SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं- १२५, [भा. ५४१३ ] [भा. ५४१३] २१३ पुव्वं पच्छुद्दि, सीसम्मिय जं तु होइ सच्चित्तं । संवच्छरम्मि ततिए, तं सव्वं पवाययंतस्स ॥ वृ-पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पढति शिष्ये सचित्तादिकं तृतीये वर्षे सर्वमपि प्रवाचयत आभवति, सप्तमो विभागः ॥ [भा. ५४१४] पुव्वुद्दिट्ठे तस्सा, पच्छुद्दिट्ठे पवाययंतस्स । संवच्छरम्मि पढमे, सिस्सिणिए जं तु सच्चित्तं ॥ वृ-शिष्यस्य पूर्वोद्दिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकं कालगताचार्यस्याभवति, पञ्चमो विभागः । पश्चादुद्दिष्टं पठतः शिष्यस्य सचित्तादिकं प्रवाचयत आभाव्यम्, नवमो विभागः ॥ [भा. ५४१५ ] पुव्वं पच्छुद्दिट्ठे, सिस्सिणिए जं तु होइ सच्चित्तं । वच्छरम्मबीए, तं सव्वं पवाययंतस्स ॥ वृ-पूर्वोद्दिष्टंपश्चादुद्दिष्टंवा पठन्त्यां शिष्यिकायां सचित्तादिलाभो द्वितीये वर्षे प्रवाचयत आभवति, दशमो विभागः ॥ [भा. ५४१६] पुव्वं पच्छुद्दिट्टे, पडिच्छिगा जं तु होति सच्चित्तं । संवच्छरम्मि पढमे, तं सव्वं पवाययंतस्स ।। वृ- पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठन्त्यां प्रतीच्छिकायां प्रथम एव संवत्सरे सर्वमपि प्रवाचयत आभवति, एष एकादशो विभागः ॥ एष एक आदेश उक्तः । अथ द्वितीयमाह [भा. ५४१७] संवच्छराई तिनि उ, सीसम्मि पडिच्छए उ तद्दिवसं । एवं कुले गणे या, संवच्छर संघे छम्मासा ॥ वृ- प्रतीच्छकाचार्यास्तेवां कुलसत्को गणसत्कः सङ्घसत्को वा भवेत् । तत्र यदि कुलसत्कः तदा त्रीन् संवत्सरान् शिष्याणां वाच्यमानानां सचित्तादिकं न गृह्णाति, ये पुनः प्रतीच्छकास्तेषां वाच्यमानानां यस्मिन्नेव दिने आचार्य कालगतस्तद्दिवसमेव गृह्णाति । एवमेककुलसत्के विधिरुक्तः । अथ चासौ गणसत्कस्ततः संवत्सरं शिष्याणां सचित्तादिकं नापहरति । यस्तुकुलसत्को गणसत्को वा न भवति स नियमात् सङ्घसत्कः, स च षण्मासान् शिष्याणां सचित्तादिकं न गृह्णाति । तेन च प्रतीच्छकाचार्येण तत्र गच्छे वर्षत्रयमवश्यं स्थातव्यम्, परतः पुनरिच्छा ॥ [भा. ५४१८] तत्थेव य निम्मए, अनिग्गए निग्गए इमा मेरा । सकुले तिन्नि तियाई, गणे दुगं वच्छरं संघे ॥ वृ- 'तत्रैव' प्रतीच्छकाचार्यसमीपे तस्मिन् अनिर्गते यदि कोऽपि गच्छे निर्मातस्तदा सुन्दरम् । अथ न निर्मातः स च वर्षत्रयात् परतो निर्गतः ते वा गच्छीयाः 'एष साम्प्रतमस्माकं सचित्तादिकं हरति' इति कृत्वा ततो निर्गतास्तदा इयं 'मयार्दा' सामाचारी- "सकुले" इत्यादि, 'स्वकुले' स्वकीयकुलस्य समवायं कृत्वा कुलस्य कुलस्थविरस्य वा उपतिष्ठन्ते, ततः कुलं तेषां वाचनाचार्यं ददाति वारकेण वा वाचयति । कियन्तं कालम् ? इत्याह- " तिन्नि तियाइं" ति त्रयस्त्रिका नव भवन्ति, ततो नव वर्षाणि वाचयतीत्युक्तं भवति; यदि कृत्वा गणमुपतिष्ठन्ते, गणोऽपि द्वे वर्षे पाठयति, न च सचित्तादिकं हरति; यद्येवमप्यनिर्मातास्ततः सङ्घमुपतिष्ठन्ते, सङ्घोऽपि वाचनाचार्यं ददाति, स च संवत्सरं पाठयति; एवं द्वादश वर्षाणि भवन्ति । यद्येवमेकोऽपि निर्मातस्तदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy