक्षेपश्चतुर्धाकर्तव्यः । तस्य चामूनिपञ्च एकार्थिकानि भवन्तिपरिमन्थो व्याक्षेपो व्याखोटो विनाशो विघ्नश्चेति । स च परिमन्थश्चतुर्द्धा-नाम-स्थापना-द्रव्य Page #401 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-६/२१४ ३९८ भावभेदात् । तत्र नाम-स्थापने सुगमे । द्रव्य-भावपरिमन्थौ प्रतिपादयति[भा. ६३१५] करणे अधिकरणम्मि य कारग कम्मे य दव्वपलिमंथो । एमेव य भावम्मि वि, चउसु वि ठाणेसु जीवे तु ॥ वृ- 'करणे' साधकतमे 'अधिकरणे' आधारे कारकः कर्ता तस्मिन् तथा 'कर्मणि च ' व्याप्ये द्रव्यतः परिमन्थो भवति । तथाहि करणे येन मन्थानादिना दध्यादिकं मध्यते, अधिकरणे यस्यां पृथिवीकायनिष्पन्नायां मन्थन्यां दधि मध्यते, कर्तरि यः पुरुषः स्त्री वा दधि विलोडयति, कर्मणि तन्मध्यमानं यद् नवनीतादिकं भवति, एष चतुर्विधो द्रव्यपरिमन्थः । एवमेव 'भावेऽपि' भावविषयः परिमन्यश्चतुर्ष्वपि करणादिषु स्थानेषु भवति । तद्यथा- करणे येन कौत्कुच्यादिव्यापारेण दधितुल्यः संयमो मथ्यते, अधिकरणे यस्मिन् आत्मनि स मध्यते, कर्तरियः साधुः कौत्कुच्यादिभावपरिणतस्तं संयमं मथ्नाति कर्मणि यद् मध्यमानं संयमादिकमसंयमादितया परिणमते । एष चतुर्विधोऽपि परिमन्थो जीवादनन्यत्वाद् जीव एव मन्तव्यः ॥ अथ करणे द्रव्य-भावपरिमन्थौ भाष्यकारोऽपि भावयति [भा.६३१६] दव्वम्मि मंथितो खलु, तेनं मंथिज्जए जहा दधियं । दघिल्लो खलु कप्पो, मंथिज्जति कोकुआदीहिं ॥ वृ-द्रव्यपरिमन्थो मन्थिकः, मन्थान इत्यर्थः, 'तेन' मन्थानेन यथा दधि मध्यते तथा दधितुल्यः खलु 'कल्पः' साधुसमाचारः कौकुचिकादिभिः प्रकारैर्मथ्यते, विनाश्यत इत्यर्थः । तदेवं व्याख्यातं परिमन्थपदम् । सम्प्रति शेषाणि सूत्रपदानि कौत्कुचिकादीनि व्याचिख्यासुराह [भा. ६३१७] कोकुइओ संजमस्स उ, मोहरिए चैव सच्चवयणस्स । इरियाए चक्खुलोलो, एसणसमिईए तिंतिनिए । वृ- कौकुचिकः संयमस्य, मौखरिकः सत्यवचनस्य, चक्षुर्लोलईर्यासमितेः, तिन्तिणित एषणासमितेः परिमन्धुरिति प्रक्रमादवगम्यते ।। [ भा. ६३१८] नासेति मुत्तिमग्गं, लोभेण निदानताए सिद्धिपहं । एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ॥ वृ-लोभेन च मुक्तिमार्गं नाशयति, निदानतया तु सिद्धिपथम् । एतेषां पदानां प्रत्येकं प्ररूपणां वक्ष्ये ॥ प्रतिज्ञातमेव करोति [ भा. ६३१९] ठाणे सरीर भासा, तिविधो पुन कुक्कुओ समासेणं । चलणे देहे पत्थर, सविगार कहकहे लहुओ ॥ आणाइणो य दोसा, विराधना होइ संजमा - SSयाए । जं व नट्टिया वा, विराधन मइल्लए सुत्ते ॥ [ भा. ६३२०] वृ- 'स्थाने' स्थानविषयः शरीरविषयो भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः । तत्र स्थानकौकुचिको यश्चलनम्-अभीक्ष्णं भ्रमणं करोति । देहः शरीरं तद्विषयः कौकुचिको यः प्रस्तरान् हस्तादिना क्षिपति । यस्तु 'सविकारं' परस्य हास्योत्पादकं भाषते, 'कहक्कहं वा' महता शब्देन हसति स भाषाकौकुचिकः । एतेषु त्रिष्वपि प्रत्येकं मासलघु, आज्ञादयश्च दोषाः । संयमे आत्मनि च विराधना भवति । यन्त्रकवद् नर्तिकावद्वा भ्राम्यन् (स्थान- शरीर ] कौकुचिक उच्यते । यस्तु महता शब्देन हसति तस्य मक्षिकादीनां मुखप्रवेशेन संयमविराधना शूलादि रोगप्रकोपेनात्मविराधना । Page #402 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-२१४, [भा. ६३२०] ३९९ “मएलए सुत्ति"त्तिमृतदृष्टान्तः सुप्तध्ष्टान्तश्चात्रहास्यदोषदर्शनाय भवति, स चोत्तरत्र दर्शयिष्यते॥ अथैतदेव नियुक्तिगाथाद्वय बिभावयिषुः स्थानकौकुचिकं व्याचष्टे[भा.६३२१] आवडइखंभकुड्डे, अभिक्खणं भमति जंतए चेव । कमफंदण आउंटण, न याविबद्धासनो ठाणे॥ वृ-इहोपविष्ट ऊर्ध्वस्थितो वास्तम्भे कुड्ये वा य आपतति, यन्त्रकमिव वाऽभीक्ष्णं भ्रमति, क्रमस्य-पादस्य स्पन्दनमाकुञ्चनं वा करोति, न च नैव 'बद्धासनः' निश्चलासनस्तिष्ठति, एष स्थानकौत्कुचिकः॥अत्रामी दोषाः[भा.६३२२] संचारोवतिगादी, संजमे आयाऽहि-विच्चुगादीया। दुब्बद्ध कुहिय मूले, चडफडते य दोसातु॥ वृ- सञ्चारकाः-कुड्यादौ सञ्चरणशीला ये उवइकादयः-उद्देहिका-मन्थुकीटिकाप्रभृतयो जीवास्तेषां या विराधना सा संयमविषया मन्तव्या । आत्मविराधनायामहि-वृश्चिकादयस्तत्रोपद्रवकारिणो भवेयुः, यदि वा यत्र स्तम्भादौ स आपतति तद् दुर्बद्धं मूले वा कुथितं भवेत् ततस्तस्य पतने परितापनादिका ग्लानारोपणा, “चडफडते य"त्ति अभीक्ष्णमितस्ततो भ्राम्यतः सन्धिर्विसन्धीभवेदित्यादयोबहवोदोषाः । एवमुत्तरत्रापि दोषा मन्तव्याः॥अथ शरीरकौकुचिकमाह[भा.६३२३] कर-गोफण-धनु-पादादिएहइं उच्छुभति पत्थरादीए । भमुगा-दाढिग-थण-पुतविकंपणं नट्टवाइत्तं ॥ वृ-कर-गोफणा-धनुः-पादादिभि प्रस्तरादीन् य उत्-प्राबल्येन क्षिपति स शरीरकौकुचिकः । भ्रू-दाढिका-स्तन-पुतानां विकम्पनं-विविधम्-अनेकप्रकारैः कम्पनं यत् करोति तद् नृत्यपातित्वमुच्यते, नर्तकीत्वमित्यर्थः । एतेन “नट्टियाव"त्ति पदं व्याख्यातं प्रतिप्तव्यम् । गतः शरीरकौकुचिकः। अथ भाषाकौकुचिकमाह[भा.६३२४] छेलिय मुहवाइत्ते, जंपति य तहा जहा परो हसति । कुणइ य रुए बहुविधे, वग्घाडिय-देसभासाए। वृ-यः सेण्टितं मुखवादित्रं वा करोति, तथा वा वचनंजल्पति यथा परो हसति, बहुविधानि वा मयूर-हंस-कोकिलादीनां जीवानां रुतानि करोति, वग्घाडिकाः-उद्धट्टककारिणीः देशभाषा वा-मालव-महाराष्ट्रादिदेशप्रसिद्धास्ताद्दशीभाषा भाषते याभि सर्वेषामपि हास्यमुपजायते, एष भाषाकौकुचिकः । अस्य दोषानाह[भा.६३२५] मच्छिगमाइपवेसो, असंपुडं चेव सेटिदिलुतो। दंडिय घतणो हासण, तेइच्छिय तत्तफालेणं॥ वृ-तदीयभाषणदोषेण ये मुखं विस्फाल्य हसन्ति तेषां मुखे मक्षिकादयः प्राणिनः प्रविशेयुः, प्रविष्टाश्च ते यत् परितापनादिकं प्राप्नुवन्ति तनिष्पनंतस्यप्रायश्चित्तम्।हसतश्चमुखमसम्पुटमेव भवेद्, न भूयो मिलेदित्यर्थः। तथा चात्र श्रेष्ठिदृष्टान्तः-कश्चिद् ‘दण्डिकः' राजा, तस्य “घयणो" भण्डः । तेन राजसभायामीशं किमपि 'हासन' हास्यकारि वचनं भणितं येन प्रभूतजनस्य हास्यमायातम्।तत्र श्रेष्ठिनोमहताशब्देन हसतोमुखं तथैव स्थितंनसम्पुटीभवति।वास्तव्यवैद्यानां दर्शितो नैकेनापि प्रगुणीकर्तुंपारितः। नवरं प्राघुणकेनैकेन चैकित्सिकेन लोहमयः फालः तप्तःअग्निवर्ण कृत्वा मुखे ढौकितः, ततस्तदीयेन भयेन श्रेष्ठिनो मुखं सम्पुटं जातम् ॥ Page #403 -------------------------------------------------------------------------- ________________ ४०० बृहत्कल्प-छेदसूत्रम् -३-६/२१४ अथ प्रागुद्विष्टं मृत-सुप्तदृष्टान्तद्वयमाह[भा.६३२६] गोयर साहू हसनं, गवक्खे दटुं निव भणति देवी । हसति मयगो कहं सो, ति एस एमेव सुत्तो वी।। वृ-एगो साहु गोचरचरियाए हिंडमाणो हसंतोदेवीए गवक्खोवविट्ठाए दिट्ठो। राया भणिओसामि! पेच्छ अच्छेरयं, मुयं मानुसंहसंतं दीसइ । राया संभंतो-कहं कहिं वा? |सा साहुंदरिसेइ। रायाभणइ-कहंमउ ? त्ति।देवी भणइ-इह भवेशरीरसंस्कारादिसकलसांसारिकसुखवर्जितत्वाद् मृत इवमृतः॥एवं सुत्तदिटुंतो विभाणियव्वो॥ अक्षरगमनिका त्वियम्-गोचरे साधोः पर्यटतः 'हसन' हास्यं दृष्ट्वा देवी नृपं भणति- मृतको हसति । नृपः पृच्छति-कुत्र स मृतको हसति ? । देवी हस्तसंज्ञयादर्शयति-एष इति । एवमेव मृतवत् सुप्तोऽपिमन्तव्यः, उभयोरपिनिश्चेष्टतया विशेषाभावात् ॥ गतः कौकुचिकः । सम्प्रति मौखरिकमाह_ [भा.६३२७] मुहरिस्स गोन्नणाणं आवहति अरिं मुहेन भासंतो। लहुगोय होति मासो, आणादि विराधना दुविहा॥ वृ-मौखरिकस्य गौणं गुणनिष्पन्न नाम 'मुखेन'प्रभूतभाषणादिमुखदोषेणभाषमाणः अरिं' वैरिणम् ‘आवहति' करोतीति मौखरिकः । तस्यैवंमौखरिकत्वं कुर्वाणस्य लघुको मासःआज्ञादयश्च दोषाः । विराधना च संयमा-ऽऽत्मविषया द्विविधा । तत्र संयमविराधना मौखरिकस्य सत्यव्रतपरिमन्थुतया सुप्रतीता॥आत्मविराधनां तु दृष्टान्तेनाह[भा.६३२८] को गच्छेज्जा तुरियं, अमुगो ति य लेहएण सिट्ठम्मि। सिग्घाऽऽगतो य ठवितो, केनाहं लेहगं हणति॥ वृ-एगो राया। तस्स किंचि तुरियं कजं उप्पन्नं ताहे सभामझे भणइ-को सिग्धं वच्चेजा? । लेहगो भणइ-अमुगो पवनवेगेणं गच्छइ त्ति । रन्ना सो पेसिओ तं कर्ज काऊण तद्दिवसमेव आगओ।रना ‘एसो सिग्घगामि'त्ति काउंधावणओ ठविओ।तेन रुटेणंपुच्छियं-केणाहं सिग्घो. त्ति अक्खातो? ।अन्नेण सिटुं-जहा लेहएणं । पच्छा सो तेन तलिच्छेण छिदं लभ्रूण उद्दविओ। एवं चेव जो संजओ मोहरियत्तं करेइ सो आयविहणं पावेइ त्ति ॥ अक्षरार्थस्त्वयम्-'कस्त्वरितं गच्छेत् ?' इति रात्रोक्ते लेखकेन शिष्टम्-अमुक इति । ततः स तत् कार्यं कृत्वा शीघ्रमागतः । ततः 'स्थापितः' राज्ञा दौत्यकर्मणि नियुक्तः । ततः 'केनाहं कथितः ?' इति पृष्टवा लेखकेन' इति विज्ञाय लेखकं हतवान् । गाथायामतीतकालेऽपि वर्तमानानिर्देशः प्राकृतत्वात् ॥ 'गतो मौखरिकः । अथ चतुर्लोलमाह[भा.६३२९] आलोयणा य कहणा, परियट्टऽनुपेहणा अनाभोए। लहुगो य होति मासो, आणादि विराधना दुविहा॥ वृ-स्तूपादीनामालोकनां कुर्वाणः 'कथनां' धर्मकथां परिवर्तनाम् अनुप्रेक्षां च कुर्वन् यदि 'अनाभोगेन' अनुपयुक्तोमार्गे व्रजति तदा लघुमासः,आज्ञादयश्च दोषाः, द्विविधाच विराधना भवेत् ॥ इदमेव भावयति[भा.६३३०] आलोएंतो वच्चति, थूभादीणि व कहेति वा धम्मं । परियट्टणाऽनुपेहण, न यावि पंथम्मि उवउत्तो॥ वृ-'स्तूपादीनि' स्तूप-देवकुला-ऽऽरामादीनि आलोकमानोधर्मवाकथयन् परिवर्तनामनुप्रेक्षा ___ Page #404 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-२१४, [भा. ६३३०] ४०१ वा कुर्वाणो व्रजति । यद्वा सामान्येन 'नच नैवोपयुक्तः पथि व्रजति एष चक्षुर्लोल उच्यते ॥ अस्यैते दोषाः[भा.६३३१] छक्कायाण विराहण, संजमे आयाए कंटगादीया।। आवडणे भाणभेदो, खद्धे उड्डाह परिहानी॥ वृ-अनुपयुक्तस्यगच्छतः संयमेषट्कायानां विराना भवेत्।आत्मविराधनायां कण्टकादयः पदयोलगेयुः, विषमे वा प्रदेशे आपतनं भवेत् तत्रभाजनभेदः । 'खद्धे च प्रचुरे भक्त-पाने भूमौ छर्दिते उड्डाहो भवेत्-अहो! बहुभक्षका अमी इति । भाजने च भिन्ने परिहानि' सूत्रार्थपरिमन्थो भाजनान्तरगवेषणे तत्परिकर्मणायां च भवति ॥ गतश्चक्षुर्लोलः । अथ तिन्तिणिकमाह[भा.६३३२] तितिणिए पुव्व भणिते, इच्छालोभे य उवहिमतिरेगे। लहुओ तिविहं व तहिं, अतिरेगे जे भणिय दोसा ।। वृ-तिन्तिणिक आहारोपधि-शय्याविषयभेदात् त्रिविधः, सच पूर्व' पीठिकायांसप्रपञ्चमुक्त इति नेहोच्यते। चसुन्दरमाहारादिकं गवेषयन्नेषणासमितेः परिमन्थुर्भवतीति । इच्छालोभस्तुस उच्यते यद् लोभाभिभूतत्वेनोपधिमतिरिक्तंगृह्णाति, तत्र लघुकोमासः । त्रिविधंवातत्रप्रायश्चित्तम्। तद्यथा-जघन्ये उपधौ प्रमाणेनगणनयावाऽतिरिक्तेधार्यमाणे पञ्चकम्, मध्यमे मासलघु, उत्कृष्टे चतुर्लघु।येचातिरिक्तेउपधौदोषाः पूर्वं तृतीयोद्देशके भणितास्तेद्रष्टव्याः॥अथ निदानकरणमाह[भा.६३३३] अनियाणं निव्वाणं, काऊणमुवट्टितो भवे लहुओ। पावतिधुवमायातिं, तम्हा अनियाणया सेया॥ वृ-'अनिदान' निदानमन्तरेण साध्यं निर्वाणं भगवद्भिः प्रज्ञप्तम्, ततो यो निदानं करोति तस्य तत् कृत्वा पुनरकरणेनोपस्थितस्य लघुको मासः प्रायश्चित्तम्।अपिच यो निदानं करोति स यद्यपि तेनैव भवग्रहणेन सिद्धिं गन्तुकामस्तथापि 'ध्रुवम्' अवश्यम् ‘आयाति पुनर्भवागमनं प्राप्नोति, तस्मादनिदानता श्रेयसी॥ इदमेव व्याचष्टे[भा.६३३४] इह-परलोगनिमित्तं, अवि तित्थकरत्तचरिमदेहत्तं । सव्वत्थेसु भगवता, अनिदानत्तंपसत्यं तु॥ कृइहलोकनिमित्तम्-इहैव मनुष्यलोकेऽस्य तपसः प्रभावेण चक्रवत्यार्दिभोगानहं प्राप्नुयाम्, इहैव वाभवे विपुलान् भोगानासादयेयम्' इतिरूपम्परलोकनिमित्तं-मनुष्यापेक्षया देवभवादिकः परलोकस्तत्र 'महर्द्धिकइन्द्रसामानिकादिरहं भूयासम्' इत्यादिरूपं सर्वमपि निदानं प्रतिषिद्धम्। किंबहुना? तीर्थकरत्वेन-आर्हन्त्येन युक्तंचरमदेहत्वं मे भवान्तरे भूयात् इत्येतदपिनासंशनीयम्। कुतः ? इत्याह-'सर्वार्थेषु' सर्वेष्वपि-ऐहिका-ऽऽमुष्मिकेषु प्रयोजनेषु नासंशनीयम् । कुतः ? इत्याह-'सर्वार्थेषु सर्वेष्वपि-एहिका-ऽऽमुष्मिकेषु प्रयोजनेषु अभिष्वङ्गविषयेषु भगवताऽनिदानत्वमेव 'प्रशस्तं' श्लाधितम् । तुशब्द एवकारार्थः, स च यथास्थानं योजितः ।। व्याख्याताः षडपि परिमन्थवः । साम्प्रतमेतेष्वेव द्वितीयपदमाह[भा.६३३५] बिइयपदं गेलने, धाणे चेव तह य ओमम्मि । मोत्तूणं चरिमपदं, नायव्वं जंजहिं कमति ॥ वृ-द्वितीयपदं ग्लानत्वे अध्वनि तथा अवमे च भवति, तच्च 'चरमपदं' निदानकरणरूपं [20] 26 Page #405 -------------------------------------------------------------------------- ________________ ४०२ बृहत्कल्प-छेदसूत्रम् -३-६/२१४ मुक्त्वा ज्ञातव्यम्, तत्र द्वितीयपदं न भवतीत्यर्थः शेषेषु तु कौकुचिकादिषु यद् यत्र क्रमते तत् तत्रावतारणीयम् ॥ एतदेव भावयति[भा.६३३६] कडिवेयणमवतंसे, गुदपागऽरिसा भगंदलं वा वि । गुदखील सक्करा वा, न तरति बद्धासनो होउं॥ वृ-कटिवेदना कस्यापि दुःसहा, 'अवतंसो वा पुरुषव्याधिनामको रोगो भवेत्, एवं गुदयोः पाकोऽसि भगन्दरं गुदकीलको वा भवेत्, 'शर्करा' कृच्छ्रमूत्रको रोगः स वा कस्यापि भवेत्, ततो न शक्नोति बद्धासनः 'भवितुं' स्थातुम् । एवंविधे ग्लानत्वेऽभीक्ष्णपरिस्पन्दनादिकं स्थानकौकुचिकत्वमपि कुर्यात् ॥ [भा.६३३७] उव्वत्तेति गिलाणं, ओसहकजे व पत्थरे छुभति। वेवति य खित्तचित्तो, बितियपदं होति दोसुंतु॥ वृ-ग्लानम् 'उद्वर्तयति' एकस्मात् पार्श्वतो द्वितीयस्मिन् पार्वे करोति, ‘औषधकार्ये वा' औषधदानहेतोस्तमेव ग्लानमन्यत्र सङ्क्राम्य भूयतत्रैवस्थापयति, यस्तु क्षिप्तचित्तः स परवशतया 'प्रस्तरान्' पाषाणान् क्षिपति वेपते वा, चशब्दात् सेण्टितं मुखवादित्रादिकं वा करोति । एतद् द्वितीयपदं यथाक्रमं 'द्वयोरपि' शरीर-भाषाकौकुचिकयोर्भवति ॥ मौखरिकत्वेऽपवादमाह[भा.६३३८] तुरियगिलाणाहरणे, मुहरित्तं कुन्ज वा दुपक्खे वी। ओसह विजं मंतं, पेल्लिज्जा सिग्घगामित्ति। वृ-त्वरितंग्लानिमित्तमषधादेः आहरणे कर्तव्ये द्विपक्षे संयतपक्षेसंयतीपक्षेच मौखरिकत्वं कुर्यात् । कथम्? इत्याह-एष शीघ्रगामीअत औषधमानेतुं विद्यां मन्त्रं वा प्रयोक्तुं “पेल्लिज"त्ति प्रेर्यताम्, व्यापार्यतामित्यर्थः॥ [भा.६३३९] अच्चाउरकज्जे वा, तुरियं वन वा वि इरियमुवओगो। विजस्स वा विकहणं, भए व विस सूल ओमज्जे ।। वृ-अत्यातुरस्यवा-आगाढग्लानस्य कार्येत्वरितं गच्छेत्, ‘नवाऽपि नैवेर्यायामुपयोगं दद्यात्, वैद्यस्य वा कथनं' धर्मकथां कुर्वन् गच्छेद्येन स आकृतः सम्यग ग्लानस्य चिकित्सां करोति, भये वा मन्त्रादिकं परिवर्तयन् गच्छति, विषं वा केनापि साधुना भक्षितं तस्य मन्त्रेणापमार्जनं कुर्वन्, विषविद्यावानवगृहीतातापरिवर्तयन्गच्छति,शूलंवा कस्यापिसाधोरुद्धावतितदपमार्जयन् गच्छति। [मा.६३४०] तितिणिया वि तदट्टा, अलब्ममाणे विदव्वतितिणिता। वेज्जे गिलाणगादिसु, आहारुवधी य अतिरित्तो॥ वृ- तस्य-ग्लानस्य उपलक्षणत्वाद् आचार्यादेश्वार्थाय 'तिन्तिणिकताऽपि' स्निग्धमधुराहारादिसंयोजनलक्षणाकर्तव्या। अलभ्यमाने वाग्लानप्रायोग्ये औषधादौ 'द्रव्यतिन्तिणिकता' 'हा! कष्टं न लभ्यते ग्लानयोग्यमत्र' इत्येवंरूपाकार्या । इच्छालोभे पुनरिदं द्वितीयपदम्-वैद्यस्य दानार्थं ग्लानार्थं वाआहार उपधिश्चातरिक्तोऽपि ग्रहीतव्यः,आदिशब्दाद् आचार्यादिपरिग्रहः, गणचिन्तको वा गच्छोपग्रहहेतोरतिरिक्तमुपधिंधारयेत्॥एवं यावद् निदानपदंवर्जयित्वाशेषेषु सर्वेष्वपि ग्लानत्वमङ्गीकृत्य द्वितीयपदमुक्तम् । सम्प्रति तदेवाध्वनि दर्शयति[भा.६३४१] अवयक्खंतो व भया, कहेति वा सत्थिया-ऽऽतिअत्तीणं। विजं आइसुतं वा, केद भदा वा अनाभोगा। Page #406 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं - २१४, [भा. ६३४१ ] ४०३ वृ- अध्वनि स्तेनानां सिंहादीनां वा भयादप्रेक्षमाण इतश्चेतश्च विलोकमानोऽपि व्रजेत् । यदि वा अध्वनि गच्छन् सार्थिकानाम् 'आयत्तिकानां वा' सार्थचिन्तकानां धर्मं कथयति येन ते आवृत्तोः सन्तो भक्तपानाद्युपग्रहं कुर्युः । अथवा विद्या काचिदभिनवगृहीता सा 'मा विस्मरिष्यति' इति कृत्वा परिवर्तयन्ननुप्रेक्षमाणो वा गच्छेत् । 'आदिश्रुतं' पञ्चमङ्गलं तद्वा चौरादिभये परावर्तयन् व्रजेत् । 'खेदो नाम' परिश्रमः तेन आतुरीभूतो भयाद्वा सम्भ्रान्त ईर्यायामुपयुक्तो न भवेदपि । “अनाभोग” त्ति विस्मृतिवशात् सहसा वा नेर्यायामुपयोगं कुर्यात् ॥ संजोयणा पलंबातिगाण कप्पादिगो य अतिरेगो । ओमादिए वि विहुरे, जोइज्जा जं जहिं कमति ॥ [ भा. ६३४२ ] वृ- अध्वनि गच्छन्नाहारादीनां संयोजनामपि कुर्यात् । प्रलम्बादीनां विकरणकरणाय पिष्पलकादिकमति रिक्तमप्युपधिं गृह्णीयाद् धारयेद्वा । अथवा परलिङ्गेन तानि ग्रहीतव्यानि ततः परलिङ्गमपि धारयेत् । कल्पाः और्णिकादयस्तदादिकः आदिशब्दात् पात्रादिकश्च दुर्लभ उपधिरतिरिक्तोऽपि ग्रहीतव्यः । तदेवमध्वनि द्वितीयपदं भावितम् । एवम् अवमं दुर्भिक्षं तत्र आदिशब्दाद् अशिवादिकारणेषु वा 'विधुरे' आत्यन्तिकायामापदि पञ्चविधं परिमन्युभङ्गाकृत्य यद् यत्र द्वितीयपदं क्रमते तत् तत्र योजयेत् । एवं निदानपदं मुक्त्वा पञ्चस्वपि कौकुचिकादिषु परिमन्धुषु द्वितीयपदमुक्तम् ।। आह-निदाने किमिति द्वितीयपदं नोक्तम् ? उच्यते नास्ति । कुतः ? इति चेद् अत आह[भा. ६३४३] जा सालंबणसेवा, तं बीयपदं वयंति गीयत्था । आलंबनरहियं पुन, निसेवणं दप्पियं बेंति । वृ- या 'सालम्बनसेवा' ज्ञानाद्यालम्बनयुक्ता प्रतिषेवा तां द्वितीयं पदं गीतार्था वदन्ति, आलम्बनरहितां पुनः 'निषेवणां' प्रतिषेवां दर्पिकां ब्रुवते । तच्चालम्बनं निदानकरणे किमपि न विद्यते, “सव्वत्थ अनियाणया भगवया पसत्थे 'ति वचनात् ।। आह-भोगार्थं विधीयमानं निदानं तीव्रविपाकं भवतीति कृत्वा मा क्रियताम्, यत्पुनरमुना प्रणिधाने निदानं करोति-मा मम राजादिकुले उत्पन्नस्य भोगाभिष्वक्तस्य प्रव्रज्या न भविष्यतीत्यतो दरिद्रकुलेऽहमुत्पद्येयम्, तत्रोत्पन्नस्य भोगाभिष्वङ्गो न भविष्यति एवं निदानकरणे को दोषः ? सूरिराह [भा. ६३४४] एवं सुनीहरो मे, होहिति अप्प त्ति तं परिहरति । हंदि ! हु नेच्छंति भवं भववोच्छित्तिं विमग्गंता ॥ वृ- 'एवम्' अवधारणे। किमवधारयति ? दरिद्रकुले उत्पन्नस्य 'मे' ममात्माऽसंयमात् 'सुनिर्हरः' सुनिर्गमो भविष्यति, सुखेनैव संयममङ्गीकरिष्यामि इत्यर्थः; 'इति' ईशमपि यद् निदानं तदपि साधवः परिहरन्ते । कुतः ? इत्याह- 'हन्दि !' इति नोदकामन्त्रणे । हुः इति यस्मादर्थे । हे सौम्य ! यस्माद् निदानकरणेन भवानां परिवृद्धिर्भवति, सर्वोऽपि च प्रव्रज्याप्रयत्नोऽस्माकं भवव्यवच्छित्तिनिमित्तम्, ततो भवव्यवच्छित्तिं विविधैः प्रकारैर्मार्गयन्तः साधवो भवं नेच्छन्ति । अमुमेवार्थं दृष्टान्तेन द्रढयति [ भा. ६३४५] जो रयणमणग्धेयं, विक्किज्जऽ प्पेण तत्थ किं साहू । दुग्गयभवमिच्छंते, एसो चिय होति दितो ॥ वृ-यः 'अनर्घ्यम्' इन्द्रनील - मरकतादिकं रत्नम् 'अल्पेन' स्वल्पमूल्येन काचादिना विक्रीणीयात् Page #407 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -३-६/२१४ तत्र 'किं साधु' किं नाम शोभनम् ? न किञ्चिदित्यर्थः । 'दुर्गतभवं' दरिद्रकुलोत्पत्तिमिच्छत एष एव दृष्टान्त उपनेतव्यो भवति । तथाहि अनर्घ्यरत्नस्थानीयं चारित्रम्, निरुपमा-ऽनन्तानन्दमयमोक्षफलसाधकत्वात्; काचशकलस्थानीयो दुर्गतभवः, तुच्छत्वात् । ततो यश्चारित्रविक्रयेण तव्प्रार्थनं करोति स मन्दभाग्योऽनर्ध्यरत्नं विक्रीय काचशकलं गृह्णातीति मन्तव्यम् ।। अपि च[भा. ६३४६ ] संगं अनिच्छमाणो, इह-परलोए य मुच्चति अवस्सं । एसेव तस्स संगो, आसंसति तुच्छतं जं तु ॥ वृ-इहलोकविषयं परलोकविषयं च 'स' मुक्तिपदप्रतिप्रक्षभूतमभिष्वङ्गमनिच्छन्नवश्यं 'मुच्यते' कर्मविमुक्तो भवति । कः पुनस्तस्य सङ्गः ? इत्याह-एष एव तस्य सङ्गो यद् मोक्षाख्यविपुलफलदायिना तपसा तुच्छकं फलम् ' आशास्ते' प्रार्थयति ॥ ४०४ तद् भूयोऽपि निदानस्यैव पर्यायकथनद्वारेण दोषमाह [भा. ६३४७] बंधो त्ति नियाणं ति य, आससजोगो य होंति एगट्ठा । ते पुन न बोहिहेऊ, बंधावचया भवे बोही ॥ वृ-बन्ध इति वा निदानमिति वा आशंसायोग इति वा एकार्थानि पदानि भवन्ति । 'ते पुनः' बन्धादयः 'न बोधिहेतवः' न ज्ञानाद्यवाप्तिकारणं भवन्ति, किन्तु ये 'बन्धापचयाः' कारणे कार्योपचारात् कर्मबन्धस्यापचयहेतवोऽनिदानतादयस्तेभ्यो बोधिर्भवति ।। आह-यदि नाम साधवो भवं नेच्छन्ति ततः कथं देवलोकेषूत्पद्यन्ते ? उच्यते [भा. ६३४८] नेच्छंति भवं समणा, सो पुन तेसिं भवो इमेहिं तु । पुव्वतव-संजमेहिं, कम्मं तं चावि संगेणं ॥ वृ- 'श्रमणाः' साधवो नेच्छन्त्येव भवं परं स पुनः 'भवः' देवत्वरुपस्तेषाममीभि कारणैर्भवत् । तद्यथा- पूर्वं वीतरागावस्थापेक्षया प्राचीनावस्थाभावि यत् तपस्तेन, सरागावस्थाभाविना तपसा साधवो देवलोकेषृत्पद्यन्ते इत्यर्थः एवं पूर्वसंयमेन सरागेण सामायिकादिचारित्रेण साधूनां देवत्वं भवति । कुतः ? इत्याह- "कम्मं" ति पूर्वतपः संयमावस्थायां हि देवायुदेवगतिप्रभृतिकं कर्म बध्यते ततो भवति देवेषूपपातः । एतदपि कर्म केन हेतुना बध्यते ? इति चेद् अत आह-तदपि कर्म 'सङ्गेन' संज्वलनक्रोधादिरुपेण बध्यते ॥ मू. (२१५) छव्विहा कप्पट्ठिती पन्नत्ता, तं जहा -सामाइयसंजयकप्पट्ठिती १ छेतोवट्ठावणियसंजयकप्पट्ठिती २ निव्विसमाणकप्पट्ठिती ३ निव्विट्टकाइयकप्पट्ठिती ४ जिनकप्पट्ठिती ५ थेरकप्पट्ठिति ६ त्ति बेमि ॥ वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह [ भा. ६३४९ ] पलिमंथविप्पमुक्कस्स होति कप्पो अवट्ठितो नियमा । कप्पे य अवद्वाणं, वदंति कप्पट्ठितिं थेरा ॥ वृ- अनन्तरसूत्रोक्ताः परिमन्थैर्विप्रमुक्तस्य साधोः 'अवस्थितः' सर्वकालभावी कल्पो नियमाद् भवति । यञ्च कल्पेऽवस्थानं तामेव कल्पस्थितिं 'स्थविराः' श्री गौतमादयः सूरयो वदन्ति । अतः परिमन्थसूत्रानन्तरं कल्पस्थितिसूत्रमारभ्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'षड्विधा' षटप्रकारा कल्पे-कल्पशास्त्रक्तसाधुसमाचारे स्थिति - अवस्थानं कल्पस्थिति कल्पस्य वा स्थितिमर्यादा कल्पस्थिति 'प्रज्ञप्ता' तीर्थकर - गणधरैः प्ररुपिता । 'तद्यथा' इति उपन्यासार्थः । 'सामायि Page #408 -------------------------------------------------------------------------- ________________ ४०५ उद्देशकः ६, मूलं-२१५, [भा. ६३४९] कसंयतकल्पस्थिति' समः-राग-द्वेषरहितस्तस्य आयः-लाभो ज्ञानादीनां प्राप्तिरित्यर्थः, समाय एव सामायिकं-सर्वसावद्ययोगविरतिरुपम् तप्रधाना ये संयताः-साधवस्तेषां कल्पस्थितिः सामायिकसंयतकल्पस्थितः १ । तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम्-आरोपणीयं यत् तत् छेदोपस्थापनीयम्, व्यक्तितो महाव्रतारोपणमित्यर्थः, तप्रधाना ये संयतास्तेषां कल्पस्थिति छेदोपस्थापनीयसंयतकल्पस्थिति२। निर्विशमानाः-परिहारविशुद्धिकल्पंवहमानास्तेषांकल्पस्थिति निर्विशमानकल्पस्थिति ३ । निर्विष्कायिका नाम-यैः परिहारविशुद्धिकं तपो व्यूढम्, निर्विष्ट:आसेवितो विधिक्षितचारित्रलक्षणः कायो यैस्ते निर्विष्टकायिका इतिव्युत्पत्तेः तेषां कल्पस्थितिः निर्विष्टकायिककल्पस्थिति ४ जिनाः-गछनिर्गताःसाधुविशेषास्तेषांकल्पस्थिति जिनकल्पस्थितिः ५ । स्थविराः-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थिति स्थविरकल्पस्थितिः ६ । 'इति' अध्ययनपरिसमाप्तौ । 'ब्रवीमि' इति तीर्थकर-गणधरोपदेशेन सकलमपि प्रस्तुतशास्त्रक्तंकल्पाऽकल्पविधि भणामि, न पुनः स्वमनीषिकया इति सूत्रसक्षेपार्थः ॥ सम्प्रति विस्तरार्थं बिभणिषुर्भाष्यकारः कल्पस्थितिपदे परस्याभिप्रायमाशङ्कय परिहरन्नाह - [भा.६३५०] आहारो त्ति य ठाणं, जो चिट्ठति सो ठिइत्ति ते बुद्धी। ववहार पडुच्चेवं, ठिइरेव तुनिच्छए ठाणं ॥ वृ-सक्रियस्यजीवादिद्रव्यस्यतावदेतावदेव क्रियाद्वयं भवति-स्थानं वागमनंवा।तत्रस्थानस्य गमनं प्रतिपक्षो भवति, तत्परिणतस्य स्थानाभावात् । एवं स्थितेरपि गति प्रतिपक्षो भवति ॥ ततः किम् ? इत्याह[मा.६३५२] ठाणस्स होति गमनं, पडिपक्खो तह गती ठिईएउ। नय गमनं तु गतिमतो, होति पुढो एवमितरं पि॥ वृ-स्थानस्य गमनंप्रतिपक्षोभवतिन स्थिति, स्थितेरपि गतिप्रतिपक्षोन स्थानम्, एवं स्थितिस्थानयोरेकत्वम् । तथा 'नच' नैव गमनं गतिमतो द्रव्यात् 'पृथग्' व्यतिरिक्तं भवति, एवम् 'इतरदपि' स्थानं स्थितिमतो द्रव्यादव्यतिरिक्तं मन्तव्यम् ॥ इदमेव व्यतिरेकद्वारेण द्रढयति[भा.६३५३] जय गमनं तु गतिमतो, होज पुढो तेन सो न गच्छेज्जा । जह गमनातो अन्ना, न गच्छति वसुंधरा कसिणा॥ .. वृ-यदि गमनं गतिमतः पुरुषादेः पृथग्भवेत् ततः 'असौ' गतिमान् न गच्छेत् । दृष्टान्तमाहयथा गमनात् 'अन्या' पृथग्भूता ‘कृत्स्ना' सम्पूर्णा वसुन्धरा न गच्छति । कृत्स्नाग्रहणं लेष्टुप्रभृतिकस्तदवयवो गच्छेदपि इति ज्ञापनार्थम् । एवं स्थानेऽपि भावनीयम्॥ यत एवमतः स्थितमेतत्[भा.६३५४] ठाण-ट्ठिइनाणत्तं, गति-गमनानं च अत्थतो नत्थि। वंजणनाणत्तं पुन, जहेव वयणस्स वायातो।। कृस्थान-स्थित्योर्गति-गमनयोश्रचार्थतोनास्ति नानात्वम्, एकार्थत्वात्; व्यञ्जननानात्वंपुनरस्ति। यथैव वचनस्य वाचश्च परस्परमर्थतो नास्ति भेदः, शब्दतः पुनरस्तीति । अथवा नात्र स्थितिशब्दोऽवस्थानवाची किन्तु मर्यादावाचकः । तथा चाह[भा.६३५५] अहवा ज एस कप्पो, पलंबमादि बहुधा समक्खातो। ___छट्ठाणा तस्स ठिई, ठिति त्ति मेर ति एगट्ठा ।। Page #409 -------------------------------------------------------------------------- ________________ ४०६ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ -अथवा य एष प्रस्तुतशास्त्र प्रलम्बादिकः 'बहधा' अनेकविधः कल्पः समाख्यातः तस्य 'षट्स्थाना' षट्प्रकारा स्थितिर्भवति। स्थितिरिति मर्यादा इति चैकार्थी शब्दौ । भूयोऽपि विनेयानुग्रहार्थं स्थितेरेवैकार्थिकान्याह[भा.६३५६] पतिट्ठा ठावणा ठाणं, निव्विसमाणे तहेव निविटे। अवट्ठाणं अवत्था य, एकट्ठा चिट्ठणाऽऽति य॥ वृ-प्रतिष्ठास्थापना स्थानं व्यव्सथा संस्थिति स्थितिअवस्थानम् अवस्थाच, एतान्येकार्थिकानि पदानि । तथा "चिट्ठणं" ऊर्ध्वस्थानम् आदिशब्दाद् निषदनं त्वग्वर्तनं च, एतानि त्रीण्यपि स्थितिविशेषरुपाणि मन्तव्यानि॥साच कल्पिस्थिति षोढा, तद्यथा[भा.६३५७] सामाइए यछेदे, निव्विसमाणे तहेव निविट्टे । जिनकप्पे थेरेसुय, छव्विह कप्पट्टिती होति ।। कृ-सामायिकसंयतकल्पस्थितिछेदोपस्थापनीयसंयतकल्पस्थिति निर्विशमानकल्पस्थितितथैव निर्विष्टकायकल्पस्थिति जिनकल्पस्थिति स्थविरकल्पस्थितिश्रचेति षड्विधा कल्पस्थितिः॥ अथैनामेव यथाक्रमं विवरीषुः प्रथमतः सामायिककल्पस्थितिं विवृणोति[भा.६३५८] कतिठाण ठितो कप्पो, कतिठाणेहिं अद्वितो। वुत्तो धूतरजो कप्पो, कतिठाणपतिहितो॥ वृ-यः किल 'धुतरजाः' अपनीतपापकर्मा सामायिकसाधूनां कल्पः' आचारोभगवद्भिक्तः स कतिषु स्थानेषु स्थितः ? कतिस्थानप्रतिष्ठितश्चोक्तः? ।। सूरिराह[भा.६३५९] चउठाणठिओ कप्पो, छहिं ठाणेहिं अडिओ। एसोधूयरय क्कप्पो, दसट्ठाणपतिट्ठिओ॥ वृ-चतुःस्थानस्थितः कल्पः, षट्सुच स्थानेष्वस्थितः । तदेवमेष धुतरजाःसामायिकसंयतकल्पो दशस्थानप्रतिष्ठितः, केषुचित् स्थित्या केषुचित् पुनरस्थित्या दशसु स्थानेषु प्रतिबद्धो मन्तव्य इत्यर्थः । इदमेव व्यक्तीकरोति[भा.६३६०]चउहिं ठिता छहिं अठिता, पढमा बितिया ठिता दसविहम्मि। वहमाणा निव्विसगा, जेहि वहं ते उ निविट्ठ॥ वृ-'प्रथमाः' सूत्रकमप्रामाण्येन सामायिकसंयतास्ते चतुर्युस्थानेषुस्थिताः, षट्सुपुनरस्थिताः। गाथायां सप्तम्यर्थे तृतीया।येतु द्वितीयाः' छेदोपस्थापनीयसयतास्तेदशविधेऽपि कल्पे स्थिताः। पञ्चाङ्केन तृतीय-चतुर्थकल्पस्थित्योः शब्दार्थमाह- “वहमाणा" इत्यादि। ये परिहारविशक्तिकं तपोवहन्तितेनिर्विशमानकाः ।यैस्तुतदेव तपोव्यदंते निर्विष्टकायिकाउच्यन्ते॥आह-कानि पुनस्तानि चत्वारिषदवा स्थानानि येषुसामायिकसंयता यथाक्रमंस्थिता अस्थिताश्च? इतिअत्रोच्यते[भा.६३६१] सिञ्जायरपिंडे या, चाउजामे य पुरिसजेडे य । कितिकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा॥ वृ- “सिज्जातरपिंडे" त्ति “सूचनात् सूत्रम्" इति शय्यातरपिण्डस्य परिहरणं चतुर्यामः पुरुषज्येष्ठश्चधर्म कृतिकर्मणश्च करणम् । एते चत्वारः कल्पाः सामायिकसाधूनामप्यवस्थिताः । तथाहि-सर्वेऽपि मध्यमसाधवो महाविदेहसाधवश्च शय्यातरपिण्ड परिहरन्ति, चतुर्यामं च धर्ममनुपालयन्ति, 'पुरुषज्येष्ठश्च धर्म' इति कृत्वा तदीया अप्यार्यिकाश्चिरदीक्षिता अपि Page #410 -------------------------------------------------------------------------- ________________ उद्देशक ः ६, मूलं-२१५, [भा. ६३६१] ४०७ तद्दिनदीक्षितमपि साधुं वन्दन्ते, कृतिकर्म च यथारालिकं तेऽपि कुर्वन्ति । अत एते चत्वारः कल्पा अवस्थिताः॥इमे पुनः षडनवस्थिताः[भा.६३६२] आचेलक्कुद्देसिय, सपडिक्कमणे य रायपिंडे य । मासंपजोसवणा, छऽप्पेतऽनवहिता कप्पा ।। वृ-आचेलक्यमौद्देशिकंसप्रतिक्रमणोधर्मो राजपिण्डो मासकल्पः पर्युषणाकल्पश्चेतिषडप्येते कल्पामध्यमसाधूनां विदेहसाधूनांचानवस्थिताः। तथाहि-यदि तेषां वस्त्रप्रत्ययो रागो द्वेषो वा उत्पद्यते तदा अचेलाः, अथ न रागोत्पत्तिस्ततः सचेलाः, महामूल्यं प्रमाणातिरिक्तमपि च वस्त्रं गृह्णन्तीति भावः 'औद्देशिकं नाम' साधूनुद्दिश्य कृतं भक्तादिकम् आधाकर्मेत्यर्थः, तदप्यन्यस्य साधोराय कृतं तेषां कल्पते, तदर्थं तु कृतं न कल्पते । प्रतिक्रमणमपि यदि अतिचारो भवति ततः कुर्वन्ति अतिचाराभावेन कुर्वन्ति। राजपिण्डे यदि वक्ष्यमाणा दोषा भवन्तिततः परिहरन्ति अन्यथा गृह्णन्ति । मासकल्पे यदि एकक्षेत्रे तिष्ठतां दोषा न भवन्ति ततः पूर्वकोटीमप्यासते, अथ दोषा भवन्ति ततो मासे पूर्णेऽपूर्णे वा निर्गच्छन्ति । पर्युषणायामपि यदि वर्षासु विहरतां दोषा भवन्ति तत एकत्र क्षेत्रे आसते, अथ दोषा न भवन्ति ततो वर्षारात्रेऽपि विहरन्ति ।। गता सामायिकसंयतकल्पस्थितिः। अथ च्छेदोपस्थापनीयसाधूनां कल्पस्थितिमाह[भा.६३६३] दसठाणठितो कप्पो, पुरिमस्स य पच्छिमस्स य जिनस्स। एसोधुतरत कप्पो, दसठाणपतिहितो होति।। वृ-दशस्थानस्थितःकल्पःपूर्वस्यचपश्चिस्यचपश्चिमस्यचजिनस्यतीर्थे छेदोपस्थापनीयसाधूनां मन्तव्यः । तदेवमेष धुतरजाः कल्पोदशस्थानप्रतिष्ठितो भवति॥तान्येव दशस्थानानिदर्शयति[भा.६३६४] आचेलक्कुद्देसिय, सिज्जायर रायपिंड कितिकम्मे । वत जेट्ट पडिक्कमणे, मासं-पजोसवणकपे। वृ-आचेलकस्यम् १ औद्देशिकं २ शय्यातरपिण्डो ३ राजपिण्डः ४ कृतिकर्म ५ व्रतानि ६ "जे?" त्ति पुरुषज्येष्ठो धर्मः ७ प्रतिक्रमणं ८ मासकल्पः ९ पर्युषणाकल्पश्च १० इति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुराह[भा.६३६५] दुविहो होति अचेलो, संताचेलो असंतचेलोय । तित्थगर असंतचेला, संताचेला भवे सेसा ॥ वृ-द्विविधो भवत्सचेलः-सदचेलोऽसदचेलश्चातत्रतीर्थकराअसदचेलाः, देवदूष्यपतनानन्तरं सर्वदैव तेषां चीवराभावात्। शेषाः' सर्वेऽपि जिनकल्पिकादिसाधवः सदचेलाः, जघन्यतोऽपि रजोहरण-मुखवस्त्रिकासम्भवात् ।। आह-यद्येवंततः कथममी अचेला भण्यन्ते? उच्यते[भा.६३६६] सीसावेढियपुत्तं, नदिउत्तरणम्मि नग्गयं बेति। जुन्नेहि नग्गिया मी, तुर सालिय! देहि मे पोतिं । वृ-जलतीमनभयात् शीर्षे-शिरसिआवेष्टितं पोतं-परिधानवस्त्रं येन स शीर्षावेष्टितपोतस्तम्, एवंविधंसचेलमपि 'नद्युत्तरणे' अगाधायाः कस्याश्चिद् नद्या उत्तरणं कुर्वन्तं दृष्टवा नग्नकंब्रुवते, 'नग्नोऽयम्' इति लोके वक्तारो भवन्तीत्यर्थः। यथा वा काचिदविरतिका परिजीर्णवस्त्रपरिधाना प्राक्समर्पितवेतनंतन्तुवायंशाटिकानिष्पादनालसंब्रवीति, यथा-जीर्णैर्वस्त्र परिहितैनग्निकाऽहमस्मिततस्त्वरस्व हे शालिक!' तन्तुवाय! देहि मे पोतिका' शाटिकाम्॥अथात्रैवोपनयमाह Page #411 -------------------------------------------------------------------------- ________________ ४०८ बृहत्कल्प-छेदसूत्रम् - ३-६/२१५ [भा. ६३६७] जुन्नेहिं खंडिएहि य, असव्वतनुपाउतेहिं न य निच्चं । संतेहिं वि निग्गंथा, अचेलगा होंति चेलेहिं ॥ वृ- एवं 'जीर्णैः' पुराणैः, 'खण्डितैः' छिन्नैः, 'असर्वतनुप्रावतैः ' स्वल्पप्रमाणतया सर्वस्मिन् शरीरेऽप्रावृतैः प्रमाणहीनैरित्यर्थः, न च 'नित्यं' सदैव प्रावृतैः किन्तु शीतादिकारणसद्भावे, एवंविधैश्चैलैः 'सद्भिरपि' विद्यमानैरपि निर्ग्रन्था अचेलका भवन्ति । अत्र पराभिप्रायमाशङ्कय परिहरति[ भा. ६३६८ ] एवं दुग्गत-पहिता, अचेलगा होंति ते भवे बुद्धी ते खलु असंततीए, घरेंति न तु धम्मबुद्धीए ॥ वृ-यदि जीर्ण- खण्डितादिभिर्वस्त्र प्रावृतैः साधवोऽचेलकास्तत एवं दुर्गताश्च दरिद्राः पथिकाश्चपान्था दुर्गत-पथिकास्तेऽपि अचेलका भवन्तीति 'ते' तव बुद्धि स्यात् तत्रोच्यते- 'ते खलु' दुर्गतपथिकाः 'असत्तया' नव-व्यूत-सदशकादीनां वस्त्रणामसम्पत्त्या परिजीर्णादीनि वासांसि धारयन्ति, न पुनर्धर्मबुद्धया, अतो भावतस्तद्विषयमूर्च्छापरिणामस्यानिवृत्तत्वान्नैते अचेलकाः; साधवस्तु सति लाभे महाधनादीनि परिहृत् जीर्ण-खण्डितादीनि धर्मबुद्धया धारयन्तीत्यतोऽचेला उच्यन्ते । यद्येवमचेलास्ततः किम् ? इत्याह [भा. ६३६९ ] आचेलक्को धम्मो, पुरिस्स य पच्छिमस्स य जिनस्स । मज्झिमगाण जिनानं, होति अचेलो सचेलो वा ।। वृ- अचेलकस्य भाव आचेलक्यम्, तदत्रास्तीति आचेलक्यः, अभ्रादेराकृतिगणत्वादप्रत्ययः । एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य तीर्थे भवति । मध्यमकानां तु जिनानामचेलः सचेलो वा भवति ॥ इदमेव भावयति [भा. ६३७०] पडिमाए पाउता वा, नऽतिक्कमंते उ मज्झिमा समणा । पुरिम-चरिमाण अमहद्धणा तु भिन्ना इमे मोत्तुं ॥ वृ- 'मध्यमाः' मध्यमतीर्थकरसत्काः साधवः 'प्रतिमया वा' नग्नतया 'प्रावृता वा' प्रमाणातिरिक्त महामूल्यादिभिर्वासोभिराच्छादितवपुषो नातिक्रामन्ति भागवतीमाज्ञामिति गम्यते । पूर्वचरमाणां तु प्रथम-पश्चिमतीर्थकरसाधूनां 'अमहाधनानि' स्वल्पमूल्यानि 'भिन्नानि च' अकृत्स्नानि, प्रमाणोपेतान्यदशकानि चेत्यर्थः, परमिमानि कारणानि मुक्त्वा ॥ तान्येवाहआसज्ज खेत्तकप्पं, वासावासे अभाविते असहू । काले अद्धाणम्मिय, सागरि तेने व पाउरणं ॥ [ भा. ६३७१ ] वृ- 'क्षेत्रकल्पं' देशविशेषाचारमासाद्याभिन्नान्यपि प्राब्रियन्ते, यथा सिन्धुविषये ताध्शानि प्रावृत्य हिण्ड्यते । वर्षावासे वा वर्षाकल्पं प्रावृत्य हिण्डयते । 'अभावितः ' शैक्षः कृत्स्नानि प्रावृतो हिण्डते यावद् भावितो भवति । असहिष्णुः शीतमुष्णं वा नाधिसोढुं शक्नोति ततः कृत्स्नं प्रावृणुयात् । 'काले वा' प्रत्यूषे भिक्षार्थं प्रविशन् प्रावृत्य निर्गच्छेत्। अध्वनि वा प्रावृता गच्छन्ति । यदि सागारिकप्रतिबद्धप्रतिश्रये स्थितास्ततः प्रावृताः सन्तः कायिकादिभुवं गच्छन्ति । स्तेना वा पथि वर्तन्ते तत उत्कृष्टोपधिं स्कन्धे कक्षायां वा विण्टिकां कृत्वा उपरि सर्वाङ्गीणं प्रावृता गच्छन्ति । एतेषु कारणेषु कृत्स्नस्योपधेः प्रावरणं कर्तव्यम् ॥ तथा [भा. ६३७२ ] निरुवहय लिंगभेदे, गुरुगा कप्पति तु कारणज्जाए । लन्न लोय रोगे, सरीरवेतावडितमादी ॥ Page #412 -------------------------------------------------------------------------- ________________ उद्देश : ६, मूलं - २१५, [भा. ६३७२] ४०९ वृ- निरुपहतो नाम - नीरोगस्तस्य लिङ्गभेदं कुर्वतश्चतुर्गुरुकाः । अथवा निरुपहतं नामयथाजातलिङ्गं तस्य भेदे चतुर्गुरु ॥ तस्य च लिङ्गभेदस्येमे भेदाः [भा. ६३७३] खंधे दुवार संजति, गरुलऽद्धंसे य पट्ट लिंगदुवे । लहुगो लहुगो लहुगा, तिसु चउगुरु दोसु मूलं तु ।। वृ- स्कन्धे कल्पं करोति मासलघु । शीर्षद्वारिकां करोति मासलघु । संयतीप्रावरणं करोति चतुर्लघु । गरुडपाक्षिकं प्रावृणोति, अर्धांसकृतं करोति, कटीपट्टकं बध्नन्ती, एतेषु त्रिष्वपि चतुर्गुरु । गृहस्थलिङ्गं परलिङ्गं वा करोति द्वयोरपि मूलम् । द्वितीयपदे तु-कारणजाते लिङ्गभेदोऽपि कर्तुं कल्पते । कुत्र ? इत्याह-ग्लानत्वं कस्यापि विद्यते तस्योद्वर्त्तनमुपवेशनमुत्थापनं वा कुर्वन् कटीपट्टकं बध्यात् । लोचं वाऽन्यस्य साधोः कुर्वाणः कटीपट्टकं बघ्नाति । " रोगि 'त्ति कस्यापि रोगिणोऽर्शासि लम्बन्ते द्वौ भ्रातरौ वा शूनौ स कटीपट्टकं बध्न्यात् । “सरीरवेयावडियं" ति मृतसंयमशरीरस्य वैयावृत्यं-नीहरणं कुर्वन्, आदिग्रहणात् प्रतिश्रयंप्रमार्जयन् अलाबूनि वा विहायसि लम्बमानः कटीपट्टकं बध्नीयात् ।। गृहिलिङ्गा-ऽन्यलिङ्गयोरयमपवादःअसिवे ओमोयरिए, रायद्दुट्ठे व वादिदुट्ठे वा । आगाढ अन्त्रलिंगं, कालक्खेवो व गमणं वा ॥ [भा. ६३७४] वृ-स्वपक्षप्रान्ते आगाढे अशिवेऽन्यलिङ्गं कृत्वा तत्रैव कालक्षेपं कुर्वन्ति, अन्यत्र वा गच्छन्ति । एवं 'राजद्विष्टे' राज्ञि साधूनामुपरि । द्वेषमापत्रे, 'वादिद्विष्टे वा' वादपराजिते क्वापि वादिनि व्यपरोपणादिकं कर्तुकामे, एवंविधे आगाढे कारणेऽन्यलिङ्गम् उपलक्षणत्वाद् गृहिलिङ्गं वा कृत्वा कालक्षेपो वा गमनं वा विधेयम् ।। गतमाचेलक्यद्वारम् । अथौधिशिकद्वारमाह [भा. ६३७५] आहा अधेय कम्मे, आयाहम्मे य अत्तकम्मे य । तं पुन आहाकम्मं, कप्पति न व कप्पती कस्स ॥ वृ- आधाकर्म अधःकर्म आत्मघ्नम् आत्मकर्म चेति औद्देशिकस्य-साधूनुद्दिश्य कृतस्य भक्तादश्ञ्चत्वारि नामानि । 'तत् पुनः' आधाकर्म कस्य कल्पते ? कस्य वा न कल्पते ? ॥ एवं शिष्येण पृष्टे सुरिराह [भा. ६३७६ ] संघस्सोह विभाए, समणा-समणीण कुल गणे संघे । कडमिह ठिते न कप्पति, अट्ठित कप्पे जमुद्दिस्स ॥ वृ- अस्या व्याख्या सविस्तरं तृतीयोद्देशके कृता अतोऽत्राक्षरार्थमात्रमुच्यते - ओघतो वा विभागतो वा सङ्घस्य श्रमणानां श्रमणीनां कुलस्य गणस्य सङ्घस्य वा सङ्कल्पेन यद् भक्तपानादिकं कृतं तत् 'स्थितकल्पिकानां' प्रथम-पश्चिमसाधूनां न कल्पते। ये पुनरस्थितकल्पे स्थिताः तेषां यमुद्दिश्य कृतं तस्यैवैकस्य न कल्पते अन्येषां तु कल्पते ॥ द्वितीयपदे तु स्थितकल्पिकानामपि कल्पते । यत आह [भा.६३७७] आयरिए अभिसेए, भिक्खुम्मि गिलाणगम्मि भयणा उ । तिक्खुत्तssविपवेसे, चउपरियट्टे ततो गहणं ॥ वृ- आचार्येऽभिषेके भिक्षौ वा ग्लाने सञ्जाते सति आधाकर्मणो 'भजना' सेवनाऽपि क्रियते । तथा अटवी विप्रकृष्टोऽध्वा तस्यां प्रवेशे कृते यदि शुद्धं न लभ्यते ततः त्रिकृत्वः शुद्धमन्वेषितमपि यदि न लब्धं ततश्चतुर्थे परिवर्ते आधाकर्मणो ग्रहणं कार्यम् ॥ Page #413 -------------------------------------------------------------------------- ________________ ४१० बृहत्कल्प-छेदसूत्रम् -३-६/२१५ गतमौद्देशिकद्वारम् । अथ शय्यातरपिण्डद्वारमाह[भा.६३७८] तित्थंकरपडिकुट्ठो, आणा अन्नात उग्गमो न सुज्झे। अविमुत्ति अलाघवता, दुल्लभ सेज्जा विउच्छेदो॥ वृ- आद्यन्तवर्जेमध्यमैर्विदेहजैश्च तीर्थकरैराधाकर्म कथञ्चिद् भोक्तुमनुज्ञातं न पुनः शय्यातरपिण्डोअतस्तैःप्रतिक्रुष्ट इति कृत्वा वर्जनीयोऽयम्। “आण"त्तितंगृह्णता तीर्थकृतामाज्ञा कृता न भवति । “अन्नाय"त्ति यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोच्छं सेवितं न स्यात् । "उग्गमो न सुज्झे"त्ति आसन्नादिभावतः पुनः पुनस्तत्रैव भिक्षा-पानकादिनिमित्तं प्रविशत उद्गमदोषा न शुध्येयुः । स्वाध्यायश्रवणादिना च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति, तच्चगृह्णता अविमुक्ति गाभिावोनकृतः स्यात्।शय्यातर-तत्पुत्र-भ्रातृव्यादिभ्यो बहूपकरणंस्निग्धाहारं चगृह्णत उपकरण-शरीरयोलाघवंन स्यात्। तत्रैवचाहारादिगृह्णतः शय्यातर-वैमनस्यादिकरणात् शय्या दुर्लभास्यात्, सर्वथा तद्व्यवच्छेदोवा स्यात्। अतस्तत्पिण्डोवर्जनीयः। अथ द्वितीयपदमाह[भा.६३७९] दुविहे गेलन्नम्मिं, निमंतणे दव्वदुल्लभे असिवे । ओमोदरियपओसे, भए य गहणं अनुन्नातं ।। वृ- 'द्विविधे' आगाढा-ऽनागाढे ग्लानत्वे शय्यातरपिण्डोऽपि ग्राह्यः । तत्रागाढे क्षिप्रमेव अनागाढे पञ्चकपरिहाण्या मासलघुके प्राप्ते सतीति । 'निमन्त्रणे च' शय्यानिर्बन्धे सकृत् तं गृहीत्वा पुनः पुनः प्रसङ्गोनिवारणीयः।दुर्लभेच क्षीरादिद्रव्येऽन्यत्रालभ्यमानेतथाऽशिवेऽवमौदर्ये राजप्रद्वेषेतस्करादिभयेचशय्यातरपिण्डस्य ग्रहणमनुज्ञातम् । अत्र दुर्लभद्रव्यग्रहणे विधिमाह[भा.६३८०] तिक्खुत्तो सक्खेत्ते, चउद्दिसिंजोयणम्मि कडजोगी। दव्वस्स य दुल्लभता, सागारिनिसेवणा ताहे॥ वृ-त्रिकृत्वः स्वक्षेत्रे चतसृषु दिक्षु सक्रोशयोजने गवेषितस्यापिघृतादेव्यस्य यदा दुर्लभता भवति तदा सागारिकपिण्डस्य निषेवणं कर्तव्यम्॥ गतं सागारिकपिण्डद्वारम् । अथ राजपिण्डद्वारमाह[भा.६३८१] केरिसगुत्ति व राया, भेदा पिंडस्स के व से दोसा । केरिसगम्मिव कज्जे, कप्पति काए व जयणाए॥ वृ-कीशोऽसौ राजा यस्य पिण्डः परिहियते? इति । के वा 'तस्य' राजपिण्डस्य भेदाः?। के वा "से" तस्य ग्रहणे दोषाः ? । कीशे वा कार्ये राजपिण्डो ग्रहीतुं कल्पते? । कया वा यतनया कल्पते? । एतानि द्वाराणि चिन्तनीयानि ।। तत्र प्रथमद्वारे निर्वचनं तावदाह[भा.६३८२] मुइए मुद्धभिसित्ते, मुतितो जो होइ जोनिसुद्धो उ। अभिसित्तो व परेहि, सतं व भरहो जहा राया। वृ-राजा चतुर्की-मुदितो मूर्धाभिषिक्तश्च १ मुदितो नमूर्धाभिषिक्तः २ नमुदितो मूर्धाभिषिक्तः ३न मुदितो न मूर्धाभिषिक्तः । तत्र मुदितो नाम-यो भवति योनिशुद्धः' शुद्धोभयपक्षसम्भूतः, यस्य माता-पितरौ राजवंशीयाविति भावः । यः पुनः परेण मुकुटबद्धेन पट्टबद्धेन राज्ञा प्रजया वा राज्येऽभिषिक्तः । यो वा 'स्वयं' आत्मनैवाभिषिक् यथा भरतो रजा एष मूर्धाभिषिक्त उच्यते ॥ एषु विधिमाह [भा.६३८३] पढमग भंगे वजो, होतु वमा वा विजे तहिं दोसा । Page #414 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-२१५, [भा. ६३८३] ४११ सेसेसु होतऽपिंडो, जहि दोसा ते विवजंति ॥ वृ-प्रथमे भङ्गे राजपिण्ड: 'वज्य: परित्यक्तव्यः, ये 'तत्र' राजपिण्डे गृह्यमाणे दोषास्ते भवन्तु वा मा वा तथापि वर्जनीयः। शेषेषु' त्रिषु भङ्गेषु अपिण्डः' राजपिण्डो न भवति तथापि येषु दोषा भवन्ति 'तान्' द्वितीयादीनपि भङ्गान् वर्जयन्ति । इयमतर भावना-यः सेनापति-मन्त्रिपुरोहित-श्रेष्ठि-सार्थवाहसहितो राज्यं भुङ्के तस्य पिण्डो वर्जनीयः, अन्यत्र तु भजनेति ।। गतं 'कीशो राजा?' इति द्वारम् । अथ के तस्य भेदाः?' इति द्वारं चिन्तयन्नाह[भा.६३८४] असणाईआ चउरो, वत्थे पादे य कंबले चेव । पाउंछणए य तहा, अट्ठविधो रायपिंडो उ॥ वृ-'अशनादयः' अशन-पान-खादिम-स्वादिमरूपाये चत्वारो भेदाः ४ यच्च वस्त्र ५ पात्रं कम्बलं७ पादप्रोज्छनकं रजोहरणं ८एषोऽष्टविधोराजपिण्डः ॥अथ केतस्य दोषाः?' इति द्वारमाह[भा.६३८५] अट्ठविह रायपिंडे, अन्नतरागंतु जो पडिग्गाहे । सो आणा अवत्थं, मिच्छत्त विराधनं पावे ॥ वृ-अष्टविधे राजपिण्डे 'अन्यतरत्' अशनादिकं यः प्रतिगृह्णाति स साधुराज्ञाभगमनवस्थां मिथ्यात्वं विराधनांच प्राप्नुयात् ॥ एते चापरे दोषाः[भा.६३८६] ईसर-तलवर-माइंएहि सिट्ठीहि सत्थवाहेहिं । नितेहि अतितेहि य, वाघातो होति भिक्खुस्स ॥ वृ- ईश्वर-तलवर-माडम्बिकैः श्रेष्ठिभिः सार्थवाहैश्च निर्गच्छद्भिः ‘अतियद्भिश्च प्रविशद्भिर्भिक्षोभिक्षार्थं प्रविष्टस्य व्याघातो भवति॥ एतदेव व्याचष्टे[भा.६३८७] ईसर भोइयमाई, तलवरपट्टेण तलवरो होति। वेट्टणबद्धो सेट्ठी, पच्चंतऽहिवो उ माडंबी॥ वृ-ईश्वरः 'भोगिकादिः' ग्रामस्वामिप्रभृतिक उच्यते । यस्तु परितुष्टनृपतिप्रदत्तेन सौवर्णेन तलवरपट्टेनाङ्कितशिराः स तलवरो भवति । श्रीदेवताध्यासितः पट्टो वेष्टनकमुच्यते, तद् यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः श्रेष्ठी । यस्तु 'प्रत्यन्ताधिपः' छित्रमडम्बनायकः स माडम्बिकः। सार्थवाहः प्रतीत इति कृत्वा न व्याख्यातः॥ [भा.६३८८] जा निति इति ता अच्छओ असुत्तादि-भिक्खहानी य। ___ इरिया अमंगलं ति य, पेल्लाऽऽहनना इयरहा वा॥ वृ-एते ईश्वरादयो यावद् निर्गच्छन्ति प्रविशन्ति च तावद् असौ साधुः प्रतीक्षमाण आस्ते, तत एवमासीनस्य सूत्रार्थयोर्भेक्षस्य च परिहाणिर्भवति। अश्व-हस्त्यादिसम्मर्दैनचेयाँ शोधयितुं न शक्नोति । अथ शोधयति ततस्तैरभिघातो भवति । कोऽपि निर्गच्छन् प्रविशन् वा तं साधु विलोक्यामङ्गलमितिमन्यमानस्तेनैवाश्व-हस्त्यादिना प्रेरणंकशादिना वाऽऽहननं कुर्यात् । “इतरहा व"त्ति यद्यपि कोऽप्यमङ्गलं न मन्यते तथापि जनसम्पर्दे प्रेरणमाहननं वा यथाभावेन भवेत्॥ [भा.६३८९] लोभे एसणघाते, संका तेने नपुंस इत्थी य । इच्छंतमनिच्छंते, चाउम्मासा भवे गुरुगा। वृ-राजभवनप्रविष्टः 'लोभे उत्कृष्टद्रव्यलोभवशत एषणाघातं कुर्यात् । 'स्तेनोऽयम्' इत्यादिका च शङ्का राजपुरुषाणां भवेत् । नपुंसकः स्त्रयो वा तत्र निरुद्धन्द्रियाः साधुमुपसर्गयेयुः तत्र Page #415 -------------------------------------------------------------------------- ________________ ४१२ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ चेच्छतोऽनिच्छतश्च संयमविराधनादयो बहवो दोषाः। राजभवनंच प्रविशतः शुद्धशुद्धेनाऽपि चत्वारो मासा गुरुकाः प्रायश्चित्तम् ।। एनामेव गाथां व्याख्यानयति[भा.६३९०] अनत्य एरिसं दुल्लभं तिगेण्हेजऽनेसणिज्जं पि। अनेणावि अवहिते, संकिज्जति एस तेनो ति॥ वृ- अन्तःपुरिकाभिरुत्कृष्टं द्रव्यं दीयमानं दृष्टवा 'नास्त्यन्यत्रेशम्, दुर्लभं वा' इति लोभवशतोऽनेषणीयमपि गृह्णीयात् । राज्ञश्च विप्रकीर्णे सुवर्णादौ द्रव्येऽन्येनाप्यपहृते स एव साधुः शङ्कयते एष स्तेन इति॥ [भा.६३९१] संका चारिग चोरे, मूलं निस्संकियम्मिअणवट्ठो। परदारि अभिमरे वा, नवमं निस्संकिए दसमं॥ वृ-चारिकोऽयं चौरो वाऽयं भविष्यति इति शङ्कायां मूलम् । निशङ्कितेऽनवस्थाप्यम् । पारदारिकशङ्कायामभिमरशङ्कायां च 'नवमम्' अनवस्थाप्यम्। निशङ्किते 'दशमं पाराञ्चिकम्। [भा.६३९२] अलभंता पवियारं, इत्थि-नपुंसा बला वि गेण्हेजा। आयरिय कुल गणेवा, संघेव करेज पत्यारं ॥ वृ-तत्र 'प्रविचारं' बहिर्निर्गममलभमानाः स्त्री-नपुंसका बलादपि साधुं गृह्णीयुः । तान् यदि प्रतिसेवते तदा चारित्रविराधना । अथ न प्रतिसेवते तदा ते उड्डाहं कुर्यु । ततः प्रान्तापनादयो दोषाः । अथवा राजा रुष्ट आचार्यस्य कुलस्य गणस्य वा सङ्घस्य वा 'प्रस्तारं' विनाशं कुर्यात् ॥ [भा.६३९३] अन्ने वि होंति दोसा, आइन्ने गुम्म रतणमादीया। तन्निस्साए पवेसो, तिरिक्ख मनुया भवे दुट्ठा। वृ-अन्येऽपितत्र प्रविष्टस्य दोषा भवन्ति । तद्यथा-रत्नादिभिराकीर्णे “गुम्म"त्ति गौल्मिकाः' स्थानपालास्ते ‘अतिभूमिप्रविष्टः' इति कृत्वातंसाधुंगृह्णन्तिप्रान्तापयन्तिवा, एवमादयो दोषाः। अथवा 'तन्निश्रया' तस्य-साधोर्निश्रयारत्नादिमोषणार्थस्तेनकाःप्रवेशंकुर्युः । तिर्यञ्चः' वानरादयः 'मनुजाश्च' म्लेच्छादयो दुष्टास्तत्र राजभवने भवेयुस्ते साधोरुपद्रवं कुर्वीरन् । एनामेव नियुक्तिगाथां व्याख्याति[भा.६३९४] आइन्ने रतणादी, गेण्हेज सयं परो व तन्निस्सा। गोम्मिय गहणाऽऽहणणं, रन्नो व निवेदिए जंतु ॥ वृ-रत्नादिभिराकीर्णेसप्रविष्टः स्वयमेवतद्रनादिकंगृह्णीयात, परोवातन्निश्रया गृह्णीयात्। गौल्मिकाश्च ग्रहणमाहननं वा कुर्युः । राज्ञो वातेतंसाधुंनिवेदयन्ति उपढौकयन्तिततो निवेदिते सति ‘यत्' प्रान्तापनादिकमसौ करिष्यति तन्निष्पन्नं प्रायश्चित्तम् ॥ [भा.६३९५] चारिय चोराऽभिमरा, कामी व विसंति तत्थ तन्नीसा । वानर-तरच्छ-वग्घा, मिच्छादि नराव घातेजा। वृ-चारिकाश्चौरा अभिमराः कामिनो वा तत्र तस्य-साधोर्निश्रया प्रविशेयुः । तथा वानरतरक्षुव्याघ्रा म्लेच्छादयो वा नरास्तत्र साधुं धातयेयुः ॥ अथ कीशे कार्ये कल्पते? कया वा यतनया? इति द्वारद्वयमाह[भा.६३९६] दुविहे गेलन्नम्मी, निमंतणे दव्वदुल्लभे असिवे। ओमोयरिय पदोसे, भए य गहणं अनुनायं ॥ Page #416 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-२१५, [भा. ६३९७] ४१३ [भा.६३९७] तिक्खुत्तो सक्खित्ते, चउद्दिसिंजोयणम्मि कडजोगी। . दव्वस्स य दुल्लभया, जयणाए कप्पई ताहे ।। वृ-गाथाद्वयंशय्यातरपिण्डवद्रष्टव्यम्।नवरम् आगाढे ग्लानत्वेक्षिप्रमेव राजपिण्डंगृह्णाति। अनागाढे तु त्रिकृत्वो मार्गयित्वा यदा न लभ्यते तदा पञ्चकपरिहाण्या चतुर्गुरुकप्राप्तो गृह्णाति । 'निमन्त्रणेतु राज्ञा निर्बन्धेन निमन्त्रितो भणति-यदि भूयोनभणसिततोगृह्णीमो वयम् नान्यथा। अवमेऽशिवे चान्यत्रालभ्यमाने राजकुलं वा नाशिवेन गृहीतं ततस्तत्र गृह्णाति । राजद्विष्टे तु अपरस्मिन् राज्ञि कुमारे वा प्रद्विष्टे बोधिकम्लेच्छभये वा राज्ञो गृहादनिर्गच्छन् गृह्णीयात्।। गतं राजपिण्डद्वारम् । अथ कृतिकर्मद्वारमाह[भा.६३९८] कितिकम्मं पि य दुविहं, अब्युट्टाणं तहेव वंदनगं। समणेहि य समणीहि य, जहारिहं होति कायव्वं ॥ वृ-कृतिकर्मापि च द्विविधम्-अभ्युत्थानं तथैव वन्दनकम् । एतच्च द्विविधमपि तृतीयोद्देशके सविस्तरं व्याख्यातम्। उभयमपिच श्रमणैःश्रमणीभिश्च यथाहँ' यथारत्नाधिकंपरस्परंकर्तव्यम्। तथा श्रमणीनामयं विशेषः[भा.६३९९] सव्वाहि संजतीहिं, कितिकम्मं संजताण कायव्वं । पुरिसुत्तरितो धम्मो, सव्वजिनानं पि तित्थम्मि॥ वृ-सर्वाभिरपि संयतीभिश्चिरप्रव्रजिताभिरपि संयतानां तद्दनिदीक्षितादीनामपि कृतिकर्म कर्तव्यम् । कुतः ? इत्याह-'सर्वजिनानामपि सर्वेषामपि तीर्थकृतांतीर्थे पुरुषोत्तरोधर्म इति॥ [भा.६४००] तुच्छत्तणेण गव्बो, जायति न य संकते परिभवेणं। अन्नो वि होज्ज दोसो, थियासुमाहुज्जहज्जासु॥ वृ-स्त्रियाः साधुना वन्द्यमानायास्तुच्छत्वेनगर्वोजायते।गर्विताचसाधुंपरिभवबुध्यापश्यति। ततः परिभवेन 'न च' नैव साधोः 'शङ्कते' बिभेति । अन्योऽपि दोषः स्त्रीषु 'माधुर्यहार्यासु' मार्दवग्राह्यासु वन्द्यमानासु भवति, भावसम्बन्ध इत्यर्थः ।। [भा.६४०१] अवि यहु पुरिसपणीतो, धम्मो पुरिसो य रखिउं सत्तो। लोगविरुद्धं चेयं, तम्हा समणाण कायव्वं ॥ वृ-'अपिच' इति कारणान्तराभ्युच्चये। पुरुषैः-तीर्थकर-गणधरलक्षणैः प्रणीतः पुरुषप्रणीतो धर्म । पुरुष एव च तं धर्मं रक्षितुं' प्रत्यनीकादिनोपद्रूयमाणं पालयितुं शक्तः । लोकविरुद्धं च 'एतत् पुरुषेण स्त्रिया वन्दनम् । तस्मात् श्रमणानां ताभिः कर्तव्यम्॥ गतंकृतिकर्मद्वारम् । अथ व्रतद्वारमाह[भा.६४०२] पंचायामो धम्मो, पुरिमस्स य पच्छिमस्स य जिनस्स। मज्झिमगाण जिनानं, चाउज्जामो भवे धम्मो।। वृ-पञ्च यामाः-व्रतानि यत्रसपञ्चयामः, “दीर्घ-हस्वौ मिथो वृत्तौ" इतिप्राकृतलक्षणवशात् चकारस्य दीर्घत्वम् । एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां पुनश्चतुर्यामो धर्मो भवति, मैथुनव्रतस्य परिग्रहव्रत एवान्तर्भावविवक्षणात् ॥ कुत एवम् ? इति चेद् उच्यते[भा.६४०३] पुरिमाण दुव्विसोझो, चरिमाणं दुरनुपालओ कप्पो । Page #417 -------------------------------------------------------------------------- ________________ ४१४ बृहत्कल्प-छेदसूत्रम् - ३-६/२१५ मज्झिमगाण जिनानं, सुविसोझो सुरनुपालो य ॥ वृ- पूर्वेषां साधूनां दुर्विशोध्यः कल्पः, 'चरमाणां' पश्चिमानां दुरनुपाल्यः, मध्यमकानां तु जिनानां तीर्थे साधूनां सुविशोध्यः सुखानुपाल्यश्च भवति । इयमत्र भावना- पूर्वे साधव ऋजुजडाः, ततः परिग्रहव्रत एवान्तर्भावं विक्षित्वा यदि मैथुनव्रतं साक्षान्नोपदिश्यते ततस्ते जडतया नेदमवबुध्यन्ते, यथा-मैथुनमपि परिहर्तव्यम्; यदा तु पृथक् परिस्फुटं मैथुनं प्रतिषिध्यते ततः सुखेनैव पर्यवस्यन्ति परिहरन्ति च । पश्चिमास्तु वक्र-जडाः, ततो मैथुने साक्षादप्रतिषिद्धे परिग्रहान्तस्तदन्तर्भावं जानन्तोऽपि वक्रतया परपरिगृहीतायाः स्त्रयाः प्रतिसेवनां कुर्वीरन्, पृष्टथश्च ब्रवीरन्- नैषाऽस्माकं परिग्रह इति । तत एतेषां पूर्व-पश्चिमानां पञ्चयामो धर्मो भगवता ऋषभस्वामिना वर्द्धमानस्वामिना च स्थापितः । ये तु मध्यमाः साधवस्ते ऋजु -प्राज्ञाः, ततः परिग्रहे प्रतिषिद्धे प्राज्ञत्वेनोपदेशमात्रादपि अशेषहेयोपादेयविशेषाभ्यहनपटीयस्तया चिन्तयेयुः - नापरिगृहीता स्त्री परिभुज्यते अतो मैथुनमपि न वर्तते सेवितुम्; एवं मैथुनं परिग्रहेऽन्तर्भाव्य तथैव परिहरन्ति ततस्तेषां चतुर्यामो धर्मो मध्यमजिनैरुक्त इति । अमुमेवार्थं समर्थयन्नाह [भा. ६४०४] जड्डुत्तणेण हंदिं, आइक्ख-विभागउवणता दुक्खं । सुहसमुदिय दंताण व, तितिक्ख अनुसासना दुक्खं ॥ वृ- सर्वेषां (पूर्वेषां ) साधूनां जडतया 'हन्दि' इत्युपप्रदर्शने वस्तुतत्त्वस्याख्यानं 'दुःखं' कृच्छ्रेण, महता वचनाटोप प्रयासेन कर्तुं शक्यमित्यर्थः । एवमाख्यातेऽपि वस्तुतत्त्वे विभागः पार्थक्येन व्यवस्थापनं महता कष्टेन कर्तुं शक्यते। विभक्तेऽपि वस्तुतत्त्वे उपनयः- हेतु दृष्टान्तैः प्रतीतावारोपणं कर्तुं दुःशकम् । ते च प्रथमतीर्थकरसाधवः 'सुखसमुदिताः' कालस्य स्निग्धतया शीतोष्णादीनां तथाविधदुःखहेतूनामभावात् सुखेन सम्पूर्णास्ततः 'तितिक्षा' परीषहादेरधिसहनं तेषां 'दुःख' दुष्करम् । तथा दान्ताः-एकान्तेनोपशान्तास्ते ततः क्वचित् प्रमादस्खलितादौ शिष्यमाणानामनुशासनाऽपि कर्तुं दुःशका ॥ [भा. ६४०५ ] मिच्छत्तभावियाणं, दुवियहमतीण वामसीलाणं । आइक्खिउं विभइउं, उवनेउं वा वि दुक्खं तु ॥ वृ- ये तु चरमतीर्थकर साधवस्ते प्रायेण मिथ्यात्वभाविता दुर्विदग्धमतयो वामशीलाश्च, ततस्तेषामपि वस्तुतत्त्वमाख्यातुं विभक्तुमुपनेतुं वा 'दुःखं' दुःखतरम् ॥ [भा. ६४०६] दुक्खेहि भत्थिताणं, तनु-धितिअबलत्तओ य दुतितिक्खं । एमेव दुरनुसासं, मानुक्कडओ य चरिमाणं ।। वृ- तथा कालस्य रूक्षतया 'दुःखैः' विविधाऽऽधि-व्याधिप्रभृतिभि शारीर-मानसैः 'भर्सितानाम्' अत्यन्तमुपतापितानां तनुः शरीरं धृति-मानसोऽवष्टम्भः तद्विषयं यद् अबलत्वं-बलाभावस्ततः कारणाद् दुस्तितिक्षं तेषां परीषहादिकं भवति । एवमेव मानस्य - अहङ्कारस्य उपलक्षणत्वात् क्रोधादेश्चोत्कटतया दुरनुशासं चरमाणां भवति, उत्कटकषायतया दुःखेनानुशासनां ते प्रपद्यन्त इत्यर्थः । अत एषां पूर्वेषां च पञ्चयामो धर्म इति प्रक्रमः ॥ [भा. ६४०७] एए चैव य ठाणा, सुप्पनुत्तणेण मज्झाणं । सुह- दुह - उभयबलाण य, विमिस्सभावा भवे सुगमा ॥ वृ-‘एतान्येव' आख्यानादीनि स्थानानि मध्यमानां 'सुगमानि' सुकराणि भवेयुरिति सम्बन्धः । - Page #418 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं - २१५, [भा. ६४०७ ] ४१५ कुतः इत्याह- सुप्रज्ञ ऋजुत्वेन, प्राज्ञतया ऋजुतया चेत्यर्थः, स्वल्पप्रयनेनैव प्रज्ञापनीयास्ते, तत आख्यान-विभजनोपनयनानि सुकराणि । "सुह-दुह" त्ति कालस्य स्निग्ध-रूक्षतया सुख-दुःखे उभे अपि तेषां भवतः, तथा “उभयबलाण य"त्ति शारीरं मानसिकं चोभयमपि बलं तेषां भवति, तत एव सुख-दुःखोभयबलोपेतानां परीषहादिकं सुतितिक्षं भवति । "विमिस्सभाव"त्ति नैकास्तेनोपशान्ता न वा उत्कटकषायास्ते, ततो विमिश्रभावादनुशासनमपि सुकरमेव तेषां भवति, अतश्चतुर्यामस्तेषां धर्म इति ।। गतं व्रतद्वारम् । अथ ज्येष्ठद्वारमाह [भा. ६४०८] पुव्वतंर सामइयं, जस्स कयं जो वतेसु वा ठविओ। एस कितिकम्मजेो, न जाति सुततो दुपक्खे वी ॥ वृ- यस्य सामायिकं 'पूर्वतरं' प्रथमरं 'कृतम्' आरोपितम् यो वा 'व्रतेषु' महाव्रतेषु प्रथमं स्थापितः स एष कृतिकर्मज्येष्ठो भण्यते, न पुनः 'द्विपक्षेऽपि' संयतपक्षे संयतीपक्षे च जातितःबृहत्तरं जन्मपर्यायमङ्गीकृत्य श्रुततः प्रभूतं श्रुतमाश्रित्य ज्येष्ठ इहाधिक्रियते । इह च मध्यमसाधूनां यस्य सामायिकं पूर्वतरं स्थापितं स ज्येष्ठः, पूर्व-पश्चिमानां तु यस्य प्रथममुपस्थापना कृता स ज्येष्ठ इति ।। अथोपस्थापनामेव निरूपयितुमाह [भा. ६४०९] सा जेसि उवट्ठवणा, जेहि य ठाणेहि पुरिम-चरिमाणं । पंचायामे धम्मे, आदेसतिगं च मे सुणसु ॥ वृ-सा उपस्थापना येषां भवति ते वक्तव्याः । येषु वा 'स्थानेषु' अपराधपदेषु पूर्व-चरमाणां साधूनां पञ्चयामे धर्मे स्थितानामुपस्थापना भवति तान्यपि वक्तव्यानि । तत्र येषामुपस्थापना ते तावदभिधीयन्ते, तत्रादेशत्रयम्-दश वा षड् वा चत्वारो वा उपस्थापनायाम भवन्ति । तच्चाऽऽदेशत्रिकं "मे" इति मया यथाक्रमं वक्ष्यमाणं शृणु ॥ [ भा. ६४१० ] तओ पारंचिया वुत्ता, अणवट्ठा य तिन्नि । दंसणम्मिय वंतम्मिं चरित्तम्मिय केवले ॥ वृ-ये चतुर्थोद्देशके 'त्रयः' दुष्ट-प्रमत्त-अन्योन्यंकुर्वाणाख्याः पाराञ्चिका उक्ताः ३ येच 'त्रयः' साधर्मिका-ऽन्यधार्मिकस्तैन्यकारि-हस्तातालरूपा अनवस्थाप्याः ६ येन च 'दर्शनं' सम्यक्त्वं 'केवलं' सम्पूर्णमपि वान्तं ७ येन वा चारित्रं 'केवलं' सम्पूर्णं मूलगुणविराधनया वान्तम् ८ ॥ [भा. ६४११] अदुवा चियत्तकिच्चे, जीवकाए समारभे । से दस वुत्ते, जस्स उट्ठावणा भणिया ॥ वृ- अथवा यः 'त्यक्तकृत्यः परित्यक्तसकलसंयमव्यापारः आकुट्टिकणा दर्पेण वा 'जीवकायान्' पृथिवीकायादीन् समारभते ९ यश्च 'शैक्षः' अभिनवदीक्षितः स दशमः १० उक्तः । एतद् दशकं मन्तव्यं यस्योपस्थापना प्रथम चरमतीर्थकरैर्भणिता ।। द्वितीयादेशमाहजे य पारंचिया वुत्ता, अणवट्ठप्पा य जे विदू । दंसणम्मि य वंतम्मिं चरित्तम्मि य केवले ॥ अदुवा चियत्तकि, जीवकाए समारभे । सेहे छट्टे वुत्ते, जस्स उवट्ठावणा भणिया ॥ [भा. ६४१२] [भा. ६४१३] वृ-ये च पाराञ्चिकाः सामान्यत उक्ताः १ ये च विद्वांसो अनवस्थाप्याः २ येन च दर्शनं केवलं वान्तं ३ येन वा चारित्रं केवलं वान्तम् । अथवा यस्त्यक्तकृत्यो जीवकायान् समारभते ५ यश्च Page #419 -------------------------------------------------------------------------- ________________ ४१६ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ शैक्षः षष्ठः६। एतेषट्कं प्रतिपत्तव्यं यस्योपस्थापना द्वितीयादेशे भणिता ॥ तृतीयादेशमाह[भा.६४१४] दंसणम्मि यवंतम्मि, चरित्तम्मिय केवले। चियत्तकिच्चे सेहे य, उवट्ठप्पा यआहिया । कृ-दर्शन केवले' निशेषेवान्तेयोवर्तते १ योवाचारित्रेकेवलेवान्ते२पाराञ्चिका-ऽनवस्थाप्ययोः अत्रैवान्तर्भावो विवक्षितः,यश्च त्यक्तकृत्यः'षट्कायविराधकः३यश्चशैक्षः४एतेचत्वारः उपस्थाप्याः' उपस्थापनायोग्या आख्याताः ॥अथ तेषांमध्येक उपस्थापनीयः? नवा? इति चिन्तायामिदमाह[भा.६४१५] केवलगहणा कसिणं, जति वमती सणं चरित्तं वा। तो तस्स उवट्ठवणा, देसे वंतम्मि भयणा तु॥ . वृ-दर्शन-चारित्रपदयोर्यत् केवलग्रहणं कृतं तत इदं ज्ञाप्यते-यदि ‘कृत्स्नं निशेषमपि दर्शनं चारित्रं वा वमति ततस्तस्योपस्थापना भवति, 'देशे' देशतः पुनदर्शने चारित्रेवा वान्ते 'भजना' उपस्थापना भवेद्वा न वा॥भजनामेव भावयति[भा.६४१६] एमेव य किंचि पदं, सुयं व असुयं व अप्पदोसेणं । अविकोवितो कहितो, चोदिय आउट्ट सुद्धोतु ॥ वृ-'एवमेव अविमृश्य किञ्चिद्' जीवादिकंसूत्रार्थविषयंवा पदं श्रुतंवाऽश्रुतंवा 'अल्पदोषेण' कदाग्रहा-ऽभिनिवेशादिदोषाभावेन ‘अविकोविदः' अगीतार्थ कस्यापि पुरतोऽन्यथा कथयन् आचार्यादिना ‘मा एवं वितथप्ररूपणां कार्षी' इति नोदितः सन् यदि सम्यगावर्तते तदा स मिथ्यादुष्कृतप्रदानमात्रेणैव शुद्ध इति॥ तच्च दर्शनमनाभोगेनाभोगेन वा वान्तं स्यात्, तत्रानाभोगेन वान्ते विधिमाह[भा.६४१७] अनाभोएण मिच्छत्तं, सम्मत्तं पुनरागते। तमेव तस्स पछित्तं,जमग्गं पडिवज्जई। वृ-एकः श्राद्धो निह्नवान् साधुवेषधारिणो दृष्ट्वा यथोक्तकारिणः साधव एते' इतिबुध्या तेषां सकाशे प्रव्रजितः । स चापरैः साधुभिर्भणितः-किमेवं निह्नवानां सकाशे प्रव्रजितः? । स प्राह-नाहमेनं विशेषं ज्ञातवान् । ततः स मिथ्यादुष्कृतं कृत्वा शुद्धदर्शननिनां समीपे उपसम्पन्नः। एवमनाभोगेन दर्शनं वमित्वा मिथ्यात्वं गत्वा सम्यक्त्वं पुनरागतस्य तदेव प्रायश्चित्तं यदसौ सम्यगमार्ग प्रतिपद्यते, स एव च तस्य व्रतपर्यायः, न भूय उपस्थापना कर्तव्या ॥आभोगेन वान्तेपुनरयं विधिः[भा.६४१८] आभोगेन मिच्छत्तं, सम्मत्तं पुनरागते। जिन-थेराण आणाए, मूलच्छेज्जंतु कारए॥ वृ- यः पुनः 'आभोगेन' 'निहवा एते' इति जानन्नपि मिथ्यात्वं सङ्कान्त इति शेषः, निह्नवानामन्तिके प्रव्रजित इत्यर्थः, स च सम्यक्त्वमन्येन प्रज्ञापितः सन् 'पुनर् भूयोऽपि यदि आगतस्ततस्तं जिन-स्थविराणां तीर्थकर-गणभृतामाज्ञया मूलच्छेद्यं प्रायश्चित्तंकारयेत्, मूलत एवोपस्थापनां तस्य कुर्यादिति भावः । एवं दर्शने देशतो वान्ते उपस्थापनाभजना भाविता। सम्प्रति चारित्रे देशतो वान्ते तामेव भावयति[भा.६४१९] छण्हं जीवनिकायाणं, अणप्पज्झोतु विराहओ। आलोइय-पडिक्कतो, सुद्धो हवति संजओ॥ वृषण्णांजीवनिकायानां "अणप्पज्झो" 'अनात्मवशः' क्षिप्तचित्तादिर्यदि विराधको भवति Page #420 -------------------------------------------------------------------------- ________________ उद्देश : ६, मूलं - २१५, [भा. ६४१९ ] ततः ‘आलोचित-प्रतिक्रान्तः' गुरूणामालोच्य प्रदत्तमिध्यादुष्कृतः संयतः शुद्धो भवति ॥ छहं जीवनिकायाणं, अप्पज्झो उ विराहतो । आलोइय-पडिक्कतो, मूलच्छेज्जं तु कारए ॥ [भा. ६४२०] वृषण्णां जीवनिकायानां "अप्पज्झो "त्ति स्ववशो यदि दर्पेणाSS कुट्टिकया वा विराधको भवति तत आलोचित-प्रतिक्रान्तं तं मूलच्छेद्यं प्रायश्चित्तं कारयेत् । वाशब्दोपादानाद् यदि तपोऽर्हप्रायश्चित्तमापन्नस्ततः तपोऽर्हमेव दद्यात्, तत्रापि यद् मासलघुकादिकमापन्नस्तदेव दद्यात् । अथ हीनादिकं ददाति ततो दोषा भवन्तीति दर्शयति [भा. ६४२१] जं जो उ समावन्नो, जं पाउग्गं व जस्स वत्थुस्स । तं तस्स उ दायव्वं, असरिसदाने इमे दोसा ॥ वृ- 'यत्' तपोऽर्हं छेदार्हं वा प्रायश्चित्तं यः समापन्नः, यस्य वा 'वस्तुनः' आचायदिरसहिष्णु-प्रभृतेर्वा 'यत्' प्रायश्चित्तं 'प्रायोग्यम्' उचितं तत् तस्य दातव्यम् । अथासध्शम् - अनुचितं ददाति तत इमे दोषाः ॥ [भा. ६४२२ ]. अप्पच्छित्ते य पच्छित्तं, पच्छित्ते अतिमत्तया । धम्मस्साऽऽ सायणा तिव्वा, मग्गस्स य विराधना ॥ वृ- 'अप्रायश्चित्ते' अनापद्यमानेऽपि प्रायश्चित्ते यः प्रायश्चित्तं ददाति प्राप्ते वा प्रायश्चित्ते यः ‘अतिमात्रम्' अतिरिक्तप्रमाणं प्रायश्चित्तं ददाति सः 'धर्मस्य' श्रुतधर्मस्य तीव्रामाशातनां करोति, 'मार्गस्य च ' मुक्तिपथस्य सम्यग्दर्शनादेः विराधनां करोति ॥ किञ्च - [भा. ६४२३] उस्सुत्तं ववहरंतो, कम्मं बंधति चिक्कणं । संसारं च पवड्ढेति, मोहनिजं च कुव्वती ॥ वृ- 'उत्सूत्रं ' सूत्रोत्तीर्णं राग-द्वेषादिना 'व्यवहरन्' प्रायश्चित्तं प्रयच्छन् 'चिक्कणं' गाढतरं कर्म बध्नाति, संसारं च 'प्रवर्द्धयति' प्रकर्षेण वृद्धिमन्तं करोति, 'मोहनीयं च ' मिथ्यात्वमोहादिरूपं करोति । इदमेव सविशेषमाह [भा. ६४२४] उम्मग्गदेसणाय, मग्गं विप्पडिवातए । परं मोहेन रंजितो, महामोहं पकुव्वती ॥ वृ- 'उन्मारदशनया च' सूत्रोत्तीर्णप्रायश्चित्तादिमार्प्ररूपणया 'मार्ग' सम्यग्दर्शनादिरूपं विविधैः प्रकारैः प्रतिपातयति-व्यवच्छेदं प्रापयति । तत एवं परमपि मोहेन रञ्जयन् महामोहं प्रकरोति । तथा च त्रिंशति महामोहस्थानेषु पठ्यते - "नेयाउयस्स मग्गस्, अवगारम्मि वट्टई ।" यत एवमतो न हीनाधिकं प्रायश्चित्तं दातव्यमिति ।। गतं ज्येष्ठद्वारम् । अथ प्रतिक्रमणद्वारमाह [भा. ६४२५] सपडिक्कमणो धम्मो, पुरिमस्स इ पच्छिमस्स य जिनस्स । मज्झिमयाण जिनानं, कारणजाए पडिक्कमणं ॥ ४१७ वृ- 'सप्रतिक्रमणः ' उभयकालं षड्विधावश्यककरणयुक्तो धर्म पूर्वस्य पश्चिमस्य च जिनस्य तीर्थे भवति, तत्तीर्थसाधूनां प्रमादबहुलत्वात् शठत्वाच्च । मध्यमाना तु जिनानां तीर्थे 'कारणजाते' तथाविधेऽपराधे उत्पन्ने सति प्रतिक्रमणं भवति, तत्तीर्थसाधूनामशठत्वात् प्रमादरहितत्वाच्च ॥ अथास्या एव पूर्वार्द्धं व्याचष्टे - [भा. ६४२६] गमनाऽऽगमन वियारे, सायं पाओ य पुरिम-चरिमाणं । 20 27 Page #421 -------------------------------------------------------------------------- ________________ ४१८ बृहत्कल्प-छेदसूत्रम् - ३-६/२१५ नियमेन पडिक्कमणं, अतियारो होउ वा मा वा ।। वृ- 'गमनाऽऽगमने' चैयवन्दनादिकार्येषु प्रतिश्रयाद् निर्गत्य हस्तशतात् परतो गत्वा भूयः प्रत्यागमने, “वियारे" त्ति हस्तशतमध्येऽप्युच्चारादेः परिष्ठापने कृते, तथा 'सायं' सन्ध्यायां 'प्रातश्च' प्रभाते पूर्व-चरमाणां साधूनामतिचारो भवतु वा मा वा तथापि नियमेनैतेषु स्थानेषु प्रतिक्रमणं भवति ॥ परः प्राह [भा. ६४२७] अतिचारस्स उ असती, ननु होति निरत्ययं पडिक्कमणं । न भवति एवं चोदग!, तत्थ इमं होति नातं तु ॥ वृ- अतिचारस्य 'असति' अभावे ननु निरर्थकं प्रतिक्रमणं भवति । सूरिराह-हे नोदक ! 'एवं' त्वदुक्तं प्रतिक्रमणस्य निरर्थकत्वं न भवति' न घटते, किन्तु सार्थकं प्रतिक्रमणम् । तत्र च सार्थकत्वे इदं 'ज्ञातम्' उदाहरणं भवति ॥ [भा. ६४२८] सति दोसे होअगतो, जति दोसो नत्थि तो गतो होति । बितियस्स हणति दोसं, न गुणं दोसं व तदभावा ॥ दोसं हंतूण गुणं, करेति गुणमेव दोसरहिते वि । ततियसमाहिकरस्स उ, रसातणं डिंडियसुतस्स ॥ [भा. ६४२९] [भा. ६४३०] जति दोसो तं छिंदति, असती दोसम्मि निज्ञ्जरं कुणई । कुसलतिगिच्छरसायणमुवनीयमिदं पडिक्कमणं ।। वृ- एगस्स रन्नो पुत्तो अईव वल्लहो । तेन चिंतियं-अनागयं किंचि तहाविहं रसायणं करावेमि जेन मे पुत्तस्स कयाइ रोगो न होइ त्ति । विज्जा सद्दाविया मम पुत्तस्स तिगिच्छं करेह जेन निरओ होइ । ते भांति करेमो । राया भणइ केरिसाणि तुम्ह ओसहाणि ? । एगो भणइ-मम ओसहमेरिसं इ. रोगो अत्थि तो उवसामेइ, अह नत्थि तं चैव जीवंतं मारेइ । बिइओ भणइ-मम ओसहं जइ रोगो अस्थि तो उवसामेइ, अह नत्थि तो न गुणं न दोसं करेइ । तइओ भणइ जइ रोगो अत्थि तोउवसामेइ, अह नत्थि तो वन्न रूवजोव्वण-लावन्नत्ताए परिणमइ, अपुव्वोय रोगोन पाउब्भवइ । एवमायन्निऊण रन्ना तइयविज्रेण किरिया कारिया । एवमिमं पि पडिक्कमणं जइ अइयारदोसा अत्थि तो तेसिं विसोहिं करेति, अह नत्थि अइयारो तो चारित्तं विसुद्धं करेइ अभिनवकम्मरोगस्स य आगमं निरुंभइ ॥ अथाक्षरगमनिका प्रथमवैद्यस्यौषधेन 'सति दोषे' रोगसम्भवे उपयुज्यमानेन 'अगदः' नीरोगो भवति, यदि पुनर्दोषो नास्ति ततः प्रत्युत 'गदः' रोगो भवति । द्वितीयस्य तु वैद्यस्यैौषधं 'दोषं ' रोगं हन्ति, 'तदभावात् ' दोषाभावान्न गुणं न वा दोषं करोति । तृतीयस्य तु दोषं हत्वा गुणं करोति, दोषरहितेऽपि च 'गुणमेव' वर्णादिपुष्टयभिनवरोगाभावात्मकं करोति । ततः 'तृतीयसमाधिकरस्य' तृतीयस्य वैद्यस्य रसायनं दण्डिकसुतस्य योग्यमिति कृत्वा राज्ञा कारितम् । एवं प्रतिक्रमणमपि यदि अतिचारलक्षणो दोषो भवति ततस्तं छिनत्ति, अथ नास्ति दोषस्ततोऽसति दोषे महतीं कर्मनिर्जरां करोति । एवं 'कुशलचिकित्सस्य' तृतीयवैद्यस्य रसायनेन 'उपनीतम्' उपनयं प्रापितमिदं प्रतिक्रमणं मन्तव्यम् ॥ गतं प्रतिक्रमणद्वारम् । अथ मासकल्पद्वारमाहदुवो य मासकप्पो, जिनकप्पे चेव थेरकप्पे य । एक्केको वि यदुविहो, अट्ठियकप्पो य ठियकप्पो ॥ [भा. ६४३१] वृ- द्विविधो मासकल्पः, तद्यथा-जिनकल्पे चैव स्थविरकल्पे च । पुनरेकैको द्विविधः Page #422 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-२१५, [भा. ६४३१ ] अस्थितकल्पः स्थितकल्पश्च । तत्र मध्यमसाधूनां मासकल्पोऽस्थितः, पूर्व-पश्चिमानां तु स्थितः । ततः पूर्व-पश्चिमाः साधवो नियमाद् ऋतुबद्धे मासं मासेन विहरन्ति । मध्यमानां पुनरनियमः, कदाचिद् मासमपूरयित्वाऽपि निर्गच्छन्ति कदाचित्तुं देशोनपूर्वकोटीमप्येकत्र क्षेत्रे आसते ।। गतं मासकल्पद्वारम् । अथ पर्युषणाद्वारमाह [ भा. ६४३२] ४१९ पज्जोसवणाकप्पो, होति ठितो अट्ठितो य थेराणं । एमेव जिनानं पि य, कप्पो ठितमट्ठितो होति ॥ वृ- पर्युषणाकल्पः स्थविरकल्पिकानां जिनकल्पिकानां च भवति । तत्र स्थविराणां स्थितोऽस्थितश्च भवति । एवमेव जिनानामपि स्थितोऽस्थितश्च पर्युषणाकल्पः प्रतिपत्तव्यः ॥ इदमेव भावयति [ भा. ६४३३] चाउम्मासुक्कोसे, सत्तरिराइंदिया जहन्त्रेणं । ठितमट्टितमेगतरे, कारणवच्चासितऽन्नयरे ॥ वृ- उत्कर्षतः पर्युषणाकल्पश्चतुर्मासं यावद् भवति, आषाढपूर्णिमायाः कार्तिकपूर्णिमां यावदित्यर्थः । जघन्यतः पुनः सप्ततिरात्रिन्दिवानि, भाद्रपदशुक्ल पञ्चम्याः कार्तिकपूर्णिमां यावदित्यर्थः । एवंविधे पर्युषणाकल्पे पूर्व-पश्चिमसाधवः स्थिताः । मध्यमसाधवः पुनरस्थिताः । ते हि यदि वर्षारात्रो भवति मेघवृष्टिरित्यर्थः, तत एकत्र क्षेत्रे तिष्ठन्ति अन्यथा तु विहरन्ति । पूर्वपश्चिमा अपि ‘अन्यतरस्मिन् अशिवादौ कारणे समुत्पन्ने 'एकतरस्मिन्' मासकल्पे पर्युषणाकल्पे वा 'व्यत्यासितं ' विपर्यस्तमपि कुर्यु । किमुक्तं भवति ? - अशिवादिभि कारणैऋतुबद्धेमासमूनमधिकंवा तिष्ठेयुः, वर्षास्वपि तैरेव कारणैश्चतुर्मासमपूरयित्वाऽपि निर्गच्छन्ति परतो वा तत्रैव क्षेत्रे तिष्ठन्ति ॥ इदमेवाह [भा. ६४३४] थेराण सत्तरखलु, वासासु ठितो उड्डुम्मि मासो उ । वच्चासितो तु कज्जे, जिनान नियमऽट्ठ चउरो य ॥ वृ- 'स्थविराणां' स्थविरकल्पिकानां प्रथम-पश्चिमतीर्थकरसत्कानां सप्तिर्दिनानि खलुशब्दो जघन्यत इत्यस्य विशेषस्य द्योतनार्थ, वर्षासु पर्युषणाकल्पो भवति । तेषामेव ऋतबद्धे मासमेकमेकत्रावस्थानरूपो मासकल्पः स्थितो भवति । 'कार्ये पुनः' अशिवादी 'व्यत्यासितः' विपर्यस्तोऽपि भवति, नाधिकप्रमाण इत्यर्थः । 'जिनानां तु' प्रथम चरमतीर्थकरसत्कजिनकल्पिकानामृतुबद्धे नियमादष्टौ मासकल्पा वर्षासु चत्वारो मासा अन्यूनाधिकाः स्थिकल्पतया मन्तव्याः, निरपवादानुष्ठानपरत्वादेषामिति भावः ॥ [भा. ६४३५] दोसाऽसति मज्झिमगा, अच्छंती जाव पुव्वकोडी वि । विचरंति अ वासासु वि, अकद्दमे पाणरहिए य ।। वृ- ये तु 'मध्यमाः' अस्थितकल्पिकाः साधवस्ते दोषाणाम् अप्रीतिक-प्रतिबन्धादीनां असतिअभावे पूर्वकोटीमप्येकत्र क्षेत्रे आसते । तथा वर्षास्वपि 'अकर्दमें' प्रम्लानचिक्खल्ले प्राणरहिते च भूतल जाते सति 'विचरन्ति विहरन्ति ऋतुबद्धेऽपि यदि अप्रीतिकावग्रहो वसतेव्यार्घातो वा भवेत् ॥ [भा. ६४३६ ] भिन्नं पि मासकप्पं, करेंति तनुगं पि कारणं पप्प । जिनकप्पिया वि एवं एमेव महाविदेहेसु ॥ वृ- तत एवमादिकं 'तनुकमपि' सूक्ष्ममपि कारणं प्राप्य मासकल्पं भिन्नमपि कुर्वन्ति, अपूरयित्वा निर्गच्छन्तीत्यर्थः । जिनकल्पिका अपि मध्यमतीर्थकरसत्का एवमेव मासकल्पे पर्युषणाकल्पे च Page #423 -------------------------------------------------------------------------- ________________ ४२० बृहत्कल्प-छेदसूत्रम् -३-६/२१५ अस्थिताः प्रतिपत्तव्याः । एवमेव च महाविदेहेषु ये स्थविरकल्पिका जिनकल्पिकाश्च तेऽप्यस्थितकल्पिकाः प्रतिपत्तव्याः॥ गतं पर्युषणाकल्पद्वारम् । अथैतस्मिन् दशविधे कल्पे यः प्रमाद्यति तस्य दोषमभिधित्सुराह[भा.६४३७] एवं ठियम्मि मेरं, अट्ठियकप्पे यजो पमादेति। सो वट्टति पासत्थे, ठाणम्मितगं विवजेज्जा। वृ-'एवम्' अनन्तरोक्तनीत्या या स्थितकल्पेऽस्थितकल्पेच मर्यादा' सामाचारी भणितातां मर्यादां यः 'प्रमादयति' प्रमादेन परिहापयतिसः पार्श्वस्थे' पार्श्वस्थसत्केस्थानेवर्तते; ततस्तकं विवर्जयेत्, तेन सह दान-ग्रहणादिकं सम्भोगं न कुर्यादिति भावः ।। कुतः? इत्यत आह[भा.६४३८] पासत्थ संकिलिटुं, ठाणं जिन वुत्तं थेरेहि य। तारिसंतु गवसंतो, सो विहारे न सुज्झति ॥ वृ- 'पार्श्वस्थ पार्श्वस्थसत्कं 'स्थानम्' अपराधपदं 'संक्लिष्टम्' अशुद्धं 'जिनैः' तीर्थकरैः 'स्थविरैश्च' गौतमादिभिःप्रोक्तम्, ततस्ताशंस्थानं गवेषयन् ‘सः' यथोक्तसाचमाचारीपरिहापयिता विहारे न शुध्यति, नासौ संविग्नविहारीति भावः॥ [भा.६४३९] पासत्थ संकिलिटुं, ठाणं जिन वुत्तं थेरेहि य । तारिसंतु विवजेतो, सो विहारे विसुज्झति॥ वृ-पार्श्वस्थं स्थानं संक्लिष्टं जिनैः स्थविरैश्च प्रोक्तम्, ततस्ताशं स्थानं विवर्जयन् ‘सः' यथोक्तसामाचारीकर्ता विहारे 'विशुध्यति' विशुद्धो भवति । यतश्चैवमतः[भा.६४०] जो कप्पठितिं एयं, सद्दहमाणो करेति सट्ठाणे । तारिसं तु गवेसेज्जा, जतो गुणाणं न परिहानी॥ वृ- यः ‘एनाम्' अनन्तरोक्तां कल्पस्थितिं श्रद्दधानः स्वस्थाने करोति । स्वस्थानं नामस्थितकल्पेऽनुवर्तमाने स्थितकल्पसामाचारीम् अस्थितकल्पे पुनरस्थितकल्पसामाचारीकरोति। 'ताशं' संविग्नविहारिणं साधु 'गवेषयेत् तेन सहैकत्र सम्भोगं कुर्यात्, 'यतः' यस्माद् ‘गुणानां' मूलगुणोत्तरगुणानां परिहाणिर्न भवति ॥ इदमेव व्यक्तीकर्तुमाह[भा.६४४१] ठियकप्पम्मिदसविधे, ठवणाकप्पे य दुविहमनयरे। उत्तरगुणकप्पम्मिय, जो सरिकप्पो स संभोगो । वृ-'स्थितकल्पे' आचेलक्यादौ दशविधे स्थापनाकल्पे च' वक्ष्यमाणे द्विविधान्यतरस्मिन् उत्तरगुणकल्पे च यः 'सद्दक्कल्पः' तुल्यसामाचारीकः सः 'सम्भोग्यः' सम्भोक्तुमुचितः॥अत्र दशविधः स्थितकल्पोऽनन्तरमेवोक्तः । स्थापनाकल्पादिपदानि तु व्याख्यातुकाम आह[भा.६४४२] ठवणाकप्पो दुविहो, अकप्पठवणा य सेहठवणा य। पढमो अकप्पिएणं, आहारादी न गिण्हावे॥ वृ-स्थापनाकल् द्विविधः-अकल्पस्थापनाकल्पः शैक्षस्थापनाकल्पश्च । तत्र 'अकल्पिकेन' अनधीतपिण्डैषणादिसूत्रार्थेन आहारादिकं 'न ग्राहयेत्' नाऽऽनाययेत्, तेनानीतं न कल्पत इत्यर्थः । एष प्रथमोऽकल्पस्थापनाकल्प उच्यते॥ [भा.६४४३] अट्ठारसेवपुरिसे, वीसं इत्थीओ दस नपुंसा य । दिक्खेति जो न एते, सेहट्ठवणाए सो कप्पो॥ Page #424 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-२१५, [भा. ६४४३] ४२१ वृ-अष्टादशभेदाः 'पुरुषे पुरुषविषयाः, विंशतिः स्त्रियः, दश नपुंसकाः, एतानष्टचत्वारिंशतमनलान् शैक्षान् यो न दीक्षते स एष कल्प-कल्पवतोरभेदात् शैक्षस्थापनाकल्प उच्यते ॥ [भा.६४४४] आहार-उवहि-सेजा, उग्गम-उप्पादनेसणासुद्धा। जो परिगिण्हति निययं, उत्तरगुणकप्पिओ स खलु ॥ वृ-य आहारोपधि-शय्या उद्गमोत्पादनैषणाशुद्धाः 'नियतं' निश्चितं परिगृह्णाति स खलूत्तरगुणकल्पिको मन्तव्यः ।। एतेषु सशकल्पेन सह किं कर्तव्यम् ? इत्याह[भा.६४४५] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्टतरए वा। साहूहिं संथवं कुजा, नाणीहि चरित्तगुत्तेहिं । वृ-'सहक्कल्पः' स्थितकल्प-स्थापनाकल्पादिभिरेककल्पवर्ती सद्दक्छन्दः' समानसामाचारीकः 'तुल्यचारीत्रः' समानसामायिकादिसंयमः विशिष्टतरोवा' तीव्रतरशुभाध्यवसायविशेषेणोत्कृष्टतरेषु संयमस्थानकण्डकेषु वर्तमानः, ईशा ये ज्ञानिनश्चारित्रगुप्ताश्च तैः सह 'संस्तवं' परिचयमेकत्र संवावादिकं कुर्यात् ॥ [भा.६४४६] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्ठतरए वा । ____ आदिज्ज भत्त-पानं, सतेन लाभेन वा तुस्से॥ वृ-यः सद्दक्कल्पः सद्दक्छन्दस्तुल्यचारित्रो विशिष्टतरो वा 'तेन' एवंविधेन साधुनाऽऽनीतं भक्त-पानमाददीत्, ‘स्वकीयेन वा आत्मीयेनलाभेन तुष्येत्, हीनतरस्तकंन गृह्णीयात्॥तदेवमुक्ता छेदोपस्थापनीयकल्पस्थिति । अथ निर्विशमान-निर्विष्टकायिककल्पस्थितिद्वयं विवरीषुराह[भा.६४४७] परिहारकप्पं पवक्खामि, परिहरंति जहा विऊ । आदी मज्झऽवसाने य, आनुपुट्विं जहक्कम ॥ वृ-परिहारकल्पं प्रवक्ष्यामि, कथम् ? इत्याह-यथा 'विद्वांसः' विदितपूर्वगतश्रुतरहस्यास्तं कल्पं परिहरन्ति' धातूनामनेकार्थत्वाद्आसेवन्ते।कथं पुनः वक्ष्यसि ? इति अत आह-'आदौ' तप्रथमतया प्रतिपद्यमानानां मध्ये' प्रतिपन्नानाम् 'अवसाने' प्रस्तुतकल्पमाप्तौ या आनुपूर्वी' सामाचार्या परिपाटि तां यथाक्रमं प्रवक्ष्यामीति सण्टङ्कः॥ तत्र कतरस्मिन् तीर्थे एष कल्पो भवति? इति जिज्ञासायामिदमाह[भा.६४४८] भरहेरवेसुवासेसु, जता तित्थगरा भवे। पुरिमा पच्छिमा चेव, कप्पं देसेंति ते इमं ॥ वृ-भरतैरावतेषु वर्षेषु दशस्वपि यदा तृतीय-चतुर्थारकयोः पश्चिमे भागे पूर्व पश्चिमाश्च तीर्थकरा भवेयुः तदा ते भगवन्तः ‘इमं प्रस्तुतं कल्पं 'दिशन्ति' प्ररूपयन्ति, अर्थादापन्नम्मध्यमतीर्थकृतां महाविदेहेषु च नास्ति परिहारकल्पस्थितिरिति ॥आह यदि एवं ततः[भा.६४४९] केवइयं कालसंजोगं, गच्छो उ अनुसज्जती। तित्थयरेसु पुरिमेसु, तहा पच्छिमएसुय॥ वृ-कियन्तं कालसंयोगंपरिहारकल्पिकानां गच्छ: पूर्वेषु पश्चिमेषुच तीर्थकरेषु अनुसजति' परम्परयाऽनुवर्तते? ॥ एवं शिष्येण पृष्टे सति सूरिराह[भा.६४५०] पुव्वसयसहस्साई, पुरिमस्स अनुसज्जती। वीसग्गसो य वासाई, पच्छिमस्सानुसज्जती ।। Page #425 -------------------------------------------------------------------------- ________________ ४२२ बृहत्कल्प-छेदसूत्रम् - ३-६/२१५ वृ- पूर्वशतसहस्राणि 'पूर्वस्य' ऋषभस्वामिनस्तीर्थे परिहारकल्पोऽनुसजति । 'पश्चिमस्य तु' श्रीवर्द्धमानस्वामिनस्तीर्थे 'विंशत्यग्रशः' कतिपयविंसतिसङ्ख्यापरिच्छिन्नानि वर्षाणि परिहारकल्पोऽनुसजति । तत्र ऋषभस्वामिनस्तीर्थे यानि पूर्वशतसहस्राण्युक्तानि तानि देशाने द्वे पूर्वकोटी मन्तव्ये । कथम् ? इति चेद् उच्यते-इह पूर्वकोट्यायुषो मनुष्या जन्मत आरभ्य सञ्जाताष्टवर्षा प्रव्रजिताः, तेषां च नवमे वर्षे उपस्थापना सञ्जता, एकोनविंशतिवर्षपर्यायाणां च दृष्टिवाद उद्दिष्टः, तस्य वर्षेण योगः समाप्तिं नीतः, एवं नव विंशतिश्च मिलिता एकोनत्रिंशद् वर्षाणि भवन्ति, एतावत्सु वर्षेषु गतेषु ऋषभस्वामिनः पार्श्वे परिहारकल्पं प्रतिपन्नाः, तत एकोनत्रिंशद्वर्षन्यूनां पूर्वकोटीं परिहारकल्पे तैरनुपालिते सति येऽन्ये तेषां मूले परिहारकल्पं प्रतिप्रद्यन्ते तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यूनां पूर्वकोटीमनुपालयन्ति, एवं देशोने द्वे पूर्वकोटी भवतः । पश्चिमस्य तु यानि विंशत्यग्रशो वर्षाण्युक्तानि तानि देशोने द्वे वर्षशते भवतः ।। तथा चाहपव्वज्ज अट्ठवास्स, दिट्ठिवातो उ वीसहिं । इति एकूणतीसाए, सयमूनं तु पच्छिमे ॥ पालइत्ता सयं ऊनं, वासाणं ते अपच्छिमे । काले देसिंति अन्नेसिं, इति ऊना तु वे सता ॥ [ भा. ६४५१] [भा. ६४५२] वृ- श्रीवर्द्धमानस्वामिकाले वर्षशतायुषो मनुष्याः, तत्र 'अष्टवर्षस्य' जन्मनः प्रभृति सञ्जातवर्षाष्टकस्य कस्यापि प्रव्रज्या सञ्जाता, पूर्वोक्तरीत्या च विंशत्या वर्षैर्दृष्टिवादो योगतः समर्थितः, ततः श्रीमन्महावीरसकाशे परिहारकल्पं नव जनाः प्रतिपद्य देशोनवर्षशतमनुपालयन्ति इत्येवमेकोनत्रिंशता वर्षैरूनं शतं 'पश्चिमे' पश्चिमतीर्थकरकाले भवति ।। ततस्ते वर्षाणां शतमूनं तं कल्पं पालयित्वा 'अपश्चिमे काले' निजायुषः पर्यन्तेऽन्येषां तं कल्पं दिशन्ति' प्ररूपयन्ति, प्रवर्तयन्तीति भावः । तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यूनं शतं पालयन्ति । 'इति' एवं द्वे शते ऊने वर्षाणां भवत इति ॥ किमर्थं तृतीया पूर्वकोटी तृतीयं वा वर्षशतं न भवति ? इत्याह[भा. ६४५३] पडिवन्ना जिणिंदस्स, पादमूलम्मि जे विऊ । ठावयंति उ ते अन्ने, नोउ ठावितठावगा ॥ वृ- जिनेन्द्रस्य पादमूले ये विद्वांसः प्रस्तुतं कल्पं प्रतिपन्नास्त एवान्यांस्तत्र कल्पे स्थापयन्ति, न तु 'स्थापितस्थापकाः' जिनेन स्थापिता स्थापका येषां ते स्थापितस्थापकास्तेऽमुं कल्पमन्येषां न स्थापयन्ति । इदमत्र हृदयम् इयमेवास्य कल्पस्य स्थितिर्यत् तीर्थकरसमीपे वाऽमुं प्रतिपद्यन्ते, तीर्थकरसमीपप्रतिपन्नसाधुसकाशे वा, नाऽन्येषाम् । अतस्तृतीये पूर्वकोटि-वर्षशते न भवत इति ॥ अथ की ग्गुणोपेता अमी भवन्ति ? इत्याह [भा. ६४५४ ] सव्वे चरित्तमंतो य, दंसणे परिनिट्ठिया । नवपुव्विया जहन्नेणं, उक्कोस दसपुव्विया ।। पंचविहे ववहारे, कप्पे त दुविहम्मिय । दसविहे य पच्छित्ते, सव्वे ते परिनिट्ठिया ।। [ भा. ६४५५ ] वृ- सर्वेऽपि ते भगवन्तश्चारित्रवन्तः 'दर्शने च' सम्यक्त्वे 'परिनिष्ठिताः' परमकोटिमुपगताः ज्ञानमङ्गीकृत्य तु नवपूर्विणो जघन्येन, उत्कर्षतः 'दशपूर्विणः ' किञ्चिद् न्यूनदशपूर्वधरा मन्तव्याः । तथा- 'पञ्चविधे व्यवहारे' आगम श्रुताऽऽज्ञा धारणा - जीतलक्षणे 'द्विविधे च कल्पे' अकल्प Page #426 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-२१५, [भा. ६४५५ ] ४२३ स्थापना-शैक्षस्थापनाकल्परूपे जिनकल्प-स्थविरकल्परूपे वा 'दशविधे च प्रायश्चित्ते' आलोचनादौ पाराञ्चिकान्ते सर्वेऽपि ते 'परिनिष्ठिताः' परिज्ञायां परां निष्ठां प्राप्ताः ।। अप्पणो आउगं से, जाणित्ता ते महामुनी । परक्कमं च बल विरियं, पच्चवाते तहेव य ॥ [भा. ६४५६ ] वृ- आत्मन आयुः शेषं सातिशयश्रुतोपयोगेन ज्ञात्वा ते महामुनयः, 'बलं' शारीरं सामर्थ्यम्, 'वीर्य' जीवशक्ति, तदुभयमपि दर्शितस्वफलं पराक्रमः, एतान्यात्मनो विज्ञायामुं कल्पं प्रतिपद्यन्ते । 'प्रत्यपायाः' जीवितोपद्रवकारिणो रोगादयस्तानपि 'तथैव' प्रथममेवाभोगयन्ति, किं प्रतिपन्नानां भविष्यन्ति ? न वा ? इति । यदि न भवन्ति ततः प्रतिपद्यन्ते, अन्यथा तु नेति ॥ आपुच्छिऊण अरहंते, मग्गं देखेंति ते इमं । [भा. ६४५७] पमाणाणि य सव्वाई, अभिग्गहे य बहुविहे || वृ- 'अर्हतः ' तीर्थकृत आपृच्छ्य ते तेषामनुज्ञयाऽमुं कल्पं प्रतिपद्यन्ते । 'तेच' तीर्थकृतस्तेषां प्रस्तुतकल्पस्य 'इमम्' अनन्तरमेव वक्ष्यमाणं 'मार्ग' सामाचारीं देशयन्ति । तद्यथा प्रमाणानिच सर्वाणि, अभिग्रहांश्च बहुविधान् । एतान्येव व्याचष्टे - [भा. ६४५८] गणोवहिपमाणाई, पुरिसाणं च जाणि तु । दव्वं खेत्तं च कांच, भावमन्ने य पज्जवे ॥ कृ- गणप्रमाणान्युपधिप्रमाणानि पुरुषाणां च प्रमाणानि यानि प्रस्तुते कल्पे जघन्यादिभेदादनेकधा भवन्ति, यच्च तेषां 'द्रव्यम्' अशनादिकं कल्पनीयम्, यच्च 'क्षेत्रं' मासकल्पप्रायोग्यं वर्षावासप्रायोग्यं वा, यश्चैतयोरेव मासकल्प-वर्षावासयोः प्रतिनियतः कालः, यश्च 'भावः' क्रोधनिग्रहादिरूपः, येच 'अन्येऽपि' निष्प्रतिकर्मतादयो लेश्या ध्यानादयो वा पर्यायास्तेषां सम्भवन्ति तान् सर्वानपि भगवन्तस्तेषामुपदिशन्ति ॥ [ भा. ६४५९] पंचहिं अग्गहो भत्ते, तत्थेगीए अभिग्गहो । उवहिणो अग्गहो दोसुं, इयरो एक्कतरीय उ ॥ - वृ- भक्ते उपलक्षणत्वात् नके च संसृष्टा ऽ संसृष्टारव्यमाद्यमेषणाद्वयं वर्जयित्वा पञ्चभिः उपरितनीभिरेषणाभि ' आग्रह : ' स्वीकारः । तत्रापि 'एकस्याम्' एकतरस्यामभिग्रहः, एकया कयाचिद् भक्तमपरया पानकमन्वेषयन्तीत्यर्थः । आह च बृहद्भाष्यकृत् संस माइयाणं, सत्तण्हं एसणाण उ । इल्लाहि उ दोहिं तु, अग्गहो गह पंचहिं ॥ तत्थ वि अन्नयरीए, एगीए अभिग्गहं तु काऊणं । ति । उपधिः-वस्त्रादिरूपस्तस्य उद्दिष्ट-प्रेक्षा-अन्तरा-उज्झितधर्मिकाख्याः पीठिकायां व्याख्याता याश्चतस्र एषणास्तत्र 'द्वयोः' उपरितनयोः 'आग्रह:' स्वीकारः । 'इतरः' अभिग्रहः स एकतरस्यामुपरितन्यां भवति, यदा चतुर्थ्या न तदा तृतीयायाम् यदा तृतीयायां न तदा चतुर्थ्या गृह्णन्तीति भावः ॥ कदा पुनस्तेऽमुं कल्पं प्रतिपद्यन्ते ? इत्याह [ भा. ६४६० ] अइरोग्यम्मि सूरे, कप्पं देसिंति ते इमं । आलोइय-पडिक्कंता, ठावयंति तओ गणे || वृ- अचिरोद्गते सूर्ये 'ते' भगवन्तः कल्पमिमं 'देशयन्ति' स्वयं प्रतिपत्त्याऽन्येषां दर्शयन्ति । Page #427 -------------------------------------------------------------------------- ________________ ४२४ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ ततः ‘आलोचित-प्रतिक्रान्ताः' आलोचनाप्रदानपूर्वंप्रदत्तमिथ्यादुष्कृतास्त्रन् गणान् स्थापयन्ति। तेषु च त्रिषु गणेषु कियन्तः पुरुषा भवन्ति? इत्याह[भा.६४६१] सत्तावीस जहन्नेणं, उक्कोसेण सहस्ससो। निग्गंथसूरा भगवंतो, सव्वग्गेणं वियाहिया ॥ वृ- सप्तविंशतिपुरुषा जघन्येन भवन्ति, एकैकस्मिन् गणे नव जना भवन्ति इति भावः । उत्कर्षतः ‘सहस्रशः' सहस्रसङ्ख्याः पुरुषाभवन्ति, शताग्रशोगणानामुत्कर्षतः वक्ष्यमाणत्वात् । एवं ते भगवन्तो निर्ग्रन्थसूराः 'सर्वाग्रेण' सर्वसङ्ख्यया व्याख्याताः॥गणमङ्गीकृत्य प्रमाणमाह[भा.६४६२] सयग्गसो य उक्कोसा, जहन्त्रेण तओ गणा। गणोय नवतो वुत्तो, एमेता पडिवत्तितो॥ वृ- 'शताग्रशः' शतसङ्ख्या गणा उत्कर्षतोऽमीषां भवन्ति, जघन्येन त्रयो गणाः । गणश्च 'नवकः' नवपुरुषमान उक्तः । एवमेताः 'प्रतिपत्तयः' प्रमाणादिविषयाः प्रकारा मन्तव्याः॥ [भा.६४६३] एगंकपट्ठियं कुज्जा, चत्तारि परिहारिए। __ अनुपरिहारिगा चेव, चउरो तेसिं ठावए॥ वृ-नवानां जनानांमध्यदेकंकल्पस्थितं गुरुकल्पं कुर्यात् । चतुरः परिहारिकान् कुर्यात् । तेषां शेषांश्चतुरोऽनुपहारिकान् स्थापयेत् ।। [भा.६४६४] न तेसिं जायती विग्धं, जा मासा दस अट्ठय । न वेयणा न वाऽऽतंको, नेव अने उवद्दवा ।। [भा.६४६५] अट्ठारससु पुनेसु, होज एते उवद्दवा। ऊणिए ऊणिए यावि, गणे मेरा इमा भवे ॥ वृ-'तेषाम्' एवं कल्पंप्रतिपन्नानांनजायते विघ्नः' अन्यत्र संहरणादि, यावद् मासा दशाष्टौ च, अष्टादश इत्यर्थः । न वेदना न वा आतङ्कः नैवान्ये केचनोपद्रवाः प्राणव्यपरोपणकारिण उपसर्गा। अष्टादशसुमासेषु पूर्णेषु भवेयुरपि एते उपद्रवाः उपद्रवैश्च यदि तेषामेको द्वौ त्रयो वा म्रियन्ते, अथवा तेषां कोऽपि स्थविरकल्पं जिनकल्पं वा गतो भवति, शेषास्तु तमेव कल्पमनुपालयितुकामास्तत एवमूनितेऊनितेगणेजातेइयं मर्यादा' सामाचारीभवति । इहोनिते ऊनिते इति द्विरुच्चारणं भूयोऽप्यष्टादशसु मासेषु पूर्णेषु एष एव विचिरिति ज्ञापनार्थम् ।। [भा.६४६६] एवं तु ठाविए कप्पे, उवसंपज्जति जो तहिं। एगो दुवे अनेगा वा, अविरुद्धा भवंति ते॥ वृ-'एवम्' अनन्तरोक्तनीत्या कल्पेस्थापितेसति यदिएकादयोनियरन्, अन्यत्र वा गच्छेयुः, ततो यस्तत्र उपसम्पद्यते स एको वा द्वौ वाऽनेके वा भवेयुः । तत्र यावद्भि पारिहारिकगण ऊनस्तावतामुपसम्पदर्थमागतानां मध्याद् गृहीत्वा गणः पूर्यते। ये शेषास्ते पारिहारिकतपस्तुलनां कुर्वन्तस्तिष्ठन्ति।तेचपारिहारिकैः सार्द्ध तिष्ठन्तोऽविरुद्धाभवन्ति, पारिहारिकाणामकल्पनीया न भवन्तीत्युक्तं भवति । ते च तावत् तिष्ठन्ति यावदन्ये उपसम्पदर्थमुपतिष्ठन्ते । तैः पूरयित्वा पृथग्गणः क्रियते ॥ इदमेव व्याख्याति[भा.६४६७] तत्तो य ऊनए कप्पे, वसंपज्जति जो तहिं। जत्तिएहिं गणो ऊनो, तत्तिते तत्थ पक्खिवे॥ Page #428 -------------------------------------------------------------------------- ________________ उद्देश : ६, मूलं - २१५, [भा. ६४६७ ] वृ- 'ततश्च' पूर्वोक्तकारमाद् 'ऊनके ' एक-द्व्यादिभि साधूभिरपूर्णे कल्पे यस्तत्रोपसम्पद्यते तत्रायं विधि-‘यावद्भिः' एकादिसङ्ख्याकैः स गण ऊनः 'तावतः' तावत्सङ्ख्याकानेव साधून् 'तत्र' गणे 'प्रक्षिपेत्' प्रवेशयेत् ॥ [भा. ६४६८ ] तत्तो अनूनए कप्पे, उवसंपजति जो तहिं । उवसंपजमाणं तु तप्पमाणं गणं करे ॥ वृ- अथ कोऽप्युपद्रवैर्न कालगतस्तत एवमन्यूनके कल्पे ये तत्रोपसम्पद्यन्ते ते यदि नव जनाः पूर्णास्ततः पृथग् गणो भवति । अथापूर्णास्ततः प्रतीक्षाप्यन्ते यावदन्ये उपसम्पदर्थमागच्छन्ति । ततस्तमुपसम्पद्यमानं साधुजनं मीलयित्वा 'तत्प्रमाणं' नवपुरुषमानं गणं 'कुर्यात्' स्थापयेत् ॥ [भा. ६४६९ ] पमाणं कप्पट्ठितो तत्थ, ववहारं ववहरित्तए । अनुपरिहारियाणं पि, पमाणं होति से विऊ ।। वृतेषां पारिहारिकाणां 'तंत्र' कल्पे कचित् स्खलितादावापत्रे 'व्यवहारं' प्रायश्चित्तं 'व्यवहर्तुं' दातुं कल्पस्थितः प्रमाणम्, यदसौ प्रायश्चित्तं ददाति तत् तैर्वोढव्यमिति भावः । एवमनुपारिहारिकाणामप्यपराधपदमापन्नानां स एव 'विद्वान्' गीतार्थ प्रायश्चित्तदाने प्रमाणम् ॥ [भा. ६४७० ] आलोयण कप्पठिते, तवमुज्जाणोवमं परिवहंते । अनुपरिहारिए गोवालए, व निच्च उज्जुत्तमाउत्ते ॥ वृ- ते परिहारिका - ऽनुपरिहारिका आलोचनम् उपलक्षणत्वात् वन्दनकं प्रत्याख्यानं च कल्पस्थितस्य पुरतः कुर्वन्ति । "तवमुज्जाणोवमं परिवहंते "त्ति यथा किल कश्चिदुद्यानिकां गत एकान्तरतिप्रसक्तः स्वच्छन्दसुखं विहरमाण आस्ते एवं तेऽपि पारिहारिका एकान्तसमाधिसिन्धुनिमग्नमनसस्तत् तपः 'उद्यानोपमम्' उद्यानिकासदृशं परिवहन्ति, कुर्वन्तीत्यर्थः । अनुपारिहारिकाश्च चत्वारोऽपि चतुर्णां परिहारिकाणां भिक्षादौ पर्यटतां पृष्ठतः स्थिता नित्यम् 'उद्युक्ताः' प्रयत्नवन्त 'आयुक्ताश्च' उफयुक्ता हिण्डन्ते, यथा गोपालको गवां पृष्ठतः स्थित उद्युक्त आयुक्तश्च हिण्डते ॥ [भा. ६४७१] ४२५ पडिपुच्छं वायणं चेव, मोत्तूणं नत्थि संकहा । आलावो अत्तनिद्देसो, परिहारिस्स कारणे ॥ वृ- तेषां च पारिहारिकादीनां नवानामपि जनानां सूत्रार्थयोः प्रतिपृच्छां वाचनां च मुक्त्वा नास्त्यन्या परस्परं सङ्कथा । पारिहारिकस्य च 'कारणे' उत्थान-निषदनाद्यशक्तिरूपे आलाप आत्मनिर्देशरूपो भवति, यथा- उत्थास्यामि, उपवेक्ष्यामि, बिक्षां हिण्डिष्ये, मात्रकं प्रेक्षिष्ये इत्यादि । [ भा. ६४७२] बारस दसऽट्ठ दस अट्ठ छ च्च अद्वेव छ च्च चउरो य । उक्स - मज्झिम- जहन्नगा उ वासा सिसिर गिम्हे ॥ वृ- परिहारिकाणां वर्षा - शिशिर-ग्रीष्मरूपे त्रिविधे काले उत्कृष्ट-मध्यम- जघन्यानि तपांसि भवन्त । तत्र वर्षारात्रे उत्कृष्टं तपो द्वादशम्, शिशिरे दशममुत्कृष्टम्, ग्रीष्यमे उत्कृष्टमष्टमम्; वर्षारात्रे मध्यमं दशमम्, शिशिरेऽष्टमम्, ग्रीष्मे षष्ठम्: वर्षारात्रे जघन्यमष्टमम्, शिशिरे षष्ठम्, ग्रीष्मे चत्वारि भक्तानि, चतुर्थमित्यर्थः ॥ [ भा. ६४७३ ] आयंबिल बारसमं, पत्तेयं परिहारिगा परिहरति । अभिगहितएसणाए, पंचण्ह वि एगसंभोगो ॥ Page #429 -------------------------------------------------------------------------- ________________ ४२६ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ वृ- परिहारिका उत्कर्षतो द्वादशं तपः कृत्वा आचाम्लेन पारयन्ति । ते च परिहारिकाश्चत्वारोऽपि 'प्रत्येकं' पृथक् पृथक् परिहरन्ति, न परस्परं समुद्देशनादिसम्भोगं कुर्वन्तीत्यर्थः । ते च परिहारिका अभिगृहीतया पञ्चानामुपरितनीनामन्यतरैषणया भक्त पानं गृह्णन्ति । ये तु चत्वारोऽनुपारिहारिका एकश्च कल्पस्थितस्तेषां पञ्चानामप्येक एव सम्भोगः, ते च प्रतिदिवसमाचाम्लं कुर्वन्ति । यस्तु कल्पस्थितः स स्वयं न हिण्डते, तस्य योग्यं भक्त - पानमनुपारिहारिका आनयन्ति । [भा. ६४७४ ] परिहारिओ वि छम्मासे अनुपरिहारिओ वि छम्मासा । कप्पट्ठितो वि छम्मासे एते अट्ठारस उ मासा ।। वृ- परिहारिकाः प्रथमतः षण्मासान् प्रस्तुतं तपो वहन्ति, ततोऽनुपरिहारिका अपि षण्मासान् वहन्ति, इतरेतु तेषामनुपारिहारिकत्वं प्रतिपद्यन्ते । तैरपि व्यूढे सति कल्पस्थितः षण्मासान् वहति, ततः शेषाणामेकः कल्पस्थितो भवति एकः पुनरनुपरिहारिकत्वं प्रतिपद्यते । एवमेतेऽथदश मासा भवन्ति ॥ [भा. ६४७५ ] अनुपरिहारिगा चेव, जे य ते परिहारिगा । अन्नमन्नेसु ठाणेसु, अविरुद्धा भवंति ते ।। - अनुपरिहारिकाश्चैव ये चते परिहारिकास्तेऽन्यान्येषु स्थानेषु कालभेदेन परस्परमेकैकस्य वैयावृत्यं कुर्वन्तोऽविरुद्धा एव भवन्ति ।। ततश्च [भा. ६४७६ ] एहिं छहि मासेहिं, निव्विट्ठा भवंति ते । ततो पच्छा ववहारं, पट्ठवंति अनुपरिहारिया ॥ वृ- ते परिहारिकाः षड्भिर्मासैर्गतैस्तपसि व्यूढे सति निर्विष्टाः' निर्विष्टकायिका भवन्ति । ततः पश्चादनुपरिहारिकाः 'व्यवहारं' परिहारतपसः समाचारं 'प्रस्थापयन्ति' कर्तुं प्रारभन्ते ॥ एहिं छहिअ मासेहिं, निव्विट्ठा भवंति ते । वह कप्पट्ठितो पच्छा, परिहारं तहाविहं ॥ [भा. ६४७७ ] वृ-तेऽपि षड्भिर्मासैर्गतैर्निर्विष्टा भवन्ति । पश्चात् कल्पस्थितोऽपि तथाविधं परिहारं तावत एव मासान् वहति ॥ एवं च[भा. ६४७८ ] अट्ठारसहिं मासेहिं, कप्पो होति समानितो । मूलट्ठवणाए समं छम्मासा तु अनूनगा ॥ वृ- अष्टादशभिर्मासैरयं कल्पः समापितो भवति । कथम् ? इत्याह-“मूलट्ठवणा” इत्यादि। मूलस्थापना नाम-यत् परिहारिकाः प्रथमत इदं तपः प्रतिपद्यन्ते, तस्यां षण्मासा अन्यूनास्तपो भवति, एवमनुपारिहारिकाणां कल्पस्थितस्य च मूलस्थापनया 'समं' तुल्यं तपः प्रत्येकं ज्ञेयम्, षण्मासान् यावदित्यर्थः । एवं त्रिभि षटकैरष्टादश मासा भवन्ति । ते च द्विधा-जिनकल्पिकाः स्थविरकल्पिकाश्च । उभयेषामपि व्याख्यानमाह [भा. ६४७९ ] एवं समानिए कप्पे, जे तेसिं जिनकप्पिया । तमेव कप्पं ऊना वि, पालए जावजीवियं ॥ वृ- 'एवम्' अनन्तरोक्तविधिनाऽष्टादशभिर्मासैः कल्पे समापिते सति ये तेषां मध्याद् जिनकल्पिकास्ते तमेव कल्पमूना अप्यष्टादिसङ्ख्याका अपि यावज्जीवं पालयति ।। अट्ठारसेहिं पुत्रेहिं, मासेहिं थेरकप्पिया । पुनो गच्छं नियच्छंति, एसा तेसिं अहाठिती ॥ [भा. ६४८० ] Page #430 -------------------------------------------------------------------------- ________________ उद्देश : ६, मूलं - २१५, [ भा. ६४८० ] वृ- ये स्थविरकल्पिकास्तेऽष्टादशभिर्मासैः पूर्णे 'पुनर्' भूयोऽपि गच्छं नियच्छन्ति, आगच्छन्तीत्यर्थः । एषा तेषां 'यथास्थिति' यथाकल्पः ।। अथ षड्विधायां कल्पस्थितौ का कुत्रावतरति ? इत्याह [भा. ६४८१] तइय- चउत्था कप्पा, समोयरंति तु बियम्मि कष्पम्मि । पंचम छठितीसुं, हेट्ठिल्लाणं समोयारो ॥ वृ- 'तृतीय- चतुर्थी' निर्विशमनाक-निर्विष्टकायिकाख्यौ कल्पौ 'द्वितीये' छेदोपस्थापनीयनाम्नि कल्पे समवतरतः । तथा सामायिक-च्छेदोपस्थापनीय-निर्विशमानक-निर्विष्टकायिकाख्या आद्याश्चतस्रः स्थितयोऽधस्तन्य उच्यन्ते, तासांप्रत्येकं 'पञ्चम-षष्ठस्थित्योः ' जिनकल्प स्थविर - कल्पस्थिति-रूपयोः समवतारो भवति ।। गतं निर्विशमानक-निर्विष्टकायिककल्पस्थितिद्वयम्। अथ जिनकल्पस्थितिमाह[ भा. ६४८२ ] निजुत्ति-मासकप्पेसु वन्नितो जो कमो उ जिऩकप्पे । सुय संघयणादीओ, सो चेव गमो निरवसेसो । वृ- नियुक्ति - पञ्चकल्पस्तस्यां मासकल्पप्रकृते च यः क्रमः 'जिनकल्पे' 'जिनकल्पविषयः श्रुतसंहननादिको वर्णितः स एव गमो निरवशेषोऽत्र मन्तव्यः ॥ स्थानाशून्यार्थं पुनरिदमुच्यते[ भा. ६४८३] गच्छम्मिय निम्माया, धीरा जाहे य मुनियपरमत्था । अगह जोग अभिग्गहे, उ बिंति जिनकप्पियचरितं ॥ वृ- यदा गच्छे प्रव्रज्या - शिक्षापदादिक्रमेण 'निर्माताः' निष्पन्नाः, 'धीराः' औत्पत्तिक्यादिबुद्धिमन्तः परीषहोपसर्गैरक्षोभ्यावा, 'मुणितपरमार्था' 'अभ्युद्यतविहारेण विहर्तुमवसरः साम्प्रतमस्माकम्' इत्येवमवगतार्था, तथा ययोः पिण्डैषणयोः असंसृष्टा-संसृष्टाख्ययोरग्रहस्ते परिहर्तव्ये, यास्तु उपरितन्यः पञ्चैषणास्तासाम् 'अभिग्रहः' 'एता एव ग्रहीतव्याः' इत्येवंरूपः, तत्राप्येकदैकतरस्यां 'योगः' व्यापारः परिभोग इत्यर्थः । एवं भावितमतयो यदा भवन्ति तदा जिनकल्पिकचारित्रम् 'उपयान्ति' प्रतिपद्यन्ते ॥ [भा. ६४८४ ] धितिबलिया तवसूरा, निंति य गच्छातो ते पुरिससीहा । बल - वरियसंघयणा, उवसग्गसहा अभीरू य ॥ ४२७ वृ- धृति-वज्रकुड्यवदभेद्यं चित्तप्रणिधानं तया बलिकाः बलवन्तः, तथा तपः-चतुर्थादिकं पण्मासिकान्तं तत्र शूराः समर्था, एवंविधाः पुरुषसिंहास्ते गच्छाद् निर्गच्छन्ति । बलं शारीरं वीर्यं - जीवप्रभवं तद्धेतुः संहननम् - अस्थिनिचयात्मकं येषां ते तथा । बल-वीर्यग्रहणं च चतुर्भङ्गीज्ञापनार्थम्, साचेयम् धृतिमान् नामैको न संहननवान्, संहननवान् नामैको न धृतिमा, एको धृतिमानपि संहननवानपि, एको न धृतिमान न संहननवान् । अत्र तृतीयभङ्गेनाधिकारः । उपसर्गा-दिव्यादयस्तेषां सहाः सम्यगध्यासितारः, तथा 'अभीरवः' परीषहेभ्यो न बिभ्यति ॥ गता जिनल्पस्थितिः सम्प्रति स्थविरकल्पस्थितिमाह , [भा. ६४८५ ] संजमकरणुज्जोवा, निप्फातग नाण- दंसण चरित्ते । दीहाउ वढवासो, वसहीदोसेहि य विमुक्का ॥ वृ-संयमः पञ्चाश्रविरमणादिरूपः पृथिव्यादिरक्षारूपो वा सप्तदशविधः, तं कुर्वन्ति यथावत् पालयन्तीति संयमकरणाः, नन्द्यादिदर्शनात् कर्तरि अनप्रत्ययः, उद्योतकाः- तपसा प्रवचनस्योज्यालकाः, ततः संयमकरणाश्च ते उद्योतकाश्चेति विशेषणसमासः । यद्वा सूत्रा ऽर्थपौरुषीकरणेन Page #431 -------------------------------------------------------------------------- ________________ ४२८ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ संयमकरणमुद्योतयन्तीति संयमकरणोद्योतकाः।तथा ज्ञान-दर्शन-चारित्रेषुशिष्याणां निष्पादकास्तेषांवाज्ञानादीनामव्यवच्छित्तिकारकाः, एवंविधाःस्थविरकल्पिका भवन्तीतिशेषः।यदाचतेदीर्घायुषो जङ्घाबलपरिक्षीणाश्चभवन्तितदावृद्धावासमध्यासते।तत्रैकक्षेत्रेवसन्तोऽपि वसतिदोषैः कालातिक्रान्तादिभि चशब्दाद् आहारोपधिदोषैश्च विमुक्ताः' वर्जिता भवन्ति, नतैर्लिप्यन्त इत्यर्थः॥ [भा.६४८६] मोत्तुं जिनकप्पठिई, जा मेरा एस वन्निया हेट्ठा । ___ एसा तु दुपदजुत्ता, होति ठिती थेरकप्पस्स ॥ वृ-जिनकल्पस्थितिग्रहणेन उपलक्षणत्वात्सर्वेषामपिगच्छनिर्गतानां स्थितिपरिगृह्यते, ततस्तां मुक्त्वा या 'अधस्ताद्' अस्मिन्नेवाध्ययने 'मर्यदा' स्थिति 'एषा' अनन्तरमेव वर्णिता; यद्वा सामायिकाध्ययमादौ कृत्वा यावदस्मिन्नैवाध्ययने इदं षड्विधकल्पस्थितिसूत्रम्, अत्रान्तरे गच्छनिर्गतसामाचारीमुक्त्वा या शेषा सामाचारी वर्णिता सा 'द्विपदयुक्ता' उत्सर्गा-ऽपवादपदद्वययुक्ता स्थविरकल्पस्य स्थितिर्भवति ।। गता स्थविरकल्पस्थितिः । सम्प्रति प्रस्तुतशास्त्रक्तविधिवपरीत्यकारिणामपायान् दर्शयन्नाह[भा.६४८७] पलंबादी जाव ठिती, उस्सग्ग-ऽववातियं करेमाणो। अववाते उस्सग्गं, आसायण दीहसंसारी॥ वृ- प्रलम्बसूत्रादारभ्य यावदिदं षड्विधकल्पस्थितिसूत्रं तावद् य उत्सर्गा-ऽपवादविधि सूत्रतोऽर्थतश्चोक्तस्तत्रोत्सर्गे प्राप्ते आपवादिकी क्रियां कुर्वाणोऽपवादे च प्राप्ते उत्सर्गक्रियां कुर्वाणोऽर्हतामाशातनायां वर्तते, अर्हप्रज्ञप्तस्य धर्मस्याशातनायां वर्तते,आशातनायांच वर्तमानो दीर्घसंसारीभवति, तस्मात्प्रलम्बसूत्रादारभ्य षड्विधकल्पस्थितिसूत्रंयावद् उत्सर्गेप्राप्ते उत्सर्गः कर्तव्योऽपवादे प्राप्तेऽपवादविधिर्यतनया कर्तव्यः॥ एवंकुर्वतां गुणमाह[भा.६४८८] छव्विहकप्पस्स ठिति, नाउं जो सहहे करणजुत्तो। पवयणणिही सुरक्खितो, इह-परभववित्थरप्फलदो॥ वृ- षड्विधकल्पस्य' सामायिकादिरूपस्य प्रस्तुतशास्त्रर्थसर्वस्वभूतस्य 'स्थिति' कल्पनीयाचरणाऽकल्पनीयविवर्जनरूपां 'ज्ञात्वा' गुरूपदेशेन सम्यगवगम्य यः 'श्रद्दधीत' प्रतीतिपथमारोपयेत्, न केवलं श्रद्दधीत किन्तु 'करणयुक्तः' यथोक्तानुष्ठानसम्पनो भवेत्, तस्याऽऽत्मा एवं सम्यग्ज्ञानश्रद्धान-चारित्रसमन्वितः साक्षात् प्रवचननिधिर्भवति, यथा समुद्रो रत्ननिधि एवमसावपि ज्ञानादिरत्नमयस्य प्रवचनस्य निधिरित्यर्थः । स च प्रवचननिधि सुष्टुप्रयत्नेनाऽऽत्म-संयमविराधनाभ्यो रक्षितः सन् इह-परभवविस्तरफलदो भवति । इहभवेविस्तरेण चारण-वैक्रियाऽऽमर्पोषधिप्रभृतिविविधलब्धिरूपंफलंददाति, परभवेऽप्यनुत्तरविमानाद्युपपातसुकुलप्रत्यायातिप्रभृतिकं विस्तरेण फलं प्रयच्छति ॥ अथेदं कल्पाध्ययनं कस्य न दातव्यम् ? को वाऽपात्राय ददतो दोषो भवति? इत्यत आह[भा.६४८९] भिन्नरहस्से व नरे, निस्साकरए वमुक्कजोगीय। छविहगतिगुविलम्मिं, सो संसारे भमति दीहे ॥ वृ- इहापवादपदानि रहस्यमुच्यते, भिन्न प्रकाशितमयोग्यानां रहस्यं येन स भिन्नरहस्यः, अगीतार्थानामपवादपदानि कथयतीत्यर्थः, तत्रैवंविधे नरे।तथा निश्राकरोनाम-यः किञ्चिदपवादपदं लब्ध्वा तदेव निश्रां कृत्वा भणति-यथा एतदेवं करणीयं तथाऽन्यदप्येवं कर्तव्यम्, तत्र। Page #432 -------------------------------------------------------------------------- ________________ ४२९ उद्देशकः ६, मूलं-२१५, [भा. ६४८९] तथा मुक्ताः-परित्यक्ता योगाः-ज्ञान-दर्शन-चारित्र-तपोविषया व्यापारा येन स मुक्तयोगी । ईशेऽपात्रे न दातव्यम् । यस्तु ददाति सः षड्विधगतिगुपिले' पृथिवीकायादित्रसकायान्तषट्कायपरिभ्रमणगहने 'दीर्घ' अपारे संसारे भ्राम्यति ॥अथ कीशस्य दातव्यम् ? को वा पात्रे ददतो गुणो भवति? इति अत आह[भा.६४९०] अरहस्सधारए पारए य असढकरणे तुलासमे समिते। कप्पानुपालना दीवणा य, आराधन छिन्नसंसारी॥ वृ-नास्त्यपरंरहस्यान्तरं यस्मात् तद्अरहस्यम्, अतीवरहस्यच्छेदशास्त्रर्थतत्त्वमित्यर्थः, तद् यो धारयति-अपात्रेभ्यो न प्रयच्छति सोऽरहस्यधारकः । 'पारगः' सर्वस्यापि प्रारब्धश्रतस्य परगामी, न पल्लवग्राही । 'अशठकरणो नाम' माया-मदविप्रमुक्तो भूत्वा यथोक्तं विहितानुष्ठानं करोति। 'तुलासमोनाम' यथा तुला समस्थितान मार्गतोनवापुरतोनमति एवंयोरागद्वेषविमुक्तो माना-ऽपमान-सुख-दुःखादिषु समः स तुलासम उच्यते । “समितः' पञ्चभि समितिभि समायुक्तः। एवंविधगुणोपेतस्येदमध्ययनंदातव्यम् । एवंददता कल्पस्य-भगवदुक्तस्य श्रुतदानविधेरनुपालना कृता भवति;अथवा कल्पे-कल्पाषामपि मार्गस्य प्रकाशना कृताभवति, यथाऽन्यैरपि एवंगुणवते शिष्याय श्रुतप्रदानं कर्तव्यम्; अथवा “दीवण" त्ति यो योग्यविनेयानां 'दीपनाम्' अनालस्येन व्याख्यानं करोति तस्येदं दातव्यम्; यदि वा दीपना नाम-उत्सर्गयाग्यानामुत्सर्गं दीपयति, अपवादयोग्यानामपवादंदीपयति, उभययोग्यानामुभावपि दीपयति, प्रमादिनांवादोषान्दीपयति, अप्रमादिनां गुणान् दीपयति । य एतस्यां कल्पानुपालनायां दीपनायांच वर्तते तस्य ज्ञान-दर्शनचारित्रमयीजघन्या मध्यमाउत्कृष्टाचाऽऽराधना भवति। ततश्चाराधनायाः 'छिन्नसंसारी' भवति संसारसन्ततेर्व्यवच्छेदं करोति । तस्यां च व्यवच्छिन्नायां यत् तद् अक्षयमव्याबाधमपुनरावृत्तिकं उपादेयस्थानं तत् प्राप्नोतीति॥ उद्देशकः-६समाप्तः उक्तोऽनुगमः । सम्प्रति नयाः-तेच यद्यपि शतसङ्ख्यास्तथापि ज्ञाननय-क्रियानयद्वयेऽन्तर्भाव्यन्तेतत्र ज्ञाननयस्यायमभिप्रायः-ज्ञानमेवप्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणम्।तथा च तदभिप्रायसमर्थिकेयं शास्त्रन्तरोक्ता गाथा नायम्मि गिण्हियव्वे, अगिहियव्वम्मि चेव अत्थम्मि। __ जइयव्वमेव इइ जो, उवएसो सो नओ नाम । अस्या व्याख्या-'ज्ञाते' सम्यक् परिच्छिन्ने ‘ग्रहीतव्ये' उपादेये 'अग्रहीतव्ये' हेये चशब्दाद् उपेक्षणीयेच। एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितःप्रयोगः-ज्ञातएवग्रहीतव्येऽग्रहीतव्ये उपेक्षणीयेच, नाज्ञातेऽर्थे एहिकामुष्मिकरूपे। तत्रैहिको ग्रहीतव्यःस्त्रक्वन्दनादि, अग्रहीतव्यो विष-शस्त्र-कण्टकादि, उपेक्षणीयः तृणादि। आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिबः,ग्रहीतव्यो मिथ्यादर्शनादि, उपेक्षणीयो विवक्षयाऽभ्युदयादि। तस्मिन्नर्थे यतितव्यमेवेति ।अनुस्वारलोपाद् 'एवम्' अमुना क्रमेण ज्ञानपूर्वकमैहिका-ऽऽमुष्मिकफलप्राप्तयर्थिना सत्त्वेन ‘यतितव्यं' प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य । इत्थं चैतदङ्गीकर्तव्यम्, सम्यग्ज्ञानमन्तरेण प्रवर्तमानस्य फलविसंवाददर्शनात् । तथा चोक्तमन्यैरपि विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। Page #433 -------------------------------------------------------------------------- ________________ ४३० बृहत्कल्प-छेदसूत्रम् -३-६/२१५ मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात्॥ तथाऽऽमुष्मिकफलार्थिनाऽपि ज्ञान एव यतितव्यम्, आगमेऽपितथाप्रतिपादनात् । उक्तं पढमं नाणं ततो दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही?, किंवा नाही यछेय-पावगं?॥ इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात् तीर्थकर-गणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा। तथा चागमः गीयत्थो य विहारो, बीतो गीयत्थमीसतो भणितो। ___एतो तइय विहारो, नाणुनाओ जिनवरेहिं॥ न खलु अन्धेनान्धः समाकृष्यमाणः सम्यकपन्थानं प्रतिपद्यते इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वंतस्यैवप्रतिपत्तव्यम्, यस्मादर्हतोऽपि भवाम्भोघिटस्थस्य दीक्षाप्रतिपत्रस्योत्कृष्टचरणवतोऽपिन तावद् अपवर्गप्राप्तिरुपजायते यावद् जीवा-ऽजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञनं नोत्पन्नमिति । तस्माद् ज्ञानमेव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणमिति स्थितम् । “इति जो उवएसो सो नओ नाम" 'इति' एवम्-उक्तेन प्रकारेणय उपदेशो ज्ञानप्राधान्यख्यापनपरःसनयो नाम, ज्ञाननय इत्यर्थः। उक्तोज्ञाननयः । सम्प्रति क्रियानयावसरः,तद्दर्शनंचेदम्-क्रियैवएहिका-ऽऽमुष्मिकफलप्राप्तिकारमं प्रधानम्, युक्तियुक्तत्वात् । तथा चायमप्युक्तस्वरूपामेव स्वपक्षसिद्धये गाथामाह-"नायम्मि गिण्हियव्वे०" इत्यादि । अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चार्थे ऐहका-ऽऽमुष्मिकफलप्राप्तयर्थिनायतितव्यमेव। यस्मात् प्रवृत्त्यादिलक्षणप्रयलव्यतिरेकेण ज्ञानवतोऽपि नाभिलषितार्थावाप्तिरुपजायते। तथा चोक्तमन्यैरपि क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्री-भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ।। आमुष्मिकफलार्थिनाऽपि क्रियैव कर्तव्या, तथाच भगवद्वचनमप्येवमेव व्यवस्थितम्।यत उक्तम् चेइय कुल गण संघे, आयरियाणंच पवयणं सुए य। ___ सव्वेसु वि तेन कयं, तव-संजममुज्जमंतेनं ।। इतश्चैवमङ्गीकर्तव्यम्, यस्मात्तीर्थकर गणधरैः क्रियाविकलानांज्ञानमपिविफलमेवोक्तमातथाचागमः सुबहु पि सुमहीयं, किं काही चरणविप्पहीनस्स?। ___अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि॥ शिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनन्तरत्वात् क्षायिकमङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादहतो भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्यवाप्ति सम्भवति यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोच्चारणकालमात्रा सर्वसंवरूपाचारित्रक्रिया नावाप्यते, ततः क्रियैवप्रधानमैहिकाऽऽमुष्मिकफलप्राप्तिकारणमिति। “इतिजोउवदेसोसोनओनाम" 'इति एवम्-उक्तेन प्रकारेण य उपदेशः क्रियाप्राधान्यख्यापनरपः सनयो नाम, क्रियानय इत्यर्थः । उक्तः क्रियानयः॥ इत्यं ज्ञान-क्रियानयस्वरूपं श्रुत्वा विदिततदभिप्रायो विनेयः संशयापन्नः सन् आह-किमत्र तत्त्वम् ? पक्षद्वयेऽपि युक्तिसम्भवात्। आचार्य आह For Page #434 -------------------------------------------------------------------------- ________________ उद्देशकः६, मूलं-२१५, [भा. ६४१०] ४३१ सव्वेसि पि नयाणं, बहुविहवत्तव्वयं निसामित्ता। तंसव्वनयविसुद्धं, जंचरण-गुणद्वितो साहू॥ सर्वेषामपि मूलनयानाम अपिशब्दात् तद्भेदानामपि नयानां द्रव्यास्तिकादीनाम् 'बहुविधवक्तव्यता' 'सामान्यमेव, विशेषा एव, उभयमेव वा परस्परनिरपेक्षम्' इत्यादिरूपाम्, अथवा 'नामादिनयानां मध्ये को नयः कं साधुमिच्छति ?' इत्यादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसम्मतंवचनम् यत् 'चरण-गुणस्थितः' चारित्र-ज्ञानस्थितः साधुः, यस्मात् सर्वेऽपि नया भावनिक्षेपमिच्छन्तीति गतं नयद्वारम् ।। ___ नन्दीसन्दर्मभूले सुदृढतरमहापीठिकासन्कन्धबन्धे, तुङ्गोद्देशाख्यशाखे दल-कुसुमसमैः सूत्र-नियुक्तिवाक्यैः । सान्दै भाष्यार्थसार्थामृतफलकलिते कल्पकल्पद्रुमेऽस्मि नाक्रष्टुं षष्ठशाखाफलनिवहमसावकुटीवाऽस्तु टीका ।। मुनि दीपरलसागरेण संशोधिता सम्पादिता बृहत्कल्पस सूत्रस्य (भद्रबाहु स्वामि रचिता स्वोपज्ञ नियुक्ति युक्त) संघदासगणि विरचितं भाष्यं एवंमलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता। ३५ द्वीतीयं छेदसूत्रं बृहत्कल्पं समाप्तम् | अथ प्रशस्तिःसौवर्णा विविधार्थरत्नकलिता एते षडुद्देशकाः, श्रीकल्पेऽर्थनिधौ मताः सुकशला दौर्गत्यदुःखापहे। दृष्ट्वा चूर्णिसुबीजकाक्षरततिं कुश्याऽथ गुर्वाज्ञया, खानं खानमयी मया स्व-परयोरर्थे स्फुटार्थीकृताः। श्रीकल्पसूत्रममृतं विबुधोपयोग योग्यं जरा-मरणदारुणदुःखहारि। येनोद्धृतं मतिमथा मथिताच्छुताब्धेः, श्रीभद्रबाहुगुरवे प्रणतोऽस्मि तस्मै । येनेदं कल्पसूत्र कमलमुकुलवत् कोमलं मञ्जलाभि गोभिर्दोषापहामि स्फुटविषयविभागस्य सन्दर्शिकाभिः । उत्फुल्लोद्देशपत्रं सुरसपरिमलोद्गारसारं वितेने, तंनिसम्बन्धबन्धुंनुत मुनिमधुपाः ! भास्करं भाष्यकारम् ॥ श्रीकल्पाध्ययनेऽस्मिन्नतिगम्भीरार्थभाष्यपरिकलिते।। विषमपदविवरणकृते, श्रीचूर्णिकृते नमः कृतिने ॥ श्रुतदेवताप्रसादादमध्ययनं विवृण्वता कुशलम् । यदवापि मया तेन, प्राप्नुयां बोधिमहममलाम्। गम-नयगभीरनीरश्चित्रोत्सराग-ऽपवादवादोर्मि । युक्तिशतरत्नम्यो जैनागमजलनिधिर्जयति॥ श्रीजैनशासननभस्तलतिग्मरश्मि, श्रीसद्मचान्द्रकुलपद्मविकाशकारी। स्वज्योतिरावृतदिगम्बरडम्बरोऽभूत्, श्रीमान धनेश्वहरुगुरु प्रथितः पृथिव्याम् ॥ Page #435 -------------------------------------------------------------------------- ________________ ४३२ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ श्रीमच्चैत्रपुरैकमण्डनमहावपीरप्रतिष्ठाकृतस्तमास्वैत्रपुरप्रबोधतरणेः श्रीचैत्रगच्छोऽजनि। तत्र श्रीभवुनेन्द्रसूरिसुगुरुभूभूषणं भासुरज्योतिसद्गुणरत्नरोहणगिरि कालक्रमेणाभवत्॥ तत्पादाम्बुजमण्डनं समभवत् पक्षद्वयीशुद्धिमान्, नीर-क्षीरसद्दक्षदूषण-गुणत्याग-ग्रहैकव्रतः। कालुष्यं च जडोद्भवं परिहरन्दूरेण समन्मानस स्थायी राजमरालवद् गणिवरः श्रीदवेभद्रप्रभुः। शस्याः शिष्यास्त्रयस्तत्पदसर सिरहोत्सङ्गशृङ्गारभृङ्गा, विध्वस्तानङ्गसङ्गाः सुविहितविहितोत्तुङ्गरणा बभूवुः । तत्राद्यः सच्चरित्रानुमतिकृतमति श्रीजगचन्द्रसूरि, श्रीमद्देवेन्द्रसूरि सरलतरलसिच्चित्तवृत्तिद्धितीयः॥ तृतीयशिष्याः श्रुतवारिवार्धयः, परीषहाक्षोम्यमनः समाधयः। जयन्ति पूज्या विजयेन्दुसूरयः, परोपकारा दिगुणौधभूरयः ।। प्रौढ मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्यैयुषां, येषां जैनपुरे परेण महसा प्रकान्तकान्तोस्तवे । स्थैर्य मेरुरगाधतांचजलधि सर्वसहत्वं मही,सोमः सौम्यमहर्पति किल महत्तेजोऽकृत प्राभृतम्। वापं वापं प्रवचनवचोबीजराजी विनेय क्षेत्रवाते सुपरिमलिते शब्दाशास्त्रदिसारैः । यैः क्षेत्रज्ञैः शुचिगुरुजनाम्नायवाक्यसारीणीभिः, सिक्त्वा तेन सुजनहृदयानन्दि सज्झानसस्यम् ।। यैरप्रतैःशुभमन्त्रजापैर्वेतालमाधाय कलिं स्ववश्यम्। अतुल्यकल्याणमयोत्तमार्थसत्पूरुषः स्तत्वधनैरसाधि । ज्योत्सनामञ्जलया यया धवलितं विश्वम्भरामण्डलं, या निशेषविशेषविज्ञजनताचेतश्चमत्कारिणी। तस्यां श्रीविजयेन्दुसूरिसुगुरोर्निष्कृत्रिमाया गुण श्रेणेः स्याद् यदि वास्तवस्तवकृतौ विज्ञः स वाचांपति॥ तत्पाणिपङ्कजरजःपरिपूतशीर्षा, शिष्यास्तरोय दधति सम्प्रति गच्छभारम् । श्री वज्रसेन इति सद्गुरुरादिमोऽत्र, श्रीपद्मचन्द्रसुगुरुस्तु ततो द्वितीयः॥ तार्तीयीकस्तेषां विनेयपरमाणुरनणुशास्त्रऽस्मिन् । श्रीत्रेमकीर्तिसूरिर्विनिर्ममे विवृतिमल्पमति॥ श्रीविक्रमतः कामति, नयानग्निगुणेन्दुपरिमते १३३२ वर्षे । ज्येष्ठश्वेतदशम्यां, समर्थितैषा च हस्तार्के॥ प्रथमादर्श लिखिता, नयप्रभप्रभृतिभिर्यतिभिरेषा ।गुरुतरगुरुभक्तिभरोद्वहनादिव नम्रितशिरोभि।। सूत्रादर्शेषु यतो, भूयस्यो वाचना विलोक्यन्ते ।विषमाश्च भाष्यगाथाः, प्रायः स्वल्पाश्चचूर्णिगिरः। सूत्रे वा भाष्ये वा, यन्मतिमोहान्मयाऽन्यथा किमपि । लिखितं वा विवृतं वा, तन्मिथ्या दुष्कृतं भूयात् ॥ Page #436 -------------------------------------------------------------------------- ________________ ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભબાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ (અનામી) સર્વે શ્રુત સ્થવર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?). દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | | ઋષિપાલ | બ્રહ્મમુનિ | તિલકસૂરિ સૂત્ર-નિયુક્તિ - ભાષ્ય - ચૂર્ણિ – વૃત્તિ-આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રી/અમુદ્રીત સ્વરૂપે રજૂ કર્તા | સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ ૫૦ જીવરાજભાઈ પં. ભગવાનદાસ ૫૦ રૂપેન્દ્રકુમાર ૫૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #437 -------------------------------------------------------------------------- ________________ 12) वृत्ति (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક क्रम | आगमसूत्रनाम मूल - वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण १. आचार । २५५४ शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि । १४२५० ४. समवाय १६६७ अभयदेवसूरि ३५७५ भगवती १५७५१ अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ अभयदेवसूरि ८०० ८. |अन्तकृद्दशा ९०० अभयदेवसूरि ४०० ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०० १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकश्रुत | १२५० अभयदेवसूरि ९०० १२. औपपातिक | ११६७ अभयदेवसरि ३१२५ १३. राजप्रश्निय | २१२० मलयगिरिसरि ३७०० १४. | जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका चन्द्रसूरि २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० विजयविमलयगणि (?) २०० आतुर प्रत्याख्यान १०० गुणरलसूरि (अवचूरि)। (?) १५० २६. महाप्रत्याख्यान १७६ |आनन्दसागरसूरि (संस्कृतछाया) १७६ |२७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० |विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० ३०. गच्छाचार १७५ विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ ११०० ६०० २५. Page #438 -------------------------------------------------------------------------- ________________ [3] क्रम ३७५ व्यवहार २२००० आगमसूत्रनाम .मूल वृत्ति-कर्ता • वृत्ति श्लोक प्रमाण श्लोकप्रमाण ३२. देवेन्द्रस्तव ३७५ |आनन्दसागरसूरि (संस्कृत छाया) | ३३. मरणसमाधि * ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८३७ |३४. | निशीथ ८२१ | जिनदासगणि (चूणि) २८००० | सङ्घदासगणि (भाष्य) ७५०० ३५. बृहत्कल्प ४७३ | मलयगिरि+क्षेमकीर्ति ४२६०० | सङ्घदासगणि (भाष्य) ७६०० ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० |३७. | दशाश्रुतस्कन्ध ८९६ - ? - (चूर्णि) २२२५ ३८. जीतकल्प * १३० सिद्धसेनगणि (चूर्णि) १००० ३९. महानिशीथ ४५४८ ४०. आवश्यक १३० हरिभद्रसूरि ४१. | ओघनियुक्ति नि.१३५५ | द्रोणाचार्य (?)७५०० |- | पिण्डनियुक्ति है नि. ८३५ मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ हरिभद्रसूरि ७००० ४३. | उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० | मलधारीहेमचन्द्रसूरि ५९०० नोंध:(१) 6. ४५२म सूत्रोमा वर्तमान अणे. ५ १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी. उ८ छेदसूत्रो, ४० थी. ४७ मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नामे प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 6. वृत्ति- ४ नोंछते जमे ३ संपाइन भुवनी . ते सिवायनी ५॥ वृत्ति-चूर्णि साहित्य भुद्रित अभुद्रित अवस्थामा ५९ छे ४. (४) गच्छाचार भने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. ४ सभे “आगमसुताणि" मां भूण ३५ भने “मागमही५"मां अक्षरश: ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીત જેના વિકલ્પ રૂપે છે એ Page #439 -------------------------------------------------------------------------- ________________ પંચત્ત્વનું માધ્ય અમે ‘‘ગામનુજ્ઞાનિ’’માં સંપાદીત કર્યું છે. (૫) સોય અને વિત્તુ એ બંને નિર્યુક્તિ વિકલ્પે છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માધ્વની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રીષ્ઠિ સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રીજ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીય-યશ-નિતત્ત્વ એ ત્રણેની વૃત્તિ આપી છે. જેમાં યજ્ઞા અને નીતત્ત્વ એ બંને ઉપ૨વૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદ્દેશઃની જ વૃત્તિ નો ઉલ્લેખ મળે છે. વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્મુત્તિઃ A क्रम निर्यक्ति 9. आचार-नियुक्ति २. सूत्रकृत-निर्युक्ति ૨. વૃત્વ-નિવૃત્તિ * ૪. વ્યવહાર-નિર્યુક્તિ * ५. दशाश्रुत० - नियुक्ति श्लोकप्रमाण क्रम ४५० २६५ [4] - १८० निर्युक्ति ६. आवश्यक - निर्युक्ति ७. ओघनियुक्ति ८. पिण्डनियुक्ति ९. दशवैकालिक नियुक्ति ૧૦. उत्तराध्ययन-निर्युक्ति श्लोकप्रमाण २५०० १३५५ ८३५ ५०० નોંધ : (૧) અહીં આપેલ શ્લોજ પ્રમાણ એ ગાથા સંખ્યા નથી. ૩૨ અક્ષરનો એક શ્લોક'' એ પ્રમાણથી નોંધાયેલ હ્તો પ્રમાળ છે. (૨) * વૃદ્ધત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ માલ્વ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિાર મહર્ષિ એ માધ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. ७०० સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું (૩) ોય અને પિન્ડનિર્યુક્તિ સ્વતંત્ર મૂનઞાળ સ્વતંત્ર સંપાદન બમ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિર્યુવિજ્ઞમાંથી શાશ્રુત ન્ય નિયુક્તિ ઉપર યૂ‚િ અને અન્ય પાંચ નિર્યુક્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિર્યુક્તિ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિર્યુવિજ્ઞકર્તા તરીકે મદ્રવાદુસ્વામી નો ઉલ્લેખ જ જોવા મળે છે. Page #440 -------------------------------------------------------------------------- ________________ 15) क्रम ( वर्तमान आणे ४५भागभभi Gav भाष्यं ) भाष्य श्लोकप्रमाण क्रम भाष्य गाथाप्रमाण निशीषभाष्य ७५०० आवश्यकभाष्य * ४८३ बृहत्कल्पभाष्य ७६०० ओघनियुक्तिभाष्य * ३२२ व्यवहारभाष्य ६४०० पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य ३१८५ दशवकालिकभाष्य * ६३ जीतकल्पभाष्य ३१२५ १०. | उत्तराध्ययनभाष्य (?) । ७. ८. ४६ नोंध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न l सङ्घदासगणि जोवानुं ॥य छे. भभा२॥ संपानमा निशीष भाष्य तेनी चूर्णि साथै अने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छ. (२) पञ्चकल्पभाष्य सभा आगमसुत्ताणि भाग-३८ भistीत थयु. (3) आवश्यकभाष्य भां. २प्रभा॥ ४८३ (न्युं भ१८3 Pu५मूळभाष्य ३ छ भने 30000 अन्य मे भाष्यनी छ.नो समावेश आवश्यक सूत्र-सटीकं मां કર્યો છે. જો કે વિશેષાવવા મણ ખૂબજ પ્રસિધ્ધ થયું છે પણ તે સમગ્ર आवश्यकसूत्र- 6५२नु भाष्य नथी भने अध्य यनो अनुसार नी. मस मग वृत्ति ना 2. विवो तो आवश्यक भने जीतकल्प में बने ७५२ मणे छे. नो सोपसमे ४३८. नथी..] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति भां थयो ४ छ. ५॥ तेनो पता विशेनी ८५ अभीने मणेर नथी. [ओघनियुक्ति 6५२ 3000 प्रभारी भाष्यनो लेप ५ वा मणेरा छ.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी गयानुं संमायछे (?) (s) l शत अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो ७५२नो ओछ માગનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३५ भाष्यगाथा सेवा भणे छ. (७) भाष्यकर्ता तरी मुध्य नाम सङ्घदासगणि सेवा भणे छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो. ५सेमणे . 32Giz भाष्यन sal અજ્ઞાત જ છે. Page #441 -------------------------------------------------------------------------- ________________ [6] क्रम ७००० - ( वर्तमान आणे ४५मागममा ५५ चूर्णिः ) चूर्णि श्लोकप्रमाण| क्रम | चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि ८३०० ९. दशाश्रुतस्कन्धचूर्णि । २२२५ २. सूत्रकृत-चूर्णि ९९०० १०. पञ्चकल्पचूर्णि ३२७५ | ३. |भगवती-चूर्णि ३११४ | ११. | जीतकल्पचूर्णि १००० ४. जीवाभिगम-चूर्णि १५०० / १२. आवश्यकचूर्णि १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३. | दशवैकालिकचूर्णि ६. निशीथचूर्णि २८००० | १४. | उत्तराध्ययनचूर्णि ५८५० ७. बृहत्कल्पचूर्णि १६००० १५.| नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि १२०० | १६. | अनुयोगदारचूर्णि । २२६५ नोंध:(१) 651 १६ चूर्णिमांथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेज चूर्णि अमारामा સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ટૂ િપૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी भी मे चूर्णि हे अगत्स्यसिंहसूरिकृत छ तेनुं प्राशन पूय श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशेड 145140 प्रश्नायिह मुं ४३. छ. भगवती चर्णि तो भणे४ छ, ५० 30 शीत नथी. तभ४ वृहत्कल्प , व्यवहार, पञ्चकल्प त्रस्तपतोसछे ५५ शीत ययानुं नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म भुध्यत्वे संभणाय छे. ४८४ मते. અમુક જૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंयांगी" यिन्त्यमामत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી | नी वतीयित्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ मागमा ५२ | ભાષ્ય નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. मात sis भाष्य, स्यां नियुक्ति मने is चूर्णिन। मामा वर्तमान अर्ज सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तियो वरना छ . Page #442 -------------------------------------------------------------------------- ________________ [7] * ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો [સૂચના :- અમે સંપાદીત કરેલ ગામનુત્તાળિ-સટી માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ બામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ખાવામાં પ્રથમ અંક શ્રુતત્ત્વનો છે તેના વિભાગ રૂપે બીજો અંક વૃત્તા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂળ ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને ગાથા/પદ્ય ને પદ્યની સ્ટાઈલથી II – II ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (/) પછી ના વિભાગને તેના–તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) બાવાર પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધમાં જ છે. (૨) મૂત્રત (૩) સ્થાન (४) समवाय (५) भगवती - શ્રુતબ્ધ:/પૂના/ગધ્યયન/ઉદ્દેશ:/મૂળ - श्रुतस्कन्धः/अध्ययनं/उद्देशकः /मूलं स्थानं/अध्ययनं / मूलं समवायः /मूलं - शतकं/वर्गः-अंतरशतकं/उद्देशकः/मूलं અહીં શતદ્દના પેટા વિભાગમાં બે નામો છે. (૧) વń: (૨) અંતર્ગત કેમકે શતજ ૨૧, ૨૨, ૨૩ માં શતજ ના પેટા વિભાગનું નામ વŕ: જ ણાવેલ છે. શતજ - ૩૨,૨૪,૨૬,૩૬,૪૦ના પેટા વિભાગને અંતરશતઽ અથવા શતશતજ નામથી ઓળખાાવાય છે. (૬) જ્ઞાતાધર્મવા- શ્રુતન્ય:/વń:/અધ્યયન/મૂર્ત પહેલા શ્રુતસ્તબ્ધ માં અધ્યયન જ છે. બીજા શ્રુતત્ત્વ નો પેટાવિભાગ યń નામે છે અને તે વર્ત્ત ના પેટા વિભાગમાં અધ્યવન છે. (૭) તપાસવા- ગધ્યયનં/મૂર્ત (૮) બાભ્રંશા વń:/ગધ્યયન/મૂર્છા (૧) બનુત્તરોપવાતિ વા-વń:/અધ્યયન/મૂર્ત્ત (૧૦) પ્રનર્વ્યાજ⟨-દ્વાર/અધ્યયનં/મૂર્ણ આશ્રવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવાર અને સંવરદ્વાર કહ્યા છે. (કોઈક દર્ ને બદલે શ્રુતન્ય શબ્દ પ્રયોગ પણ કરે છે) (૧૧) વિષાશ્રુત-શ્રુત ન્ય:/અધ્યવન/મૂર્ત (૧૨) સૌપપાતિજ- મૂર્છા (१३) राजप्रश्नीय- मूलं Page #443 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः / मूलं आ भागभभां ॐ৮ते त्र विभागो यछे तो पल सभा माटे प्रतिपत्तिः पछी भेड पेटाविलागि नोधनीय छे. भ प्रतिपत्ति - ३-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेवा यार पेटाविभागो थडे छे. तेथी तिपत्ति/ (नेरइय आदि)/उद्देशकः /मूलं ये रीते स्पष्ट अलग पाडेला छे, जेष्ठ रीते शभी प्रतिपत्ति ना उद्देशकः नव नथी पत्र ते पेटाविभाग प्रतिपत्तिः नाभे ४ छे. (१५) प्रज्ञापना - पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांयां उद्देशकः छे, ज्यां द्वारं छे पक्ष पद-२८ना पेटा विभागभां उद्देशकः અને તેના પેટા વિભાગમાં દારૂં પણ છે. (१६) सूर्यप्रज्ञप्ति - प्राभृतं / प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं खागम १८-१७भां प्राभृतप्राभृत न प्रतिपत्तिः नाम पेटा विभाग छे. पए। उद्देशकः आहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति - (१९) निरयावलिका - (२०) कल्पवतंसिका (२१) पुष्पिता अध्ययनं/मूलं - - (२२) पुष्पचूलिका - अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं / मूलं आगम १८ थी २३ निरयावलिकादि नामथी साधे भेोवा भणे छे डेभले तेने उद्यांगना यांय वर्ग तरी सूत्रद्वारे खोजजावेला छे. मां वर्ग-१, निरयावलिका, वर्ग-२ कल्पवतंसिका... वगेरे भावा ( २४ थी ३३) चतुः शरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः /मूलं (३५) बृहत्कल्प - उद्देशकः / मूलं (३६) व्यवहार उद्देशकः /मूलं दशा / मूलं (३७) दशाश्रुतस्कन्ध (३८) जीतकल्प मूलं ( ३९ ) महानिशीथ - अध्ययनं / उद्देशकः / मूलं अध्ययनं / मूलं - - वक्षस्कारः / मूलं अध्ययनं / मूलं अध्ययनं / मूलं - (४०) आवश्यक मूलं (४१) ओघ / पिण्डनियुक्ति (४२) दशवैकालिक - अध्ययनं / उद्देशकः / मूलं (४३) उत्तराध्ययन अध्ययनं // मूलं (४४-४५ ) नन्दी - अनुयोगद्वार मूलं - - Page #444 -------------------------------------------------------------------------- ________________ [9] અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા आगमसूत्र मूलं गाथा क्रम आगमसूत्र मूलं गाथा क्रम 9. आचार २. सूत्रकृत ३. स्थान ४. समवाय ५. भगवती ६. ज्ञाताधर्मकथा ७. ८. ९. १०. प्रश्नव्याकरण ११. विपाकश्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाभिगम उपासक दशा अन्तकृद्दशा अनुत्तरोपपातिक १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूदीपप्रज्ञप्ति १९. निरयावलिका २०. कल्पवतंसिका २१. पुष्पिता २२. पुष्पचूलिका २३. वहिदशा ५५२ ८०६ १०१० ३८३ १०८७ २४१ ७३ ६२ १३ ४७ ४७ ७७ ८५ ३९८ ६२२ २१४ २१८ ३६५ २१ ५ 99 ३ ५ १४७ २४. ७२३ २५. १६९ २६. ९३ २७. ११४ २८. ५७ २९. १३ ३०. १२ ३१. ४ ३२. ३३. ३ ३४. ३५. ३६. ९३ ३७. ३८. १४ ३० - २३१ १०३ ३९. १०७ ४०. १३१ ४१. ४१. ४२. ४३. ४४. ४५. - १ 29 २ १ चतुःशरण आतुरप्रत्याख्यान महाप्रत्याख्यानं भक्तपरिज्ञा तंदुल वैचारिक संस्तारक गच्छाचार गणिविद्या देवेन्द्रस्तव मरणसमाधि निशीष बृहत्कल्प व्यवहार दशाश्रुतस्कन्ध जीतकल्प महानिशीथ आवश्यक ओघनियुक्ति ड दशवैकालिक उत्तराध्ययन नन्दी अनुयोगद्वार ६३ ६३ ७१ ७० १४२ १४२ १७२ १७२ १६१ १३९ १३३ १३३ १३७ १३७ ८२ ८२ ३०७ ३०७ ६६४ ६६४ १४२० २१५ २८५ ११४ ५६ १०३ १०३ ८ १५२८ ९२ ११६५ નોંધ :- ઉક્ત થા સંખ્યાનો સમાવેશ મૂર્ત્ત માં થઈ જ જાય છે. તે मूल સિવાયની અલગ गाथा समभवी नहीं. मूल शब्द से सभी सूत्र जने गाथा जने भाटे नो खायेलो संयुक्त અનુક્રમ છે. ગાથા બધાંજ સંપાદનોમાં સામાન્ય અંક ધરાવતી હોવાથી તેનો અલગ અંક આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. २१ ११६५ ७१२ ७१२ ५४० ५१५ १७३१ १६४० १६८ ९३ ३५० १४१ Page #445 -------------------------------------------------------------------------- ________________ [10] –ઃ અમારા પ્રકાશનો : अभिनव हेम लघुप्रक्रिया - १ अभिनव हेम लघुप्रक्रिया २ अभिनव हेम लघुप्रक्रिया - ३ - [૧] [૨] [3] [૪] [૫] कृदन्तमाला [s] चैत्यवन्दन पर्वमाला • सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४- सप्ताङ्ग विवरणम् - = [9] चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष [<] चैत्यवन्दन चोविशी [૯] शत्रुञ्जय भक्ति [ आवृत्ति-दो ] [૧૦] अभिनव जैन पञ्चाङ्ग - २०४६ [૧૨] [૧૧] અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩– શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) [૧૩] * [૧૪] [૧૫] [૧૬] [૧૭] સમાધિ મરણ [વિધિ - સૂત્ર - પઘ- આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ – બે] ચૈત્ય પરિપાટી [૧૮] [૧૯] [૨૦] [૨૧] [૨૨] [૨૩] [૨૪] [૨૫] [Rs] [20] [૨૮] [૨૯] [30] [૩૧] [૩૨] [૩૩] [૩૪] [૩૫] અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ – બે] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી. શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર] અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૪ Page #446 -------------------------------------------------------------------------- ________________ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[३८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૭ [૩૯] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૮ [૪૦] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ [૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५]] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एक्सरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पनवणासुत्तं [आगमसुत्ताणि-१५] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तम उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अठ्ठमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुप्फियाणं [आगमसुत्ताणि-२१ ] दसमं उवंगसुत्तं [६३] पुप्फचूलियाणं [आगमसुत्ताणि-२२] एमरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५] वीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७ ] चउत्यं पईण्णगं Page #447 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८ ] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णगं-२ [७३] गणिविजा [आगमसुत्ताणि-३१] अमं पईण्णगं [७४] देविंदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णग-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४ ] पढमं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५ ] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खधं [आगमसुत्ताणि-३७ ] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठु छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनिजृत्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्तं-१ [८६] पिंडनिनुत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरल्झयणं [आगमसुत्ताणि-४३ ] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४ ] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [१] मायार ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू43 ગુજરાતી અનુવાદ (આગમદીપ-૧] બીજું અંગસૂત્ર [४] ४९ - ગુજરાતી અનુવાદ (આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय - ગુજરાતી અનુવાદ (આગમદીપ-૧] ચોથું અંગસૂત્ર વિવાહપન્નત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૨) પાંચમું અંગસૂત્ર નાયાધમ્મકહા - ગુજરાતી અનુવાદ [આગમદીપ-૩] છછું અંગસૂત્ર [८७] ઉવાસગદસા - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [४८] संतसा - ગુજરાતી અનુવાદ [આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ (આગમદીપ-૩] નવમું અંગસૂત્ર [१00] पडावा॥२९१- ગુજરાતી અનુવાદ (આગમદીપ-૩] દશમું અંગસૂત્ર - [५] [es] Page #448 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાગસૂય – [૧૦૨] ઉવવાઇય [૧૦૩] રાયપ્પસેણિય - [૧૦૪] જીવાજીવાભિગમ – [૧૦૫] પન્નવણાસુત્ત [૧૦૬] સૂરપન્નત્તિ - [૧૦૭] ચંદપન્નતિ – [૧૦૮] જંબુદ્દીવપક્ષતિ – [૧૯] નિરયાવલિયા – [૧૧૦] કપ્પવડિસિયા – [૧૧૧] પુલ્ફિયા - [૧૧૨] પુચૂલિયા – [૧૧૩] વર્ણાિદસા – [૧૧૪] ચઉસરણ – [૧૧૫] આઉરપચ્ચક્ખાણ – [૧૧] મહાપચ્ચક્ખાણ - [૧૧૭] ભત્તપરિણા – [૧૧૮] તંદુલવેયાલિય – [૧૧૯] સંથારગ – [૧૨૦] ગચ્છાયાર - [૧૨૧] ચંદાવેઋય – [૧૨૨] ગણિવિજ્જા – [૧૨૩] દેવિંદત્યઓ – [૧૨૪] વીરત્થવ – [૧૨૫] નિસીહ – [૧૨૬] બુતકપ્પ – [૧૨૭] વવહાર – [૧૨૮] દસાસુયબંધ - [૧૨૯] જીયકપ્પો – [૧૩૦] મહાનિસીહ – [૧૩૧] આવસય – [૧૩૨] ઓનિજ્જુત્તિ - [૧૩૩] પિંડનિજ્જુત્તિ - [૧૩૪] દસવેયાલિય – [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૩] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૪] આગમદીપ-૪] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-5] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૭] આગમદીપ-૭] [આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૭] [આગમદીપ-૭] અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપાંગસૂત્ર ચોથું ઉપાંગસૂત્ર પાચમું ઉપાંગસૂત્ર છઠ્ઠું ઉપાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયજ્ઞો બીજો પયજ્ઞો ત્રીજો પયજ્ઞો ચોથો પયજ્ઞો પાંચમો પયજ્ઞો છઠ્ઠો પયજ્ઞો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયજ્ઞો નવમો પયજ્ઞો દશમો પયજ્ઞો પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર છઠ્ઠું છેદસૂત્ર પહેલું મૂલસુત્ર બીજું મૂલસુત્ર-૧ બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર Page #449 -------------------------------------------------------------------------- ________________ [14] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ આગમદીપ-૭] આગમદીપ-૭] [આગમદીપ-૭] બીજી ચૂલિકા ચોથું મૂલસુત્ર પહેલી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [१34] उत्तर यश - [935] नंहीसुतं - [१3७] अनुयोगद्वार - [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४० ] आचाराङ्गसूत्रं सटीकं [१४१ ] सूत्रकृताङ्गसूत्रं सटीकं [१४२ ] स्थानाङ्गसूत्रं सटीकं [१४३ ] समवायाङ्गसूत्रं सटीकं [१४४ ] भगवतीअङ्गसूत्रं सटीकं [१४५ ] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं [१४६] उपासकदशाङ्गसूत्रं सटीकं [१४७ ] अन्तवृद्दशाङ्गसूत्रं सटीकं [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं [१५० ] विपाकश्रुताङ्गसूत्रं सटीकं [१५१] औपपातिकउपाङ्गसूत्रं सटीकं [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं [१५५ ] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५६ ] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५७ ] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं [१६० ] पुष्पिताउपाङ्गसूत्रं सटीकं [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं [१६२ ] वण्हिदसाउपाङ्गसूत्रं सटीकं [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं [१६४ ] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक [१६५ ] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं [ १६६ ] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं - 9 आगमसुत्ताणि सटीकं -२ आगमसुत्ताणि सटीकं - ३ आगमसुत्ताणि सटीकं - ४ आगमसुत्ताणि सटीकं - ५/६ आगमसुत्ताणि सटीकं ७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं ८ आगमसुत्ताणि सटीकं ९ आगमसुत्ताणि सटीकं-१०/११ आगमसुत्ताणि सटीकं - १२ आगमसुत्ताणि सटीकं - १२ आगमसुत्ताणि सटीकं - १३ आगमसुत्ताणि सटीकं- १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं- १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं-१४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं- १४ आगमसुत्ताणि सटीकं - १४ Page #450 -------------------------------------------------------------------------- ________________ [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [ १६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [ १७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १५-१६-१७ आगमसुत्ताणि सटीकं - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं- २४-२५ आगम सुत्तामि सटीक - २६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीकं - २७ आगमसुत्ताणि सटीकं - २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [१७३ ] निशीथछेदसूत्रं सटीकं बृहत्कल्पठेदसूत्रं सटीकं [१७४] [15] [१७५ ] व्यवहारछेदसूत्रं सटीकं [ १७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७] जीतकल्पछेदसूत्रं सटीकं [१७८ ] महानिशीथसूत्रं ( मूलं ) [ १७९] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनिर्युक्तिमूलसूत्रं सटीकं [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [१८२] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४] नन्दी - चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं -: संपर्ड स्थण :‘આગમ આરાધના કેન્દ્ર' शीतलनाथ सोसायटी-विभाग-१, इसेट नं-१3, ४थे भाणे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, ન્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #451 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" भाग १ थी ३० नुं विवर समाविष्टा आगमाः आगमसुत्ताणि भाग-१ भाग-२ भाग-३ भाग-४ भाग - ५-६ भाग-७ भाग-८ भाग-९ भाग - १०-११ भाग - १२ भाग- १३ भाग - १४ आयार सूत्रकृत स्थान समवाय भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) | ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय | जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग - १५-१६-१७ / नीशीथ भाग- १८-१९-२० बृहत्कल्प भाग - २१-२२ व्यवहार भाग- २३ भाग - २४-२५ भाग- २६ भाग- २७ भाग - २८-२९ भाग - ३० दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनिर्युक्ति, पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #452 -------------------------------------------------------------------------- ________________ rivate & Personal Use Only